सात्त्वतसंहिता/अध्यायः २३

विकिस्रोतः तः
← अध्यायः २२ सात्त्वतसंहिता
अध्यायः २३
[[लेखकः :|]]
अध्यायः २४ →
सात्त्वतसंहितायाः अध्यायाः


(1)त्रयोविंशः परिच्छेदः
नारद उवाच(2)
कामपालेन देवेशस्त्वथ ब्राह्मणसत्तमाः।
चोदितो यत् तदधुना कथयामि समासतः।। 1 ।।
अथ त्रयोविंशः परिच्छेदो व्याख्यास्यते। इह संकर्षणेन वासुदेवो यत्पृष्टस्तत् कथयामीत्याह---कामपालेनेति।। 1 ।।
(1.द्वाविंशः--अ.)(2. स्थानत्रयेऽप्युवाचपदं नास्ति--मु. अटी.।)
सङ्कर्षण उवाच(3)
ज्ञातो विभवदेवानां देव बीजगणो मया।
अधुना ज्ञातुमिच्छामि तत्पिण्डनिचयो हि यः।। 2 ।।
प्रश्नप्रकारमाह--ज्ञात इति।। 2 ।।
(3. स्थानत्रयेऽप्युवाचपदं नास्ति--मु. अटी.।)
श्रीभगवानुवाच(4)
यथाक्रमोदितानां च देवानां विनिबोधतु।
पिण्डमन्त्रगणं मत्तः सावधानेन चेतसा।। 3 ।।
एवं पृष्टो वासुदेवः पिण्डमन्त्रान् शृण्वित्याह--यथेति। यथाक्रमोदितानां देवानां पद्मनाभध्रुवाणामित्यर्थः(5)।। 3 ।।
(4. स्थानत्रयेऽप्युवाचपदं नास्ति--मु. अटी.।)(5.ध्रुवादीनामिति पठनीयम्।)
तदधश्चोत्तरं चाक्षादरान्तेन विभूषयेत्।। 4 ।।
अथोत्तरं चाक्षदेशादादाय तदधो न्यसेत्।
बीजं (1) नेमेर्द्वितीयं (2) यन्मध्यान्मध्यं तदासने।। 5 ।।
आधारषष्ठसंरूढं(3) कुर्याद् वै नाभिसप्तकम्(4)।
अष्टमं (5) च तदूर्ध्वे तु एतद् विद्धि तृतीयकम्।। 6 ।।
नाभ्यष्टममथादाय अरात् षष्ठासनस्थितम्।
ततो नाभिद्वितीयस्य क्रमेणाधो निवेश्य च।। 7 ।।
तदुद्देशात् तृतीयं च सप्तमं तुर्यमेव च।
अथादाय च नेमेः प्राक् तदधो नाभिसप्तमम्।। 8 ।।
तस्याप्यधस्तदुद्देशात् तृतीयं विनिवेश्य च।
ततस्तु नवमं नाभेस्तस्योर्ध्वाधोगतं न्यसेत्।। 9 ।।
तत्रैव यद् द्वितीयं तु तत्पिण्डं विद्धि सप्तमम्।
अरात् षष्ठस्य चोर्ध्वे तु नाभिपूर्वं तु विन्यसेत्।। 10 ।।
सप्तमं चाष्टमं चापि ह्युपर्युपरि वै क्रमात्।
अथाष्टमं नाभिदेशादारूढं सप्तमोपरि।। 11 ।।
तदधो मध्यगं (6) (7) चाक्षान्नवमं परिकीर्तितम्।
भूयोऽरात् पञ्चमस्योर्ध्वे दद्यान्नाभितृतीयकम्।। 12 ।।
बाह्यात् तृतीयं तन्मूर्ध्ना पिण्डोऽयं दशमः स्मृतः।
द्वितीयं नाभिदेशाच्च तत्तृतीयं तदूर्ध्वगम्।। 13 ।।
नेमेराद्यन्तमूर्ध्वे(8) तु स्मृतमेकादशं त्विदम्।
अथो(9) नाभिचतुर्थस्य सप्तमं विनिवेश्य च।। 14 ।।
तदधो नेमिपूर्वं तु एतद् द्वादशमं स्मृतम्।
नेमेस्त्रिदशमादाय तदधो योजयेत् क्रमात्।। 15 ।।
सप्तमं च चतुर्थं च पूर्वं(10) नाभेर्महामते।
(11) अरषष्ठासनाः(12) सर्वे पिण्डमेतत् त्रयोदशम्।। 16 ।।
नाभेश्चतुर्थमादाय तदूर्ध्वे सप्तमं न्यसेत्।
नवमं चापि तन्मूर्ध्नि एतद्विद्धि चतुर्दशम्।। 17 ।।
नेमेश्चतुर्थसंख्यस्य ऊर्ध्वाधोभ्यां निवेश्य च।
वर्णं(13) नाभिद्वितीयं यत्(14) तत्पञ्चदशमं स्मृतम्।। 18 ।।
यद्विंशसंख्यकं(15) बाह्यादादायाराख्यमण्डलात्।
सान्तिमेन च षष्ठेन युक्तं (16) कुर्यादनन्तरम्।। 19 ।।
नेमेः सप्तमवर्णस्य (17) ऊर्ध्वाधोभ्यां निवेश्य च।
नाभिदेशाद् द्वितीयं यद् विद्धि सप्तदशं तु तत्।। 20 ।।
नवमं नाभिदेशाच्च सप्तमस्योपरि न्यसेत्।
अथाष्टमं(18) नाभिदेशात् कुर्यात् सप्तममूर्ध्वगम्।। 21 ।।
द्वितीयमपि (19) तस्याधस्तस्माद् वै नाभिमण्डलात्।
