सामग्री पर जाएँ

सात्त्वतसंहिता/अध्यायः ७

विकिस्रोतः तः
← अध्यायः ६ सात्त्वतसंहिता
अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →
सात्त्वतसंहितायाः अध्यायाः


सप्तमः परिच्छेदः।।
नारद[1] उवाच।।

प्रसन्नेनाथ विभुना यदुक्तो लाङ्गली पुनः ।
निश्श्रेयस्सकरं कर्म तदाकर्णयत[2] द्विजाः ।। 1 ।।
अथ सप्तमो व्याख्यास्यते। नारदो मुनीन् प्रति वासुदेवेन संकर्षणायोपदिष्टं व्रताख्यं[3] कर्म शृणुध्वमित्याह- प्रसन्नेनेति ।। 1 ।।
[1 नारद इत्येव उ. विहाय सर्वत्र पाठः।]
[2 य साम्प्रतम्- बक. बख, यतः श्रृणु- उ.।]
[3 वृत्त्याख्यं- अ.।]

श्रीभगवानुवाच
श्रृणु ब्रह्ममयं पुण्यमपुण्यचयदाहकृत् ।
तत्त्वतः प्रतिपन्नानामचिरादेव सिद्धिदम् ।। 2 ।।
भगवान् संकर्षणं प्रत्याह- शृण्विति। पुण्यं पुण्यावहम्। अपुण्यचयदाहकृत् पापविध्वंसकम्। कर्मेत्यनुषङ्गः ।। 2 ।।

परं ब्रह्म परं धाम चातुरात्मकमव्ययम् ।
जाग्रत्संज्ञे स्वयं यत्तु पदे व्यक्तचतुर्भुजम् ।। 3 ।।

नूनं कर्मात्मतत्त्वानां भवदुःखप्रशान्तये ।
भावमाक्रम्य रूपेण तेन मोक्षप्रदेन च ।। 4 ।।

ततस्त्वप्यययोगेन स्वस्वमूर्तिचतुष्टयम् ।
नीत्वा परिणतिं योगादात्मन्यास्ते च पूर्ववत् ।। 5 ।।

अनुग्रहार्थं [1]भविनां नानाकृत्या तु वै पुनः ।
देहकान्तिमनुज्झित्य दिक्क्रमेण तु वै सह ।। 6 ।।

पौरुषेण तु रूपेण प्रत्येकेन त्रिधा त्रिधा ।
वासुदेवादिकेनैव व्यक्त[2]चक्रादिना युतम् ।। 7 ।।

उत्कृष्टा[3]दिगुणाढ्यानामा सृष्टेर्नान्ययाजिनाम् ।
वर्णानां जनकत्वेन व्यक्तिमभ्येति शाश्वतीम् ।। 8 ।।
पूर्वोक्तं परात्परं नित्योदितव्यूहाख्यं वासुदेवादिचतुष्टयमेव पूर्वोक्तजाग्रद्व्यूहरूपेणाविर्भूतम्, तज्जीवात्मनां संसारखेदनिवृत्त्यर्थं तेनैव रूपेण च व्यक्तीभूय जाग्रत्पदे विदिक्ष्वप्ययक्रमेणावतीर्णं पुरुषादिमूर्तिचतुष्टयं स्वात्मन्युपसंहृत्य पुनः संसारिणामनुग्रहार्थं प्रत्येकं त्रिधा त्रिधा वासुदेवः केशवादित्रिकरूपेण, संकर्षणो गोविन्दादित्रिकरूपेण, प्रद्युम्नस्त्रिविक्रमादित्रिकरूपेण, अनिरुद्धो हृषीकेशादित्रिकरूपेण व्यक्तचक्रादिलाञ्छनैः सह भगवदेकान्तिनां पोषकत्वेन शाश्वतीमभिव्यक्तिमभ्येतीत्याह- परं ब्रह्मेति ष़ड्भिः। देहकान्तिमनुज्झित्येत्यनेन जाग्रद्व्यूहवासुदेवादिचतुष्टयस्य पूर्वं[4] यादृशो वर्णभेद उक्तः, केशवादित्रिकचतुष्टयस्यापि तादृश एवेत्युक्तं भवति ।। 3-8 ।।
[1 भक्तानां- बख., हविनां- अ.।]
[2 तस्यायं विहितः क्रमः- उ.।]
[3 ष्ट्यादिगुणार्थ्यानामकृष्टे- मु. अटी.।]
[4 `पूर्वं' नास्ति- अ.।]

यां समालम्ब्य संसारादचिरादेव यान्ति च ।
सुप्रबुद्धः[1] परं धाम दानधर्मव्रतादिना ।। 9 ।।
एवं केशवादिरूपेणाभिव्यक्तेः प्रयोजनमाह- यामिति ।। 9 ।।
[1 प्रबुद्धां- मु., प्रसिद्धं- अटी. बक., प्रबुद्ध- बख.।]

कर्तव्यमिति वै कर्म त्वैश्वर्यं[1] यः समाचरेत् ।
भक्त्या व्रतच्छलेनैव तस्यायं विहितः क्रमः ।। 10 ।।
अतो वासुदेवादीनां केशवादीनां च प्रीणनव्रतानुष्ठानक्रमो वक्ष्यत इत्याह- कर्तव्यमितीति। ऐश्वर्यम् ईश्वरसंबन्धि, तत्प्रीणनमित्यर्थः। यद्वा ऐहलौकिकैश्वर्यादिसंपादकमित्यर्थः। उभयथा कर्मणो विशेषणम् ।। 10 ।।
[1 श्वरं- बख. अ.।]

कार्तिकस्य दशम्यां तु मासस्य तु निशागमे ।
घृतेन पञ्चगव्येन बिम्बपादाम्भसा तु वा ।। 11 ।।

कृत्वा स्वकोष्ठसंशुद्धिं निस्सृत्योदरगं[1] मलम् ।
स्मरन् प्रभुं समाचम्य पाणौ कृत्वा कुशोदकम् ।। 12 ।।

तत्क्षेपपूर्वं सङ्कल्प आवर्तव्यो व्रतं प्रति ।
ॐ व्रताधिपतये देव नित्यनिर्मलमूर्तये ।। 13 ।।
दशम्यां सायंकाले पञ्चगव्या[2](द्य)न्यतमप्राशनेन स्वशरीरशुद्धिमाचमनप्राणायामौ कुशोदकप्रक्षेपपूर्वकं संकल्पं चाह- कार्तिकस्येति सार्धद्वाभ्याम्। घृतेन पञ्चगव्येन बिम्बपादाम्भसा [3]तु [4]वेत्यत्रोत्तरोत्तरं श्रेष्ठं संबोध्यम्। तथा च सच्चरित्ररक्षायां तृतीयेऽधिकारे ब्रह्माण्डे-
"पृथिव्यां यानि तीर्थानि तेषु स्नातेषु[5] यत्फलम् ।
विष्णोः पादोदकं मूर्ध्नि[6] धारयेत् सर्वमाप्नुयात् ।।
मानवो यस्तु गङ्गायां स्नानं पानं समाचरेत् ।
तस्य यादृग् भवेत् पुण्यं तादृक् पादाम्बुधारणात् ।।
त्रिषु लोकेषु यत्तीर्थं प्रयागं पुष्करादिकम् ।
तत्पादयुग्मे कृष्णस्य तत्र तिष्ठति नित्यशः ।।
श्रीभागवते-
पादोदकस्य माहात्म्यं जानात्येव हि शङ्करः ।
विष्णुपादोद्भवां गङ्गां शिरसा धारयन्[7] हि सः ।।
प्रायश्चित्तमनुप्राप्तः[8] कृच्छ्रं वाप्यघमर्षणम् ।
विष्णुपादोदकं पीत्वा शुद्धिमाप्नोति तत्क्षणात् ।।" (पृ. 110)
इत्यादि। एतदलाभे पञ्चगव्यम्, तस्याप्यलाभे घृतं वा ग्राह्यमिति भावः। तथा च पाद्मे स्नपनाध्याये-
अलाभे पञ्चगव्यानां घृतमेवैकमिष्यते ।
पञ्चगव्येषु यस्य स्यादलाभस्तत्कृते घृतम् ।। इति।।
प्रभुं स्मरन् उदरगं मलं निस्सृत्येत्यनेन प्राणायामः सूच्यते यथा[9], तथा वक्ष्यति प्राणायामं नृसिंहकल्पपरिच्छेदे-
नाभिदेशस्थितं ध्यात्वा देवं संगृह्य कल्मषम् ।
निस्सृतं वायुमार्गेण द्वादशान्तावधौ क्षिपेत् ।।
निरस्तपापमाकृष्य वातचक्रसमन्वितम् ।
नासाग्रेण तु मन्त्रेशं देहसंपूरणाय च ।।
तं ध्यायेद् हृदयस्थं च गतिरुद्धेन वायुना । (17/8-20) इति।। 11-13 ।।
[1 निर्हृत्येति सार्वत्रिकः पाठः, टीकानुसारी पाठो मूले स्थापितः।]
[2 गव्यप्राश- म.।]
[3 कृत्वे- अ.।]
[4 त्रोत्तरत्र- अ.।]
[5 स्नानेषु- अ. मु.।]
[6 मूर्ध्ना- मु. म.।]
[7 यद्धि- मु.।]
[8 प्राप्तं- मु.।]
[9 यतस्तथा - म.।]

