सामग्री पर जाएँ

सात्त्वतसंहिता/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ सात्त्वतसंहिता
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →
सात्त्वतसंहितायाः अध्यायाः


त्रयोदशः परिच्छेदः।।
श्रीभगवानुवाच[1]।।

यागे[2]ऽस्मिंस्त्वे[3]कपीठे वै सर्वसामान्यलक्षणे ।
ध्येया विशेषरूपेण किरीटाद्यखिलास्तु वै ।। 1 ।।

चतुर्भुजाश्चतुर्वक्त्रा वस्त्रस्रग्भूषणान्विताः ।
पुनर्विशेषयागा[4]नामर्चनावसरे वपुः[5] ।। 2 ।।

एकाननं च सर्वेषां द्विभुजं विहितं सदा ।
अथ त्रयोदशः परिच्छेदो व्याख्यास्यते। अत्र प्रथमं किरीटादिभूषणानां लाञ्छनानां च सर्वेषामपि स्वातन्त्र्येतन्णार्चनप्रकरणे चतुर्मुखत्वं चतुर्भुजत्वं च ध्येयम्, पारतन्त्र्येणार्चनप्रकरणे तु[6] द्विभुजत्वमेकमुखत्वमेव[7] ध्येयमित्याह- याग इति सार्धद्वाभ्याम्। अत एव जयाख्य[8] (13/151) लक्ष्मीतन्त्रादिषु (38/68) भोगयागप्रकरणे कौस्तुभादीनां द्विभुजत्वमेवोक्तम् ।
ननु तर्हीश्वरपारमेश्वरयोर्भोगयागप्रकरणेऽपि श्रीवत्सकौस्तुभयोश्चतुर्भुजत्वम्, "उद्गिरन्तं स्वकैर्मुखैः" (ई. सं. 4/120; पा. सं. 6/363) इत्यनेन शङ्खस्य चतुर्मुखत्वं चोक्तम्। तस्य का गतिरिति चेत्, सत्यम्। तत्र सात्वतोक्तस्वतन्त्रार्चनपरध्यानश्लोका एव यथावस्थितं विलिखिताः। तथापि तत्रैवोत्तरत्र-
ध्येयाः स्वरुचिसंयुक्ता द्विभुजाः पुरुषोपमाः ।।
सास्त्राः [9]किरीटपूर्वा ये गदामालाङ्गनाकृतीः ।
(ई. सं. 4/120-121; पा. सं. 6/269-270)
इत्युक्तत्वान्न विवादावकाशः ।। 1-3 ।।
[1 भगवानित्येव उ. विहाय सार्वत्रिकः पाठः.।]
[2 योगो- मु., योगे- बक. उ.।]
[3 स्मिन् स्वेन - मु. अटी. बक.।]
[4 योगा- मु. अटी. बक. बख. अ.।]
[5 पुनः- मु. अटी. बक. बख. उ.।]
[6 `तु' नास्ति- अ.।]
[7 `एव' नास्ति- अ.।]
[8 याख्ये- अ.।]
[9 `कौस्तूभपूर्वा ये गदामालेऽङ्गनाकृती' (17/88-89) इत्येवं पाठभेदेन सहाऽत्रापि समुपलभ्यतेऽयं श्लोकः।]

किरीटः सौम्यवदनः काञ्चनाभो महातनुः ।। 3 ।।

भाभिराकृतियुक्ताभिर्नानारूपाभिरावृतः ।
स्थितो वैद्याधरीयेण स्थानकेनान्तरिक्षगः[1] ।। 4 ।।
किरीटध्यानमाह- किरीट इति सार्धेन ।। 3-4 ।।
[1 स्थाना- मु., स्थानगेन- बक.।]

पद्मरागा[1]चलाकारं कौस्तुभं रत्ननायकम् ।
दिशो दश द्योतयन्तं संलग्नाङ्[2]घ्रिस्थितं स्मरेत् ।। 5 ।।

वहन्तं वक्षसो मध्ये स्वहस्तकृतसम्पुटम् ।
सन्धारयन्तमपरं तथा वै शिरसोपरि ।। 6 ।।
कौस्तुभध्यानमाह- पद्मरागेति द्वाभ्याम् ।। 5-6 ।।
[1 रागचया- उ.।]
[2 नाङ्घ्रिं- मु.।]