अरात् (20) त्रयोदशादूर्ध्वे(21) न्यूनविंशतिमं तु तत्।। 22 ।।
नाभेश्चतुर्थं तस्योर्ध्वे तत्तृतीयं तदूर्ध्वगम्।
तत्रैव सप्तमं यद् वै विद्धि विंशतिमं त्विदम्।। 23 ।।
द्वितीयस्याष्टमं नाभेर्वर्णस्योर्ध्वे नियोज्य च।
अरात् षष्ठं च तस्याधः कुर्यात् तदनु लाङ्गलिन्।। 24 ।।
नवमं नाभिदेशाच्च तृतीयस्योपरि न्यसेत्।
(22) द्वितीयं तदधः कुर्यात् त्रयोविंशतिमं शृणु(23)।। 25 ।।
अष्टमं सप्तमं नाभेर्द्वितीयं प्रथमं ततः।
क्रमेण योजयेच्चैव अरात् षष्ठस्य मूर्धनि।। 26 ।।
नेमेः सप्तममादाय तदधो नाभिसप्तमम्।
तत्तृतीयं च तस्याधश्चतुर्विशतिमं स्मृतम्।। 27 ।।
नाभेस्तृतीयं तस्योर्ध्वे द्वितीयं तस्य चोपरि।
निवेश्य नेमिपूर्वं तु षड्‌विंशमधुनोच्यते।। 28 ।।
अरात् षष्ठासनं कुर्याद् वर्णं(24)नाभितृतीयकम्।।
तदूर्ध्वे सप्तमं चैव अतोऽन्यमवधारय।। 29 ।।
न्यूनं ष़ड्‌विंशतिं(25) नेमेस्तस्योर्ध्वाधोगतं न्यसेत्।
सप्तमं नाभिवर्णेभ्यस्त्वरवर्गाच्च पञ्चमम्।। 30 ।।
नेमेराद्यद्वितीयं(26) च आदाय तदधो न्यसेत्।
मध्यमक्षान्महाबुद्धेरष्टाविंशतिमं स्मृतम्।। 31 ।।
नवमं सप्तमं नाभेस्तृतीयं च तृतीयकम्(27)।
अथोत्तरस्थमक्षाच्च आदाय तदधो न्यसेत्।। 32 ।।
तृतीयं च द्वितीयं च नाभिदेशादनन्तरम्।
नाभिद्वितीयमादाय सप्तमं तुर्यमेव च।। 33 ।।
तृतीयस्याथ वै नाभेर्बाह्यादाद्यं(28) तु मूर्धगम्।
ततस्तु(29) नवमं नाभेरक्षमध्यस्थमूर्ध्वगम्।। 34 ।।
अष्टमस्याथ(30) वै नाभेरथ(31) ऊर्ध्वे द्वितीयकम्।
दद्यात् तदन्वरात् षष्ठं तस्यैवाधौगतं तु वै।। 35 ।।
अरात् षष्ठस्य चोर्ध्वे (32) तु नाभिपूर्वं च तत्परम्।
विनिवेश्याष्टमं चापि षट्‌त्रिंशमवधारय।। 36 ।।
सप्तमं च तृतीयं च चतुर्थं नाभिमण्डलात्।
योजयित्वा तदूर्ध्वे (33) चाप्यराणां त्रिदशं न्यसेत्।। 37 ।।
अथवा(34) नवमं नाभेस्तृतीयं च द्वितीयकम्।
तत्सप्तत्रिंशकं विद्वि नाभिदेशादथाहरेत्(35)।। 38 ।।
अरात् (36) षष्ठासनं पूर्वं द्वितीयं च तदूर्ध्वतः।
नवमं चापि तस्योर्ध्वे पिण्डास्त्वद्यादिमं(37) विना।। 39 ।।
अरान्ताद्येन वै मूर्ध्ना सर्वे कार्या ह्यलङ्कृताः।
नमोऽन्ताः प्रणवाद्याश्च युक्ताः संज्ञापदैः स्वकैः।। 40 ।।
तेषामुद्धारक्रममाह--नाभेरष्टमबीजं यदित्यारभ्य नमोऽन्ताः प्रणवाद्याश्च युक्ताः संज्ञापदैः स्वकैरित्यन्तम्। नाभेरष्टमबीजं यद् हकारं तत्सप्तमोपरि सकारोपरि स्थितं कृत्वा तदधः सकारस्याधस्ताद् अक्षरादुत्तरं नकारं संयोज्य अरान्तेन विसर्गेण भूषयेत्। पद्मनाभस्य पिण्‍डाक्षरमिदम्। उत्तरत्राप्येवंरीत्या बोध्यम्। तथा चैषां प्रयोगः---ह्‌स्‌नः, न्खमं, ह्‌स्‌सूं, हूं, ल्स्वं, क्स्लं, क्ष्रं ,ह्‌स्‌यूं, ह्‌स्‌सं, ग्लुं, क्स्रं, ख्स्‌कं, क्स्व्यं, क्ष्स्वं, क्ष्वं, घ्रं, भ्रुं, द्‌भ्रं, क्ष्सं, स्स्रों, स्ल्‌वं, ह्रूं, क्ष्लुं, ह्‌स्‌यूं, ज्‌स्वं, क्यं, स्त्र्यूं, स्वूं, क्‌ख्मं, ह्‌र्‌लं, न्य्रं, स्वं, क्षं, क्ष्मं,ह्रूं, ह्यूं, स्ल्वों, क्ष्‌रुं, क्ष्‌रूं।
इत्यष्टत्रिंशत् पिण्डमन्त्राः। अत्राद्यं पिण्डं विनाऽन्ये सर्वेऽप्यनुस्वारेण योज्याः प्रणवादिनमोन्ताश्च चतुर्थ्यन्तपद्मनाभादिसंज्ञायुक्ताश्च कार्याः।। 4--40 ।।
