पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
उत्तररामचरिते

 तमसा-जानामि वत्से, जानामि ।

  तटस्थ नैराश्यादपि च कलुष विप्रियवशा-
   द्वियोगे दीर्धेऽस्मिञ्झटितिवटनात्स्तम्भितमिव ।
  प्रसन्नं सौजन्यायितकरुणैर्गाढकरुणं
   द्रुवीभूतं प्रेम्णा तब हृदयमस्सिन्क्षण इव ॥ १३ ॥

 राम:-देवि,

  प्रसाद इव मूर्तस्ते स्पर्शः स्नेहार्द्रशीतलः ।
  अद्याप्यानन्दयति मां त्वं पुनः क्कासि नन्दिनि ॥ १४ ॥

 सीता--एदे क्खु अगाधमाणसदसिदसिणेहसंभारा आणन्दणिस्सन्दिणो सुहामआ अज्जउत्तस्स उल्लाबा ! जाणे पच्चएण णिकालणपरिचाअसल्लिदोवि बहुमदो मह जम्मलाहो।


 १. एते खल्वगाधमानसदर्शितस्नेहसंभारा आनन्दनिष्यन्दिनः सुधामया आर्यपुत्रस्योल्लापाः । जाने प्रत्ययेन निष्कारणपरित्यागशल्यितोऽपि बहुमतो मम जन्मलामः।


ममाप्येष इत्यन्तेन संदर्भण प्रतिपादिता मम हृदयावस्था कीदृशीत्यर्थः ॥ तटस्थमिति । तब हृदयं अस्मिन् क्षणे नैराश्यात् तटस्थ मिवेलादिविभिन्नवाक्यतया योजना । नैराश्यात् प्रत्याशाभावात् तटस्थं प्रसादकालुष्यादिरहितम् । विप्रियवशातू कलुष परित्यागरूपादप्रियाद्धेतोः कलुषं क्रोधयुक्तम् । दीर्थे अस्मिन् वियोगे आमरणान्तभावित्वेन ज्ञातेऽस्मिन् विरहे झटितिघटनात् आकस्मिकसंघटनात् स्तम्भितमिव विस्मयस्तिमितमिव सौजन्यातू प्रकृत्या कल्याणत्वात् प्रसन्नं भविष्यतानुसंधानेन निवृत्तकालुष्यम्। दयितकरुणैः रामस्य दुःखात्मकावस्थाविशेषैः गाढकरुणं परदुःखदुःखित्वरूपकरुणासान्द्रम् । प्रेम्णा प्रणयेन द्रवीभूतं विलीनम् । अत्र तटस्थं नैराश्यादित्यनेन तान्येव चिरपरिचितान्यक्षराणीतिवाक्चाभिमता सीतावस्था प्रतिपादिता । अपि च कलुष विप्रियवशादित्यनेन असदृशे खल्वमुष्य वृतान्तस्येत्येतद्वाक्चाभिमतावस्था प्रतिपादिता । बियोगे दीर्वेऽस्मिन्नित्यनेन कथं प्रभातचन्द्रमण्डलेत्यादि विवक्षितावस्था प्रतिपादिता । कथमित्लस्य विस्वार्थकत्वात् । असत्र सौजन्यादित्यनेन अथ वा किमिति यज्रमयीवेत्यादिप्रतिपादितावस्था दर्शिता । दयितकरुणैनीढकरुणमित्यनेन हा धिक इद मां मन्दभागिनी व्याहृत्येत्यादिवाक्यविवक्षितावस्था प्रतिपादिता । द्रवीभूत प्रणेत्यनेन उत्सुक्रयति उत्कण्डित स्थितमित्यादिवाक्यप्रतिपादितावस्थोत्ता ॥ १३ ॥ प्रसाद इति । स्नेहाईशीतलः स्नेहाईश्चासौ शीतलश्चेति विग्रहः । स्नेहहेतुकत्वात् स्नेहात्वम् ॥ १४ ॥ प्रत्येन विश्वासेन । शाल्यितोऽपि शल्यवान्कृतोऽपि । 'सदस्य संजा-