सामग्री पर जाएँ

सात्त्वतसंहिता/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ सात्त्वतसंहिता
अध्यायः ३
[[लेखकः :|]]
अध्यायः ४ →
सात्त्वतसंहितायाः अध्यायाः


तृतीयः परिच्छेदः
[1]नारद उवाच

पुनराह जगन्नाथः प्रसङ्गेन मुनीश्वराः ।
परमाराधनं प्राग्वत् परस्य [2]चतुरात्मनः ।। 1 ।।
अथ तृतीयो व्याख्यास्यते।
त्रिविधं चातुरात्म्यं तु सुषुप्त्यादिपदत्रिके ।
सुव्यक्तं तत्पदे तुर्ये गुणलक्ष्यं परं स्थितम् ।। (10/42)
इति लक्ष्मीतन्त्रोक्तरीत्या [3]अव्यक्तस्य गुणमात्रलक्ष्यस्य "अभेदेनात्ममूर्तेर्वै संस्थितं [4]वटबीजवत्"(5/81) इति वक्ष्यमाणरीत्या पराभिन्नस्य तुर्यव्यूहस्य "स्वमूर्तिभिरमूर्ताभिरच्युताद्याभिरन्वितः"(2/72) इति पूर्वमेव तुर्यपदाश्रितेन परेण भगवता सहैवोक्तत्वात् तत्प्रसङ्गेन पुनः सुषुप्तिपदाश्रितस्य व्यूहस्यार्चनां भगवान् संकर्षणायोपदिशतीत्याह- पुनरिति ।। 1 ।।
[1 नारद इत्येव सार्वत्रिकः पाठः।]
[2 परमा- मु.।]
[3 ख्ये- मु. बक. बख.।]
[4 प्रणवा- अटी.।]

श्रीभगवानुवाच

हवर्णकर्णिकायां तु सुषुप्त्याख्य[1]पदे त्वधः ।
चतुर्धा [2]प्रभवाख्येन क्रमेण तमजं यजेत् ।। 2 ।।

ज्ञानविद्याचतुष्केण यथा तदवधारय ।
वेदकत्वेन भगवान् ब्रह्मसंवलिताकृतिः ।। 3 ।।

स्तम्बवत् कर्णिकामध्ये स्थित्वा वेद्यत्वमेति च ।
स्वयमेवोपकाराय कर्मिणां ब्रह्मयाजिनाम् ।। 4 ।।
सुषुप्तिव्यूहस्यार्चनक्रमं शुणुष्वेत्याह- हवर्णेति सार्धेन। हवर्णकर्णिकायां हृदयकमलस्याकारादिवर्णमयत्वात् तत्कर्णिकाया हकारात्मकत्वं बोध्यम्। तथा च वक्ष्यति पञ्चमे परिच्छेदे-
अनन्तसरसि क्षार्णे विश्रान्तं यन्महामते ।
अकाराक्षरमूलं[3] तु नित्यं सर्वाश्रयाम्बुजम् ।।
आकाराक्षरनालं तु शेषसर्वार्णपल्लवम् । (5/2-3) इति।
एतादृशकर्णिकात्मके। अधः पूर्वोक्तगगनात्मकतुर्यपदस्याधः स्थित इत्यर्थः। सुषुप्त्याख्यपदे चतुर्धा वासुदेवादिभेदैः प्रभवाख्येन क्रमेण सृष्टिक्रमेणेत्यर्थः। वासुदेवाद्यनिरुद्धान्तमिति यावत्। तमजं पूर्वोक्तं परं भगवन्तं ज्ञानविद्याचतुष्केण वक्ष्यमाणमन्त्रचतुष्केण यथा यजेत् तद्विधिमवधारय। अत्र परस्यैव भगवतस्तुर्यादिस्थानेषु वासुदेवादिभेदैर्बहुत्वाश्रयणात् तमजं यजेदित्यभेदोक्तिः। वक्ष्यति हि-
यथाम्बरस्थः सविता एक एव महामते ।
जलाश्रयाणि चाश्रित्य [4]बहुत्वं संप्रदर्शयेत् ।।
एवमेकोऽपि भगवान् नानामन्त्राश्रयेषु[5] च ।
तुर्यादिपदसंस्थेषु बहुत्वमुपयाति च ।। (4/33-34) इति।। 2-3 ।।

वेद्यवेदकनिर्मुक्तमच्युतं ब्रह्म यत्परम्[6] ।
अनस्तमितभारूपं सर्वाभिन्नमहंपदम्[7] ।। (लक्ष्मी. 20/4)
इत्युक्तस्य [8]कर्मिणामनवगाह्यतया तेषामुपकाराय भगवान् स्वयमेव पूर्वोक्तहृत्कमलकर्णिकामध्ये स्थित्वा शब्दब्रह्मरूपेण वेदकत्वं पररूपेण वेद्यत्वं च यातीत्याह- वेदकत्वेनेति सार्धेन ।। 3-4 ।।
[1 ख्ये- मु. बक. बख.।]
[2 प्रणवा- अटी.।]
[3 शीलं- म.।]
[4 बाह्यात्मं-म., बाह्यामं- अ.।]
[5 वर्णा- अ. म.।]
[6 पदम्- अ. म.।]
[7 महत्- अ. म.।]
[8 कर्मणा- अ.।]