(1.नेमिद्वि--बख. उ.।) (2.यत् पद्भ्यां (पद्मां) मध्ये--मु. अट
ी.।) (3.षष्ठं--मु. अटी.।) (4.मम्--मु. अटी. अ.।) (5.श्लोकचतुष्टयं नास्ति--मु. अटी.।) (6.मध्यमं--मु. अटी. बक.।)(7.चाक्षन--मु. अटी. बख.।)(8.राद्यं तदू--अ.)(9.अधो--मु. बक. बख. उ.।) (10.पुनर्ना--मु. अटी. बक.।) (11.अराः--मु., अरात्--अटी.।) (12. षष्ठसमाः--अ.।) (13.यस्तु--अ., वर्ण-उ.।) (14.तत्--मु. अटी.।) (15.संख्याकं-मु. बक. बख.।) (16.वृत्तमाया--मु. अटी.।)(17. ऊर्ध्वाधः सन्नि--अ. उ.।) (18.यथा--मु. अटी.।) (19.तस्याथ--मु.।) (20.अस्य--मु. अटी.।) (21.शं चो-बख. अ. उ.।) (22. द्वितीयस्त--मु.।) (23. स्मृतम्--मु. अटी.।)(24.वर्ण--मु. अटी. बक. बख. अ.।)(25.विंशतिनेमेस्तु त-बख., विंशतिनेमेर्यत्-अ. उ.।) (26.राद्यं--अ., राद्या-उ.।) (27.द्विती-अ. उ.।) (28.रथ मध्यस्थ-बक., र्बाह्यादाद्यन्त--उ.।) (29.पङ्‌क्तिरेषा न दृश्यते--मु. अटी. बक.।) (30.अक्ष--मु. अटी.।)(31.रध--अ. अटी.।) (32.र्ध्वेऽथ--बख. अ. उ.।) (33.तु अ-बक. बख. अ. उ.।) (34. अथ यत्र--बख. अ. उ.।) (35.नाभिं च दशमं तथा--उ.।) (36.अथ--उ.।) (37.स्त्वित्या--अ., स्त्वत्या--उ.।)
अरान्ताद्यं विना यस्य च ऊर्ध्वे वर्तते(1) स्वरः।
अधो वा नाभिपूर्वेण सह(2) वा केवलं हि तम्।। 41 ।।
अपास्य च ततः कुर्यात् सर्वेषां पूजनाय च।
स्वेन स्वेन तु पिण्डेन सिंहवच्चाङ्कल्पनम्(3)।। 42 ।।
नमः प्रणवसंज्ञाऽस्या(4) जातिः(5) कर्मवशात् पुनः।
आ तदुक्तात् (6)तु यजनाद् मोक्षनिष्ठः समाचरेत्।। 43 ।।
बीजपिण्डपदोत्थानां विनियोगं तु चाखिलम्।
किन्त्वेषां वैभवी मुद्रा देयाऽऽराधनकर्मणि।। 44 ।।
तदङ्गमुद्राश्चाङ्गानां योज्या मन्त्रैः स्वकैः सह(7)।
सर्वं (8) साधारमुद्दिष्टं सैंहमन्त्रोदितं मया।। 45 ।।
दीक्षापूर्वं हि मन्त्राणां(9) चतुर्वर्गं (10) हि साधनम्।
अथ तत्तत्पिण्डं विहायाकारादिस्वरैः पूर्वोक्तविश्वत्रातृनृसिंहमन्त्रवद् हृदयाद्यङ्गकल्पनां सर्वेषां मन्त्राणामप्यविशेषेण दशमपरिच्छेदोक्त(10/48) वैभवमुद्राप्रदर्शनं हृदयादीनां नृसिंहकल्पोक्त(17/17-106) तत्तन्मुद्राप्रदर्शनं नृसिंहमन्त्रवदेव तेषामपि दीक्षापूर्वमर्चनादिभिश्चतुर्विधपुरुषार्थसाधनं चाह--अरान्ताद्यं विना यस्येत्यारभ्य चतुर्वर्गं हि साधनमित्यन्तम्।। 41--46 ।।
(1. वर्धते--मु. अटी. बक. बख.।)(2.सहसा--मु. अटी. बक.।) (3.ना--बक. बख. उ.।) (4.ज्ञाढ्यां--अ. उ.।) (5.जातिं--मु. अटी., मतिः--अ. उ.।) (6. क्त्या तु--बक. अ. उ.) (7. स्वकैः--अ.।) (8.`सर्वं साधारमुद्दिष्टं' नास्ति--मु. अटी.।) (9.चातु--मु. अटी. बक. बख.।) (10. तथासनम्--मु. अ.।)
लक्षणं पदमन्त्राणामथेदानीं निबोधतु।। 46 ।।
यैर्विना लब्धसत्तानामर्चनं हि न जायते।
विश्वातीताय विमलं(1) पदं विद्याविधायिने।। 47 ।।
पद्मनाभाय वै विश्व्यापिने तदनन्तरम्।
चतुर्विंशाक्षरं विद्धि एतत्संख्यं परं शृणु।। 48 ।।
ज्योतीरूपाय पञ्चार्णं पदं गगनमूर्तये।
ध्रुवाय दद्यात् तदनु परमं त्र्यक्षरं ततः।। 49 ।।
पदप्राप्तिचतुर्वर्णं हेतवे त्र्यक्षरं त्विति।
अनन्ताय पदं दद्यात् ततोऽपरिमिताय च।। 50 ।।
सर्वाश्रयाय तदनु तदन्ते धृतशक्तये।
एतद्विंशतिसंख्यं (2) च द्वाविंशार्णमतः(3) शृणु।। 51 ।।
