स्नानमात्रमिति पूर्वोक्तव्यवस्थाऽत्र ज्ञेया । यदि तु षोडशदिनात्प्रागेव प्रा[१]चुर्येण रजोवती तदा त्वेकादश एकरात्रं द्वादशे द्विरात्रं त्रयोदशप्रभृति त्रिरात्रमित्येषां व्यवस्था । यदि तु कदाचित्प्रथमरजोदर्शनमारभ्यैवान्वहं रजोदर्शनं तदाऽप्येष एव प्रकारः ।
रोगजे रजस्यपि कर्माधिकारस्तु रजोनिवृत्तावेव--
"साध्वाचारा न तावत्स्यात्स्नाताऽपि स्त्री रजस्वला । |
इति श्राद्धहेमाद्रौ शङ्खोक्तेः ।
सूतिकाया रजोदर्शने विशेषमाह प्रजापतिः--
"प्रसूतिका तु या नारी स्नानतो विंशतेः परम् । |
बृहस्पतिः--
"निःसंदेहं परिज्ञाते आर्तवेऽशुद्धिकारणम् । |
पूर्वत्राशुद्धिरिति पदच्छेदः ।
([२]यमः--
" व्यसनात्कार्यकरणान्निद्राविस्मरणादपि । |
अथ रजोदर्शनदिनव्यवस्था ।
तत्र कश्यपः--
"अर्धरात्रादार्धरात्रं दिनं स्यात्सूतकादिषु" इति । |
आर्धरात्रमर्धरात्रपर्यन्तमित्यर्थः । आदिपदेन ऋतुर्गृह्यते ।
याज्ञवल्क्यस्तु--
"रात्रिं कुर्यात्त्रिभागां तु द्वौ भागौ पूर्वगामिनौ । |
अत्र संध्यभाव आर्षः । रात्रौ रजसि जननादौ च रात्रिं त्रिभागां कृत्वाऽऽघभागद्वये चेत्पूर्वदिनं ग्राह्यम् । परतश्चेदुत्तरं दिनमित्यर्थः ।