स्फटिकाद्रिप्रतीकाशं श्रीवत्समथ भावयेत् ।
बद्धपद्मासनासीनं न्यस्तहस्तं स्वपार्श्वयोः ।। 7 ।।

वहन्तं कूर्ममुद्रां च मुख्य[1]हस्तद्वयेन तु ।
श्रीवत्सध्यानमाह- स्फटिकेति सार्धेन। कूर्ममुद्रा अविद्यादलिनी मुद्रेत्यर्थः, "अविद्यादलिनीं मुद्रां कूर्माख्यां संस्मरेद् विभोः" (17/84) इति नृसिंहकल्पे वक्ष्यमाणत्वात्। तल्लक्षणमपि तत्रैव वक्ष्यमाणं ज्ञेयम् ।। 7-8 ।।
[1 मुख- अ. उ.।]

ध्येया भगवती माला चित्ररूपा मनोहरा ।। 8 ।।

सर्वगन्धान्विता सौम्या ईषद्विकसितानना[1] ।
वनमालाध्यानमाह- ध्येयेति ।। 8-9 ।।
[1 द्विह- अ. उ.।]

स्वरश्मिमण्डलान्तःस्थं वल्गन्तं हेतिमं स्मरेत् ।। 9 ।।

विभोराज्ञां प्रतीक्षन्तं ह्रस्वाङ्गं रक्तलोचनम् ।
कुन्दावदातंकमलं सौम्यमीषत्स्मिताननम् ।। 10 ।।

रवं रवन्तं[1] मधुरं श्रोत्रेन्द्रियसुखावहम् ।
गदां हेमाद्रिसंकाशां तन्वीं कुवलयेक्षणाम् ।। 11 ।।

स्वोत्थेन रश्मिजालेन भासयन्तीं नभस्थलम् ।
तुहिनाचलसंकाशं शङ्खं कमललोचनम् ।। 12 ।।

सहागमादिसारं तमुद्गिरन्तं स्वकैर्मुखैः ।
सन्ध्याजलदसंकाशं लाङ्गलं भीमलोचनम् ।। 13 ।।

[2]क्षामाङ्गमुन्नतांसं च वज्रकायं बलोत्कटम् ।
कृशोदरं च मुसलं[3] रश्मिज्वालावलीवृतम् ।। 14 ।।

अङ्गारराशिसदृशं प्रलम्बमतिनिष्ठुरम् ।
नीलोत्पलदलश्याममिष्वस्त्रं बाण[4]विग्रहम् ।। 15 ।।

नानारूपं च निशितं दीर्घदृक्चण्डविक्रमम् ।
कार्मुकं हेमगौरं च किङ्किणीजालमण्डितम् ।। 16 ।।

आस्फोटयन्तं स्वकरं[5] महाजलदनिस्वनम् ।
स्वरश्मिखचितं ध्यायेन्नृत्यमानं च नन्दकम् ।। 17 ।।

शरदाकाशसंकासं दशन्तं दशनावलिम् ।
सूर्यमण्डलसंकाशं खेटकं सौम्यमूर्तिकम् ।। 18 ।।

ग्रसन्तमस्त्रपूगानि स्ववक्त्रेमानिशं बलात् ।
बद्धमुष्टिं स्मरेद् दण्डं रक्ताङ्गं रक्तलोचनम् ।। 19 ।।

क्रोधमूर्तिं स्वदशनैर्दशन्तमधरं स्वकम् ।
शक्रकार्मुकवर्णं च परशुं भीमविक्रमम् ।। 20 ।।

द्रवत्कनकनेत्रं च ज्वलज्ज्वालाजटाधरम् ।
पाशं [6]फणिगणाकीर्णं विद्युज्जिह्वं भयानकम् ।। 21 ।।

हेमालिपाण्डराभं च घोरास्यं रक्तलोचनम् ।
कृशाङ्गं दीर्घबाहुं च पिङ्गलाक्षं तु [7]चाङ्कुशम् ।। 22 ।।

विकरालमुखं रौद्रं भिन्नाञ्जनगिरिप्रभम् ।
मुद्गरं शतधामाभं पीनांसं पृथुविग्रहम् ।। 23 ।।