नमो भगवते कृत्वा वासुदेवाय वै ततः।
सर्वशक्त्यात्मनेऽनन्तमूर्तये तु पदं त्विति।। 52 ।।
(4) वीर्यात्मने महाशप्दं पुरुषाय पदं ततः।
मोहमाया पदं चैव ततो विध्वंसिने तु वै।। 53 ।।
सदोदिताय शब्दं तु सर्वशक्तिपदं ततः।
नियोक्तव्यं चतुर्वर्णं सप्तविंशाक्षरं स्मृतम्।। 54 ।।
पदं वेदविदे विश्वरञ्जकाय(5) ततो भवेत्।
तदन्ते विश्वपतये ततो वै परमात्मने।। 55 ।।
एष विंशतिभिर्वर्णैः शृणु सप्तदशाक्षरम्।
ज्ञानात्मने पदं कुर्यात् संविच्छब्दमतः परम्।। 56 ।।
पदं प्रकाशाशयाय(7) शान्तरूपाय वै ततः।
अनन्तशक्तये सर्वव्यापिने तदनन्तरम्।। 57 ।।
जगन्मयाय तदनु विश्वरूपाय वै पदम्।
एकविंशतिभिर्वर्णैरयमुक्तोऽपरं शृणु।। 58 ।।
सत्सत्त्वपदमादाय गुहाशयपदं ततः।
ततः परमहंसाय ततो मानसचारिणे।। 59 ।।
न्यूनविंशत्यक्षरश्चैवाथातो(8) यज्ञमूर्तये।
पदमादाय तदनु विश्वान्तर्विर्तिने तु वै।। 60 ।।
ततो भुवनशब्दं तु वराहाय पदं त्वथ।
विभूतिस्वामिने चेति चतुर्विंशक्षरस्त्वयम्।। 61 ।।
नमो भगवते दद्यात् ततो वै वाडवाग्नये(9)।
जगज्जलेन्धनपदं(10) प्रदीप्तपदमेव तु।। 62 ।।
वीर्याय फट् तदन्ते तु एतत्संख्यस्त्वयं स्मृतः।
सर्वान्तश्चारिणे दद्यात् प्रसन्नपदमेव च।। 63 ।।
मूर्तयेऽथ तदन्ते वै दद्याद् धर्मात्मने पदम्।
षोडशाक्षरमेतद् वै अतो गुह्यतमं शृणु।। 64 ।।
सर्वविद्येश्वरायाथ दद्यात् वाक्पतये ततः।
पदं वद(11) वदादाय ततो वाग्विभवं त्विति।। 65 ।।
न्यूनविंशाक्षरो ह्येष त्वपरं कथयामि ते।
योगैश्वर्यप्रदायाथ (13) योगनिद्रारसाय(14) वै।। 66 ।।
निरताय (15) पदं दद्याद् भगवज्यलशायिने(16)।
त्रिरष्टवर्णसंख्यश्च अयमेकाधिकस्तु वै।। 67 ।।
भगवत्पदमादाय अनन्तबलशक्यते।
तेजोमयाय भुवनभृतेऽथ द्व्यक्षरं पदम्।। 68 ।।
तदन्ते विनियोक्तव्यं पदं वै कच्छपात्मने।
ष़ड्विंशार्णमिमं विद्धि मन्त्रं मन्त्रविदांवर।। 69 ।।
यज्ञाङ्गदेहायाद्याय(17) महापदमतः परम्।
वराहाय ततो दद्यात् पुराणपुरुषाय वै।। 70 ।।
दद्यात् ततः प्रजाशब्दं तदन्ते पतये पदम्।
चतुर्विंशक्षरं मन्त्रमेतन्मतन्त्रविदांवर।। 71 ।।
नमो भगवते कृत्वा(18) नारसिंहाय वै ततः।
तेजोनिधे पदं दद्यात् पदं हनहनेति च।। 72 ।।
ततो विकर्मजात्यं(19) वै शब्दं पञ्चाक्षरं भवेत्।
दुष्कृतं हि तदन्ते वै सप्तविंशाक्षरस्त्वयम्।। 73 ।।
आदायामृतमूर्ते वै ततो ज्ञानबलात्मने।
सर्वेश्वराय भगवन्न्यूनविंशक्षरस्त्वयम्।। 74 ।।
आदाय पुण्डरीकाक्षपदं वै परमेश्वर।
ततः सकलशब्दं तु सुखमौभाग्य वै पदम्।। 75 ।।
(22) निधे वाञ्छितशब्दं तु ततः सिद्धिप्रदेति वै।
पदं चाखिलदुः खेति ततस्तु शमनाग्नये।। 76 ।।
आनन्दसुन्दरपदं ततो लक्ष्मीपदं न्यसेत्।
पतये शब्दमुच्चार्य पञ्चाशार्णस्त्रिरुज्झितः।। 77 ।।
सदसत्पदमादाय मूर्तये तदनन्तरम्।
विश्वोत्तमाय तदनु ततोऽमृतनिधे तु वै।। 78 ।।
षोडशार्णस्त्वयं मन्त्र उक्तः कान्तात्मनो(23) विभोः।
पुरुषोत्तमाय शब्दं तु ततोऽप्रतिहतेति(24) च।। 79 ।।
शक्तयेऽथ(25) पदं दद्यत् सर्वेश्वरपदं ततः।
समग्रोग्रभयेत्यत्र निवारणपदं(26) ततः।। 80 ।।
सप्तविंशाक्षरो मन्त्र उक्तश्चातः परं शृणु।
नियन्त्रे पदमुद्‌धृत्य तदन्ते विश्वहेतवे।। 81 ।।
परब्रह्मसमेतं च सेतवे ओमनन्तरम्।
