परमेश्वरसंहिता/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० परमेश्वरसंहिता
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →
परमेश्वरसंहितायाः अध्यायाः

।। श्रीः ।।
एकादशोऽध्यायः
सनकः ---
नित्योत्सवविधौ ब्रह्मन्! पूजनं समुदाहृतम्।
द्वारावरणदेवानां तेषां ध्यानादिकं क्रमात् ।। 1 ।।
ज्ञातुमिच्छामि विप्रेन्द्र! प्रब्रूहि मम विस्तरात्।
शाण्डिलयः ---
श्रूयतामभिधास्यामि यदहं चोदितस्त्वया ।। 2 ।।
प्रासादद्वारदेवेभ्यः समारभ्य यथाक्रमम्।
प्रासादद्वारबाह्ये तु ह्यधस्थौदुम्बरान्तिमे ।। 3 ।।
वास्त्वीशक्षेत्रनाथौ द्वौ स्थितौ दक्षेतरक्रमात्।
शुक्लवक्त्रः कृष्णदेहो द्विभुजो रत्नपात्रधृक् ।। 4 ।।
दक्षिणेन करेणैव सर्वामरसमाश्रयः।
पुण्डरीकसमानाभवस्त्रस्रगनुलेपनः ।। 5 ।।
गदोद्यतकरो विप्र! ध्यातव्यो वास्तुपूरुषः।
क्षेत्रेशं द्विभुजं ध्यायेद्धेमाभवसनस्रजम् ।। 6 ।।
नीलजीमूतसंकाशं दण्डहस्तं महातनुम्।
मुष्टिकृद्वामहस्तेन यागक्षेत्‌य पालकम् ।। 7 ।।
कुण्डलाद्यैरलङ्कारैरेतौ शोभितविग्रहौ।
वीक्षमाणौ विभोर्वक्त्रं तेजसातीव निर्भरौ ।। 8 ।।
तप्तकाञ्चनवर्णाभां प्रवालसदृशाम्बराम्।
हारनूपुरकेयूरकरण्डमकुटादिकैः ।। 9 ।।
अलङ्‌कृतामलङ्कारैः पुण्डरीकनिभेक्षणाम्।
अकलङ्कसुसम्पूर्णशरच्चन्द्रनिभाननाम् ।। 10 ।।
पझकुम्भकरां लक्ष्मीं पझोपरिगतां स्मरेत्।
पद्मासनेनोपविष्टां द्वारस्योर्ध्व उदुम्बरे ।। 11 ।।
तरुणादित्यसंकाशो महोरस्कश्चतुर्भुजः।
उन्नतश्चोन्नतांसश्च पूर्णाङ्गो नातिमांसलः ।। 12 ।।
तनूदरो निम्ननाभो रोमराजिविराजितः।
दंष्ट्राकरालवदनः पिङ्गश्मश्रुजटाधरः ।। 13 ।।
मधुपिङ्गलनेत्रश्च कुटिलभ्रूलतायुतः।
प्रलम्बलोलश्रवणः पृथुघ्राणः स्मिताननः ।। 14 ।।
कुण्डलालङ्‌कृतस्चैव हारकेयूरभूषितः।
बद्धोष्णीषललाटश्च तिलकेनाप्यल्‌ङकृतः ।। 15 ।।
शुक्लाम्बरधरः स्रग्वी भुजयुग्मेऽस्य दक्षिणे।
प्रोद्यतं संस्मरेच्चक्रं प्रज्वलन्तीं गदां परे ।। 16 ।।
श्रोणीतटनिषण्णां च विश्रान्तां वसुधातले।
पूर्वे वामकरे शङ्खमन्यस्मिश्चाक्षसूत्रकम् ।। 17 ।।
एवं गणाधिपश्चण्डो विक्रमेणापराजितः।
क्रुद्धो विघ्नायुतानां च क्षणात् संहरणक्षमः ।। 18 ।।
ध्येयो गर्भगृहद्वारशाखामूले तु दक्षिणे।
तत्रैवापरभागे तु प्रचण्डं त्वीदृशं यजेत् ।। 19 ।।
किंतु सव्यापसव्याभ्यां भुजाभ्यां स्याद्विपर्ययः।
भुजद्वये यच्चण्डस्य वामे संपरिकीर्तितम् ।। 20 ।।
दक्षिणे तत् प्रचण्डस्य ध्येयं वा परिकलप्य च।
ध्यायेद्‌द्वाराग्रदेशे तु गरुडं काञ्चनप्रभम् ।। 21 ।।
कुटिलभ्रुसुवृत्ताक्षं पक्षमण्डलमण्डितम्।
लम्बोदरं सुपीनाङ्गं सर्वभूषणभूषितम् ।। 22 ।।
मकुटाद्यैरलङ्कारैर्नूपुराद्यैर्विराजितम्।
नीलं वसानं वसनं नानामाल्योपशोभितम् ।। 23 ।।
संमुखं देवदेवस्य भूगतं विधृताञ्जलिम्।
द्विभुजं तुहिनाभं च सत्याख्यं विहगाधिपम् ।। 24 ।।
प्राणाधिदैवतं चक्रे बलिमण्डलमध्यगे।
संस्थितं संस्मरेत् सर्वैरङ्गैः पुरुषरूपिणम् ।। 25 ।।
प्रलम्बमानजठरं पक्षराजिविराजितम्।
दक्षिणेन करेणैव धारयन्तं गणित्रकम् ।। 26 ।।
उत्तानितेतरकरं कुण्डलाद्यैर्विभूषितम्।
नीलकौशेयवसनं नीलमाल्यानुलेपनम् ।। 27 ।।
अनाकुलाभ्यां नेत्राभ्यां वीक्षमाणं सदा विभुम्।
अथाग्रमण्डपद्वारशाखायुगलसंस्थितौ ।। 28 ।।