जटाकलापधृक्[8] सौम्यं पुण्डरीकनिभेक्षणम् ।
वज्रं वज्रोपलाभं तु सितदीर्घनखाङ्कितम्[9] ।। 24 ।।

दंष्ट्राकरालवदनं ज्वलत्कनकलोचनम् ।
सौदामिनीं प्रभाशक्तिं[10] शान्ताग्निवदनेक्षणाम् ।। 25 ।।

घनघर्घरनिर्घोषमुद्गिरन्तीं मुहुर्मुहुः ।
चक्रादिशक्त्यन्तानां सप्तदशायुधानामेकैकस्यैकश्लोकक्रमेण ध्यानमाह- स्वरश्मिमण्डलान्तःस्थमित्यादिभिः सप्तदशभिः ।। 9-26 ।।

[1 सुवन्तं- मु. अटी.।]
[2 क्षौमा- मु. अटी.।]
[3 लमग्नि- अ. उ.।]
[4 बाल- मु. अटी., बहु- मु. अ.।]
[5 स्वकरौ- अ. उ.।]
[6 फणा- अ., फण- मु. अटी.।]
[7 साङ्कु- अटी. अ. ।]
[8 धृत्- मु.।]
[9 न्तिकम्- मु. अटी.।]
[10 प्रभां- अ. उ.।]

एतेऽस्त्रनायकाः सर्वे विभोराज्ञाप्रतीक्षकाः ।। 26 ।।

प्रोत्थिता विचलन्तश्च[1]सुसमैः स्थाकैः[2] स्थिताः ।
श्रोणीतटार्पितकराश्चामरव्यजनोद्यताः ।। 27 ।।

सपद्मं तु किरीटाद्यं वर्जयित्वा चतुष्टयम् ।
तर्जयन्तं च दुष्टौ[3]घमन्येषां दक्षिणं करम् ।। 28 ।।

स्मर्तव्यं ध्यानकाले तु सर्वेषामथ मस्तके ।
ध्येयं स्वकं स्वकं चिह्नं सुप्रसिद्धं निराकृति ।। 29 ।।
सर्वेषां सामान्यलक्षणमाह- एतेऽस्त्रनायका इति सार्धैस्त्रिभिः। एते किरीटादय इत्यर्थः। अस्त्रनायकाश्चक्रादय इत्यर्थः। श्रोणीतटार्पितकराः श्रोणीतटन्यस्तवामहस्ता इत्यर्थः। चामरव्यजनोद्यताः सचामरव्यजनदक्षिणहस्ता इत्यर्थः। आयुधानां भूषणानां च किञ्चित् तारतम्यमुक्तम्- सपद्ममित्यादिना। सपद्मं पद्मसहितम्, किरीटाद्यं चतुष्टयं किरीटकौस्तुभश्रीवत्सवनमालाचतुष्टयम्, वर्जयित्वाऽन्येषां चक्रादीनां दक्षिणं करं दुष्टौघं तर्जयन्तं च ध्यायेदिति योजना[4]। चक्रादीनां चामरव्यजनसमर्पणकैङ्कर्यमात्रोद्योगे[5] दुष्टानामसुरादीनां यथेच्छं दुष्कृत्येष्ववकाशो भवतीति भिया चामरादिसमर्पणसमयेऽपि दुष्टौघतर्जनमुक्तम्। यद्वा तर्जयन्तं चेत्यत्र चकारो विकल्पनार्थकः। चक्रादीनां दक्षिणं करं चामरव्यजनोद्यतं तर्जनीमुद्रान्वितं वा स्मरेदित्यर्थः। चामरव्यजनोद्यतमिति पाठे तु नैतावान् क्रमः। सपद्मकिरीटादिचतुष्टयस्यैव चामरोद्यतदक्षिणकरत्वम्, अन्येषां तर्जनीमुद्रान्वितत्वमेवेत्यर्थः सरसो भवति। कस्मिंश्चित् पारमेश्वरप्रयोगे चक्राद्यायुधानामेव चामरव्यजनोद्यतत्वं सपद्मकिरीटादिचतुष्टयस्य तर्जनीमुद्रान्वितत्वमुक्तम्। तदसंगतम्, तर्जयन्तमित्यस्य चतुष्टयमित्यस्य चाविभिन्नलिङ्गकत्वात्, आयुधानामेव दुष्टौघतर्जनसामर्थ्याद् भूषणानां तदसंभवाच्च। अत एव पद्मस्यायुधकोटिपरिगणितत्वेऽपि तस्य लीलाकमलत्वात् सौम्यत्वाच्च दुष्टौघतर्जनं (न) संभवतीत्यभिप्रायेण सपद्ममिति भूषणैः सह वर्णनं कृतमिति च ज्ञायते।
ननु पूर्वं कौस्तुभश्रीवत्सयोर्दण्डयोश्च कार्यान्तरविनियुक्तहस्तत्वमुक्तम्, इदानीं पुनस्तेषामपि श्रोणीतटनिविष्टहस्तत्वं चामरपाणित्वतर्जनीमुद्रान्वितत्वयोरन्यतरत्वं च कथं संभवतीति चेन्न, पूर्वमुक्तस्य लक्षणस्य चतुर्भुजविषयत्वादिदानीमुक्तस्य द्विभुजविषयत्वात् ।। 26-29 ।।
[1 कुसुमैः- मु. अटी., सुसंस्थैः- मु.।]
[2 र्ध्यानकैः- मु.।]
[3 दुष्टघ्नं- अ. उ.।]
[4 योजनम्- मु.।]
[5 मात्राद्योगे- अ.।]