मन्त्रो द्विरष्टवर्णश्च कथितो वच्म्यतः परम्।। 82 ।।
पदमप्रतिमेत्यादौ ब्रभावं तदनन्तरम्।
महाविभूते तदनु महामायापदं ततः।। 83 ।।
अथ दर्शकशब्दं तु तदन्ते तालकेतवे।
चतुर्विंशाक्षरो मन्त्रस्त्वयमुक्तः समासतः।। 84 ।।
शान्तात्मने पदं दद्यात् तदन्ते यम विन्यसेत्।
नियमाश्रयाय दद्यात् परमर्धिप्रदाय च।। 85 ।।
नारायणाय शब्दं तु(27) पूर्वसंख्यासमं स्मृतम्।
भवभङ्गपदं चैव कारिणे तदनन्तरम्।। 86 ।।
ततो भगवते शब्दं दत्तात्रेयाय वै ततः।
वर्णाश्रमपदं चाथ धर्मशब्दमतः परम्।। 87 ।।
परिग्रहाय प्रणवमष्टाविंशाक्षरः स्मृतः।
सर्वलोकमयायेति सर्वज्ञाय पदं ततः।। 88 ।।
सर्वेश्वराय न्यग्रोधशयनाय पदं त्वथ।
त्रयोविंशत्यक्षरश्च त्वयमन्यं निबोधतु।। 89 ।।
भूतशब्दमथादाय भावनाय पदं(31) ततः।
(32) शब्दं विश्वात्मने चाथ विमलेतिपदं ततः।। 90 ।।
(33) निकेतनाय तदनु कन्धराय पदं ततः।
अयं विंशतिभिर्वर्णैर्द्व्यधिकैर्मन्त्रराट् स्मृतः।। 91 ।।
विष्णवे पदमादाय निरस्तास्त्राय वै ततः।
पदं ब्रह्ममयायाऽथ जटिने दण्डिने ततः।। 92 ।।
दद्याद् विदितशब्दं वै तदन्ते विभवाय च।
षड्‌विंशार्णस्त्वयं मन्त्रः परमस्मान्निबोधतु।। 93 ।।
(34) सर्वशब्दमथादाय व्यापिने तदनन्तरम्।
पदं सहस्रार्चिषे तु दद्यात् पञ्चाक्षरं शुभम्।। 94 ।।
त्रिविक्रमायाथ पदं ततोऽपरिमितेति(35) च।
(36)प्रभावाय पदं दद्यात् त्रयोविंशाक्षरः स्मृतः।। 95 ।।
नरनाथाय शब्दं तु पुरुषप्रवराय वै।
आत्मध्यानपरायेति णाय वै द्व्यक्षरं ततः।। 96 ।।
एकविंशाक्षरो मन्त्रस्त्वतोऽन्यमवधारय(38)।
नारायणाय शब्दं तु दद्यान्निरति वै पदम्।। 97 ।।
शयानन्दमयायेति पदं निरभिमान वै।
पदासक्ताय तदनु पञ्चविंशाक्षरस्त्वयम्।। 98 ।।
पराय पदमादाय ततो वै परमात्मने।
योगेश्वराय हरये मन्त्रोऽयं षोडशाक्षरः।। 99 ।।
सप्तार्णं पदमादाय प्राङ्नमः परमात्मने।
कृष्णाय शब्दं तदनु कमलं त्र्यक्षरं ततः।। 100 ।।
दलशब्दं तु विततनेत्राय तदनन्तरम्।
ब्रह्मिष्ठाय ब्रह्मणे वै अष्टाविंशाक्षरस्ततः(39)।। 101 ।।
भगवन्(40) पदमादाय युगान्तदहनेति च।
दीप्तयेऽथ पदं दद्यात् संसारपदमेव हि।। 102 ।।
बन्धविच्छेदकर्त्रे वै द्वाविंशार्णस्त्वयं स्मृतः(41)।
पदं चतुर्मूर्तये वै चतुर्गतिमयाय च।। 103 ।।
शरशार्ङ्गभृते दद्याच्छरदिन्दीवरत्विषे।
ततो भगवते दद्यादभिरामपदं ततः।। 104 ।।
शरीराय पदं चैव त्वष्टत्रिंशाक्षरः स्मृतः।
दद्याद् विशदशब्दं(42) वै परमार्थपदं ततः।। 105 ।।
ततो वेदविदे शब्दं विदुषे व्यापकाय च।
स्वामिंस्तदनु वै दद्याद् द्व्यक्षरं चापरं पदम्।। 106 ।।
अयं विंशतिभिर्वर्णैरुक्तस्त्वन्यमतः शृणु।
दद्याद् गरुडशब्दं तु तदन्ते वाहनेति च।। 107 ।।
सर्वशस्त्रास्त्रोद्यतेति (46) शमयाऽशुभमेव च।
ततो धुन धुनादाय कर्मबन्धांस्ततो वदेत्।। 108 ।।
धर्मं पाहि ततो दद्याद् जह्यधर्मं ततो(47) वदेत्।
चतुस्त्रिंशाक्षरो(48) मन्त्र एष वक्ष्याम्यतः परम्।। 109 ।।
संहारमूर्तये शब्दं कालवैश्वानरार्चिषे।
पातालशयनायेति त्वज्ञाननिगडेति(49) वै।। 110 ।।
निचयं हन वीप्साऽतः प्रणवं तदनन्तरम्।
पञ्चत्रिंशाक्षरो ह्येष(50) सर्वसिद्धिकरः स्मृतः।। 111 ।।
प्रणवालङ्कृताः सर्वे नमस्कारविभूषिताः।