ॐ व्रताधिपतये देव नित्यनिर्मलमूर्तये ।। 13

वत्सरं परिपीडैस्तु[1] त्वामहं तोषयाम्यजम् ।
प्रयतो दर्भशय्यायां क्ष्मातले रजनीं नयेत् ।। 14 ।।
संकल्पमन्त्रमाह- ॐ व्रताधिपतय इति। परिपीडैः, उपवासैरित्यर्थः ।। 13-14 ।।
[1 परिपिण्डैः- मु., परपीडैः-उ. ।]

प्रयतो दर्भशय्यायां क्ष्मातले रजनीं नयेत् ।। 14

एकादश्यां प्रभातेऽथ स्नात्वा देवमधोक्षजम् ।
ध्यात्वाऽभ्यर्च्य यथापूर्वं नानानामान्तरैः शुभैः ।। 15 ।।
एवं संकल्पानन्तरं तस्यां रात्रौ केवलभूतले कुशोपरि शयनमाह- प्रयत इत्यर्धेन। एकादशीप्रभातकृत्यमाह- एकादश्यामिति। नानानामान्तरैः सहस्रनामादिभिरित्यर्थः। स्तु[1]त्वेति शेषः ।। 14-15 ।।
[1 स्तुत्ये- अ.।]

कराभ्यां लम्बमानाभ्यां संस्थितौ दक्षिणादितः ।
पद्मशङ्खौ सुशोभाढ्यौ यथा तदवधारय ।। 16 ।।

तर्जनीमध्यमाभ्यां तु नम्राभ्यां[1] मध्यतः[2] स्थितम् ।
निषण्णं तलपर्यन्ते[3] शङ्खमूर्ध्वमुखं शुभम् ।। 17 ।।

सनालं कमलं तद्वत् सितं विकसितं तु वै ।
मणिबन्धादतिक्रान्तं किञ्चिच्छेषलतागणम् ।। 18 ।।

लम्बमानमधोवक्त्रं साङ्गुष्ठं संस्मरेद् विभोः ।
वासु[4]देवस्य लाञ्छनध्यानप्रकारमाह- कराभ्यामिति सार्धैस्त्रिभिः। लम्बमानदक्षिणहस्ते तर्जन्यङ्गुष्ठाभ्यां संगृहीतं तलप्रदेशेऽधो[5]मुखं स्थितं शङ्खवत् सितं विकसितं मणिबन्धादतिक्रान्तं[6] किञ्चिच्छेषलतागणं सनालं कमलं तथा वामहस्ते नम्राभ्यां[7] तर्जनीमध्यमाभ्यां मध्यतो गृहीतं तलप्रदेशे ऊर्ध्वमुखं स्थितं शङ्खं च ध्यायेदित्यर्थः ।
ननु जाग्रद्व्यूहवासुदेवस्य पूर्वं चतुर्भुजत्वमुक्तम्, इदानीं लाञ्छनद्वयमात्रस्योक्त्या द्विभुजत्वमेव ज्ञायत इगि चेत्, किं तावता भवतो विरोधः, उभयथापि लक्षणं स्यात् ।। 16-19 ।।
[1 नेत्राभ्यां- बक. ।]
[2 मध्यमस्थितिम्- मु.।]
[3 र्यङ्के- उ.।]
[4 परवासु- मु.।]
[5 मुखस्थितं- मु.।]
[6 क्रान्तं- मु.।]
[7 द्वाभ्यां- मु.।]

होमान्तमखिलं कृत्वा ध्यायेदनिमिषस्ततः ।। 19 ।।

दिनमध्येऽर्चनं कुर्याद् दिनान्ते स्नानवर्जितम् ।
महा[1]र्थैर्विविधैः स्तोत्रैर्गीतवाद्यसमन्वितैः ।। 20 ।।

निशां नीत्वा प्रभातेऽथ स्नानपूर्वमजं यजेत् ।
चतुरात्मानमव्यक्तमनुयागान्त[2]कर्मणा ।। 21 ।।

उदितेऽथ निशानाथे चास्तं याते दिवाकरे ।
क्षान्त्यर्थमर्चनं कुर्याद् दण्डवत् प्रणमेत् क्षितौ ।। 22 ।।

चतुर्धा वै चतुर्दिक्षु ततः कुर्यात् प्रदक्षिणम् ।
एकैकस्याग्र उच्चार्य चतुर्धा तु पदं पदम् ।। 23 ।।

तद्वाचकां[3]स्तोत्र[4]मन्त्रांस्ततः कृत्वा स्वभावगम् ।
तद्व्यक्तिव्यञ्जकेनैव सह वाक्यगणेन तु ।। 24 ।।
ततो होमान्तं सर्वं कृत्वा पुनस्तमेव ध्यायन् प्राप्ते मध्याह्ने यथाविध्यर्चनं कृत्वा सायन्तनार्चनं तु स्नपनवर्जितं कृत्वा गम्भीरार्थगर्भितविविधस्तोत्रगीतवाद्यादिभिः सह तां निशां जागरेण नीत्वा [5]द्वादश्यां प्रभाते स्नानपूर्वकं यथाविधि चतुरात्मानं प्रभुं समभ्यर्च्य पारणान्तं कृत्वा सायन्तनार्चनं च कृत्वाऽपराधक्षमापणं कुर्वन् चतुर्दिक्षु चतुर्वारं दण्डवत् प्रणम्य चतुर्वारं प्रदक्षिणं कुर्वन् एकैकस्याग्रतः स्थित्वा तत्तद्वाचकस्तोत्रमन्त्रवाक्यादीनि पठेदिति प्रयोगपद्धतिमाह- होमान्तमित्यादिभिः ।। 19-24 ।।
[1 महाक्षैः - मु. बक. बख.।]
[2 यागं तु कर्मणः- मु. अटी.।]
[3 कात्- मु. अटी.।]
[4 मन्त्रात्- मु. अटी.।]
[5 तादृश्यां- अ.।]

जितं ते पुण्डरीकाक्ष वासुदेवामितद्युते ।
रागदोषादिनिर्मुक्तो समस्तगुणमूर्तिमान्[1] ।। 25 ।।

नाथ ज्ञानबलोत्कृष्ट नमस्ते विश्वभावन ।
सङ्कर्षण विशालाक्ष सर्वज्ञ परमेश्वर ।। 26 ।।

देव[2] ऐश्वर्यवीर्यात्मन् प्रद्युम्न जगतांपते ।
नमस्तेऽस्तु हृषीकेश सर्वेश्वर जगन्मय ।। 27 ।।

