ब्रह्म- स्वरूपेण गुणैश्च बृहत् उत्कृष्टः । सनातनः--- सर्वदा विद्यमानः नित्यः ॥ १३ ॥
रेवतीरमणो रामः प्रियश्चञ्चललोचनः ।
रामायणशरीरोऽयं रामो रामः श्रियः पतिः ॥ १४ ॥
रेवतीरमणो रामः-रेवत्याः पतिः बलरामः । प्रियः- परमप्रेमास्पदभूतः। चञ्चललोचन:- चञ्चले तरले लोचने नेत्रे यस्य सः । रामायणशरीर:-रामायणं शरीरं यस्य सः रामायणस्य आत्मभूतः प्राधान्येन रामायणप्रतिपाद्य इत्यर्थः । यद्वा रामाणां सुन्दरीणां स्त्रीणामयनं प्राप्यं शरीरमस्येति रामायणशरीरः। रामः- रमन्ते योगिनोऽस्मिन्निति रामः दशरथपुत्रः रामः । रम्यत इति वा रामः । अधिकरणे करणे वा धञ् ।
'रमन्ते योगिनो यस्मिन् चिदानन्दे चिदात्मनि ।
इति रामपदेनैतत् परं ब्रह्माभिधीयते ॥' (पद्मपुराणे)
'रम्यन्तेऽस्मिन् सदा सर्वैर्गुणरूपवशीकृतैः।
इत्यादिकमत्र भाव्यम् । श्रियः पतिः लक्ष्म्याः भर्ता ॥ १४ ॥
शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः ।
राधाराधयिताराधी राधाचित्तप्रमोदकः ॥ १५ ॥
शर्वरः ’शॄ हिंसायाम्' इति धातोः कॄगॄशॄवञ्चतिभ्यः ष्वरच्' (उ.सू. 286) इति ष्वरच् । भगवद्भक्तस्य ये शत्रवः तेषां हिंसक इत्यर्थः ।
’तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्’ (रा. 3-30-39) इति रामायणे । भक्तानामशुभं हिनस्तीति वा अर्थः ।
'त्वदङ्घ्रिमुद्दिश्य कदापि केनचित् सकृत्कृतो वापि यथा तथाञ्जलिः । तदैव मुष्णात्यशुभान्यशेषतः शुभानि पुष्णाति न जातु हीयते ॥'
14 ab. ग. रेवतीरमणश्चन्द्रश्चञ्चलश्चारुलोचनः ।
14 b.ख.प. चञ्चलश्चारुलोचनः, 14 c ग. नारायणशरीरोऽयं
14 d.ख. ग. ङ. रामी रामः
15 a ग. ङ. सर्वः 15 c ख.घ. ग. राधाराधायितो राधी.