संस्मृताः पूजिताश्चैव ध्याता जप्ता विशेषतः।। 112 ।।
तन्नास्ति यन्न यच्छन्ति भक्त्या सत्कर्मणां(51) भुवि।
अथ लाञ्छनमन्त्राणां सास्त्राणां(52) लक्षणं शृणु।। 113 ।।
अथ पदमन्त्रानाह--लक्षणं पदमन्त्राणामित्यारभ्य भक्त्या सत्कर्मणां भुवित्यन्तम्। तथा चैषां प्रयोगः---ॐ विश्वातीताय विमलविद्याविधायिने पद्मनाभाय विश्वव्यापिने नमः। ॐ ज्योतीरूपाय गगनमूर्तये ध्रुवाय परमपदप्राप्तिहेतवे नमः। ॐ अनन्तायाऽपरिमिताय सर्वाश्रयाय धृतशक्तये नमः। ॐ नमो भगवते वासुदेवाय सर्वशक्त्यात्मनेऽनन्तमूर्तये नमः। ॐ(6) वीर्यात्मने महापुरुषाय मोहमायाविध्वंसिने सदोदिताय सर्वशक्तये नमः। ॐ वेदविदे विश्वरञ्जकाय विश्वपतये परमात्मने नमः। ॐ ज्ञानात्मने संवित्प्रकाशाशायाय शान्तरूपाय नमः। ॐ अनन्तशक्तये सर्वव्यापिने जगन्मयाय विश्वरूपाय नमः। ॐ सत्सत्त्वगुहा(12) (शया) य परहंसाय मानसचारिणे नमः। ॐ यज्ञमूर्तये विश्वान्तर्वर्तिने भुवनवराहाय विभूतिस्वामिने नमः। ॐ नमो भगवते वडवाग्नये जगज्जलेन्धनप्रदीप्ततीर्याय फट् नमः। ॐ सर्वान्तश्चारिणे प्रसन्नमूर्तये धर्मात्मने नमः। ॐ सर्वविद्येश्वराय वाक्‌पतये वद वद वाग्विभवं नमः। ॐ योगैश्वर्य प्रदाय योगनिद्रारसाय नीरदाय भगवज्जलशायिने नमः। ॐ भगवदनन्तबलशक्तये तेजोमयाय भुवनधृते कच्छपात्मने नमः। ॐ यज्ञाङ्गदेहाय महावराहाय पुराणपुरुषाय प्रजापतये नमः। ॐ नमो भगवते नारसिंहाय तेजोनिधये हन हन विकर्मजात्यं(20) दुष्कृतं नमः। ॐ अमृतमूर्ते ज्ञानबलात्मने सर्वेश्वराय भगवन्नमः। ॐ पुण्डरीकाक्ष परमेश्वरसकलसुखसौभाग्यनिधे वाञ्छितसिद्धिप्रदाखिलदुः खशमनाग्नये आनन्दसुन्दरलक्ष्मीपतये नमः(21)। ॐ सदसन्मूर्तये विश्वोत्तमायामृतनिधये नमः। ॐ पुरुषोत्तमायाप्रतिहतशक्तये सर्वेश्वराय समग्रोग्रभयनिवारणाय नमः। ॐ नियन्त्रे विश्वहेतवे परब्रह्मसेतवे ॐ नमः। ॐ अप्रतिमप्रभावमहाविभूते (28) महामायादर्शकतालकेतवे(29) नमः। ॐ शान्तात्मने यमनियमाश्रयाय परमर्धिप्रदाय(30) नारायणाय नमः। ॐ भवभङ्गकारिणे भगवते दत्तात्रेयाय वर्णाश्रमधर्मपरिग्रहाय ॐ नमः। (38) ॐ सर्वज्ञाय विश्वात्मने विमलसर्वेश्वराय न्यग्रोधशयनाय नमः। ॐ भूतभावनाय विश्वात्मने विमलनिकेतनाय नमः। ॐ विष्णवेः निरस्तास्त्राय ब्रह्ममयाय विश्वात्मने विमलनिकेतनाय कन्धराय नमः। ॐ सर्वव्यापिने सहस्रार्चिषे त्रिविक्रमायाऽपरिमितप्रभावाय नमः। ॐ नरनाथाय(43) पुरुषप्रवराय आत्मध्यानपरायणाय नमः। ॐ नारायणाय निरतिशयानन्दमयाय निरभिमानपदासक्ताय (44) नमः। ॐ पराय परमात्मने योगेश्वराय हरये नमः। ॐ नमः। परमात्मने कृष्णाय कमलदलविततनेत्राय ब्रह्मिष्ठाय ब्रह्मणे नमः। ॐ भगवन् युगान्तदहनदीप्तये संसारबन्धविच्छेदकर्त्रे नमः। ॐ चतुर्मूर्तये चतुर्गतिमयाय शरशार्ङ्गभृते शरदिन्दीवरत्विषे भगवतेऽभइरामशरीराय नमः। ॐ विशदपरमार्थवेदविदे(45) विदुषे व्यापकाय स्वामिन्(53) नमः। ॐ गरुडवाहन सर्वशस्त्रास्त्रोद्यत(54) शमयाऽशुभं धुन धुन कर्मबन्धान् धर्म पाहि जह्यधर्मं(55) नमः। ॐ संहारमूर्तये कालवैश्वानरार्चिषे पातालशयनाय अज्ञाननिगडनिचयं हन हन ॐ नमः। इत्यष्टत्रिंशत्पदमन्त्राः ।। 46--113 ।।