स्थित्युत्पत्तिलयत्राणहेतवे शक्तितेजसे ।
जयानिरुद्ध भगवन् महापुरुष पूर्वज ।। 28 ।।
वासुदेवादीनां जितन्ता[3]दिस्तोत्रमन्त्रचतुष्टयं स्वयमेवाह- जितं त इति चतुर्भिः। अत्र प्रथमश्लोके प्रथमं पादम्, द्वितीये द्वितीयम्, तृतीये तृतीयम्, चतुर्थे चतुर्थं च संगृह्यैकश्लोकरूपेण लक्ष्मीतन्त्र(24/69)पाद्मादिषु प्रतिपादितम्। तस्याष्टाक्षरादिव्यापकत्वं चोक्तं लक्ष्मीतन्त्रे-
पदमन्त्रास्त्रयोऽस्य स्युर्विधाने पाञ्चरात्रिके ।।
विष्णवे नम इत्येवं नमो नारायणाय च ।
नमो भगवते पूर्वं वासुदेवाय चेत्यपि ।।
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ।।
पदमन्त्रश्चतुर्थोऽयं प्रणवस्य पुरन्दर ।
ओङ्कारसहितानेतान् मन्त्रान् पूर्वविदो विदुः ।।....
केवलस्तारकश्चैव चत्वारश्च तदादिकाः ।
पञ्चैते व्यापका मन्त्राः [4]पञ्चरात्रे प्रकीर्तिताः ।। इति।।
(24/67-70,74)
इतोऽप्यधिकं पद्मादिषु प्रतिपादितं स्तोत्रश्लोकजातमेतद् जितन्ताख्यमन्त्रस्यार्थविवरणरूपं बोध्यम्। जितन्ताख्यमन्त्रव्याख्यानमहिर्बुध्न्यसंहिताया[5]मुक्तं द्रष्टव्यम् ।। 25-28 ।।
[1 मूर्तये- बक. बख. अ. उ.।]
[2 पङ्क्तिद्वयविपर्ययः- अ. उ.।]
[3 न्तास्तोत्र-मु.।]
[4 पाञ्च- मु.।]
[5 जितन्ताख्यमन्त्रार्थनिरूपणात्मके त्रिपञ्चाशेऽध्याये ।]

विधिनानेन वै कार्यं पक्षयोरुभयोरपि ।
अ[1]ब्दान्तमर्चनं विष्णोर्निष्कामेनाग्रजन्मना ।। 29 ।।
एवं प्रतिमासं पक्षद्वयेऽपि दशम्यां पञ्चगव्यप्राशननियमनपूर्वकमुपवासं जागरणं द्वादश्यां व्रताराधनपूर्वकं पारणं सायमपराधक्षमापणार्थमर्चनादिकं च कुर्वन् संवत्सरान्तं ब्राह्मणो निष्कामं यथा तथा व्रतं कुर्यादित्याह- विधिनेति ।। 29 ।।
[1 अब्जा- मु.।]

एवं सङ्कर्षणाद्यं तु वासुदेवान्तमर्चनम् ।
विहितं क्षत्रजातेर्वै कर्तव्यत्वेन सर्वदा ।। 30 ।।

प्रद्युम्नाद्यं तु वैश्यस्य मुसल्यन्त[1]मुदाहृतम् ।
सच्छू[2]द्रस्यानिरुद्धाद्यं प्रद्युम्यान्तं सदैव हि ।। 31 ।।
क्षत्रियस्य विशेषमाह- एवमिति। वैश्यस्य विशेषमाह- प्रद्युम्नाद्यमित्यर्धेन। मुसल्यन्तं संकर्षणान्तमित्यर्थः। शूद्रस्य विशेषमाह- सच्छूद्रस्येत्यर्धेन ।। 30-31 ।।
[1 मुसला- मु. अटी.।]
[2 शूद्रस्य चानि- बख. अ. उ.।]

मूर्तिनां ध्यानकाले तु विशेषमवधारय ।
सङ्कर्षणेऽब्जवद् रम्यां दक्षिणे तु करे गदाम् ।। 32 ।।

गृहीतां चिन्तयेन्मध्यादधोवक्त्रेण पाणिना ।
अङ्गुलिद्वितयेनैव त्वङ्गुष्ठाद्येन लीलया ।। 33 ।।

प्राग्वद् वामकरे पद्मं प्रद्युम्नस्य निबोधतु[1] ।
दक्षिणे हेतिराट् तद्वदङ्गुलिद्वितयोपरि ।। 34 ।।

पूर्ववत् कमलं[2] वामे चतुर्थस्याधुनोच्यते ।
आदिवद् दक्षिणे पद्मं गदा वामे यथोदिता ।। 35 ।।

इति प्रथ[3]ममूर्तीनां ध्यानमुक्तं तु सार्चनम् ।
नित्यनैमित्तिकार्थं तु निःश्रेयसपदाप्तये ।। 36 ।।
पूर्वं वासुदेवलाञ्छनध्यानमात्रस्योक्तत्वादिदानीं संकर्षणादीनां लाञ्छनभेदध्यानमाह- मूर्तिनामित्यारभ्य निःश्रेयसपदाप्तय इत्यन्तम्। अब्जवदित्यनेन पूर्वं वासुदेवस्य दक्षिणकरेऽब्जस्य यादृशः संनिवेशो यादृशो धारणप्रकारश्चोक्तः, इदानीं संकर्षणस्य दक्षिणे[4] करे गदाया अपि तादृश इति बोध्यते, अधोवक्त्रेण लम्बमानेनेत्यर्थः। अङ्गुष्ठाद्येन अङ्गुलीद्वितयेन, तर्जन्यङ्गुष्ठाभ्यामित्यर्थः। प्राग्वदित्यनेन वासुदेवकमलदधोमुखत्वादिकमुच्यते ।। 32-36 ।।
[1 ध च- मु., ध्य च- अटी., धय- बख.।]
[2 कमले- मु. अटी. बक.।]
[3 प्रशस्त- अ., प्रशम- उ.।]
[4 दक्षिणकरे- मु.।]

भक्तिपूर्वात् तु कैवल्याद् [1]यत्नेनाभ्यर्थयन्ति ये ।
वर्णा विप्रादयस्तेषां व्रताचरणमुच्यते ।। 37 ।।

श्रावणस्य दशम्यां तु सर्वं पूर्वोक्तमाचरेत् ।
कृत्वा[2] कुशोदकाभ्यङ्गं[3] स्मरन्[4] देवमिदं[5] पठेत् ।। 38 ।।

सर्वभूत[6]मयाऽनादे यच्छ मे[7] परमं पदम् ।
छिन्धि सांसारिकान् बन्धानज्ञानतिमिरं हर ।। 39 ।।

ततो ध्यात्वा यजन् देवं चतुर्मूर्तिं तु पूर्ववत् ।
गौणमुख्यैर्महच्छब्दैर्जितन्ताद्यैः पदैस्ततः ।। 40 ।।

व्यस्तैस्ततः समस्तैश्चाप्येकैकं[8] पुनरेव हि ।
वाच्यभेदोक्तियोगेन समस्तेनान्यथात्मना[9] ।। 41 ।।

इत्यर्चनं क्रमात् कुर्यान्मूर्तेर्मूर्तेर्महामते ।
प्रणिपातादिकं सर्वमावर्तव्यं[10] यथास्थितम् ।। 42 ।।

तुर्यान्तं[11] मौद्गलान्तैस्तु[12] मोक्षैकफललम्पटैः[13] ।
विन्यासं लाञ्छनानां तु ग्रहणेनान्वितं श्रृणु ।। 43 ।।

अस्मिन् व्रते चतुर्णां तु देवानां वस्तुसूचनम् ।
तिर्यक् स्वपक्षदेशाभ्यां [14]स्तनाख्यान्मण्डलाद् बहिः ।। 44 ।।

दक्षिणे तु गदाद्यस्य स्पष्टमुष्टिगदा भवेत् ।
वामेन कुक्षिकुहरात् समाक्रान्तश्च शङ्खराट् ।। 45 ।।

परि[15]धेर्बाह्मतोऽङ्गुष्ठं निषण्णं सर्वदा स्मरेत् ।
मुख्यहस्ते द्वितीयस्य ध्येयः शङ्खवरस्तथा ।। 46 ।।

चक्रमङ्गुष्ठ[16] ऊर्ध्वस्थं[17] वामहस्ते समुष्टिके[18] ।
प्रद्युम्नस्य गदा वामे शब्दपूर्णस्तु[19] दक्षिणे ।। 47 ।।

दक्षिणे त्वनिरुद्धस्य कमलं सूर्यवर्चसम् ।
वामतर्जनिगं चक्रं त्रिष्वङ्गुष्ठं स्मरेत् स्थितम् ।। 48 ।।