प्राग्भागादुत्तरं यावद् गुणभेदेन लाङ्गलिन् ।
विभजत्यात्मनात्मानं वासुदेवः परः प्रभुः ।। 5 ।।
पुनः स एव तत्र प्रागादिषु चतुर्दिक्षु गुणभेदेन चतुर्धा भवतीत्याह- प्राग्भागादिति।। 5 ।।

अनुज्झितस्वरूपस्तु प्राग्भागे षड्गुणात्मना ।
बलसंवलितेनैव ज्ञानेनास्तेऽथ दक्षिणे ।। 6 ।।

ऐश्वर्येण तु वीर्येण प्रत्यग्भागेऽव[1]तिष्ठते ।
तेजःशक्त्यात्मना सौम्ये संस्थितः परमेश्वरः ।। 7 ।।
तेषां गुणभेदविवरणमाह- अनुज्झितेति द्वाभ्याम् ।। 6-7 ।।
[1 गे प्रतिष्ठितः- मु. अटी.।]

यद्यप्यरूपो भगवान् व्यूहात्मा गुणलक्षणः ।
अत्रापि पूर्वमेवोक्तं रूपमस्योपचर्यते ।। 8 ।।

किन्तु द्वितीयमूर्तेर्वै शुभपाणितलद्वये ।
[1]स्फुटो रेखामयः शङ्खः सुव्यक्तं लाङ्गलं महत् ।। 9 ।।

रम्येषुणा तृतीयस्य दक्षिणश्चिह्नितः[2] करः ।
तुर्यस्यासिवरेणैव शङ्खमाभ्यां(ङ्खाभ्यां च) करद्वये ।। 10 ।।
अस्य सुषुप्तिव्यूहस्य पूर्वोक्ततुर्यव्यूहपदरूपत्वाद् गुणमात्रलक्ष्यत्वमेव, तथापि गुणभेदवच्चक्रादिलाञ्छनभेदसत्त्वात्[3] परोक्तं रूपमत्राप्युपचर्यत इत्याह- यद्यपीति त्रिभिः ।। 8-10 ।।
[1 पङ्क्तित्रयं नास्ति- उ.।]
[2 दक्षिणाभिहितः- मु. बख.।]
[3 भेदत्वात्- अ.।]

अवाङ्मुखः करवशादूर्ध्ववक्त्रः स्वभावतः ।
एतावता लक्षणेन व्यक्तीभावं गतेन च ।। 11 ।।
किन्तु पररूपवद् वरदाभयमुद्रान्वितत्वं विना केवलमवाङ्मुखकरत्वमूर्ध्ववक्त्रत्वं च चतुर्णामपि विशेषमाह- अवाङ्मुख इति ।। 11 ।।

भावस्थितिं निबध्नाति व्यूहेऽस्मिन् साधकस्य तु ।
सादृश्यात् षड्गुणत्वाच्च समत्वाच्च विशेषतः ।। 12 ।।

शान्तत्वान्नि[1]ष्कलत्वाच्च न भेदो विद्यते यतः ।
गुणद्वयद्वयेनैव यद्यप्युक्तं पुरा मया ।। 13 ।।

एकैकं भगवद्रूपं मुख्यवृत्त्या तथापि हि ।
चतुष्कमवशिष्टं यद् गुणानां [2]समवस्थितम् ।। 14 ।।

तद् भजेतानुवृत्तिं च एकैकस्य च सर्वदा ।
एवं ज्ञात्वा स्थितिं[3] ब्राह्मीं स्वानन्दां[4] स्पन्दलक्षणाम् ।। 15 ।।
एवं लाञ्छनादिभिर्व्यक्तत्वेऽपि सादृश्यादिहेतुभिर्भेदाभावात् साधकस्यानुभवविषयो भवतीत्याह- [5]एतावतेति ।। 11-15 ।।
[1ष्क्रियत्वा- बक. बख. अ. उ.।]
[2 क्रमशः स्थितः - अ. उ., समवस्थिताः- मु. अटी.।]
[3 स्मृतिं- मु. बक. उ.।]
[4 न्दास्पद- अ. अटी.।]
[5 एतावतेति द्वाभ्याम्- म.।]