पझगर्भप्रतीकाशावतिभीमपराक्रमौ।
चण्डप्रचण्डसदृशौ भुजलाञ्छनभूषणैः ।। 29 ।।
रक्ताम्बरधरौ चैव रक्तस्रगनुलेपनौ।
गणौ धातृविधातारौ ध्यात्वा सपूज्य तत्परः ।। 30 ।।
कुमुदादिगणेशानान् प्रथमावरणे यजेत्।
पूर्वे च वह्निदिग्भागे पूज्यौ द्वौ गणनायकौ ।। 31 ।।
कुमुदः कुमुदाक्षश्च प्रसन्नवदनेक्षणौ।
तुहिनाचलसङ्काशौ प्रथमे वयसि स्थितौ ।। 32 ।।
नानाभरणदिग्धाङ्गौ नानाकुण्डलभूषितौ।
नानामाल्यचितौ चैव नानामौलिधरौ द्विज! ।। 33 ।।
नानागन्धविलिप्ताङ्गौ नानावस्त्रविभूषितौ।
कुमुदाख्यगणेशस्य ध्यातव्यो दक्षिणः करः ।। 34 ।।
चन्द्ररश्मिप्रतीकाशचामरेण विराजितः।
अभिगच्छाभयं ध्यायेद्द्वितीयं दक्षिणं करम् ।। 35 ।।
भवभङ्गात् प्रपन्नानां परेषां गुणशासनम्।
तस्यैवाद्यं वामकरं प्रबुद्धकमलोद्यतम् ।। 36 ।।
तूष्णीं भीसूचकं ध्यायेद्बहिःस्थानां परं करम्।
एतेद्वै कुमुदाक्षस्य वैपरीत्येन भावयेत् ।। 37 ।।
द्वाभ्यां द्वाभ्यां कराभ्यां वै त्वन्येषामेवमेव हि।
पुण्डरीको वामनश्च द्वावेतौ हुतभुक्‌प्रभौ ।। 38 ।।
गरुडध्वजहस्तौ च शेषमन्यत् पुरोदितम्।
कृत्वा ध्यात्वाऽथवा न्यस्य दक्षिणे नैर्ऋतेऽपि च ।। 39 ।।
शङ्‌कुकर्णाभिधानो यः सर्वनेत्राभिसंज्ञितः।
द्वावेतौ चम्पकाभौ तु मयूरव्यजनोद्यतौ ।। 40 ।।
महाविभूतेर्देवस्य प्रत्यग्वायुदिगास्थितौ।
सुमुखः सुप्रतिष्ठश्च विभोः सोमेशदिक्‌स्थितौ ।। 41 ।।
चिन्त्यौ मुद्गफलश्यामावातपत्रकरोद्यतौ।
नोक्तशेषकराणां तु तद्विद्धि कुमुदोदितम् ।। 42 ।।
मानवः पृश्निगर्भश्च जगत्यम्बरसंस्थितौ।
तप्तकाञ्चनवर्णाभौ करण्डमकुटोज्ज्वलौ ।। 43 ।।
दंष्ट्राकरालवदनौ नानामाल्यधरौ द्विज!।
तत्र मानवसंज्ञस्च पक्षनागविभूषितः ।। 44 ।।
तस्य दक्षिणहस्तश्च शङ्खराजेन शोभितः।
तत्पृष्ठे कटके हस्ते अङ्‌गुष्ठान्तरलोलगा ।। 45 ।।
अक्षमालेति सा प्रोक्ता सर्वसिद्धिकरी सदा।
मुख्यवामकरे चक्रं तत्पृष्ठे चोर्ध्वगा गदा ।। 46 ।।
एतद्धि पृश्निगर्भस्य वैपरीत्येन भावयेत्।
कटिहस्ताद्गतां ध्यात्वा पक्षनागौ विना द्विज! ।। 47 ।।
एते भगवतो विप्र! त्वन्तरह्गा मयोदिताः।
कर्मणा मनसा वाचा तद्भावगतमानसाः ।। 48 ।।
ज्ञानादिषड्‌गुणोपेतैराकीर्णाः कोटिशः परैः।
भूतैः सिद्धैरनन्तैश्च प्रार्थयानैः परं पदम् ।। 49 ।।
वस्त्रभूषाङ्गरागाद्यैः सर्वे ते कुमुदोपमाः।
श्वेतमृत्कल्पितेनैव ह्यूर्ध्वपुण्ड्रेण भूषिताः ।। 50 ।।
ललाटस्थेन सर्वेऽपि कुमुदादिगणाधिपाः।
एवमन्येऽपि भूताद्याः सर्वे पारिषदा द्विज! ।। 51 ।।
एवमावृतिदेवाश्च द्वारस्थाश्च तथैव हि।
एवं तदीया विप्राश्च क्षत्रविट्‌च्छूद्रजातयः ।। 52 ।।
मृदैव वा चन्दनेन कल्पितैरूर्ध्वपुण्ड्रकैः।
द्वादशैश्च चतुर्भिर्वा भूषिताः स्युः सदा द्विज! ।। 53 ।।
अतसीकुसुमश्यामौ पीतमाल्याम्बरान्वितौ।
पीतोष्णीषधरौ रौद्रौ प्राग्वद्‌भुजविभूषितौ ।। 54 ।।
गणौ चण्डाकृतिधरौ दुर्दर्शौ दुरतिक्रमौ।
जयं च विजयं नाम्ना यजेत्तद्वारपार्श्वयोः ।। 55 ।।
तदुद्देशात् समारभ्य बहिर्द्वारावसानकम्।
द्वितीयावरणक्षेत्रं षोढा कृत्वा तु पञ्चमे ।। 56 ।।
भागे तु गरुडं कृत्वा विप्र! ध्यात्वाऽथवा न्यसेत्।
द्रवच्चामीकराकारं भीमभ्रकुटिलोचनम् ।। 57 ।।
पृथुदंष्ट्रं पृथुध्राणं पृथुगात्रं पृथूदरम्।
पक्षाङ्‌कुराञ्चितोरस्कं पक्षमण्डलमण्डितम् ।। 58 ।।