एवं यथास्थिताद् ध्यानात् फलमाप्नोति साधकः ।

अथ [20]केवलमुमुक्षुभिरनुष्ठेयव्रते कालभेदं संकल्पश्लोकानन्तरं लाच्छनन्यासध्यानभेदं चाह- भक्तिपूर्वादित्युपक्रम्य फलमाप्नोति साधक इत्यन्तम्। तुर्यान्तम् अनिरुद्धान्तम्। मौद्गलान्तैः[21] शूद्रान्तैरित्यर्थः। दक्षिणे तु गदाद्यस्येत्यत्र आद्यस्य वासुदेवस्येत्यर्थः। तिर्यक् स्वपक्षदेशाभ्यां स्तना[22]ख्यान्मण्डलाद् बहिः पार्श्वद्वयेऽपि वक्ष[23]स्थलाद् बहिरित्यर्थः। तत्सम इति यावत्। मुख्यहस्ते दक्षिणहस्त इति यावत्। द्वितीयस्य संकर्षणस्य। तथा वासुदेवहस्तवदित्यर्थः। शब्दपूर्णः शङ्खः। त्रिषु तर्जन्यादिष्वित्यर्थः।। 37-49 ।।
[1 वृत्ते- बक. बख., व्रते-अ. उ.।]
[2 स्मृत्वा- मु. अटी.।]
[3 दकत्यागं- अ. उ.।]
[4 स्मरेदेव- बख.।]
[5 मिमं- बख. अ. उ.।]
[6 व्रत- अ.।]
[7 ते- मु. अटी. उ.।]
[8 स्तेन एकै- बख. अ. उ.।]
[9 त्मनः - मु. अटी.।]
[10 चर्ते- बख. अ. ।]
[11 र्थ- मु. बक. बख.।]
[12 लान्नैः- मु. बक. बख.।]
[13 लक्षणैः- उ.।]
[14 ध्यानाभ्यां- अटी., स्थानाभ्यां- मु. बक. ।]
[15 परितो बा- मु. अटी. बक.।]
[16 क्र अ- मु. अटी.।]
[17 ष्ठमू- बख. उ.।]
[18 कम्- मु. अटी.।]
[19 पूर्णा- मु. अटी.।]
[20 केवलं- मु.।]
[21 लान्नैः शूद्रान्नै- अ.।]
[22 स्नानाख्या- अ.।]
[23 पक्ष- अ.।]

सक्षीरमन्नपात्रं तु विहितं मासि मासि च ।। 49 ।।

दानार्थं व्रतपर्यन्ते हेमरत्नतिलान्वितम् ।
निष्कामव्रतिनां नित्यमन्ते[1] गोदानमेव च ।। 50 ।।
निष्कामानां व्रते प्रतिमासं कर्तव्यदानद्रव्यं संवत्सरान्ते देयद्रव्याणि चाह- सक्षीरमिति सार्धेन ।। 49-50 ।।
[1 त्यं त्व- मु. अटी. बक.।]

प्रतिमासं सकामानां दधिपात्रं च सोदनम् ।
फलानि हेमयुक्तानि त्वन्ते भूदानमेव च ।। 51 ।।

तिलान्युदककुम्भं[1] च पत्रपुष्पादिनार्चनम् ।
यथाशक्ति दरिद्राणां हिरण्यं गोसमं स्मृतम् ।। 52 ।।
तथा सकामानां देयद्रव्याण्याह- प्रतिमासमिति सार्धेन। अशक्तानां तु गोदानभूदानप्रत्याम्नायत्वेन यथाशक्ति हिरण्यदानमाह- दरिद्राणामित्यर्धेन। गोसममित्यत्र गोशब्देन भूमिरप्युच्यते ।। 51-52 ।।
[1 नि उद- बख.।]

दानेऽर्चने तु शूद्राणां व्रतकर्मणि सर्वदा ।
असिद्धान्नं तु विहितं सिद्धं वा ब्राह्मणेच्छया ।। 53 ।।
शूद्रैस्तु व्रतान्तेऽपक्वान्नं देयम्, सत्यां ब्राह्मणानुज्ञायां पक्वान्नं वा देयमित्याह- दान इति। "आर्याध्युषिताः शूद्राः पाकं कुर्युः" (आ. ध. 2/3य4) इति ब्राह्मणानुज्ञया शूद्राणामपि पाकाधिकारविधानात् सिद्धं वा ब्राह्मणेच्छयेत्युक्तमविरुद्धं ज्ञेयम्। एवं स्वस्ववर्णाश्रमधर्माविरुद्धमेवाराधनं कार्यमित्यर्थः ।। 53 ।।

स्वकर्मणा यथोत्कर्षमभ्येति न तथार्चनात् ।
तस्मात् स्वेनाधिकारेण कुर्यादाराधनं सदा ।। 54 ।।
सहेतु[1]कमाह- स्वकर्मणेति ।। 54 ।।
[1 स्व- अ.।]

सर्वत्राधिकृतो विप्रो वासुदेवादिपूजने ।
यथा तथा न क्षत्राद्यास्तस्माच्छास्त्रोक्तमाचरेत् ।। 55 ।।
भगवदाराधने ब्राह्मणवत् (न[1]) क्षत्रियादीनामपि [2]सर्वत्राधिकारोऽस्ति, अतो यथाधिकारमनुष्ठेयमित्याह- सर्वत्रेति ।। 55 ।।
[1 मूलानुरोधेन `न' पदसंयोजनमत्रावश्यकम्।]
[2 सार्वत्रिका- मु.।]

नयेन्न[1]क्ताशनैर्भक्त्या दिनान्येतानि मौद्गलः ।
व्रताद्यन्ते तु विहितं परिपीडं हि तस्य वै ।। 56 ।।
शूद्रस्य प्रतिपक्षमेकादश्यां नक्ताशनम्, व्रताद्यन्तैकादश्योरेवोपवास इत्याह-नयेदिति ।। 56 ।।
[1 त् त्यक्ता- अ.।]

यथाभिमतमासाद् वै समारभ्य क्रमेण तु ।
इतिकर्तव्यतासक्तैर्मोक्षकामैस्तु चाग्रजैः ।। 57 ।।

दशम्यां चैव सङ्कल्पः कार्यो द्वादशवार्षिकः ।
प्राग्वदब्दं[1] तु सम्पूर्य दानैर्मासानुमासिकैः[2] ।। 58 ।।

व्रतेश्वरं जगन्नाथं प्रीणयेद् वत्सरे गते ।
पुनरारम्भमासाच्च त्वग्र्यमासस्य तद्दिनात् ।। 59 ।।

आरभ्य वत्सरं प्राग्वत् पूजयेत् प्रीणयेत् प्रभुम् ।
क्रमेणानेन सम्पाद्य द्वादशाब्दं व्रतं महत् ।। 60 ।।

तदन्ते तु यथाशक्त्या दानैर्वस्त्रानुलेपनैः ।
द्विषट्कं ब्राह्मणानां तु यष्टव्यमधिकारिणा[3] ।। 61 ।।
अथ ब्राह्मणस्य द्वादशवार्षिकं व्रतान्तरमाह- यथाभिमतमासादित्यारभ्य यष्टव्यमधिकारिणेत्यन्तम्। पूर्वोक्तैरित्यर्थः। पूर्वं प्रतिमासं यद्दानं विहितं तदत्र प्रतिसंवत्सरं कार्यम्। संवत्सरान्तविहितदानं त्वत्र द्वादशवर्षान्ते कार्यमित्यर्थः।। 57-61 ।।
[1 व्रतशब्दं- बक.।]
[2 सकैः- मु. अटी.।]
[3 णाम्- अ. उ.।]

स्वमूर्त्याराधनाद्येन कर्मणा ह्येतदेव हि ।
कार्यं व्रतमिदं[1] भक्त्या ज्येष्ठाद्यं क्षत्रियेण तु ।। 62 ।।

वैश्येनाश्वयुजादादावाचर्तव्यं[2] समासतः ।
मौद्गलेन तु माघाद्यं पालनीयं यथाक्रमम् ।। 63 ।।