ब्रह्मामृतमयैर्भोगैर्यो[1] यजेत समाहितः ।
विशुद्धबुद्ध्या देहान्ते स विशत्यमलं पदम् ।। 16 ।।
अत्र चतुर्णामपि षड्गुणत्वादित्युक्तम्। बलसंवलितेनैव ज्ञानेन ज्ञानपूर्वकमर्चने फलमाह- एवमिति सार्धेन ।। 15-16 ।।
[1 र्योजयेत- अ. उ. बक., योजयेत् तमसावृतः- मु. अटी.।]

अथ मन्त्रचतुष्कं तु [1]ब्रह्मषाड्गुण्यवाचकम् ।
कर्मिणां मोक्षदं शश्वत् पूर्वोद्दिष्टं निबोधतु ।। 17 ।।
सुषुप्तिव्यूहचतुष्कं श्रृण्वित्याह- अथेति ।। 17 ।।
[1 भिन्न- बक. बख. अ. उ.।]

आदायाक्षगतं बीजं नाभिपूर्वमतः परम् ।
अरादेकादशात् पूर्वं तस्याधो विनिवेश्यते[1] ।। 18 ।।

वर्णं नेमेस्तृतीयं यत् तृतीयमिदमक्षरम् ।
द्वितीयमष्टमाद् वण नाभेस्तुर्यादिनान्वितम् ।। 19 ।।

ततस्तु नवमं नेमेः केवलं विद्धि पञ्चमम् ।
अष्टमादपरं वर्णं [2]द्वितीयस्वरसंयुतम् ।। 20 ।।

षष्ठमेतद्विजानीयात् सप्तमं दशमात् परम् ।
अथ द्वितीयदशमादादायोर्ध्वे तु विन्यसेत् ।। 21 ।।

अष्टमात्तु[3] द्वितीयस्य मन्त्राणामिदमष्टक[4]म् ।
द्वितीयात् प्रथमं वर्णमष्टमादपरं ततः ।। 22 ।।

[5]नाभ्येकादशमोपेतं द्वितीयं नेमिमण्डलात् ।
पूर्वमेकादशाच्छुद्धं तादृङ्नेमेस्तृतीयकम् ।। 23 ।।

नेमिपूर्वं च तदनु नाभेरेकादशाङ्कितम् ।
नेमेः षष्ठमथादाय स्थितं [6]तत्पञ्चमोपरि ।। 24 ।।

ततो नाभिद्वितीयेन युक्तं नेमेस्तृतीयकम् ।
द्वितीयं केवलं नेमेरादाय च महामते ।। 25 ।।

कर्त्रे नमः पदं पश्चाद् योजयेच्चतुरक्षरम् ।
एकविंशतिभिर्वर्णैरयं मन्त्र उदाहृतः ।। 26 ।।

अभिन्नः पदभेदेन भवेदेकाधिकस्तु वै ।
प्राग्वर्णेन पदं पूर्वं पञ्चार्णं[7] द्वितयं भवेत् ।। 27 ।।

षडक्षरं तृतीयं तु चतुर्थं तद्वदेव हि ।
द्व्यक्षरं पञ्चमं विद्धि तद्वत् षष्ठं महामते ।। 28 ।।

अथापरं महामन्त्रं द्वितीयमवधारय ।
यज्ज्ञात्वा न पुनर्जन्म भवत्याराधकस्य च ।। 29 ।।

आदायाक्षर[8]मध्यस्थं नाभिपूर्वमतः परम् ।
पूर्वं नेमेस्तु तस्यैव योज्यं नाभित्रयोदशम् ।। 30 ।।

द्वितीयादपरं वर्णं सर्वशक्त्यात्मने पदम् ।
द्वितीयं द्वादशाद् वर्णं द्वितीयात् प्रथमं ततः ।। 31 ।।

[9]पञ्चमं च बहिष्ठेभ्यस्त्रीनेतान् विद्धि केवलान् ।
नाभ्येकादशसंभिन्नं[10] द्वितीयं चाष्टमात् ततः ।। 32 ।।

नमो नमः पदयुतो मन्त्रश्चाष्टादशाक्षरः ।
अस्यैकार्णं पदं पूर्वं त्र्यक्षरं तदनन्तरम् ।। 33 ।।

ष़डक्षरं तृतीयं तु चतुर्थं चतुरक्षरम् ।
द्वितीयं द्व्यक्षरं चान्यत् पदयोः सम्प्रकीर्तितम्[11] ।। 34 ।।

तृतीयमथ वक्ष्यामि मन्त्रं मन्त्रविदांवर ।
यज्ज्ञात्वा [12]मानसीं शुद्धिं परामभ्येति कर्मणाम् ।। 35 ।।

बीजमादाय मध्यस्थमाद्यमेकादशात् ततः ।
नेमेस्तृतीयं तदध ऊर्ध्वे नाभ्यपरं तु वै ।। 36 ।।

