सामग्री पर जाएँ

पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६६
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( रजोदर्शनदिनव्यवस्था )
 

स्नानमात्रमिति पूर्वोक्तव्यवस्थाऽत्र ज्ञेया । यदि तु षोडशदिनात्प्रागेव प्रा[]चुर्येण रजोवती तदा त्वेकादश एकरात्रं द्वादशे द्विरात्रं त्रयोदशप्रभृति त्रिरात्रमित्येषां व्यवस्था । यदि तु कदाचित्प्रथमरजोदर्शनमारभ्यैवान्वहं रजोदर्शनं तदाऽप्येष एव प्रकारः ।

 रोगजे रजस्यपि कर्माधिकारस्तु रजोनिवृत्तावेव--

"साध्वाचारा न तावत्स्यात्स्नाताऽपि स्त्री रजस्वला ।
यावत्प्रवर्तमानं हि रजो नैव निवर्तते" ॥

 इति श्राद्धहेमाद्रौ शङ्खोक्तेः ।

 सूतिकाया रजोदर्शने विशेषमाह प्रजापतिः--

"प्रसूतिका तु या नारी स्नानतो विंशतेः परम् ।
आर्तवी रजसा प्रोक्ता प्राक्तु नैमित्तिकं रजः ॥
तत्तु नैमित्तिके न स्यादाशौचमिति सूरयः" इति ॥

बृहस्पतिः--

"निःसंदेहं परिज्ञाते आर्तवेऽशुद्धिकारणम् ।
संदेहमात्रे शुद्धिः स्यादित्युवाच प्रजापतिः" इति ॥

 पूर्वत्राशुद्धिरिति पदच्छेदः ।

 ([]यमः--

" व्यसनात्कार्यकरणान्निद्राविस्मरणादपि ।
रजःस्रावमविज्ञाय सा शुचिः पूर्वकर्मसु ॥
ज्ञाताज्ञातेषु दोषेषु अनुक्तेष्वशुभेषु च ।
पुण्याहवाचनं कुर्याद्विप्राणामनुशासनात्" इति ॥)

अथ रजोदर्शनदिनव्यवस्था ।

तत्र कश्यपः--

"अर्धरात्रादार्धरात्रं दिनं स्यात्सूतकादिषु" इति ।

 आर्धरात्रमर्धरात्रपर्यन्तमित्यर्थः । आदिपदेन ऋतुर्गृह्यते ।

 याज्ञवल्क्यस्तु--

"रात्रिं कुर्यात्त्रिभागां तु द्वौ भागौ पूर्वगामिनौ ।
उत्तमोंऽशः प्रभातेन युज्यते ऋतुसूतके" इत्याह ।

 अत्र संध्यभाव आर्षः । रात्रौ रजसि जननादौ च रात्रिं त्रिभागां कृत्वाऽऽघभागद्वये चेत्पूर्वदिनं ग्राह्यम् । परतश्चेदुत्तरं दिनमित्यर्थः ।



  1. ङ. च. प्रायेण ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थः क. पुस्तके नास्ति ।