किरीटो हुतभुग् वेद्यः कौस्तुभस्तु प्रभाकरः ।
स्वयं शशाङ्कः श्रीवत्सो माला [1]षण्माधवादयः ।। 30 ।।

[2]प्राणं पतत्रिराड् विद्धि कालचक्रं महामते ।
अपाम्पतिर्वै कमलं गदा देवी सरस्वती ।। 31 ।।

खं शङ्खः सीरमोषध्यो मुसलं [3]नागनायकः ।
शब्दादयः [4]सायकास्तु धनुर्विद्धि समीकरणम् ।। 32 ।।

नन्दकं सर्वशास्त्राणि खेटकं वसुधा स्मृता ।
ज्ञेयो हि दण्डो नियतिर्वैराग्यं परशुः स्मृतः ।। 33 ।।

पाशो मायाङ्कुशः कामोऽप्यहङ्कारस्तु मुद्गरः ।
विज्ञानममलं वज्रं समाधिः शक्तिरुच्यते ।। 34 ।।
अथ किरीटादीनामधिष्ठातॄनाह - किरीट इत्यादिभिः। माधवादयः[5]........सन्ता.......प? इत्यर्थः। पारमेश्वरेऽपि-
अपांपतिर्वै कमलं गदा देवी सरस्वती ।
चक्रं लोकप्रतिष्ठा [6]वै शब्दब्रह्म तु शङ्खराट् ।। (6/278-279)
इति गदापद्मयोरधिष्ठातृदेवौ सात्वतोक्तशब्दाभ्यामेव प्रतिपादितौ, चक्रशङ्खयोरधिष्ठातारौ तु शब्दान्तराभ्यामुक्तौ। अतस्तत्रापि लोकप्रतिष्ठा काल इत्यर्थः, सर्वाधारः काल इति प्रसिद्धेः[7]। शब्दो (बृ? बृं)हत्यस्मिन्निति शब्दब्रह्म आकाशमित्यर्थश्च बोध्यः। पारमेश्वरव्याख्याने तु लोकप्रतिष्ठा [8]भूमिरित्युक्तम्। तद्विचारणीयम् ।। 30-34 ।।
[1 चैव पतत्रिराट्- मु. अटी.।]
[2 कालं चैव महाबुद्धे विद्धि चक्रं तु हेतिपम्- मु. अटी.।]
[3 चाङ्ग- बक., नग- मु.।]
[4 साधका- मु. अटी., सायकास्त्रं- उ.।]
[5 माधवादयः संताप- अ.।]
[6 ष्ठायै- अ. मु.।]
[7 न्यायवैशेषिकादि शास्त्रेष्विति शेषः।]
[8 भूरि- मु.।]