अथाद्यमष्टमाद् वर्णं द्वितीयं स्वरसंयुतम् ।
तद्वद् एकादशादाद्यं वर्णमन्यं समाहरेत् ।। 37 ।।

दशमादपरं वर्णं नेमेरष्टकमन्ततः ।
युक्तं नाभिद्वितीयेन त्वाद्यं नेम्यक्षरं तु यत् ।। 38 ।।

नाभित्रयोदशोपेतमादाय दशमात् परम् ।
द्वितीयं नवमाद्वर्णं युक्तं नाभ्यपरेण तु ।। 39 ।।

तत्संख्यं दशमाच्छुद्धं ततो बाह्यात्तु पञ्चमम् ।
नेमेर्द्वितीयं तदधो युक्तं नाभेः परेण तु ।। 40 ।।

द्वितीयं दशमाद् वर्णं प्राणाय त्र्यक्षरं पदम् ।
ततस्त्वेकादशादाद्यं केवलं च समाहरेत् ।। 41 ।।

अथ नाभिद्वितीयेन युक्तं नेमेस्तृतीयकम् ।
नाभित्रयोदशोपेतं बहिष्ठेष्वपरं ततः ।। 42 ।।

नेमेस्तृतीयस्योर्ध्वे तु [13]नवमादपरं न्यसेत् ।
ततो नाभिद्वितीयेन युक्तं प्राङ्नेमिमण्डलात् ।। 43 ।।

द्वितीयमथ वै बाह्यात् सनमस्कं हि केवलम् ।
त्रयोविंशतिभिर्वर्णैरुपेतो[14] ह्येष मन्त्रराट् ।। 44 ।।

पदैः पूर्वोक्त[15]संख्यैस्तु तेषां भेदोऽप्यथोच्यते ।
पूर्वमेकाक्षरं विद्धि द्वितीयं तु नवाक्षरम् ।। 45 ।।

तृतीयं द्व्यक्षरं चैव चतुर्थं त्र्यक्षरं स्मृतम् ।
षडक्षरमथोर्ध्वस्थं द्व्यक्षरं तदनन्तरम् ।। 46 ।।

चतुर्थमधुना मन्त्रं निबोध गदतो मम ।
येन विज्ञातमात्रेण संविदुत्पद्यते परा ।। 47 ।।
चतुर्णामपि मन्त्राणामुद्धारप्रकारं तत्तत्पदविभागांश्चाह- आदायाक्षगतं बीजमित्यारभ्य अन्तस्थं द्व्यक्षरं स्मृतमित्यन्तम्। एतद्व्याख्यानमार्गस्य पूर्वमेव प्रदर्शितत्वात् सुगमः[16]। प्राग् वर्णचक्रं विलिख्य उक्तक्रमेण वर्णोद्धारे कृते- ॐ अप्रतिहतानन्तगतये परमेश्वराय कर्त्रे नमः। ॐ अमोघसर्वशक्त्यात्मने भगवते नमो नमः। ॐ प्राणापानसमानोदानव्यानप्राणाय [17]परायोद्रमाय नमः। ॐ अच्युताया[18]विकृतायानन्ताय अध्यक्षाय नम इति क्रमेण [19]एकविंशाक्षरोऽष्टादशाक्षरस्त्र[20]योविंशत्यक्षरो विंशत्यक्षरश्चत्वारो मन्त्रा भवन्ति ।। 18-47 ।।
[1 वेशिते- मु. अटी., वेशयेत्- बक.।]
[2 द्वितीयं- बक. बख.।]
[3 त्तद् द्वि- मु. अटी. उ.।]
[4 मम्- अ. उ.।]
[5 ताह्ये- मु., तं ह्ये- अटी.।]
[6 तं प- अ. उ.।]
[7र्णाद्- अ.।]
[8 द्वितीयं- उ.।]
[9 क्षस्य- बख. उ.।]
[10 पञ्च पञ्च- अ.।]
[11 संपन्नं- अटी.।]
[12 र्तनम्- मु. अटी.।]
[13 मानसं शुद्धं परम- अ. बख.।]
[14 यत्तन्ना- मु।]
[15 र्द्वितीय- अ.।]
[16 नियमा- मु.। अटी.।]
[17 तोऽप्येष- अ.।]
[18 संख्यस्तु- मु. अटी.]
[19 प्रकृतग्रन्थ इति शेषः।]
[20 नेमेर्द्वि- मु. अटी.।]

तथैव पञ्चमं विद्धि [1] अन्तस्थं द्व्यक्षरं स्मृतम् ।
यत्र यत्र पदानां च वर्णाधिक्यमुदाहृतम् ।।
तत्रादौ नाभिपूर्वं तु व्याहृत्याद्यं पदं न्यसेत् ।। 58 ।।
पदानां वर्णसंख्यापूरणप्रकारमाह- यत्रेति। पदानां पूर्वोक्