रामः--अथवा कुतः प्रियतमा । नूनं संकल्पाभ्यासपाटवोयादान एष भ्रमो रामभद्रस्य।
(नेपथ्ये ।)
अहो, महान्यमादः प्रमाद: । ('सीतादेव्याः खकरकलितैः' इत्यर्थ पठ्यते।)
राम:- (सकरुणौत्सुक्यम् ।) किं तस्य ।
(पुनर्नेपथ्ये।)
('वध्वा सार्ध' इत्युत्तरा पम्यते ।)
सीता--- को दाणि अभिजुज्जइ ।
रामः---कासौ दुरात्मा यः प्रियायाः पुत्रं वधूद्वितीयमभिभवति । (इत्युत्तिष्ठति ।)
(प्रविश्य।)
वासन्तिका-(संभ्रान्ता ) देव, त्वर्यतां त्वयंताम् ।
सीता-हा, कहं मे पिअसही वासन्तिआ ।
रामः-कथं देव्याः प्रियसखी वासन्तिका ।
वासन्ती-देव, त्वयैतां त्वयताम् । इतो जटायुशिखरस्य दक्षिणेन सीतातीर्थेन गोदावरीमवतीर्य संभावयतु देव्याः पुत्रकं देवः । सीता-है। ताद जडाओ, सुण्णं तुए विणा इदं जणट्टाणम् ।
रामः- अहह, हृदयमर्मच्छिदः खल्वमी कथोद्धाताः ।
वासन्ती-इत इतो देवः ॥
सीता--भैअवदि, सच्चे एव वणदेवदावि में ण पेक्खदि ।
१. क इदानीमभियुज्यते ।
२. हा, कथं मे प्रियसखी वासन्तिका ।
३. हा तात जटायो, शून्यं त्वया विनेदं जनस्थानम् ।
४. भगवति, सत्यमेव वनदेवतापि मां न पश्यति ।
तम्' इति सूत्रेणेतच् ॥ नूनमिति । संकल्पाभ्यासस्य स्मृतिसंतानस्य पाटव स्फूर्तिः तदेव उपादान कारण यस्य तथोक्तः प्रमः सीता स्पृष्टवतीत्याकारकान्यथाज्ञानम् ॥ अहहेति । हृदयमर्माणि छिन्दन्तीति विग्रहः । कथोद्धाताः पुरावृत्तोपन्यासा:॥