इदं व्रतोत्तमं दिव्यमपवर्गफलप्रदम् ।
विहितं सर्ववर्णानाम[3]विरुद्धं च सर्वदा ।। 64 ।।
अस्य व्रतस्य क्षत्रियादीनामपि कालभेदेनानुष्ठानमाह- स्वमूर्तीति त्रिभिः। स्वमूर्त्याराधनाद्येन स्वस्ववर्णोक्तसंकर्षणादिक्रमेणेत्यर्थः ।। 62-64 ।।
[1 व्रतवरं- अ. उ.।]
[2 वर्त- अटी.।]
[3 मनि- मु. अटी. बक. बख.।]

चान्द्रायणायुतसममा सृष्टेः कल्मषापहम्[1] ।
वक्ष्ये व्रतवरं चान्यत् कर्तव्यत्वेन कर्मिणाम्[2] ।। 65 ।।

मोक्षैकफलकामानामन्येषां भावितात्मनाम् ।
मोक्षदं देहपाताद् यच्चा[3]तुरात्म्यैकयाजिनाम्[4] ।। 66 ।।

यथाभिमतमासस्य दशम्यां पातयेज्जलम् ।
नत्वा व्रतेश्वरं प्राग्वद् वत्सरद्वितयस्य च ।। 67 ।।

विशेषाच्छ्रावणे कुर्यात् सङ्कल्पं कार्तिकेऽपि च ।
आरम्भमासादारभ्य निष्ठाख्यं यावदेव हि ।। 68 ।।

द्विषट्कमुपवासानामेकवृद्ध्या तु वर्धयेत् ।
होमान्तमर्चनं कृत्वा पूर्ववत् तन्मयान्[5] यजेत् ।। 69 ।।

ततस्तु[6] परिपीडानां वत्सरं ह्रा[7]समाचरेत् ।
कार्यमासम्भमासे तु पूर्वं द्वादशरात्रिकम् ।। 70 ।।

एकैकं लोपयेत् तावद् यावदब्दः[8] समाप्यते ।
कुर्याद् व्रतसमाप्तिं तु पूर्ववत् पूजनादिना ।। 71 ।।

वृद्धिह्रासक्रमेणैतद् व्रतमुक्तं मया च ते ।
अनायासेन[9] वै येन प्राप्यते शाश्वतं पदम् ।। 72 ।।
अथ संवत्सरद्वयानुष्ठेयमुपवासवृद्धिह्रासान्वितं व्रतान्तरमाह- चान्द्रायणायुतसममित्यारभ्य प्राप्यते शाश्वतं पदमित्यन्तम् ।। 65-72 ।।
[1 कलुषा- उ.।]
[2 कर्मणाम्- मु. अटी. बक. बख.।]
[3 यं च - बक. ।]
[4 नम्- बक. बख. उ.।]
[5 मयो न्यसेत्- मु. अटी।]
[6 ततः सु- मु. अटी. बक. बख.।]
[7 ग्रास- मु. अटी. बक. बख.।]
[8 ब्दं समापयेत्- अ., ब्दं समाप्यते- उ.।]
[9 निरायासात् तु- बक. बख. अ. उ.।]

व्रतानामुत्तमं धन्यं द्वादशाख्यमतः श्रृणु ।
अकामानां सकामानामन्ते तुल्यफलं हि यत् ।। 73 ।।

सितपक्षात् तु चैत्रस्य कार्याऽऽद्येऽहनि कल्पना ।
गतेऽर्धरात्रसमये[1] चा प्रभातात् ततोऽच्युतम् ।। 74 ।।

उपवासं विनाऽभ्यर्च्य कार्यं वै नक्तभोजनम् ।
एकादश्यन्तमेवं[2] हि पौनःपुन्येन लाङ्गलिन् ।। 75 ।।

कार्यमप्यययुक्त्या वै चातुरात्म्यस्य पूजनम् ।
एकादश्यां न भुञ्जीत विहितस्तत्र जागरः ।। 76 ।।

द्वादश्यामादिदेवं तु समाराध्य यथाविधि ।
मध्याह्नसमये प्राप्ते विधिवत् तन्मयान्[3] यजेत् ।। 77 ।।

भक्त्या शक्त्या तु चतुर एकैकं प्रत्यहं त्वपि ।
गवां ग्रासः[4] स्वसामर्थ्याल्लोपनीयो न सर्वदा ।। 78 ।।

सह पूर्वोक्तदानैस्तु व्रतकर्मपरायणैः ।
प्राप्ते तु तद्दिने भूयः कृष्णपक्षस्य लाङ्गलिन् ।। 79 ।।

अर्चनं केशवादीनां त्रिसन्ध्यं प्राग्वदाचरेत् ।
द्वादश्यां सोपवासस्तु [5]यजेद् दामोदरं प्रभुम् ।। 80 ।।

दानान्तमर्चनाद्यं तु सितपक्षोक्तमाचरेत् ।
प्राभवेण क्रमेणैव चैवं[6] मूर्त्यन्तरं यजेत् ।। 81 ।।

मूर्तिभिश्चाप्ययाख्येन संवत्सरमतन्द्रितः ।
यो योऽधिकारी भक्तो वा तस्य तुप्य[7]त्यधोक्षजः ।। 82 ।।
अथ द्वादशाख्यव्रतमाह- व्रतानामुत्तमं धन्यमित्यारभ्य तस्य तुष्यत्यधोक्षज इत्यन्तम्। आद्येऽहनि प्रतिपदि। कल्पना संकल्पः। द्वादश्यामादिदेवं वासुदेवमित्यर्थः। एवं च चैत्रशुक्लप्रतिपदमारभ्य तद्द्वादश्यन्तं[8] पुरुषसत्याच्युतवासुदेवानामेव पुनस्तेषामेव प्रत्यहमेकैकक्रमेणार्चनं कुर्वन् कृष्णप्रतिपदमारभ्य तद्द्वादश्यन्तं तथा केशवादिमूर्तिनामर्चनं च कुर्यात्। पक्षद्वयेऽप्येकादश्यामुपवासो जागरश्च। अवशिष्टदिनेषु नक्तभोजनम्। मध्याह्नसमये ब्राह्मणभोजनम्, तदशक्तौ गोग्रासकल्पनं वा, प्रतिपक्षं पूर्वोक्तदानं च कार्यम् ।। 73-82 ।।
[1 य आ- अ. उ.।]
[2 श्यां- बक. अ. उ.।]
[3 मयो न्यसेत्- मु. अटी.।]
[4 सस्त्व- अ.।]
[5 न्यसेत्- मु. अटी.।]
[6 एवं- बक. बख. अ. उ.।]
[7 तुष्येत् तथाक्षजः- अ. ।]
[8 `तद्' नास्ति- अ.।]

षोडशाख्यमतो[1] वक्ष्ये व्रतं धन्यतमं हि यत् ।
पूर्ववद् रात्रिसमय आषाढस्याद्यवासरे ।। 83 ।।

गृहीत्वा नियमं कुर्यादा प्रभातादिपूजनम् ।
त्रिसन्ध्यं वामनादीनां विधिवद् द्वादशाहकम्[2] ।। 84 ।।

त्रयोदश्यां ततोऽभ्यर्च्य चतुर्वर्गप्रदं प्रभुम् ।
आद्यन्तमनिरुद्धादि तदाद्यमपरेऽहनि ।। 85 ।।

तृतीयं पञ्चदश्यां तु [3]संशान्तव्यक्तलक्षणम् ।
एवं मूर्त्यन्तरैर्युक्तं चातुरात्म्यं त्रिधा स्थितम् ।। 86 ।।

आराध्य परया भक्त्या चैका[4]दश्यामनश्नतः ।
पूर्णं[5] तदर्चनं कृत्वा पञ्चदश्यां यथाविधि ।। 87 ।।

चत्वारस्तन्मयाः पूज्याः श्रद्धापूतेन चेतसा ।
आत्मयागं ततः कुर्याद् दिनान्तेऽर्चनपूर्वकम् ।। 88 ।।

एवमाश्वयुजे भूयः पर्वादौ प्रारभेत् क्रियाम् ।
पद्मनाभादिमूर्तानामर्चनं विहितं क्रमात् ।। 89 ।।

