सात्त्वतसंहिता/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १९ सात्त्वतसंहिता
अध्यायः २०
[[लेखकः :|]]
अध्यायः २१ →
सात्त्वतसंहितायाः अध्यायाः


विंशः[1] परिच्छेदः।।
नारद उवाच[2]
दीक्षालक्षणमुक्त्वैवं सीरिणं[3] चाथ[4] चक्रभृत्[5] ।
यथावच्च मुनिश्रेष्ठाः पुनरेवाब्रवीदिदम् ।। 1 ।।
अथ विंशः परिच्छेदो व्याख्यास्यते। भगवानेवं दीक्षालक्षणमुक्त्वा पुनरभिषेकमुपदिशतीत्याह- दीक्षेति ।। 1 ।।
[1 एकोनविंशः - अ.।]
[2 `उवाच' नास्ति- मु. अटी. उ.।]
[3 णश्चाथ- उ.।]
[4 चाधि- मु. अटी.।]
[5 युक्- बक. बख., धृक्- अ. उ.।]

अथ मण्डल[1]दृष्टस्य शास्त्रज्ञस्य यथार्थतः[2] ।
समाराधनसक्तस्य पुत्रकत्वं[3] गतस्य च ।। 2 ।।
अभिषेकेऽधिकारिणं तत्प्रयोजनं कालं चाह- अथेति द्वाभ्याम्। मण्डलदृष्टस्य दृष्टमण्डलस्येत्यर्थः, समयनिष्ठस्येति यावत्। "लब्धदर्शनमात्रो वै मन्त्रमूर्तेस्तु मण्डले[4]" (22/14) इति समयनिष्ठस्य लक्षणं वक्ष्यति। शास्त्रज्ञस्य तदनन्तरं शास्त्रव्यवसायपरस्येत्यर्थः,
ततः प्रभृति कालाच्च [5]सुप्रश्नच्च सुदेशिकात् ।।
पाठपूर्वं हि शास्त्रार्थमभ्यर्थयति योऽनिशम् । (22/15-16)
इति वक्ष्यमाणत्वात्। पुत्रकत्वं गतस्य "विज्ञाता गुरुणा यस्य" (22/29) इत्यारभ्य, "स शिष्यः पुत्रको नाम स्वपुत्रादधिकः सदा" (22/38) इत्यन्तं वक्ष्यमाणलक्षणविशिष्टस्येत्यर्थः। समाराधनसक्तस्य "पूर्ववल्लब्धदीक्षस्तु मन्त्राराधनतत्परः" (22/39) इत्यादिक्रमेण वक्ष्यमाणलक्षणविशिष्टस्येत्यर्थः। एवं मण्डलदृष्टस्येत्यादिविशेषणचतुष्टयविशिष्टस्य शिष्यस्य तत्कालं दीक्षानन्तरमेवाभिषेचनं कार्यमिति फलितार्थः।
नन्वेतदभिषेचनं विशेषणविशिष्टस्येति किं नियामकम्, समयिनः पुत्रकस्य साधकस्य वाऽभिषेकः कार्य इत्यर्थः सरसः। यतः श्रीजयाख्ये-
सेनापतिक्रमेणैव समयज्ञस्य सर्वदा ।
महामन्त्रत्वविधिना पुत्रकस्याभिषेचनम् ।।
युवराजविधानेन दातव्यः साधकस्य तु ।
राजोपचारविधिना अभिषेको गुरोः स्मृतः ।। (18/34-35)