हारकेयूरताटङ्कमकुटाद्यैस्तु भूषणैः।
भूषितं नीलवसनं नानामाल्यविभूषितम् ।। 59 ।।
नानागन्धविलिप्ताङ्गं नागैकादशभूषितम्।
पुष्पस्तबकसंपूर्णमञ्जलिं दधतं द्विज! ।। 60 ।।
उन्नम्य दक्षिणं जानुमासनीकृत्य चेतरत्।
सुखासनसमासीनं विभोराज्ञाप्रतीक्षकम् ।। 61 ।।
ततः (पः) कर्मात्मतत्वानां दशकं सिद्धतां गतम्।
भगवत्तुल्यसामर्थ्यसार्वज्ञ्यादिगुणैर्युतम् ।। 62 ।।
वियुक्तं प्राकृताद् दुःखान्नियुक्तं चेश्वरेण तु।
भवसन्तारकत्वेन ह्येतदावृतिकं क्रमात् ।। 63 ।।
उपेन्द्रः पूर्वदिग्भागे संस्थितो द्विजसत्तम!।
वह्नौ तेजोधराख्यस्तु दक्षिणे दुरतिक्रमः ।। 64 ।।
नैर्ऋते तु महाकर्मा पश्चिमे तु महाह्रदः।
अग्राह्यो वायुदिग्भागे वसुरेतास्तथोत्तरे ।। 65 ।।
पूर्वोत्तरे वर्धमानः साक्षी गगनगोचरे।
आधारनिलयं नाम्ना सर्वस्याधोगतं स्मरेत् ।। 66 ।।
एते स्फटिकवर्णाभा- श्वेतमाल्याम्बरान्विताः।
गणित्रकं रथाङ्गं च शङ्खं चैव गदां तथा ।। 67 ।।
दधाना मुख्यदक्षादिमुख्यवामान्तमेव हि।
करैश्चतुर्भिः सुसमा मकुटादिविभूषिताः ।। 68 ।।
तेजसा विघ्नजालानि प्रेरयन्तो महौजसः।
स्थानकैः संस्थिताः सर्वे ध्यानोन्मीलितलोचनाः ।। 69 ।।
अथवा द्विभुजा एते वज्राद्यं दशकं क्रमात्।
दक्षेण लोकपालीयं धारयन्तः करेण तु ।। 70 ।।
गणित्रकं तु वामेन वरदाभयदास्तु वा।
तदा वर्णाङ्गरागाद्यैरिन्द्रादिसदृशास्तु वा ।। 71 ।।
द्वितीयगोपुरद्वारपार्श्वयोरन्तरस्थयोः।
विन्यसेद् द्वारपालाख्यावेतौ वामादितो गणौ ।। 72 ।।
निधीशौ शङ्खपझौ तु निधिभाण्डोपरिस्थितौ।
स्थूलदन्तौ च दान्तौ च द्विभुजौ भगवन्मयौ ।। 73 ।।
कुटिलभ्‌रूलतायुक्तौ किञ्चिदुन्नतवक्षसौ।
लम्बोदरौ सुपीनाङ्गौ ह्रस्वपाणिपदौ द्विज! ।। 74 ।।
शङ्कपझसमानाभौ नीलशुक्लाम्बरस्रजौ।
मकुटाद्यैस्तु विविधैरलङ्कारैरलंकृतौ ।। 75 ।।
दक्षिणेन करेणैव धारयन्तौ सरोरुहम्।
इतरेण करेणैव ह्‌युत्तानेन निधिं स्वकम् ।। 76 ।।
अथवा वामहस्ताभ्यां प्रवेशाभीतिदान्वितौ।
कर्दवयेन शङ्खं वा पझं वा दधतौ द्विज! ।। 77 ।।
वामेव धारयेत् पझं यद्वा शङ्खं निधीश्वरः।
शङ्खपझधरौ वापि शिरसा मकुटोपरि ।। 78 ।।
शङ्खचक्रधरौ वापि साधकेच्छावशेन तु।
उन्नम्य दक्षिणं जानुं ह्यासनीकत्य चेतरत् ।। 79 ।।
एवं शङ्खनिधेः पझनिधेस्तु विपरीतवत्।
तद्‌द्वारशाखानिष्ठौ तु संस्मरेद्दक्षिणादितः ।। 80 ।।
क्षीरकुन्दावदातौ च नीलकौशेयवाससौ।
नीलनीरजवर्णाभैः पुष्पैर्भूषितविग्रहौ ।। 81 ।।
पूर्वोक्तगणसादृश्यौ नाम्ना भद्रसुभद्रकौ।
तद्‌द्वारबाह्यतः पश्चात् पार्श्वयोर्गोपुरस्थितौ ।। 82 ।।
एतौ गणेश्वरौ न्यस्येद् ध्यात्वा वा परिकलप्य च।
अथवा द्विभुजावेतौ तदा भद्रस्य दक्षिणम् ।। 83 ।।
करं तु तर्जनीयुक्तं वाममीषत्तु कुञ्चितम्।
गदाग्रोपरिविश्रान्तं गदामूलोपरिस्थितम् ।। 84 ।।
व्यत्यस्तदक्षिणं पादं वामं तु भुवि संस्थितम्।
भद्रस्य वामयोर्विप्र! यदुक्तं पाणिपादयोः ।। 85 ।।
दक्षयोस्तत् सुभद्रस्य दक्षोक्तं वामगं भवेत्।
किन्तु तद्वामहस्तं तु युक्तं विस्मयमुद्रया ।। 86 ।।
चण्डप्रजण्डौ धाता च विधाता च जयस्तथा।
विजयश्चापि भद्रश्च सुभद्रश्च गणेश्वरः ।। 87 ।।
एते गणेश्वरा ह्यष्टौ प्रभापुष्पाम्बरैर्विना।
देहवक्त्राकृतैस्तुल्यास्तथैवाभरणायुधैः ।। 88 ।।
भक्तानां विघ्नजालस्य सर्वदिक्‌संस्थितस्य च।