एका[6]दश्यामनश्नंस्तु सर्वं निर्वर्त्य पूर्ववत् ।
सम्प्राप्ते च ततः पौषे यजेन्नारायणादिकम् ।। 90 ।।

द्वादश्यां तद् द्विषट्कं च तथा व्यूहत्रयं त्वपि ।
चैत्रे तद्दिवसादादौ विष्ण्वादीनां समर्चनम् ।। 91 ।।

विहितं सद्[7]व्रतज्ञानां सह व्यूहत्रयेण तु ।
विशेषपूजनं कुर्यात् सम्पन्ने वत्सरे सति ।। 92 ।।

विभोरग्रे द्विजेन्द्राणां षोडशानां स्वशक्तितः ।

अथ व्रतान्तरमाह- षोडशाख्यमिति प्रक्रम्य षोडशानां स्वशक्तित इत्यन्तम्। अत्र केशवादयो द्वादश वासुदेवादयश्चत्वारः, आहत्य षोडशमूर्तयः। एतेषां षोडशानामुक्तक्रमेणार्चनादिकं षोडशाख्यव्रतमित्युच्यते। यद्वा आषाढादिमासचतुष्टये प्रतिमासं वासुदेवादीनां चतुर्णामर्चनात् षोडशाख्यमिति ज्ञेयम्। आषाढे वामनादीनाम्, आश्वयुजे पद्मनाभादीनाम्, पुष्ये नारायणादीनाम्, चैत्रे विष्ण्वादीनां चार्चनं[8] तत्तन्मासे तत्तन्मासाधिपतिमारभ्यार्चनीयत्वादुक्तमिति ज्ञेयम्। केशवादीनां मार्गशीर्षाद्याधिपत्यं प्रसिद्धं खलु। आद्यन्तमनिरुद्धादि पुरुषादिवासुदेवान्तमित्यर्थः। अपरेऽहनि चतुर्दश्यां तदाद्यं वासुदेवाद्यं स्वप्नव्यूहमिति भावः। पञ्चदश्यां पौर्णमास्यां संशान्तव्यक्तलक्षणम् अभिव्यक्तानभिव्यक्तमित्यर्थः। तृतीयं सुषुप्तिव्यूहमित्यर्थः। चातुरात्म्यं त्रिधा स्थितं जाग्रत्स्वप्नसुषुप्तिभेदेन त्रिविधमित्यर्थः।। 83-93 ।।
[1 मधो-बक.।]
[2 ह्निकम्- अ.।]
[3 शान्तिव्यक्ति- मु. अटी. बक.।]
[4 एका-बक.। बख. अ. उ.।]
[5 पूर्णान्तम- अ.उ.।]
[6 निरश्नन्नेकादश्यां तु- बक. बख. अ. उ.।]
[7 सद्व्रतं- मु., सद्वृत्त-बक.।]
[8 `चार्चनं' नास्ति- अ.।]


दत्तशिष्टमतृप्तं च दैवीयान्नेन भावितम् ।। 93 ।।

हविश्शेषेण संयुक्तं व्रतिनां भोजनं हितम्[1] ।
एवं सितेऽसिते वापि ह्युभ[2]योरपि पक्षयोः ।। 94 ।।
अथैवं व्रतनिष्ठानां भोज्यद्रव्यमाह-दत्तशिष्टमिति। अयं श्लोकः सच्चरित्ररक्षायां व्याख्यातः। तथाहि- "दत्तशिष्टं [3]कारिसंप्रदानावशिष्टम्। [4]दैवीयान्नेन पाकपात्रावशिष्टेन हविःशेषेण चरुशेषेण व्रतिनां भगवद्रूप[5]निष्ठानां सर्वेषां हितम् अनिष्टनिवर्तकत्वादिष्टप्रापकत्वाच्चावश्यं [6]भोक्तव्यमित्यर्थः। अत्र भोजनमिति कर्मणि ल्युडन्तम्" (पृ. 94-95) इति ।। 93-94 ।।
[1 स्थितम्- उ.।]
[2 उभयो- उ.।]
[3 कार्य- मु.।]
[4 देवीया-मु., देवान्नेन- मु.।]
[5 द्व्रत-मु., च्छास्त्र-मु.।]
[6 श्यभो-भ. मु.।]

यथा[1]भिमतमासाद् वै समारभ्य यजेत् क्रमात् ।
एकादश[2] च मासेशान् पर्वादौ तु सकृत् सकृत् ।। 95 ।।

द्वादश्यां सोपवासस्तु तन्मासेशमथार्चयेत् ।
तत्कारणादिभेदोत्थं चातुरात्म्येन वै सह ।। 96 ।।

पुण्यं व्रतमिदं विद्धि वृद्धस्त्रीबालसिद्धिकृत् ।
नित्यं सद्वैष्णवैः कार्यमविरुद्धमखेददम् ।। 97 ।।

प्राक्प्रणीतैर्महाभोगैः शक्त्या दानसमन्वितैः ।
गृहस्थैर्ब्रह्मचर्यस्थैर्वानप्रस्थैस्तु[3] भिक्षुकैः ।। 98 ।।

येन केन प्रकारेण वित्तं[4] सम्भृत्य वै पुरा ।
नित्यं धर्माविरुद्धेन भैक्ष[5]पूर्वेण सर्वदा ।। 99 ।।

पुनर्व्रतान्तरमाह- एवं सितेऽसिते वापीति प्रक्रम्य भैक्षपूर्वेण सर्वदेत्यन्तम्। अस्यार्थः- यथाभिमतमासे शुक्लपक्षे कृष्णपक्षे वोभयोर्वा प्रतिपदमारभ्यैकादश्यन्तं तन्मासेशस्योत्तरादिनैकादशमासेशान् प्रत्यहमेकैकक्रमेणाभ्यर्च्यैकादश्यां कृतोपवा(सम्? सो) द्वादश्यां तन्मासेशम्, तत्कारणभूतो वासुदेवः संकर्षणः प्रद्युम्नोऽनिरुद्धो वा यस्तदादिचातुरात्म्यं च संपूज्य दानादिकं कुर्यात्। एवं चेदं सुस्पष्टं बोध्यम्- चैत्रमासे यदि व्रतमनुष्ठीयते तन्मासेशो विष्णुः, तदुत्तरं मधुसूदनादयो वैशाखाद्येकादशमासेशाः प्रतिपदादिष्वर्चनीयाः। तन्मासेशो विष्णुः, तत्कारणभूतसंकर्षणादिवासुदेवान्ताश्चत्वारश्च द्वादश्यामर्चनीयाः। तन्मासेशो विष्णुः, तत्कारणभूतसंकर्षणादिवासुदेवान्ताश्चत्वारश्च द्वादश्यामर्चनीयाः। एवमन्यत्रापि ज्ञेयम्। केशवादीनां त्रिकं त्रिकं प्रति वासुदेवादीनामेकैकस्य कारणत्वमुत्तरत्र (8/55-56)सुस्पष्टं वक्ष्यति।। 94-99 ।।
[1 तथा- बक.।]
[2 दशे-मु. अटी. बक. बख. उ.।]
[3 वनवासैः- बक. बख. उ.।]
[4 वृत्तं - अटी.।]
[5 भैक्ष्य- उ.।]

कुटुम्बभरणाद्यर्थं लाभे भैक्षादिके तु वै ।
अवज्ञा परमा यत्र बुद्धिमांस्तत्र संवसेत्[1] ।। 100 ।।
अथ प्रसक्तं भैक्षादिद्रव्यविचारं विवृण्वन् तल्लाभे प्रतिग्रहीतुर्यत्र बहुशोऽवमानं जायते, तत्रैव बुद्धिमता प्रतिग्रहीत्रा वस्तव्यमित्याह- कुटुम्बेति। भैक्षं याचितम्। "भिक्षा याच्ञवार्थनार्दना" (3/2/6)इत्यमरः। अवज्ञा अवमाननम्। "[2]रीढावमाननावज्ञा" (1/7/23)इत्यमरः।। 100 ।।
[1 वदेत्- मु. अटी. बक. बख.।]
[2 पीडा- अ. म.।]

दाता ददाति यत् किञ्चित् पूजापूर्वं हि भक्तितः ।
कृत्स्नं तदीयमशुभं तिष्ठत्यर्थिजनाश्रितम् ।। 101 ।।
यतः संमानं[1] प्रतिग्रहीतुरेव बाधकमित्याह- दातेति ।। 101 ।।
[1 संमाननं-मु.।]