भिन्नरूपस्य च विभोर्य उक्तः सुन्दरीगणः ।
साधारश्चाप्यनाधा[1]रस्तासां ध्यानं क्रमाच्छृणु ।। 35 ।।

चिन्ताऽऽखण्डलचापाभा लक्ष्मी रक्ताम्बुजप्रभा ।
पुष्टिः कनकगौरा च कीर्तिः कुमुदपाण्डरा[2] ।। 36 ।।

जयाऽर्ककान्तिसदृशी[3] मायाऽञ्जननिभा स्मृता ।
शुद्धिः किंशुकसंकाशा [4]गुञ्जाभा तु निरञ्जना ।। 37 ।।

बन्धुजीवोज्ज्वला नित्या ज्ञानशक्तिः सिताऽरुणा ।
फुल्लेन्दीवरवर्णा च परिज्ञेयाऽपराजिता ।। 38 ।।

रक्तोत्पलाभा प्रकृतिः सितपीता सरस्वती ।
सर्वकामप्रदा[5] सिद्धिस्त्विन्द्रनीलसमप्रभा[6] ।। 39 ।।

सिन्दूरपुञ्जवर्णाभा विज्ञेया प्रीतेवर्धनी ।
यशस्करी च दुग्धाभा शान्तिदा विद्रुमोज्ज्वला ।। 40 ।।

तुष्टिस्तुहिनसंकाशा दया वैडूर्यसन्निभा ।
निद्राऽयस्कान्तसदृशी[7] क्षमा पीतारुणप्रभा ।। 41 ।।

कान्तिर्दर्पणसंकाशा धृतिर्गोरोचनोज्ज्वला ।
मैत्री बन्धूकपुष्पाभा रतिर्गैरिकसन्निभा ।। 42 ।।

मतिर्मरकताभा वै सर्वाः प्रमुदिताननाः ।
अथ पूर्वोक्तानां चिन्तादिदेवीनां वर्णध्यानक्रममाह- भिन्नरूपस्येत्यादिभिः। चिन्ता नाम पातालशायिनो दक्षिणभागस्था पूर्वोक्ता देवीति ज्ञेया। [8]श्र्यादिद्विकेश्र्यादिचतुष्टये शुद्ध्यादिषट्के लक्ष्म्याद्यष्टके लक्ष्म्यादिद्विषट्के च चिन्ताया अनन्तर्गतत्वात् प्रथमं तद्ध्यानमुक्तमिति सूक्ष्मदृष्ट्या बोध्यम्।
नन्वेकार्णवशायिनः परितःस्थितदेवीचतुष्टयान्तर्गतप्रीतिविद्ययोरप्यत्र द्विकादिसमूहेष्वनन्तर्गतत्वात् तयोरपि ध्यानं कुतो नोक्तमिति चेत्, पामरोऽसि, विद्यासरस्वतीशब्दयोः पर्यायत्वं स्तनन्धयोऽपि जानीते। "तुष्टिदापुष्टिदाष्टकम्" (12/212) इत्यत्र तुष्टिदाशब्देनोक्तायाः "तुष्टिस्तुहिनसंकाशा" इति पुनस्तुष्टिशब्देनात्रैव ग्रहणाद् यथा तुष्टिदातुष्टिज्ञब्दयोः पर्यायत्वं ज्ञायते, तथा [9]प्रीतिप्रीतिवर्धनीशब्दयोः पुष्टिदापुष्टिशब्दयोः शान्तिदाशान्तिशब्दयोश्च पर्यायत्वं निरङ्कुशम्। अतः प्रीतिविद्ययोरपि द्विकादिसमूहान्तर्गतत्वादेव पृथग् ध्यानं नोक्तमिति संतोष्टव्यमायुष्मता। लक्ष्मीध्यानस्य प्रथममेवोक्तत्वात् पुनर्द्विके चतुष्टयेऽष्टके द्विषट्के च तद्ध्यानं नोक्तम्। एवमष्टक एव तुष्टेः सरस्वत्याश्च ध्यानस्योक्तत्वात् पुनर्द्विषट्के नोक्तमिति ध्येयम् ।। 35-43 ।।
[1 प्यसाधा- बक. बख. अ.।]
[2 पाण्डुरा- मु.।]
[3 श्रियादि- मु.।]
[4 सदृशा- बक. बख. अ. उ.।]
[5 कुन्दाभा- उ.।]
[6 प्रदां विद्धि त्विन्द्र- मु. अटी.।]
[7 प्रभाम्- मु.।]
[8 सदृशा- बक. बख. अ. उ.।]
[9 `प्रीति' नास्ति- अ., `प्री' नास्ति- मु.।]

