पित्तादिदोषवैषम्यादसकृद्यत्प्रवर्तते । |
स्मृत्यर्थसारे विशेषः--
"सप्तदशदिनमध्ये पुना रजोदर्शने स्नानमात्रम् । अष्टादश एकरात्रम् । ऊनविंशे द्व्यहं, विंशतिप्रभृति त्रिरात्रम्" इति ।
एतच्च यस्या विंशतिदिनोत्तरमेव प्रायशो रजोदर्शनं तद्विषयम् ।
कश्यपः--
"रजस्वला यदा नारी पुनरेव रजस्वला । |
एतच्च वचनं यस्या यौवनावस्थाभेदेन षोडशदिनात्प्रागेव प्राचुर्येण रजोदर्शनं तद्विषयम् ।
स्मृत्यर्थसारेऽपि--
"त्रयोदशदिनादूर्ध्वं प्रायो रजोवतीनामेकादशदिनादर्वागशुचित्वं नास्ति । |
प्रयोगपारिजातेऽप्येवम् । इदमपि षोडशर्तुर्निशाः स्त्रीणामितिवचनात्स्नानदिवसात्परं ज्ञेयम् ।
रोगजे रजसि नाशुचितेत्याह बृहस्पतिः--
"रोगेण यद्रजः स्त्रीणामन्वहं हि प्रवर्तते । |
विकाराज्जातं वैकारिकम् । रोगेणेति वचनं रागजद्रव्यजयोरुपलक्षणम् । अन्वहमिति श्रवणान्मध्ये व्यवधाने यदि प्रायो विंशतिदिनोत्तरमेव सा रजोवती तदा विंशतिप्रभृति त्रिरात्रमूनविंशे द्व्यहम् , अष्टादश एकरात्रं सप्तदशदिनपर्यन्तं