इत्यङ्गिरसो वचनम् । यच्च हारीतवचनं--
"नियमस्था यदा नारी रजः पश्येत्कथंचन । |
इति तद्विधवोपवासविषयं, तासां तत्र भोजननिषेधादिति केचित् ।
अन्ये तु सत्यव्रतवचने दीर्घतपसामितिविशेषणोपादानाद्द्वादशीव्रतव्यतिरिक्तसकलैकाहोपवासविषयोऽयं निषेधः । त्रिरात्रनवरात्रादिदीर्घव्रतेषु तु रजोमध्य एव पारणेत्याहुः ।
अपरे तु दीर्घतपःशब्देनैकाहोपवासस्यापि ग्रहणं, नक्ताद्यपेक्षयैतस्यापि दीर्घत्वात् । तेनैकाहोपवासस्यापि रजोमध्य एव पारणेत्याहुः ।
आशौचमध्ये तु सर्वाऽपि पारणा भवति ।
"काम्योपवासे प्रक्रान्ते त्वन्तरा मृतसूतके । |
इति माधवीये कौर्मोक्तेः ।
"व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे । |
रुद्रयामले--
"सूतके पारणं कुर्यान्नवम्यां होमपूर्वकम् । |
नवम्यामिति व्रतान्तरोपलक्षणम् । तदन्ते सूतकान्ते । प्रारम्भस्तु विवाहप्रकरण उक्तः--'प्रारम्भो वरणं यज्ञे' इतिवचनेन ।
इति पारणाविचारः ।
अथ स्नानानन्तरमपि रजःस्रावे शुद्धिविचारः ।
प्रयोगपारिजाते बृहस्पतिः--
"रागजं रोगजं चैव द्रव्यजं कालजं तथा । |
अशुचिरिति पदच्छेदः । तत्रैव कालजे रजस्येव सा स्त्री त्रिरात्रमशुचिर्भवतीत्यर्थः ।
एतेषां लक्षणानि स एवाऽऽह--
"अर्वाक्प्रसूतेरुत्पन्नं मेदो वन्ध्याङ्गनासु यत् । |