इति साम[6]यिकादीनां चतुर्णामप्यभिषेकः प्रतिपादित इति चेत्, ब्रूमः - [3]जयाख्ये तेषां प्रत्येकमभिषेकप्रयोगभेदाश्च प्रतिपादिताः। अत्र तु केवलमाचार्याभिषेकविधानमुक्तम्। अतोऽस्मदुक्तार्य एव सरसः। न च तर्हि विशेषणानां वैय्यर्थ्यापत्तिः, समाराधनसक्तस्येत्येतावन्मत्रेणैव चारितार्थ्यादिति वाच्यम्, तत्तत्सर्वगुणविशिष्टस्यैवाभिषेकार्हत्वोक्त्या [7]सामर्थ्यात्। किञ्च, अत्र वक्ष्यमाणेषु[8] समयिपुत्रकसाधकलक्षणेषु जयाख्यवदभिषिक्तत्वं कुत्रापि न वक्ष्यति। आचार्यलक्षणेष्वेव- "लिङ्गैः पूर्वोदितैर्युक्तस्त्वभिषिक्तो विशेषतः" (22/44) इत्यभिषिक्तत्वं वक्ष्यति। अत एवै[9]तदुपबृंहणेश्वरतन्त्रे-
इत्येवमभिषेकस्तु भवेन्मुख्याधिकारिणाम् ।।
अन्ये तु दीक्षामात्रेण संस्कार्या मुनिपुङ्गवाः । (21/503-504)
इति सुस्पष्टं प्रतिपादितम्। पाद्मेऽपि-
शिष्यं सुतं वा सर्वज्ञमनसूयं[10] जितेन्द्रियम् ।
आचार्यवंशजन्मानं निग्रहानुग्रहक्षमम् ।।
शान्तिके पौष्टिके चैव कर्मणि क्षममर्थिनाम्[11] ।
वेदवेदान्ततत्त्वज्ञमाचार्यपदाकाङ्क्षिणम् ।।
देशिकेन्द्रो विधानेन क्क्ष्यमाणेन तत्त्ववित् ।
कर्षणादिषु सर्वेषु विधानेष्वधिकारिणम् ।।
कुर्यान्मण्डलपूजादि[12] कुम्भयागावसानिकम् ।।
इत्याचार्यवंशजानामेवाभिषेकः प्रतिपादितः, तेषामेव कर्षणादिष्वधिकारश्च ।। 2 ।।
[1 मण्ड(र्ण)स्य दृष्ट(प्ल)स्य- मु.।]
[2 इतः परम्- "तप्ताभ्यां शङ्खचक्राभ्यामङ्कितस्य भुजद्वये। सम्यग्धृतोर्ध्वपुण्ड्रस्य दत्तनाम्नश्च मन्त्रिणः।" इत्ययं श्लोकोऽधिको दृश्यते- मु. अटी.। मातृकास्वनुपलब्धेर्भाष्यकारेणाऽव्याख्यातत्वाच्च प्रक्षिप्तोऽयं श्लोक इति प्रतीयते।]
[3 पुत्रत्वं च- मु. अटी. बक. बख. अ.।]
[4 मण्डलः- अ. मु.।]
[5 सुप्रसन्नाच्च देशिकात्- मु.।]
[6 सामयिकानां- अ.।]
[7 अष्टादशः पटलो द्रष्टव्यः।]
[8 सार्थक्यादित्यर्थतया नेयः।]
[9 द्वाविंशे परिच्छेदे 2-58 श्लोकेषु।]
[10 `एव' नास्ति- अ.।]
[11 मनसोऽयं - अ.।]
[12 पूज्या- अ.।]

सिद्ध्यर्थं सर्वमन्त्राणामधिकाराप्तये तु वा ।
तत्कालं गुरुणा कार्यं सच्छि[1]ष्यस्याभिपेचनम् ।। 3 ।।
ननु तर्हि जयाख्ये[2] चतुर्वर्णानां चतुराश्रमिणां चतुर्विधशिष्याणां चाभिषेकः प्रतिपादितः। तत्र का गतिरिति चेत्, दत्तोत्तरमेतत्। जयाख्यनिष्ठानां सर्वेषामपि तारतम्येनाभिषेकः स्यात्। एतस्मिन्नाचार्याभिषेकमात्रस्योक्तत्वात् साधकाद्यभिषेकविधानानामनुक्तत्वाच्चैतन्निष्ठैराचार्याभिषेकमात्रमनुष्ठेयम्। यद्वा- अनुक्तमन्यतो ग्राह्यमिति न्यायेन साधकाभिषेकाद्यनुष्ठानेऽपि न प्रत्यवायः ।। 3 ।।
[1 यच्छिष्य- मु. अटी. बक. बख. उ.।]
[2 अष्टादशे पटले।]

