पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
गोपालसहस्रनामस्तोत्रम्


इति स्तोत्ररत्ने। शर्वरी-रात्रिः । संसारिणां भगवद्विमुखानां रात्रिवदप्रकाशमानः । 'या निशा सर्वभूतानाम्’ इति गीतायाम्। शर्वः ’शॄ हिंसायाम्’ इति धातोः 'सर्व-निघृष्व .... .... (उ. सू. 159 )’ इति वन् । आश्रितानामशुभं निवर्तयतीत्यर्थः । अथ वा प्रलयकाले सर्वजगत्संहारक इत्यर्थः। सर्वत्र शुभदायकः भक्तानां सर्वेषु देशेषु कालेषु वा शुभदाता । राधाराधयिता-राधायाः प्रीणनः। आराधी-आराधकः भक्तचित्तसंतोषणः । आराधयति संमानयति विप्रादीन् भक्तानित्याराधी। राधी इति वा च्छेदः । राधा अस्यास्तीति राधी राधापतिः । राधाचित्तप्रमोदक:- राधायाचित्तं प्रमोदयतीति तादृशः ॥ १५ ॥


 राधारतिसुखोपेतः राधामोहनतत्परः ।
 राधावशीकरो राधाहृदयाम्भोजषट्पदः ॥ १६ ॥

 राधारतिसुखोपेतः- राधासङ्गमजन्यसुखमुक्तः। राधामोहनतत्परः राधायाः प्रीणने सक्तः। राधावशीकर:---- राधायाः स्ववशं नेता। राधायाः हृदयमेवाम्भोजं पद्मं तत्र विद्यमानः षट्पदः भ्रमरः राधाहृदयनिवासीत्यर्थः ॥१६॥


 राधालिङ्गनसंमोहः राधानर्तनकौतुकः ।
 राधासञ्जातसंप्रीतो राधाकाम्यफलप्रदः ॥ १७ ॥

 राधालिङ्गनसंमोहः - राधायाः संश्लेषणानुरागवान् । राधानर्तनकौतुकः - राधाकर्तृकनर्तने कौतुकं प्रीतिर्यस्य सः । राधासञ्जातसंप्रीतः राधाविषये सञ्जाता संप्रीतिर्यस्य सः । राधासञ्जात संप्रीतिरिति पाठस्तु साधुः । राधाकाम्यफलप्रदः - राधायाः अभीष्टफलदाता ।। १७ ॥



 16. ग. अयं श्लोक: नास्ति ।
 17. ग. अयं श्लोकोऽपि नास्ति ।
 17. a ङ. संमोदः
 17. c ख. संप्रीती
   ङ. संगतिसंप्रीत:
 17. d ख. कामफल.