परिभूते तु वै लाभे सन्तोषो यस्य जायते ।
प्रतिग्रहोत्थितो दोषस्तस्य दूरतरं व्रजेत् ।। 102 ।।

एवं ज्ञात्वा[1] तु पात्राणां भक्तानां भावितात्मनाम् ।
जनयेद् बुद्धिभेदं तु नेतरेषां कदाचन ।। 103 ।।
अतोऽनादरपूर्वकं दत्तेऽपि यः प्रतिग्रहीता संतुष्टो भवति, स प्रतिग्रहो[2] दोषेण विलुप्तो[3] भवतीत्याह- परिभूत इति। लाभे भैक्षादिद्रव्यलाभे। परिभूते तिरस्कृते, अनादरपूर्वकं दत्ते सतीति भावः। "अनादर परिभावः" (1/7/22) इत्यमरः। एवं च आदरपूर्वकं दानं दातुः श्रेयःसंपादकमिति[4] ज्ञात्वादरपूर्वकमनिच्छतां पात्राणां [5]सविनयप्रार्थनादिभिस्तदङ्गीकाराय बुद्धिं जनयेत्। अपात्राणां तां न जनयेदित्याह- एवमिति ।। 102-1-3 ।।
[1 त्वाऽप्यया- मु. अटी.।]
[2 ग्रही- इह- अ.।]
[3 निरुक्तो- अ.।]
[4 कर- अ.।]
[5 विनय- अ.।]

यत्र दाता ग्रहीता च द्वावेव कलुषात्मकौ ।
दृष्टादृष्टविनाशार्थं दानं द्वाभ्यां हतं तु तत् ।। 104 ।।
दातृप्रतिग्रहीत्रोरुभयोरपि कलुषात्मकत्वे दानवैफल्यमाह- यत्रेति ।। 104 ।।

प्रागेवं[1] चित्त[2]संशुद्धिं[3] भावशुद्धिसमन्विताम्[4] ।
निश्चयीकृत्य यत्नेन दिव्यमायतनं व्रजेत् ।। 105 ।।

व्रत[5]संसिद्धये[6] नूनं सिद्धायतनमेव वा ।
अथावाऽऽयतनं रम्यमासन्ननगरादिकम् ।। 106 ।।

निर्विघ्नेन व्रतं यस्मान्विष्पद्येतात्र कर्मिणाम् ।
कर्मवाङ्मनसैः शुद्धस्तपोनिष्ठः क्रियापरः ।। 107 ।।

यो नान्यदेवतायाजी तत्त्वतो भगवन्मयः ।
कस्मिंश्चिद्वैभवे रूपे व्यूहीये वा सुबुद्धिमान् ।। 108 ।।

बद्धलक्ष्यो भवेद् भक्त्या त्वाप्तागमनिदर्शनात् ।
एवं भावशुद्धिसंपादितां चित्तशुद्धिं पूर्वं निश्चित्य व्रतानुष्ठानार्थं सैद्धमानुषस्थानेष्वन्यतमं गत्वा तत्र विभवाकृतौ व्यूहाकृतौ वा भगवति व्रतान्तं[7] न्यस्तचित्तो भवेदित्याह- प्रागेवमिति सार्धैश्चतुर्भिः। दिव्यं स्वयंव्यक्तमित्यर्थः ।। 105-109 ।।
[1 प्रागेव- बक. बख. अ.।]
[2 वित्त इति सार्वत्रिकः पाठः।]
[3 द्धि- बक. बख. अ. उ.।]
[4 ताः-उ.।]
[5 व्रतं- बक. बख.।]
[6 यत्- अ. उ.।]
[7 न्तर- अ.।]

तस्यापि तादृशानां च भविनामनुकम्पया ।। 109 ।।

व्यक्ततामगमद् देवः स्वयमेव धरात्मना ।
यत्र मोक्षप्रदं विद्धि दिव्यमायतनं हि तत्[1] ।। 110 ।।
प्रसङ्गाद् दिव्यायतनलक्षणमाह- तस्यापीति सार्धेन ।। 109-110 ।।
[1 यत्- अ. उ.।]

मन्त्र[1]सिद्धैश्च विबुधैर्मुनिमुख्यैस्तथामलैः ।
शान्तये देशजानां त्वप्यात्म[2]नश्चापि कीर्तये[3] ।। 111 ।।

मन्त्राकृतिमयं ध्यात्वा पाषाणं वसुधातले ।
पावनं वा ततं वृक्षं ज्ञात्वा वा देवताश्रयम् ।। 112 ।।

कृत्वा तच्छक्तिसंरुद्धं विसृज्य च तदाश्रितम् ।
विद्धि सर्वेश्वस्यैवं स्थितं निलयलक्षणम् ।। 113 ।।

स्वमन्त्रसन्निधिं तत्र कृत्वा तद्विग्रहान्वितम् ।
पूजितं पत्रपुष्पाद्यैस्तत्सिद्धायतनं स्मृतम् ।। 114 ।।
सिद्धायतनलक्षणमाह- मन्त्रसिद्धैरिति प्रक्रम्य तत्सिद्धायतनं स्मृतमित्यन्तम्। विसृज्य च [4]तदाश्रितमित्यत्र विसर्जनप्रकारश्चतुर्विशे[5] परिच्छेदे-
इहाश्रितात्मने तुभ्यं नमः सर्वेश्वराय च ।
क्षमस्वावतरान्यत्र संतिष्ठा[6]त्र चिदात्मना ।। (24/85)
इति वक्ष्यमाणो ज्ञेयः। अत्र-
स्वयंव्यक्तं तथा सैद्धं[7] विबुधैश्च प्रतिष्ठितम् ।।
मुनिमुख्यैस्तु गन्धर्वैयक्षविद्याधरैरपि ।
रक्षोभिरसुरैर्मुख्यैः स्थापितं मन्त्रविग्रहम् ।।....
स्थापितं मनुजेन्द्रैस्तु ह्यनुवेदादिकोविदैः ।।
(पा. सं. 10/317-318,321)
इति पारमेश्वरोक्तसैद्धाद्यष्टविधभेदानामपि सैद्धायतन एवान्तर्भावो बोद्ध्यः, सिद्धगन्धर्वादीनामपि विबुधेष्वन्तर्भावात्, मुनिमुख्यैस्तथामलैरित्यत्रामलशब्देनान्येषामपि सूचितत्वाच्च ।। 111-114 ।।
[1 मन्त्रैः- अ.।]
[2 तु आ-बक., चाप्या- अ.।]
[3 येत्- बक. बख. अ. उ.।]
[4 तदाश्रय- अ.।]
[5 र्विशति- म.।]
[6 ष्ठस्वा- अ. म.।]
[7 सिद्धवि- मु.।]

फलाप्तये[1] तु विप्राद्यैः स्वकुलोद्धा[2]रणाय च ।
स्थापितं भगवद्बिम्बं ज्ञेयमायतनं हि तत् ।। 115 ।।
मानुषायतनमाह- फलाप्तय इति ।। 115 ।।
[1 फलप्राये-मु.।]
[2 द्धर- मु.।]

क्रियाङ्गभागं[1] यातस्य[2] सर्वगस्य[3] च वै विभोः ।
विद्धि सर्वेश्वरस्यैवं स्थितं नियत[4]लक्षणम्[5] ।। 116 ।।
उक्तमर्थं निगमयति- क्रियेति ।। 116 ।।
[1 भावं-अ. उ.।]
[2 यागस्य- अ.।]
[3 स्यापि- अ.उ.।]
[4 निलय-अ.।]
[5 इतः परम्- `स्वमन्त्रसन्निधिं तत्र कृत्वा तद्विग्रहान्वितम्' इत्येषा पङ्क्तिः 114 श्लोकस्था पुनरत्र दृश्यते- मु. अटी.।]