भगवत्तत्त्ववेतॄणां पञ्चकालरतात्मनाम् ।
संहितापारगाणां च आचार्याणां च सन्निधौ ।। 4 ।।

यतीनां बद्धलक्ष्याणां साधकानां महात्मनाम् ।
देवस्य[1] पुरतः कुर्याच्चतुरश्रं तु मण्डपम्[2] ।। 5 ।।

सर्वोपकरणोपेतं मध्ये भद्रासनान्वितम् ।
तस्मिन् कुर्यादनन्ताद्यं सन्धानं त्वासनोदितम् ।। 6 ।।

पूजयित्वाऽर्घ्यपुष्पाद्यैस्ततो देवस्य सम्मुखम् ।
बद्धपद्मासनं शिष्यं तत्रारोप्य कृताञ्जलिम्[3] ।। 7 ।।

कान्ताभिर्गीयमानं तु स्तूयमानं च वन्दिभिः ।
शङ्खाद्यैर्ध्मायमानं तु पठ्यमानं तु मङ्गलैः ।। 8 ।।

जपमानं परं मन्त्रं ध्यायमान[4]मिवाच्युतम् ।
अष्टाङ्गेनार्चयित्वा तु कुम्भमादाय वैष्णवम् ।। 9 ।।

स[5] तत्रस्थेन मन्त्रेण सम्यक् सिद्धिव्यपेक्षया ।
सहस्रावर्तितं कृत्वा शतावर्तितमेव[6] वा ।। 10 ।।

सिद्धये द्रुतहेमाभं स्मृत्वा तमभिषिच्य च ।
स्वाहान्तमन्त्रमुच्चार्य प्लुतं हृत्कमलोदरात् ।। 11 ।।

एवमुक्त्वा नमोऽन्तं तु ध्यात्वा तं स्फटिकामलम् ।
समुत्कीर्य[7] खरन्ध्रेण तस्य हृत्पद्मगं स्मरेत् ।। 12 ।।

चिच्छक्ति[8]विग्रहं ब्रह्म त्वाह्लादा[9]नन्दलक्षणम् ।
समारोप्य धिया सम्यक् स्वाधिकारं तु चाखिलम् ।। 13 ।।

प्रतिपाद्यार्चितं शुद्धं दिव्यमागमसञ्चयम् ।
शुभमाराधनाधारमक्षसूत्रं च किङ्किणीम् ।। 14 ।।

स्रुक्स्रुवौ योगपट्टं च शङ्खचक्रे कमण्डलुम् ।
चमसं सार्घ्यपात्रं[10] च दर्भान् कृष्णाजिनं [11]ततम् ।। 15 ।।

पादुके पादपीठं च च्छत्रमासनदर्पणम्[12] ।
मायूरं[13] व्यजनं शुक्लं चामरं भगवद्ध्वजम् ।। 16 ।।

यथार्हदण्डसहितं काषाये क्षौमवाससी ।
समुत्थाप्यासनात् सर्वमाहृत्य स्नानजं जलम् ।। 17 ।।