(1. विमलपदं--मु. अटी. बक. बख. अ.।) (2.सप्तविंशतिसंख्यमित्युचितः पाठः प्रतिभाति।)(3. शं क्रमतः-- मु. अटी. बक.।) (4. विद्या-- बक. बख., विद्ध्या--मु. अटी.।)(5. व्यञ्ज--मु. अटी. अ.।) (6. ॐ नमो--अ.।) (7. श्रयाय--अटी.।) (8.वततो--बक. अ. उ.।) (9. वामबाहवे--अटी.।) (10. जह---मु. अटी.।) (11.पदविदे दद्यात्--मु अटी.।) (12.गुह्याय--अ.।) (13.सादाय--अ. उ.।) (14. रसेति च-मु. अटी. बक. बख.।) (15. नीरदायेति भाष्यानुसारी पाठः।) (16. वान्--मुद अटी.।) (17.धाराय--अ.।) (18. नर--बक. अ. उ.।) (19. जाद्यं--मु. अटी. बक. बख.।)(20. जर्ति दुष्कृतिं अ.।) (21. सुन्दरपद--अ. म.।)(22. निधये वाञ्छितपदं--मु. अटी.।) (23. त्मने--बक. बख. उ. अटी.।) (24. ततः सिद्धिप्रदेति--मु अटी.।) (25. शक्तये च--मु. अटी.।) (26. ततः परम्--बक. बक. अ. उ.।) (27. वै--मु. अटी.।) (28.हत-अ.।) (29.दर्शित--अ.।) (30. मार्थ--अ., परमपदप्रदायाथ--म.।)(31. तदन्ततः--मु. अटी.।) (32. शब्दश्वासा--बक. अ. उ.।) (33. श्लोकद्वयं नास्ति--मु. अटी. अ.।) (34. सत्त्व--बक., शर्व--बख., भूत--मु. अटी.।) (35. ताय वै---बख. अ. उ.।) (36. प्रभवाय---बक. बख. उ.।) (37. ॐ सर्वलोकमयाय सर्वज्ञाय सर्वेश्वराय न्यग्रोधशयनाय नम इति मूलानुसारिणा पाठेन भाव्यम्।) (38. न्त्रस्त--मु. अटी.।) (39. स्त्वयम्--बख. अ. उ.।) (40. वत्--बक. बख. अ. उ.।) (41. इतः परम्--`दद्याद् द्विशतशब्दं वै परमार्थपदं ततः इति दृश्यते--बक. उ.। एतच्च मूलेऽप्यग्रे पाठभेदेन सह विद्यते।) (42. द्विशत--बक. उ., विदित--मु. अटी.।) (43. नारायणाय अ.) (44. पदसत्ताय--अ., पदक्ताय--म.।) (45.वेदविदुषे--अ. म.।)(46. शास्त्रोद्यतेत्येवमतः शुभमयेति च--मु. अटी.।) (47. तोच्चरेत्--बख., तोद्धरेत् अ. उ.।) (48. चतुर्विं---मु. अटी. बक.।) (49. विकलेति---अ. उ.।) (50. सत्कर्मिणां--अ.।) (51. शास्त्राणां--मु. अटी. बख. उ.।) (52. शास्त्राणां--मु. अटी. बख. उ.।) (53. स्वामिने---अ.।) (54. शास्त्रो--अ., शास्त्रास्त्रो--म.) (55. पाह्यधर्मं जहि--अ. म.।)
सहस्रदीधिति पदं दद्याच्छुरित वै ततः।
विग्रहाय दर्शार्णं च त्र्यधिकं मकुटस्य च।। 114 ।।
आदाय वाञ्छितपदं ततः सिद्धिप्रदाय वै।
माहाचिन्तापदं दद्यान्मणये तदनन्तरम्।। 115 ।।
विद्धि पञ्चदशार्णं च दशार्णमपरं शृणु।
सर्वलक्षणशब्दं तु ततः सम्पत्प्रदाय वै(1) ।। 116 ।।
सौभाग्यशब्दमादाय जननि(2) त्र्यक्षरं ततः।
सर्वप्रदे तु (3) तदनु अयमेव(4) दशाक्षरः।। 117 ।।
प्राणात्मनेऽथ सत्याय विद्धि सप्ताक्षरं त्विदम्(5)।
कालकर्त्रेऽथ चक्राय फडष्टार्णः प्रकीर्तितः।। 118 ।।
विश्वात्मने पदं दद्यात् ततो विश्वप्रदाय च।
नवाक्षरमिदं विद्धि परमष्टाक्षरं शृणु।। 119 ।।
समादाय पदं विद्ये ततो विद्येश्वरार्चिते।
प्राक् शब्दमूर्तये कुर्याच्छङ्खायाष्टाक्षरः स्मृतः।। 120 ।।
पदं रसनिधे कुर्यात् भीमशब्दमतः (6) परम्।
भीषणाय तदन्ते वै दशाक्षरमिदं स्मृतम्।। 121 ।।
प्राग् भुवनाधिपतये स्तम्भभूताय (7) वै पदम्।
त्रयोदशाक्षरं विद्धि ततोऽन्यमवधारय।। 122 ।।
पदमिन्द्रियकोशाय इष्वस्त्राय(12) दशाक्षरम्।
कल्पान्तानिलघोषाय विद्युल्लसित वै पदम्।। 123 ।।
(13) प्रभाय षोडशार्णं तु नवाक्षरमतः शृणु।
महामायापदं दद्याद् बन्धवर्णद्वयं ततः।। 124 ।।