दिव्यमाल्याम्बरधरा नानालङ्कारभूषिताः ।। 43 ।।

दिव्यस्रग्वेष्टनोपेता वीश्रमाणाः स्वकं पतिम् ।
देवीनां सर्वासामपि सामान्यं लक्षणमाह- दिव्यमाल्येति ।। 43-44 ।।

चतस्रः शक्तयो यास्तु विभोः [1]शयनगस्य तु ।। 44 ।।

प्रागुक्तास्तत्र पूर्वाशावस्थिता वीजयन्त्यजम्[2] ।
त्रयं यद् दिक्त्रयस्थं तु तत्संवाहनतत्परम् ।। 45 ।।
पातालशायिनः परितः स्थितस्य लक्ष्म्यादिशक्तिचतुष्टयस्य हस्तव्यापारानाह- चतस्र इति सार्धेन ।। 44-45 ।।
[1 नकस्य- मु. बक. बख.।]
[2 यन्ति च- अ.।]

यत्रैका[1] श्रीर्विभोस्तत्र सन्निवेशः[2] पुरोदितः ।
यत्रैका[3] श्रीर्विभोस्तत्र वामे वा दक्षिणेऽपि वा ।। 46 ।।
लक्ष्मीमात्र[4]विषयमाह- यत्रेति। पुरोदितः पूर्वम्
"पद्मासनादिना चैव केवलं वा श्रियान्वितः" (12/192) इत्यत्र।
षष्ठेनालिङ्गिता देवी सारविन्देन बाहुना ।
तदंसलग्नकरया देव्या तच्चित्त[5]याऽनिशम् ।।
संवीज्यमानं विनयाच्चामरेण सितेन तु । (12/107-108)
इत्यत्र वोक्त इत्यर्थः। तथा च लक्ष्मीतन्त्रे- "श्रीर्नाम द्विभुज[6]स्याहमङ्कस्था वरवर्णिनी" (8/12) इति ।। 46 ।।
[1 नास्त्येषा पङ्क्तिः- अटी.।]
[2 वेशपरोदिता- मु.।]
[3 सर्वत्र परिदृश्यमानाऽपीयं पङ्क्तिरनावश्यका प्रतीयते, भाष्यकारेण च न व्याख्याता।]
[4 मातृ- अ.।]
[5 न्तया- मु.।]
[6 स्याङ्गं- मु.।]

श्रीपुष्ट्याख्यद्वयं यत्र तत्र तद् दक्षिणोत्तरे ।
पद्मासनेनोपविष्टा[1] पक्षिपक्षद्वये स्थिता[2] ।। 47 ।।

नलिनीनालहस्ताढ्या मृदुकुम्भकराऽपरा ।
अग्नी[3]षोममयो देह आद्यो यः सर्वगस्य च ।। 48 ।।

तस्य शक्तिद्वयं तादृगमिश्रं भिन्नलक्षणम् ।
भोक्तशक्तिः स्मृता लक्ष्मीः पुष्टिर्वै कर्तृसंज्ञिता ।। 49 ।।

भोगार्थमवतीर्णस्य तस्य लोकानुकम्पया ।
उदितं सह तेनैव शक्तिद्वितयमव्ययम् ।। 50 ।।

नानात्वेन हि वै यस्य परिणामः प्रकीर्तितः[4] ।
श्रीपुष्टिद्विकस्य लक्षणमाह- श्रीपुष्ट्याख्यद्वयमिति सार्धैश्चतुर्भिः। यस्य शक्तिद्वयस्य[5] परिणामो नानात्वेन प्रकाशितः, चिन्ताकीर्तिजयामायादिरूपभेदैः प्रदर्शित इत्यर्थः ।। 47-51 ।।
[1 विष्टं- अ. उ.।]
[2 तते- अ., येन तु- उ.।]
[3 अग्निष्टोम- अ.।]
[4 प्रकाशितः- अ. उ.।]
[5 द्वितयस्य- मु.।]