विनिक्षिप्य शुचौ स्थाने देव[14]मम्यर्च्य वै ततः ।
तादर्थ्येन तु सन्तर्प्य पूर्णान्तं चाग्निमध्यगम् ।। 18 ।।
अथाभिषेकविधानमाह- भगवत्तत्त्ववेतॄणामित्यारभ्य पूर्णान्तं चाग्निमध्यगमित्यन्तम्। देवस्य पुरत इत्यत्र मण्डलस्थस्य[15] बिम्बस्थस्य वा देवस्येत्यर्थः। अनन्ताद्यमित्यत्राद्यपदेन धर्मज्ञानादयः संग्राह्याः। अष्टाङ्गेन अष्टोपचारैरित्यर्थः। वैष्णवं कुम्भं दीक्षार्थं स्थापितं महाकुम्भमित्यर्थः।
ननु दीक्षार्थं स्थापितं महाकुम्भमिति कोऽयं नियमः। यतो [16]जयाख्यपाद्मयोरभिषेकार्थं पृथक् कुम्भस्थापनमुच्यत इति चेन्न, अत्र पृथगनुक्तत्वात्, महाकुम्भस्य विनियुक्तत्वादेवोत्तरत्र- "क्षान्त्वा यथोक्तविधिना सकुण्डान्मण्डलान्तरात्" (20/19) इति केवलकुण्डमण्डलाभ्यामेव भगवद्विसर्जनस्य वक्ष्यमाणत्वाच्च।
ननु साधकस्य खल्वाचार्याभिषेकः कार्यः। साधकलक्षणं तु- "पूर्ववल्लब्धदीक्षस्तु मन्त्राराधनतत्परः" (22/39) इत्यादि वक्ष्यति। जयाख्येऽपि-
मन्त्रसिद्धिस्तु वै यस्य[17] विज्ञाता गुरुणा यदा ।
गुरुणा वै सोऽभिषिक्तस्ततः शिष्यः प्रसादतः ।। (17/46)
इति प्रतिपाद्यते। एवं दीक्षानन्तरं मन्त्रसिद्ध्यर्थं बहुकालमनुष्ठितव्रतस्य साधकस्य दीक्षार्थं स्थापितमहाकुम्भेनाभिषेकः कथं संघटते। अतोऽभिषेककालेऽपि कुम्भमण्डलाग्निष्वर्चनं कार्यम्। तदातनमहाकुम्भेनैवाभिषेकः सरस इति चेत्, स्थूलमनीषोऽसि। किमेकं शिष्यमुद्दिश्यैव दीक्षाप्रारम्भः क्रियते? बहूनुद्दिश्य क्रियमाणे दीक्षाक्रमे कांश्चित् समये नियोजयति, समयिनः पुत्रकपदे नियोजयति, पुत्रकान् साधकपदे नियोजयति, साधकानाचार्यपदेऽभिषेचयतीति सूक्ष्मदृष्ट्या द्रष्टव्यम्। नृसिंहदीक्षाप्रकरणे-
ततः शुचीन् सोपवासान् शोधितान् बद्धलोचनान् ।।
भक्तान् प्रवेशयेत् तत्र गृहीतकुसुमांस्तु वै । (17/115-116)
इति बहूनां युगपद्दीक्षाक्रममुक्तं किं न श्रुतवानसि। अन्यथा- "तत्कालं गुरुणा कार्यं सच्छिष्यस्याभिषेचनम्" (20/3) इत्युक्तः[18] कालः कथं संभवेत्। एकमेवोद्दिश्य क्रियमाणदीक्षाक्रमेऽपि भगवदनुग्रहवशात् सद्यस्तन्मन्त्रसिद्धिलिङ्गदर्शनादौ तत्कालं एवाभिषेकोऽपि संभवत्येव।
प्रक्षेपयेन्मण्डलान्तर्नेत्रबन्धं विमुच्य च ।।
अष्टाङ्गप्रणिपातैस्तु प्रदक्षिणयुतैस्ततः ।
देवश्चाग्निर्गुरुः कुम्भः पूजनीयः पुनः पुनः ।।
तत्कालं भक्तिभावेन विज्ञाता योग्यता यदा ।
तीव्रमन्दधियां तेषां तदा दीक्षां समाचरेत् ।। (17/116-118)
इति समयिपुत्रकाणां भक्त्यतिशये[19] तीव्रबुद्धित्वे च तदानीमेव दीक्षाचरणं सुस्पष्टं प्रतिपादितं हि।
ननु[20] पुत्रकाणां दीक्षाचरणकथनं[21] तत्र किं साधकमिति चेत्, [22]जरत्कुड्यदुःशङ्कापरिहरणं चतुर्मुखस्याप्यशक्यम् ।
कृत्वा निरीक्षणाद्यं च देवधाम्नि तु क्षेपयेत् ।
तुष्टो मन्त्रमयं सम्यक् सार्घ्यपुष्पाहिताञ्जलिः ।। (22/31)
इति वक्ष्यमाणलक्षणानुसारेण पुष्पाञ्जलिप्रक्षेपाद्यनन्तरं हि पुत्रकत्वं सिद्ध्यति। तदा[23] पुत्रकपदारूढस्यापि तदानीमेव दीक्षाचरणकथनं तत्र साधकं (कथं) न भवेत्, "सिद्धये द्रुतहेमाभम्" (20/11) इत्युक्तत्वात्। "ध्यात्वा तं स्फटिकामलम्" (20/12) इत्यत्र मुक्तय इति ज्ञेयम्। "स्वाहान्तं भोगसिद्ध्यर्थं नमोऽन्तं मोक्षसिद्धये" (19/85) इति पूर्वमेवोक्तं हि। यथार्हदण्डसहितं तत्तद्वर्णाश्रमविहितदण्डमित्यर्थः। एतेन "काषाये क्षौमवाससी" (20/17) इत्यपि व्याख्याते ।। 4-18 ।।
[1 वद्भक्तियुक्तानां- मु.।]
[2 अथ कुर्याद् गुरुः सम्यक्- मु. अटी.।]
[3 मण्टपम्- अटी.।]
[4 ञ्जलिः- मु. अटी.।]
[5 नं गुणाच्युतम्- अ.।]
[6 तत्त- अ.।]
[7 वर्तन- अ.।]
[8 उद्गीर्य कर्ण- मु. अटी.।]
[9 अप्शक्ति- बक. बख. अ. उ.।]
[10 त्वखिला- उ.।]
[11 चार्घ्य- अटी. अ.।]
[12 ततः- बक. बख. अ.।]
[13 दर्पणे- मु. अटी.।]
[14 मायूर- अ. उ., मयूर- बख.।]
[15 दैव- मु. बक. बख.।]
[16 मण्डलस्य- अ.।]
[17 जयाख्येऽष्टादशे पटले।]
[18 तस्य- मु.।]
[19 इत्युक्तेः- अ.।]
[20 शयतीव्रबुद्धित्वं- अ.।]
[21 न तु- मु.।]
[22 णे- कथं- मु.।]
[23 चर- अ.।]
[24 तथा- मु.।]