ध्वंसिने पदमादाय एतत्संख्यं पदं (14) शृणु।
सर्वास्त्रग्रसनादाय(15) पराय (16) तदनन्तरम्।। 125 ।।
सन्तापकाय(17) शब्दं तु दर्पविध्वंसिने ततः।
एकादशाक्षरं विद्धि नवाक्षरमथोच्यते।। 126 ।।
अज्ञानखण्डनपदं पराय तदनन्तरम्।
त्रैलोक्यमोहनपदं मूर्तये तु नवाक्षरम्।। 127 ।।
सर्वाकर्षकरपदं(18)महामायामयेति वै।
द्वादशाक्षरसंख्यस्तु नवाक्षरमथोद्धरेत्।। 128 ।।
प्रागखण्‍डितशब्दं तु तदन्ते विनियोज्य च।
पराक्रमाय शब्दं तु सप्ताक्षरमतः शृणु।। 129 ।।
दर्पप्रशमकर्त्रे तु पञ्चार्णं विनिबोध वै।
तेजोमालिनि चेत्येतद् द्वाविंशत्यनुकीर्तिताः।। 130 ।।
प्राग्वदाद्यन्तसंरुद्धाः स्वनामपदभूषिताः।
संख्यानिष्ठाक्षरस्यान्ते दद्यात् संज्ञापदं सदा।। 131 ।।
अथ तेषां किरीटादिलाञ्छनमन्त्रान्(वराहमन्त्रं?) चक्राद्यायुधमन्त्रांश्चाह--अथ लाञ्छनमन्त्राणामित्यारभ्य यावत् परिच्छेदपरिसमाप्ति। तथा चैषां प्रयोगः---ॐ सहस्रदीधितिच्छुरितविग्रहाय किरीटाय नमः। ॐ वाञ्छितसिद्धिप्रदाय(8) महाचिन्तामणये कौस्तुभाय नमः। ॐ सर्वलक्षणसम्पत्प्रदाय श्रीवत्साय नमः। ॐ सौभाग्यजननि(9) सर्वप्रदे(10) वनमालायै नमः। ॐ प्राणात्मने सत्याय नमः। ॐ कालकर्त्रे चक्राय फट्। ॐ विश्वात्मने विश्वप्रदाय पद्माय फट्। ॐ विद्ये विद्येश्वरार्चिते गदायै फट्। ॐ शब्दमूर्तये शङ्खाय फट्। ॐ रसनिवे(11) भीमभीषणाय लाङ्गलाय फट्। ॐ भुवनाधिपतये स्तम्भभूताय मुसलाय फट्। ॐ इन्द्रियकोशाय इष्वस्त्राय फट्। ॐ कल्पान्तानिलघोषाय विद्युल्लसितप्रभाय शार्ङ्गाय फट्। ॐ महामायाबन्धध्वंसिने(19) खङ्गाय फट् ॐ सर्वास्त्रग्रसनपराय खेटकाय फट्। ॐ संतापकाय(20) दर्पविध्वंसिने दण्डाय फट्। ॐ सर्वाकर्षकरमहामायामयाय(21) अङ्कुशाय फट्। ॐ अखण्डितपराक्रमाय मुद्‌गराय फट्। ॐ दर्पप्रशमकर्त्रे वज्राय फट्। ॐ तेजोमालिनि (22) शक्त्यै फट्। इति च द्वाविंशतिमन्त्राः।। 113--132।।
(1.इतः परम्--'ततश्चिन्तापदं दद्यान्मणये तदनन्तरम्' इत्यधिकः पाठो दृश्यते--मु. अटी.।) (2. जननी--अटी. अ., यजनी--उ.।) (3. देति--अ.।) (4. मेवं--मु. अटी.।) (5. त्विह--मु. अटी.।) (6. भीष्म--मु. अटी. बक.।) (7.स्तम्ब--मु. बक. बख. उ.।) (8. तार्थ--अ.।) (9.नी--अ. म.।) (10.प्रदायै--अ.।) (11.निधेऽभीक्षाय--अ.।)(12. विश्व--उ.।) (13. प्रभवाय--बक.।) (14.परं--उ.।) (15.ग्रासमादाय--अ. उ.।) (16.वारय--अ. उ.।) (17. पङ्‌क्तित्रयं नास्ति--बक.।) (18.आकर्षणपर--मु., आकर्षणपरं--अटी.।) (19. विध्वं--अ.।)(20. मन्त्रस्यैकादशाक्षरतासम्पादनाय विभक्तिलोप आवश्यकः।)(21. शिवे--अ.।) (22. मायाय--अ. म.।) (23.मालिनी--अ.।)
चक्रवच्चास्त्रमान्त्राणां कुर्यान्नामावसानकम्।
क्रमाच्चतुर्दशानां तु शक्त्यन्तानां च फट्‌पदम्।। 132 ।।
इति श्री पाञ्चरात्रे (1) श्रीसात्वतसंहितायामधिवासदीक्षाविधिर्नाम
त्रयोविंशः(2) परिच्छेदः।।
इति श्रीमौञ्ज्यायनकुलतिलकस्य श्रीयोगानन्दभट्टाचार्यस्य तनयेन
अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये
(3)त्रयोविंशः परिच्छेदः।।
(1. पञ्चरात्रसारे--बक. बख.।) (2. द्वाविंशतितमः--अ., त्रयोविंशतिः--उ.।) (3. त्रयोविंशतिः--म.।)


*************----------------