संसारफलदातुर्वै च्छेदनार्थं समुद्यताः ।। 89 ।।
परस्परमुखाः सर्वे स्थानकैः संस्थिताः समैः।
गणेशायुतलक्षैस्तु नानावर्णवपूर्धरैः ।। 90 ।।
अच्युताराधनपरैरेकैकं परिवारिताः।
तृतीयावरणे पश्चात् पूर्वादिक्रमयोगतः ।। 91 ।।
इन्द्रादिलोकपालानां दशकं विन्यसेद्‌द्विज!।
शतधामनिभं ध्यायेच्चतुर्बाहुं पुरन्दरम् ।। 92 ।।
सुसितद्विपसंस्थं तु सुतीक्ष्णकुलिशोद्यतम्।
अजारूढं स्मरेद्रक्तं शक्तिपाणिं हुताशनम् ।। 93 ।।
सहस्रार्चिभिराकीर्णं सहस्नादित्यभासुरम्।
महामहिषसंस्थं तु त्वञ्जनाद्रिसमप्रभम् ।। 94 ।।
सुभूमदण्डहस्तं तु स्मरेद्देवं पित्रीस्वरम्।
दंष्ट्राकरालवदनं कृष्णमेघसमप्रभम् ।। 95 ।।
घोरं प्रेतासनं ध्यायेत् खङ्गधृग्राक्षसेश्वरम्।
मुक्ताफलद्युतिसमं भीमं पाशकरोद्यतम् ।। 96 ।।
नागकन्यासहस्नाढ्चं मकरस्थमपांपतिम्।
नीलतोयदसंकाशं महाध्वजपटाङ्कितम् ।। 97 ।।
ध्यायेत् समीरणं देवं संस्थितं हरिणोपरि।
सोमं तारागणोपेतं शङ्खगोक्षीरपाण्डरम् ।। 98 ।।
बृहच्छशकपृष्ठस्थं शिशिरास्त्रकरं स्मरेत्।
सितभूतिविलिप्ताङ्गं त्रिनेत्रं वृषवाहनम् ।। 99 ।।
त्रिशूलायुधहस्तं च त्वीशानं ज्ञानिनं स्मरेत्।
पातालदिग्गतं ध्यायेत् कूर्मारूढं हलायुधम् ।। 100 ।।
सितं सहस्रफणभृद्योनन्तो नाम नागराट्।
भचक्रं भ्राम्यमाणं तु दण्डहस्तं प्रजापतिम् ।। 101 ।।
हंसारूढं खसंस्थं तु ध्यायेद्‌ध्रुवमजं विभुम्।
एते चतुर्भुजाः सर्वे अक्षसूत्रविभूषिताः ।। 102 ।।
चिन्तयन्तः परं तत्त्वं वराभयकरोद्यताः।
दिव्याभरणदिग्धाङ्गा दिव्यमाल्याम्बरान्विताः ।। 103 ।।
दिव्यरूपधराश्चैव दिव्यगन्धवहा द्विज!।
रक्तशुक्लनिशापीतनीलचम्पकसप्रभैः ।। 104 ।।
व्योमस्फटिकमार्तण्डराजोपलनिभैस्तथा।
माल्याङ्गरागवसनैः महार्घैः समलंकृताः ।। 105 ।।
भूषिता भूषणैश्चित्रैः करण्डमकुटादिभः।
एभ्यश्चतुर्भुजो ब्रह्मन्! विज्ञेयो वृषभध्वजः ।। 106 ।।
द्विभुजास्त्वमराश्चान्ये वरदाभयदास्तु वा।
इति लोकेश्वेरेषूक्तं ततो वै द्विजसत्तम! ।। 107 ।।
तृतीयावरणद्वारे शाखामूले तु दक्षिणे।
सुदर्शनं चतुर्हस्तं ह्रस्वकायं ज्वलत्प्रभम् ।। 108 ।।
क्रौधरक्तेक्षणं दैत्यदानवासृग्विलेपनम्।
नृत्यन्तं मदमत्तं च सहस्रारान्तरस्थितम् ।। 109 ।।
दंष्ट्राकरालवदनं कुटिलभ्रूलतायुतम्।
कल्पान्तपावकाकारं स्वरश्मिपरिवेष्टितम् ।। 110 ।।
दक्षिणे भुजयुग्मे तु पूर्वेण च सुदर्शनम्।
धारयन्तं ततोऽन्येन विश्रान्तां भूतले गदाम् ।। 111 ।।
शङ्खं मुख्येन वामेन ह्यपरेण गणित्रकम्।
हारकेयूरताटङ्कमकुटादिविभूषणैः ।। 112 ।।
विभूषितं विचित्रैस्तु श्वेतमाल्याम्बरादिकैः।
विघ्नानुत्पाटयन्तं च दीप्तेन स्वेन तेजसा ।। 113 ।।
संस्मरेत्तु ततोऽन्यस्मिन् शाखामूले महामते!।
सुस्थितं गरुढं विप्र! तप्तकाञ्चनसन्निभम् ।। 114 ।।
सौम्यवक्त्रं विवृत्ताक्षं रक्ततुण्डं सुभीषणम्।
पृथूदरं दीर्घपुच्छपक्षमण्डलमण्डितम् ।। 115 ।।
रक्ताम्बरधरं चैव रक्तस्रगनुलेपनम्।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ।। 116 ।।
विचित्रकञ्चुकधरं भुजगेन्द्रैरलंकृतम्।
मकुटाद्यैरलंकारैर्विविधैस्तु विभूषितम् ।। 117 ।।
भुजद्वये यच्चक्रस्य वामे संपरिकीर्तितम्।
दक्षिणे तद्भवेदस्य, दक्षोक्तं वामगं भवेत् ।। 118 ।।
वज्रं शक्तिस्तथा दण्डःखङ्गः पाशो ध्वजस्तथा।