क्षान्त्वा पूर्वोक्तविधिना सकुण्डान्मण्डलान्तरान् ।
अर्घ्यपात्रसमूहाच्च बलिदानं समाचरेत् ।। 19 ।।

सोदकेन[1] च भूताना[2]मोदनेनास्त्रमुच्चरन् ।
बलि[3]मण्डलकं कृत्वा यागागाराच्च बाह्यतः ।। 20 ।।

कृत्वान्तर्बलिदानं तु प्रादक्षिण्येन वै पुरा ।
अथ ऊर्ध्व इदं चोक्त्वा शेषं तन्मण्डले बहिः ।। 21 ।।

नमोऽस्त्वच्युतभूतेभ्यः सर्वेभ्यः सर्वदैव हि ।
सदिक्पतिभ्यः सास्त्रेभ्यः [4]शान्तिर्नोऽस्त्वस्य वै शिशोः ।। 22 ।।
अथ कुण्डान्मण्डलादर्घ्यादिपात्रसमूहाच्च मन्त्रोपसंहारं बलिदानक्रमं चाह- क्षान्त्वेति चतुर्भिः। भूतानां कुमुदादीनामित्यर्थः। बलिमण्डलकं बलिदानार्थं गोमयोपलिप्तं स्थानमित्यर्थः ।। 19-22 ।।
[1 पङ्क्तिचतुष्टयं नास्ति- उ.।]
[2 भूतानां - अ.।]
[3 बलिं मण्डलतः- मु. अटी.।]
[4 शान्तये स्वस्य - बक. बख., पातृभ्यः स्वस्य- उ.।]

