प्रदोषोऽत्र प्रथमो रात्रिभाग इत्युज्ज्वलाकृतः[१] । पूर्वरात्रिरिति माधवः । ग्रहणाध्ययनधारणाध्ययनयोरयं निषेधः । प्रदोषग्रहणाद्रात्रावप्यूर्ध्वं न दोष इत्युज्ज्वलाकृतः । उपाकर्मोत्तरं त्र्यहमेकाहं वाऽनध्यायः कार्यः ।
तदुक्तं गृह्ये--
"त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति" इति । |
क्षम्याध्ययनाद्विरम्येत्यर्थः । अयमनध्यायस्त्वनित्य इत्यत्र ज्ञापकमुत्सर्जनप्रकरणे वक्ष्यते ।
धर्मसूत्रे--
"तैषीपक्षस्य रोहिण्यां विरमेदर्धपञ्चमा श्चतुरो मासानित्येके" |
इति गृह्योक्तेन विकल्पः । अनयोः पक्षयोः पञ्च मासानधीते । अर्धः पञ्चमो येषां तेऽर्धपञ्चमाः । अर्धाधिकांश्चतुरो मासानधीयीतेत्येवमेके मन्यन्ते । अस्मिन्पक्षे प्रोष्ठपद्यामुपाकरणं शास्त्रान्तरदर्शनादुत्सर्जन[२]स्य चाप्रतिकर्षः । उत्सर्जने च कृते श्रावण्याः प्राक्शुक्लपक्षेषु[३] धारणाध्ययनं वेदस्य कृष्णप[४]क्षेषु व्याकरणाद्यङ्गाध्ययनं श्रावण्यामुपाकृत्यागृहीतस्य ग्रहणाध्ययनमिति व्याख्यातमुज्ज्वलाकृता ।
गौतमः--
"तिस्रोऽष्टकास्तिस्रोऽभि वार्षिकम्" इति । |
उपाकरणादूर्ध्वं प्रागुत्सर्जनाद्यदध्ययनं तद्वार्षिकं तदभि तस्याऽऽदावन्ते च यत्कर्म क्रियते तत्र त्रिरात्रमित्यर्थः ।
औशनसे व्यक्तोऽयमर्थः--
"उपाकरणे चोत्सर्जने च त्र्यहमनध्यायः" इति । |
मानवे च--
"उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम्" इति । |
क्षपणमनध्यायः । गृह्येऽप्येवम् ।
अष्टका आश्वलायनसूत्रे--
"हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः" इति ।
महालयान्तर्गताष्टम्यष्टकात्वेन संगृहीता हारीतेन--
"तथा महालयाष्टमी" इति ।
माध्याः पौर्णमास्या योऽपरपक्षस्तस्याष्टमीमेकाऽष्टकेत्याचक्षत इत्येतत्सूत्रस्थैकग्रहणेन ज्ञापिताश्वाऽऽचार्येण ।
धर्मसूत्रे--
"मातरि पितर्याचार्य इति द्वादशाहाः" इति । |
मात्रादिषु मृतेषु द्वादशाहमनध्याय इत्यर्थः । अयं विधिर्गृहस्थानामपि ।