शिशिराख्यं त्रिशूलं च लाङ्गलं मुसलं तथा ।। 119 ।।
पूर्वादिक्रमयोगेन चतुर्थावरणे स्थिताः।
एतेषां क्रमशो ध्यानं समाकर्णय साम्प्रतम् ।। 120 ।।
वज्रं वज्रोपलाभं तु सितदीर्घनखाङ्कितम्।
दंष्ट्राकरालवदनं ज्वलत्कनकलोचनम् ।। 121 ।।
सौदामिनीप्रभां शक्तिं शान्ताग्निवदनेक्षणाम्।
घनघर्घरनिर्घोषमुद्गिरन्तीं मुहुर्मुङुः ।। 122 ।।
बद्धमुष्टिं स्मरेद्दण्डं रक्ताङ्गं रक्तलोचनम्।
क्रोधमूर्तिं स्वदशनैर्दशन्तमधर स्वकम् ।। 123 ।।
स्व(ख)रश्मिखचितं ध्यायेन्नृत्यमानं च नन्दकम्।
शरदाकाशसंकाशं दशन्तं दशनावलीम् ।। 124 ।।
पाशं गुणगणाकीर्णं विद्युज्जिह्वं भयानकम्।
हेमालिपाण्डराभं च घोरास्यं रक्तलोचनम् ।। 125 ।।
शरज्जलदसंकाशं ध्वजं कुटिललोचनम्।
स्वतेजसा जगत् सर्वं द्योतयन्तं बलोत्कटम् ।। 126 ।।
शिशिरं शीतधामाभं पीनाङ्गं पृथुविग्रहम्।
जटाकलापधृक्‌सौम्यं पुण्डरीकनिभेक्षणम् ।। 127 ।।
उदयार्कसहस्राभं त्रिशूलं भीषणाकृतिम्।
कल्पान्तपावकाकारस्वरश्मिपरिवेष्टितम् ।। 128 ।।
सन्ध्याजलदसंकाशं लाङ्गलं भीमलोचनम्।
क्षामाङ्गमुन्नतांसं च वज्रकायं बलोत्कटम् ।। 129 ।।
कुन्दावदातं मुसलं सौम्यमीषत्स्मिताननम्।
रवं रवन्तं मधुरं श्रोत्रेन्द्रियसुखावहम् ।। 130 ।।
नीलरक्तसितापीतपावकाञ्जनसन्निभैः।
हेमचन्द्रहिमाकाशसमानाभैः क्रमेण तु ।। 131 ।।
माल्याङ्गरागवसनै रुचिरैः समलंकृताः।
दिव्यैराभरणैर्युक्ताः स्वचिङ्नाङ्कितमस्तकाः ।। 132 ।।
तर्जयन्तश्च दुष्टौघं दक्षिणेन करेण तु।
वामेन कटिमालम्ब्य सुसमैः स्थानकैः स्थिताः ।। 133 ।।
चतुर्थावरणद्वारदक्षिणोत्तरशाखयोः।
गङ्गां च यमुनां चैव ध्यात्वा संपूजयेत् क्रमात् ।। 134 ।।
भगवत्पादसंभूतां गङ्गां कुमुदसन्निभाम्।
नवयौवनलावण्यसौकुमार्यगुणैर्वृताम् ।। 135 ।।
नीलाङ्गरागवसनां नीलमाल्यैरलंकृताम्।
द्विभुजां सौम्यवदनां पुण्डरीकनिभेक्षणाम् ।। 136 ।।
हारनू पुरकेयूरकुण्डलाद्युपशोभिताम्।
संसारतापसन्तप्तानारुरुक्षून् पंर पदम् ।। 137 ।।
वासनाकर्मपङ्कानि क्षालयन्तीं स्वतेजसा।
वहन्तीं दक्षिणेनैव कलशं वारिपूरितम् ।। 138 ।।
वामेन तर्जयन्तीं च करेण प्राकृतान् जनान्।
यमुनां नीलरत्ना(क्ता)भां नीलकुञ्चितमूर्धजाम् ।। 139 ।।
सिताङ्गरागवसनां सितमाल्योपशोभिताम्।
दक्षिणे तर्जनी मुद्रा वामे तु कलशः स्मृतः ।। 140 ।।
अन्यत् सर्वं तु गङ्गोक्तमत्रापि स्यान्महामते!।
लोहिताक्षो महावीर्यस्त्वप्रमेयः सुशोभनः ।। 141 ।।
वीरहा विक्रमो भीमः शतावर्तस्तु चाष्टमः।
ऐश्वरीदिक्क्रमेणैव पञ्चमावरणे स्थिताः ।। 142 ।।
ध्यायेच्चन्द्रप्रतीकाशं लोहिताक्षं बलोत्कटम्।
नीलाम्बरधरं नीलमाल्यं नीलानुलेपनम् ।। 143 ।।
महावीर्यं महाकायं पीतवर्णं महाभुजम्।
प्रवालाभाम्बरधरं रक्तस्नगनुलेपनम् ।। 144 ।।
संस्मरेदप्रमेयाक्यमप्रमेयबलोत्कटम्।
हरिताकृतिमापीतवसनस्रग्विलेपनम् ।। 145 ।।
सुशोभनं शोभनाङ्गं मुक्ताफलनिभं स्मरेत्।
अतसीपुष्पसंकाशवासोमाल्यानुलेपनम् ।। 146 ।।
वीरघ्नं वीरहाख्यं च ध्यायेच्चम्पकसप्रभम्।
बाह्‌लीकरञ्जितं रक्तवसनस्रग्विमण्डितम् ।। 147 ।।
विक्रमं विक्रमावासं चाषोदरनिभं स्मरेत्।
कुन्देन्दुकान्तिवसनं सितमाल्यानुलेपनम् ।। 148 ।।
भीमं भीमाकृतिं ध्यायेत्तप्तकाञ्चनसन्निभम्।
पाण्डरारुणकौशेयं तद्वद्गन्धस्रगन्वितम् ।। 149 ।।