पूजाद्यमुपसंहृत्य दत्तशिष्टेन पूर्ववत् ।
वृत्त[1]मण्डलमध्ये तु सितपद्मोदरे ततः ।। 23 ।।

दत्तशिष्टैर्यजेद् देवं सर्वदेवगुरुं प्रभुम् ।
तर्पयित्वाऽग्निमध्ये तु कुर्यात् तस्य विसर्जनम् ।। 24 ।।

तदीयमथ निक्षिप्य क्ष्मावटे वा जलान्तरे ।
यागा[2]वनौ च तच्चक्रं द्वादशारं विचिन्त्य च ।। 25 ।।
अथ[3] विष्वक्सेनार्चनं तत्सन्तर्पणं[4] तद्विसर्जनं तन्निवेदितपरित्यागं चाह- पूजाद्यमिति सार्धद्वाभ्याम् ।। 23-25 ।।
[1 वृत्तं- अ. उ.।]
[2 पङ्क्तिद्वयं न दृश्यते- मु., यागावनौ च तच्चक्रमित्येतावानशो दृश्यते- अटी.।]
[3 `अथ' नास्ति- मु.।]
[4 `तत्' नास्ति- अ.।]

यागा[1]वनौ च तच्चक्रं द्वादशारं विचिन्त्य च ।। 25 ।।

न्यस्यात्मन्यर्घ्य [2]पुष्पाद्यैः समभ्यर्च्य तदन्तरे ।
करकं वारिसम्पूर्णमादाय[3] विनिवेश्य च ।। 26 ।।

तत्रेष्ट्वा वीर्यमन्त्रेण मध्ये मन्त्रास्त्रमुत्तमम् ।
मध्वम्बुपयसा पूर्णमपरं[4] शुभलक्षणम् ।। 27 ।।

तदग्रतो[5]ऽर्घ्यकलशं तन्मध्येऽस्त्रं च चक्रगम् ।
[6]तमभ्यर्च्य यथान्यायं कृत्वाऽष्टशतमन्त्रितम् ।। 28 ।।

वषट्पदनिरुद्धेन मूलमन्त्रेण तं पुनः ।
दद्यात् तदन्तः [7]सार्णेन प्राग्वत् पीयूषधारिणा[8] ।। 29 ।।

निर्निद्रीकरणं[9] कुर्यात् सर्वेषां मन्त्रवारिणा ।
तदम्बु[10]धारादानेन ध्यानोच्चारयुतेन च ।। 30 ।।

संविभज्याथ वैतेषां मन्त्रपानं सुधामयम् ।
सुधाद्यस्त्रवरं[11] पश्चात् समन्त्रं चक्रगं न्यसेत् ।। 31 ।।

आदाय[12] तं तोयकुम्भमस्त्रमन्त्रमुदीरयन् ।
भ्रामयेत् पूर्ववद्धारामथ मध्ये निधाय तम् ।। 32 ।।

सम्पूर्ण[13]मुदकेनैव कृत्वा फलसमन्वितम् ।
सुधापानप्रदानप्रकारमाह- यागावनौ च तच्चक्रमित्यारभ्य कृत्वा फलसमन्वितमित्यन्तम् ।। 25-33 ।।
[1 पङ्क्तिद्वयं न दृश्यते- मु., यागावनौ च तच्चक्रमित्येतावानशो दृश्यते- अटी.।]
[2 पूर्वाद्यैः- बक. बख.।]
[3 मवरं शुभलक्षणम्- मु. अटी.।]
[4 मादाय विनिवेश्य च- मु. अटी.।]
[5 तदस्र- मु. अटी.।]
[6 सम- अटी.।]
[7 सास्त्रेण पृथक्- बक. बख.।]
[8 णम्- मु. अटी. उ.।]
[9 निर्विघ्न- अ., निर्वज्री- उ.।]
[10 तमम्बु- उ.।]
[11 मयं- अटी.।]
[12 तत आदाय तत्तोयकुम्भमस्त्रमुदीरयत्- उ.।]
[13 सुपूर्ण- अ. उ.।]