प्रासादद्वारदेशाच्च यत्र शङ्खध्वनिक्षयः[1] ।
पूर्वादि[2] सर्वदिक्[3] तावत् क्षेत्रं भवति वैष्णवम् ।। 117 ।।
मानुषभगवन्मन्दिरस्य परितो वैष्णवक्षेत्रप्रमाणमाह- प्रासादेति। विमानद्वारसमीपे कृतः शङ्कनादो यावद्दूरं श्रूयते, तावदन्तं परितो वैष्णवक्षेत्रमिति भावः ।। 117 ।।
[1 यम्- अ. उ.।]
[2 प्रयाति- बक. बख. अ. उ.।]
[3 क्यादेकैक- अ.।]

सिद्धावतारिताद् देवात् तदेतद् द्विगुणं स्मृतम् ।
त्रिगुणं च स्वयंव्यक्ताद् देहान्ते भावितात्मनाम् ।। 118 ।।

फलं सालोक्यतापूर्वं परिज्ञेयं क्रमाद् यतः ।
सैद्धस्थाने तद्द्विगुणं स्वयंव्यक्तस्थाने तत्त्रिगुणं च वैष्णवक्षेत्रमानमाह- सिद्धावतारितादिति त्रिभिः पादैः। वैष्णवक्षेत्रस्य स्वयंव्यक्तत्वादिभेदेन सालोक्यादिफलप्रदत्वमाह- देहान्त इति त्रिभिः पादैः। यतो वैष्णवक्षेत्रादित्यर्थः। सालोक्यतापूर्वमित्यत्र पूर्वपदेन सामीप्यसारूप्यसायुज्यानि गृह्यन्ते। क्रमाद् मानुषादिक्रमेणेत्यर्थः।
ननु देवतान्तरप्राप्तौ हि सालोक्यादिभेदावाप्तिः, भगवत्प्राप्तौ तु "परमं साम्यमुपैति" (मुण्ड. 3/1/3), "मम साधर्म्यमागताः" (भ. गी. 14/1), "भोगमात्रसाम्यलिङ्गाच्च" (ब्रह्म. 4/4/11) इति श्रुतिस्मृतिसूत्रैः सालोक्यादिचतुष्टयमप्येकैकस्यैव संभवतीति प्रतिपादितम्। अत्रोक्तं सालोक्या[1]द्येकैकफलभेदमात्रावाप्तिकथनं कथं तदविरुद्धमिति चेत्, सत्यम्। इयमाशङ्का निगमान्तदेशिकैरपि सच्चरित्ररक्षायां परिहृता। तथाहि- "भगवत्प्राप्तावपि विष्णुलोकादिषु द्वार[2]पालादिष्विव तथाविधभेदोऽस्तीति तदपेक्षिणां [3]प्राप्यभेदद्योतनाय पृथङ्निर्देशः। यथाहुः-
लोकेषु विष्णोर्निवसन्ति केचित् समीपमिच्छन्ति च केचिदन्ये ।
अन्ये तु रूपं सदृशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः ।। इति" (पृ. 31)
यद्वा क्रमादित्यत्र सालोक्यसामीप्यादिक्रमेणेत्यर्थवर्णने नास्त्येतदाशङ्काया एवावकाशः, सर्वस्यापि क्षेत्रस्य सालोक्यादिफलचतुष्टयप्रदत्वसम्भवात् ।। 118-119 ।।
[1 क्यादेकैक- अ.।]
[2 द्वारकादिष्विव- अ. मु.।]
[3 प्राप्ति- मु.।]

दुष्टेन्द्रियवशाच्चितं नृणां यत्कल्मषैर्वृतम्[1] ।। 119 ।।

तदन्तकाले संशुद्धिं याति नारायणालये ।
व्रतान्येतानि यः कुर्यादभिसन्धाय चेतसा ।। 120 ।।

अभीष्टमतितीर्वेण तदाप्नोत्यचिरात् तु सः ।
वैष्णवक्षेत्रस्य मनःपरिशुद्ध्यावहत्वं चाह- दुष्टेति त्रिभिः पादैः। यत इत्यस्याप्यनुषङ्गः कार्यः। भगवन्मन्दिरे व्रतानुष्ठानस्य शीघ्रफलप्रदत्वमाह- नारायणालय इति ।। 119-121 ।।
[1 व्रतम्- बक.।]

श्रद्दधानैरतस्तस्माद् दृष्टादृष्टफलाप्तये ।। 121 ।।

व्रता[1]न्येतानि कर्तव्यान्यभिसन्धाय चेतसा ।

अत एतेषां व्रतानामवश्यानुष्ठेयत्वमाह- श्रद्दधानैरिति ।। 121-122 ।।
[1 पङ्क्तिरेषा नास्ति- अ.।]

नावसादस्तु कर्तव्यो [1]व्रतभङ्गात् कदाचन ।। 122 ।।

सङ्कल्पादेव भगवांस्तत्त्वतो भावितात्मनाम् ।
व्रतान्तमखिलं कालं सेचयत्यमृतेन तु ।। 123 ।।
आरब्धे व्रते मध्ये येन केनापि[2] हेतुना विघ्नितेऽपि ततो न भेक्तव्यम्। यतो व्रतं करिष्यामीति संकल्पमात्रादेवारभ्य व्रतसमाप्तिपर्यन्तं यावदनुष्ठानं संभवति, तावतैव फलसिद्धिर्भवतीत्याह- नावसाद इति सार्धेन। अवसादो न कार्यः, अधैर्यं नाधिगन्तव्यमित्यर्थः। अयमेवार्थो वङ्गिवंशेश्वरैः प्रतिपादितः सच्चरित्ररक्षायामुदाहृतः-
एव[3]मेकदिनं वाथ द्विदिनं त्रिदिनं तु वा ।।
मासं संवत्सरं वापि यावज्जीवितमेव वा ।
वर्तेत भक्त्या परया वैष्णवः सुचिरं सुखी[4] ।।
प्रारब्धे मध्यतो[5] विघ्नाद् विच्छिन्नेऽप्यत्र कर्मणि ।
नानर्थो न च नैष्फल्यं न कृतांशस्य संक्षयः ।।
प्रारब्धेष्वसमाप्तेषु विच्छिन्नेष्वन्यकर्मसु ।
भवत्येवैतदखिलं वैदिकेष्वितरेष्वपि ।।
कृतः स्वल्पांशकोऽप्यस्य स्थित्वा[6] सुचिरमक्षयः ।
त्रायते[7] च[8] स्वकर्तारं स्वशक्त्या भवभीतितः ।। इति ।।
नन्विदं भगवदाराधनविषयम्, नहि व्रतानुष्ठानविषयमिति चेन्न, अस्य व्रतस्यापि भगवदाराधनरूपत्वात्, भगवदाराधनस्यापि शातवार्षिकव्रतरूपत्वात्। अत एव वङ्गिवंशेश्वरैर्नित्याराधनप्रकरणेऽपि-
[9]त्वदाराधनकामोऽयं व्रतं चरितुमिच्छति ।
संकल्पसिद्ध्यै भगवन् पूरयाऽस्य मनोरथान्[10] ।। (श्लो. 39)
इति व्रतविधाने वक्ष्यमाण(8/7-8) श्लोकस्यैव संगृहीतत्वादुभयोरप्यविशेषो बोध्यः ।। 122-123 ।।
[1 ग्लानिभ- अ.उ.।]
[2 येन केन वा- मु.।]
[3 वङ्गिवंशेश्वरविरचितायामाह्निककारिकायां 504-508 संख्याका इमे श्लोका द्रष्टव्याः।]
[4 मुखम्-मु. ।]
[5 घ्नैर्वि- मु.।]
[6 स्तवः सुषिरमव्ययम्- अ.।]
[7 त्रायेतैव- प. प.।]
[8 वर्ष- अ., विश्व-मु.।]
[9 त्वय्या- मु.।]
[10 रथम्- मु.।]

ज्ञात्वैवं बद्धलक्ष्येण भवितव्यं सदैव हि ।
प्राप्तये सर्वकामानां संसारभयभीरुणा ।। 124 ।।
इममर्थं ज्ञात्वा निखि(लं?ल)पुरुषार्थप्राप्त्यर्थं भगवति दृढचित्तेन भवितव्यमित्याह- ज्ञात्वेति ।। 124 ।।

इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां व्रतविधिर्नाम सप्तमः परिच्छेदः ।।

इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये सप्तमः परिच्छेदः।।