अतसीकुसुमश्यामं शतावर्तं तु भावयेत्।
पीताम्बरधरं पीतमाल्यगन्धविभूषितम् ।। 150 ।
भुजद्वयान्विता ह्येते चान्तर्मुदितमानसाः।
दक्षिणैः पाणिभि- सर्वेर्ज्वलन्तं परशुं तथा ।। 151 ।।
वामैः शङ्खवरं दीप्तं दधानाश्चारुकुण्डलाः।
समाः समविभक्ताङ्गाः प्रशान्ताकृतयस्तथा ।। 152 ।।
स्थानकैः संस्थिताः सर्वे स्वप्रभाभिर्विराजिताः।
प्रसन्नवदनाः सौम्यास्त्रैलोक्योद्धरणक्षमाः ।। 153 ।।
हारनूपुरकेयूरपूर्वभूषाविभूषिताः।
तदाज्ञाप्रेक्षकाश्चैव दुष्टदोषोपशान्तिदाः ।। 154 ।।
बलेन महता क्षिप्तदेवासुरमहोरगाः।
एकवीराऽसहायाश्च त्वप्रयत्नेन लीलया ।। 155 ।।
आब्रह्नभवनं शश्वत् परिवर्तयितुं क्षमाः।
एतदावरणद्वारचतुष्के द्वारदेवताः ।। 156 ।।
न्यसेद्युग्मप्रयोगेण पूर्वद्वारादितः क्रमात्।
वज्रनाभं हरीशं च पूर्वस्यां दक्षिणोत्तरे ।। 157 ।।
ध्यायेत्तु वज्रनाभाख्यं शतधामसमप्रभम्।
मुख्यदक्षिणहस्तेन निषेधाभिनयान्वितम् ।। 158 ।।
वेत्रलतां द्वितीयेन चक्रराजं तृतीयतः।
मुख्यवामकरेणैव श्रोणीतटकृतार्पणम् ।। 159 ।।
शङ्खराजं द्वितीयेन तथा वज्रं तृतीयतः।
धारयन्तं, तथा रुक्‌मभूषणैर्विविधैरपि ।। 160 ।।
रक्तमाल्याम्बरधरं रक्तस्रगनुलेपनम्।
एवमेव हरीशं च निषेधाभिनयोज्झितम् ।। 161 ।।
प्रवेशाभिनयाख्येन पाणिना किन्तु चिह्नितम्।
एको ह्यत्र निषेधं च त्वभक्तानां करोति वै ।। 162 ।।
भक्तानामपरश्चैव प्रवेशं संप्रयच्छति।
द्वारे द्वारे प्रतीहारद्वयस्यैवं प्रयोजनम् ।। 163 ।।
दक्षोक्तं वज्रनाभस्य तद्धरीशस्य वामगम्।
आद्यवामगतं सर्वमन्यद्दक्षिणपाणिगम् ।। 164 ।।
धर्माध्यक्षनियन्त्रीशौ दक्षिणे दक्षिणोत्तरे।
कुर्यादन्तकसादृश्यौ पूर्ववद्भुजभूषितौ ।। 165 ।।
पीतकौशेयवसनौ पीतमाल्यविलेपनौ।
किन्तु दण्डगदाहस्तौ वज्रचक्रविवर्जितौ ।। 166 ।।
शुद्धाक्षममृतानन्दं प्रतीच्यां दक्षिणादितः।
वाणकार्मुकमेकस्मिन् पाणौ पाशमथापरे ।। 167 ।।
आद्यं करचतुष्कं यत्तद्व्यग्रं पूर्ववद्भवेत्।
आकृतौ जलनाथस्य सदृशौ सर्वदैव हि ।। 168 ।।
नीलकौशेयवसनौ नीलस्रगनुलेपनौ।
वसुनाथं सुधानन्दमुदग्दिग्दक्षिणोत्तरे ।। 169 ।।
खड्गमुद्गरहस्तौ च प्राग्वच्छेषं चतुष्टयम्।
कराणामनयोः कार्यं रूपेणोडुपतेः समम् ।। 170 ।।
अतसीकुसुमश्यामकौशेयस्रग्विलेपनौ।
भूषणैर्भूषिता ह्येते विविधैर्वज्रनाभवत् ।। 171 ।।
षष्ठावरणदेवानां तद्‌द्वार्स्थानां विशेषतः।
ध्यानं श्रृणु क्रमेणैव तत्त्वतो मुनिपुङ्गव! ।। 172 ।।
पूर्वादीशानपर्यन्तं षष्ठावरणसंस्थिताः।
एताश्च देवता विप्र! तेजोरूपं समाश्रिताः ।। 173 ।।
कालो वियन्नियन्ता च शास्त्रं नानाङ्गलक्षणम्।
विद्याधिपतयश्चैव सरुद्राः सगणः शिवः ।। 174 ।।
प्रजापतिसमूहस्तु इन्द्रः सपरिवारकः।
तन्मुख्यद्वाश्चतुष्के तु पूर्ववत् संस्थिताः क्रमात् ।। 175 ।।
चक्रशङ्खौ पद्मगदे लाङ्गलं मुसलं शराः।
शार्ङ्गं चैते क्रमाद्ध्येया विद्युत्तुहिनकुन्दभाः ।। 176 ।।
पीतनीलसितारक्तसितगोक्षीरसन्निभैः।
हरितालारुणाभैस्तु वस्त्रमाल्यानुलेपनैः ।। 177 ।।
सर्वरत्नमयैर्युक्तैर्भूषणैरप्यलङ्‌कृताः।
महाबला महावीर्यास्त्वेकवक्त्रा द्विबाहवः ।। 178 ।।
एते तु नायकाः सर्वे स्वचिन्हाङ्कितमस्तकाः।
दुष्टौघं तर्जयन्तश्च दक्षिणेन करेण तु ।। 179 ।।
कटिमालम्ब्य वामेन स्थानकैः सुसमैः स्थिताः।