गुरुयागमतः कुर्याच्छिष्यः प्रयतमानसः ।। 33 ।।

भगवद्यागवद् भक्त्या कर्मणा मनसा गिरा ।
यागोपयुक्तं सम्भारं तस्मै सर्वं निवेद्य च ।। 34 ।।

सशिरः पाणियुग्मं तु कृत्वा वै च[1] तदङ्घ्रिगम् ।
क्षान्तव्यः सुप्रयत्नेन श्रद्धापूतेन चेतसा ।। 35 ।।
गुरुपूजनमाह- गुरुयागमिति सार्धद्वाभ्याम्। गुर्वर्चनमन्त्रस्तु लक्ष्मीतन्त्रोक्तो ग्राह्यः-
अज्ञानगहनालोकसूर्यसोमाग्निमूर्तये ।
दुःखत्रयाग्निसन्तापशान्तये गुरवे नमः ।। (41/64) इति।
अस्मिन्नवसरे पादतीर्थपरिग्रहश्चोक्तो जयाख्ये-
प्रक्षाल्य सलिलेनाथ गुरोश्चरणपङ्कजे ।।
तेनात्मानं तु संसिच्य पिबेदञ्जलिना ततः ।। (18/84-85)
इति ।। 33-35 ।।
[1 चैव- अ.।]

पञ्चरात्रविदस्तद्वद् यतींश्च स्नातका[1]दिकान्[2] ।
सम्पूज्य विधिवद् दद्यात् तेषां शक्त्या च दक्षिणाम् ।। 36 ।।
सर्वषां भागवतानां दक्षिणादानादिकमाह- पञ्चरात्रेति ।। 36 ।।
[1 सनकादयः- उ.।]
[2 कादयः- बक. बख. अ.।]

संवाहनपरात् कालाद् लब्ध्वाऽनुज्ञां तु गौरवीम् ।
भ्रातृभिः सह चाश्नीयाद् बहुभिः पूर्वदीक्षितैः ।। 37 ।।

तथान्यैर्भगवद्भक्तैः सुहृत्सम्बन्धिबान्धवै ।
तदनन्तरं गुर्वनुज्ञया भ्रातृभिः सह भोजनमाह- संवाहनेति सार्धेन ।। 37-38 ।।

व्रजन्तं सह शिष्यैस्तु काले ह्यन्यत्र तत्र वा ।। 38 ।।

तदिच्छया ह्यनुव्रज्य[1] निवर्तेताथ वै यदा ।
कृत्वा तु पादपतनं बहुधा सम्प्रदक्षिणम्[2] ।। 39 ।।

आ मोक्षात् सर्वसिद्धीनां भक्तानां भावितात्मनाम् ।
परा गतिर्गुरुर्यस्मात् प्रसाद्यः स्मृत एव सः ।। 40 ।।
तस्मिन् कालेऽन्यत्र वाव्रज्या[3] गुरुणा सहानुव्रजनं पुनस्तदनुज्ञया निवर्तनकाले प्रणिपतनप्रदक्षिणादिभिर्गुरोः प्रसादीकरणं चाह- व्रजन्तमिति सार्धद्वाभ्याम् ।। 38-40 ।।
[1 प्यनु- अ. उ.।]
[2 सप्र- बख. उ.।]
[3 व्रजता- मु.।]

इति श्रीपाञ्चरात्रे[1] श्रीसात्वतसंहितायामभिषेकविधिर्नाम[2] विंशः[3] परिच्छेदः ।।
तिइ श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये [4]विंशः परिच्छेदः।।
[1 पञ्च- उ.।]
[2 `नाम' नास्ति- उ.।]
[3 विंशतिः - बख., एकोनविंशतिः - अ.।]
[4 विंशतिः - मु.।]