केचिदाशौचं तावन्तं कालमिच्छन्ति । नेति वयम् । अनध्यायप्रकरणादिति व्याख्यातमुज्ज्वलाकृता ।
याज्ञवल्क्यः--
"त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विगुरुबन्धुषु । |
निर्घात आन्तरिक्ष उत्पातध्वनिः[१] । द्युनिशमहोरात्रम् ।
यत्तु--
"त्र्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके"। |
इति[२] राहुसूतकविषये त्र्यहानध्यायकीर्तनं तद्ग्रस्तास्तविषयम् । ऋतुसंधिष्वृतुसंधिगतासु[३] प्रतिपत्स्विति विज्ञानेश्वरः । श्राद्धिकं प्रतिगृह्य चेत्येतत्पार्वणविषयम् । एकोद्दिष्टभोजनादौ मन्वादिभिस्त्र्यहोक्तेः ।
अन्यच्च स एव--
"पशुमण्डूकनकुलश्वाहिमार्जारमूषकैः । |
शक्रपातोच्छ्रयकालस्तु--
"आश्विनकृष्णपञ्चम्यामिन्द्रध्वजोत्थापनं विजयदशम्यां तदवरोपणम्" इति ।
धर्मसूत्रे--
"श्वगर्दभनादाः सलावृक्येकसृकोलूकशब्दाः सर्वे |
शुनां गर्दभानां बहूनां नादा बहुवचननिर्देशात् । सलावृकी वृकावान्तरजातिविशेषः । कोष्ट्रीत्यन्ये । लिङ्गस्याविवक्षितत्वात्पुंसोऽपि ग्रहणम् । "इन्द्रो यतीन्सालावृकेभ्यः प्रायच्छत्" इत्यादिदर्शनात् । एकसृक एकवचनः, शृगालः । उलूको दिवाभीतः । एषां शब्दाः । वादितानि वीणावेणुमृदङ्गादीनि तेषां च शब्दाः । रोदनशब्दा गीतशब्दाः सामशब्दाश्च । एते श्रूयमाणास्तात्कालिकानध्यायहेतव इति व्याख्यातमुज्ज्वलाकृता ।