दृढव्रतो बहुशिरा महाकायो महाबलः ।। 180 ।।
जितक्रोधो दुराधर्षो महोत्साहस्त्रिविक्रमः।
अतुलो दुष्टहाऽर्चिष्मान् सर्वदृग्‌ दुरतिक्रमः ।। 181 ।।
विषमो गहनोऽमोघः षोडशोपप्रवेशकाः।
शक्राग्निमध्यमारभ्य शक्रेशानान्तरावधि ।। 182 ।।
शुक्लशोणसुवर्णालिपिङ्गरक्तसितासिताः।
रक्तपीतातसीहेमाः शोणशुभ्रसितासिताः । 183 ।।
वर्णानुरूपसद्वस्त्रमाल्यालेपनभूषणाः।
नामानुरूपचारित्राः शङ्खमुद्गरधारिणः ।। 184 ।।
सव्येतरक्रमेणैव प्रवेशकनिषेधकाः।
क्षणाद्‌भुवनसंहारसृष्टिस्थितिकृतिक्षणाः ।। 185 ।।
उक्तानेतान् क्रमेणैव पूर्ववत् संप्रपूजयेत्।
मुनयः सप्त पूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः ।। 186 ।।
जीमूताश्चाखिला नागास्त्वप्सरोगण उत्तमः।
ओषध्यश्चैव पशवो यज्ञाः साङ्गखिलास्तु ये ।। 187 ।।
सूक्ष्मरूपेण तिष्ठन्ति पूर्ववत् सप्तमावृतौ।
संभवः प्रभवश्चैव पूर्णः पुष्कर एव च ।। 188 ।।
आनन्दो नन्दनश्चैव वीरसेनसुषेणकौ।
तन्मुख्यद्वारशाखास्थौ द्वौ द्वौ दक्षिणवामयोः । 189 ।।
संभवः श्वेतवर्णस्तु प्रभवः कुन्दसन्निभः।
पूर्णस्तु रक्तवर्णाभस्त्वतिरक्तस्तु पुष्करः ।। 190 ।।
आनन्दः पीतवर्णस्तु हेमाभो नन्द उच्यते।
कृष्णाभो वीरसेनस्तु सुषेणोऽञ्जनसन्निभः ।। 191 ।।
मकुटाङ्गदचित्राङ्गा गदाहस्ता द्विबाहवः।
चतुर्भुजा वा विप्रेन्द्र! शङ्खचक्रगदाधराः ।। 192 ।।
पूर्ववत् पाणिनान्येन प्रेवशकनिषेधकाः।
दंष्ट्राकरालवदना निग्रहानुग्रहक्षमाः ।। 193 ।।
क्षेमकृच्छिवकृत् प्राज्ञो होमकृद्‌भूतभावनः।
युगान्ताग्न्यशनश्चैव संवर्तो भीषणस्तथा ।। 194 ।।
संक्रन्दनश्चानिमिषः शतपर्वा शताननः।
औदुम्बरः प्राकृतिको द्वि (वि) रामश्चांशुमाल्यपि ।। 195 ।।
औपदौवारिकं त्वेतद्गणषोडशकं क्रमात्।
दृढव्रतादिसदृशं वर्णतः षड्‌भूजान्वितम् ।। 196 ।।
वामदक्षिणयोगेन पृष्ठतः पूर्वपश्चिमम्।
शङ्खमुद्गरपझाक्षवराभयसमन्वितम् ।। 197 ।।
नानावर्णस्रगुष्णीषवस्त्रालेपनभूषणम्।
प्रागुक्तगणशौर्याढ्यं सर्वकर्मकृतिक्षमम् ।। 198 ।।
तच्छोभाष्टकरक्षार्थं शतमन्युर्विरोचनः।
अप्रतर्क्यस्त्वनुल्लङ्‌घ्यस्त्वप्रमेयाभिधानकः ।। 199 ।।
अमर्षी च महद्‌भूतः केऽराक्षस्तथाष्टमः।
इन्द्राग्निमध्योपद्वारपार्श्वशोभास्वनुक्रमात् ।। 200 ।।
एकाकशः स्थिताः शूराः प्रवेशकनिषेधकाः।
नीलपीतजपाश्यामसितहिङ्गुलकेन्दुभाः ।। 201 ।।
महाबला महावीर्याः सुदुर्लङ्‌घ्यपारक्रमाः।
नानाविधाम्बरैः स्रग्भिर्भूषणैरनुलेपनैः ।। 202 ।।
अन्यैरनुपदिष्टैश्च यथाशोभमलंकृताः।
षाड्‌गुण्यमहिमायुक्ताश्चतुर्हस्ताः क्रमेण तु ।। 203 ।।
पृष्ठदक्षिणवामाभ्यां चक्रशङ्खसमन्विताः।
गदाग्रोपरिविश्रान्तमुक्यहस्तद्वयान्विताः ।। 204 ।।
द्वारोपद्वारशोभेशानेतान् संपूजयेत् क्रमात्।
विद्या चैवापरा विद्या पावकश्चैव मारुतः ।। 205 ।।
चन्द्गार्कौ वारि वसुधेत्येताः संसारदेवताः।
सूक्ष्मरूपेण तिष्ठन्ति बाह्यावरणभूतले ।। 206 ।।
अमरेशो विरूपाक्षः सुधर्मिष्ठो नियामकः।
सर्वसत्त्वाश्रयश्चातिगहनस्तदनन्तरम् ।। 207 ।।
महाराजेश्वरश्चापि धनाध्यक्षेश्वरस्तथा।
एत् गणेश्वरास्त्वष्टौ तन्मुख्यद्वारपालकाः ।। 208 ।।
ध्येयाश्चतुर्भुजाः सर्वे मुख्यपाणिद्वयेन तु।
अमरेशविरूपाक्षौ वज्रवेत्रलताकरौ ।। 209 ।।
पृष्ठकाभ्यां तु पाणिब्यां चक्रशङ्खसमुज्ज्वलौ।