दिक्पत्रचतुरन्तःस्थं यद् वै देवी[1]चतुष्टयम् ।। 51 ।।

शक्तिः परशुपाशास्त्रमङ्कुशं तत्करे क्रमात् ।
लक्ष्मीकीर्त्यादिशक्तिचतुष्टयलक्षणमाह- दिक्पत्रेति ।। 51-52 ।।
[1 देवि- मु. बक. बख.।]

षट्कं केसरजालस्थं तत्र प्राक्पश्चिमे द्वयम् ।। 52 ।।

द्वयं द्वयं सौम्ययाम्ये तासां वामकरेषु च ।
शङ्खं चक्रं गदा सीरमिष्वस्त्रं नन्दकं शिवम्[1] ।। 53 ।।
शुद्ध्यादिदेवीलक्षणमाह- षट्कमिति सार्धेन। प्राक्पश्चिमे द्वयम्। प्राग्भागे एका शक्तिः, पश्चिमभागे एका शक्तिरित्यर्थः। [2]द्वयं द्वयं सौम्ययाम्ये। उत्तरकोणद्वये शक्तिद्वयम्, दक्षिणकोणद्वये शक्तिद्वयमित्यर्थः। तथा च लक्ष्मीतन्त्रे-
"तस्यैव कोणषट्कस्था षोढाऽहं श्रृणु नाम च" (8/23) इति ।। 52-53 ।।
[1 सितम्- बक. बख. उ., शितम्- अ. अटी.।]
[2 `द्वयं द्वयं' नास्ति- अ.।]

पत्रमध्यनिविष्टं[1] तु यत्कान्ताष्टकमुत्तमम् ।
तस्य वामकराणां च विज्ञेयं त्वादितोऽष्टकम् ।। 54 ।।

श्रीफलं चाक्षसूत्रं स्रग् दर्पणः पुष्पमञ्जरी ।
विष्टरं [2]किङ्किणी चा[3]स्त्रसञ्चयः कमलेक्षण ।। 55 ।।
शक्त्यष्टकलक्षणमाह- पत्रमध्येति द्वाभ्याम्। श्रीफलं विल्वफलमित्यर्थः ।। 54-55 ।।
[1 मध्ये- मु. अटी. बक. बख.।]
[2 किरणं - उ.।]
[3 शास्त्र- अ., शास्त्रं- उ.।]

विज्ञेयः शान्तिदः पाणिर्द्वादशानां तु साभयः ।
अन्तरान्तरयोगेन सर्वाश्चामरलाञ्छिताः ।। 56 ।।

स्वस्तिकेनोपविष्टाश्चाप्यन्तर्मुदितमानसाः ।
लक्ष्म्यादिद्विषट्कलक्षणमाह- विज्ञेय इत्यर्धेन। सर्वसाधारणं लक्षणमाह- अन्तरेति। अन्तरान्तरयोगेन दक्षिणहस्तधारणेनेत्यर्थः ।। 46-47 ।।

द्व्यादिकस्यास्य संघस्य द्वादशान्तस्य लाङ्गलिन् ।। 57 ।।

सितादिकेन वर्णेन लाञ्छनव्यत्ययेन तु ।
तुल्यलाञ्छनयोगेन तन्निरासे च वै सति ।। 58 ।।

वाराभयाभ्यामन्योन्यपाणिभ्यामथ केवलात् ।
बहुधा भेदवृन्दं तु परिज्ञेयं तु पूर्ववत् ।। 59 ।।

शेषं भवोपकरणं देवानां निचयो हि सः ।
सुप्रसिद्धो महाबुद्धे किन्त्वब्जाद्यैस्तु पूर्ववत् ।। 60 ।।

शक्तीशवत् शक्तीनामपि सितादिवर्णपद्मादिलाञ्छनव्यत्ययतुल्यलाञ्छनत्वादिभेदैर्बहुधा भेदा विज्ञेया इत्याह- द्व्यादिकस्येति सार्धद्वाभ्याम्। द्व्यादिकस्य श्रीपुष्टिद्विकपूर्वकस्येत्यर्थः। द्वादशान्तस्य लक्ष्मीपुष्टिदयादिद्विषट्कस्येत्यर्थः। संघस्येति जात्येकवचनम्। पञ्चसंघा[1]नामित्यर्थः। भवोपकरणदेवानां प्रसिद्धत्वात् तल्लक्षणानि सर्वत्र प्रसिद्धानि द्रष्टव्यानीति ।। 57-59 ।।
[1 संख्याना- मु.।]

शेषं भवोपकरणं देवानां निचयो हि सः ।
सुप्रसिद्धो महाबुद्धे किन्त्वब्जाद्यैस्तु पूर्ववत् ।। 60 ।।

ध्यातव्या लाञ्छिताः सर्वे पाणिपादतलेषु[1] च ।
नास्त्रैर्वस्त्रैर्ध्वजैर्येषां व्यक्तिर्व्यक्ता जगत्त्रये ।।
तेऽपि लाञ्छनवृन्दं तु धारयन्त्यङ्घ्रिगोचरे ।
ललाटे चांसपट्टे तु पृष्ठे पाणितलद्वये ।। (12/168-169)
इत्याद्युक्तप्रकारेण शक्तिभूषणास्त्रलाञ्छनानामप्यस्पष्टत्वे तत्पाणिपादतलादिषु तानि द्रष्टव्यानीति चाह- शेषमिति सार्धेन ।। 60-61 ।।
[1 तलादिषु- अ. उ.।]

भक्तिश्रद्धाव्रतपरः सर्वेषां यः सदैव हि ।। 61 ।।

ध्यात्वैवमर्चनं कुर्याद् भोगैः संस्पर्शपूर्वकैः ।
सोऽचिरान्मोक्षनिष्ठं तु फलं[1] प्राप्नोत्यभीप्सितम् ।। 62 ।।
एतेषामर्चनफलमाह- भक्तीति सार्धेन ।। 61-62 ।।
[1 लमाप्नो- बक. बख. अ. उ.।]

किरीटाद्यस्त्रनिष्ठेन परिवारेण चावृतम् ।
भक्त्या ह्यभीप्सितं रूपमर्चनीयमथापि वा ।। 63 ।।

निर्मुक्तपरिवारं वा स्वेन ध्यानेन लक्षितम् ।
एवं किरीटादिपरिवारध्यानैः सहितं वा तैर्विना केवलतत्तद्भगवन्मूर्तिध्यानमात्रेण वाऽन्वितमर्चनं कार्यमित्याह- किरीटेति सार्धेन ।। 63-64 ।।

विदधात्यर्चनान्नूनं स्वपदं[1] फलसंयुतम् ।। 64 ।।

ज्ञात्वैवं साधकः कुर्याद् यथाभिमतमर्चनम् ।
आत्मशक्तिसमैर्भोगैरखिलैः शुद्धविग्रहैः[1] ।। 65 ।।

हृदि वेद्यां बहिर्मूर्तौ प्रासादे स्वगृहे तु वा ।
बहुप्राकारनिर्मुक्ते धूमदाहादिनोज्झिते ।।
शरणे रमणीये च निःसम्पर्के तु भाविते ।। 66 ।।
उभयथाऽर्चनेऽपि भगवान् चतुर्विधपुरुषार्थानपि प्रयच्छतीति ज्ञात्वा स्वेच्छानुसारेण यथाशक्त्यार्जितैर्भोगैर्मनसि बहिर्वेद्यां बिम्बे वाऽऽलये स्वगृहे वाऽर्चनं कुर्यादित्याह- विदधातीति त्रिभिः ।। 64-66 ।।
[1 विग्रहः- अ. उ.।]

इति श्रीपा[1]ञ्चरात्रे श्रीसात्वतसंहितायां भूषणा[2]द्यस्त्रदेवताध्यानं[3] नाम त्रयोदशः परिच्छेदः ।।
इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये त्रयोदशः परिच्छेदः ।।
[1 पञ्च - उ.।]
[2 णास्त्र- अ. उ.।]
[3 ध्यानो- बक. बख., ध्यायो- अ.।]