कुङ्कुमाञ्जनसंकाशौ दंष्ट्रया विकृताननौ ।। 210 ।।
दक्षिणोत्तरयोगेन लाञ्छनव्यत्ययान्वितौ।
द्वारदक्षिणवामस्थौ प्रवेशकनिषेधकौ ।। 211 ।।
सुधर्मिष्ठो नियन्ता च सुसितश्यामलप्रभौ।
सुभीमदण्डहस्तौ च वज्रायुधविवर्जितौ ।। 212 ।।
यथाक्रमोदितानन्यान् धारयन्तौ यथाविधि।
सर्वसत्वाश्रयश्चातिगहनः श्यामलः सितः ।। 213 ।।
किन्तु पाशकरावेतौ पूर्ववद्‌भुजभूषितौ।
महाराजेश्वरो रक्तो धनाध्यक्षेश्वरोऽसितः ।। 214 ।।
शिशिरायुधसंयुक्तौ त्रिकमन्यद्यथा पुरा।
महाबला महावीर्या दुष्टदोषभयङ्कराः ।। 215 ।।
दुर्निरीक्षाश्च दुर्धार्षा दैत्यदानवहिंसकाः।
नानामहार्घवासोभिः भूषालेपैरलंकृताः ।। 216 ।।
महर्षभं प्रभूतं च गम्भीरं प्राणगोचरम्।
योगाङ्गं योगनिलयं सनातनमश्रृङ्खलम् ।। 217 ।।
तारकान्तरितं तारं विरामं विषमं तथा।
दुरतिक्रमं दुर्ग्रहं च सुधूम्रमनिलाशनम् ।। 218 ।।
तत्सालकोपद्वारेषु विन्यसेत् पूर्ववर्त्मना।
उक्तोपद्वारपालानां वर्णतः सममुज्ज्वलम् ।। 219 ।।
गणषोडशकं त्वेतच्चतुष्पाणिसमन्वितम्।
गौणवामकराद्यं तु मुख्यवामकरावधि ।। 220 ।।
शङ्खपट्टसहस्तं च निषेधाबिनयोद्यतम्।
प्रवेशाभिनयाङ्कं च नानावर्णाम्बरस्रजम् ।। 221 ।।
नानास्थानकसंयुक्तं नानाभूषणभूषितम्।
अक्षसूत्रधरं वाऽथ प्रपन्नानां प्रवेशकृत् ।। 222 ।।
निषेधकृत्तथान्येषां न्यस्तव्यं मुनिसत्तम!।
देवव्रतं निरातङ्कं भीमं च पुरुषं तथा ।। 223 ।।
उग्रं वीरेश्वरं रम्यमरिष्टं मुनिसत्तम!।
अनिर्विण्णं युगान्तांशं शतानन्दं शताननम् ।। 224 ।।
तेजोधरं विशालाक्षं युगांशं देवनन्दनम्।
एतद्‌द्विरष्टशोभासु गणमेकैकशो न्यसेत् ।। 225 ।।
उपद्वारेशसदृशं वर्णतो लाञ्छनैर्विना।
चतुर्भिः पाणिभिश्चैव पृष्ठदक्षिणपूर्वकम् ।। 226 ।।
मुख्यदक्षिणहस्तान्तं शह्खचक्रगदाधरम्।
निषेधकृच्च पापानामपापानां प्रवेशकृत् ।। 227 ।।
नानास्रगम्बरोष्णीषभूषालेपाद्यलंकृताः।
अनन्ताचिन्त्यविभवाः सर्वभूतसमाश्रयाः ।। 228 ।।
नानाशस्त्रास्त्रकुशला नानाज्ञानसमन्विताः।
निरस्तानेकदैत्येशाः साधूनां पालनौद्यताः ।। 229 ।।
द्वारद्वयान्विते साले मुख्यद्वारगतावुभौ।
तिष्ठतः सूक्ष्मरूपेण तदन्यद्वारपार्श्वयोः ।। 230 ।।
प्राकारसर्वकोणेषु वह्निकोणादितो न्यसेत्।
प्रभवाप्ययरूपाणां मूर्तीनां चतुरात्मनाम् ।। 231 ।।
तथा मूर्त्यन्तराणां च तत्कान्तानामनुक्रमात्।
मन्त्राणामस्त्रसह्‌घादि तेषां रूपमनुस्मरन् ।। 232 ।।
चतुर्णामपि कोणानामव्यक्तं भवनाद्बहिः।
संयजेद्भवनाम्नावै यस्मान्नान्यो भवः स्मृतः ।। 233 ।।
तेषां बहिः स्वमन्त्रेण दिक्क्रमेण तु हेतिराट्।
स्वमरीचिगणेनैव भासयन्तं निवेशय् च ।। 234 ।।
न्यस्यैवमर्चनं कुर्यान्मन्त्रमुद्रान्वितेन तु।
निरीक्षणादिशुद्धेन अर्घ्यस्रक्चन्दनादिना ।। 235 ।।
वासुदेवाभिधानस्तु देवः षाड्‌गुण्यविग्रहः।
कर्मिणामुपकारार्थं प्रासादं स्थूलविग्रहम् ।। 236 ।।
सर्वज्ञानक्रियाढ्यं च सर्वतत्वसमाश्रयम्।
समासाद्यानुगृह्णाति सदार्चान्तर्गतः प्रभुः ।। 237 ।।
तस्मात्तदङ्गभूतेषु प्राकारेष्वष्टसु क्रमात्।
पृष्व्यादिबुद्धिनिष्ठं तु बाह्यं तत्वाष्टकं न्यसेत् ।। 238 ।।
प्रासादश्चाह्गसंयुक्तः प्रकृतिस्त्रिगुणात्मिका।
तद्गता प्रतिमा जीवस्तद्गतः परमः पुमान् ।। 239 ।।
अतोऽधिदैवतान्यत्र तत्वान्येतान्यनुक्रमात्।
सर्वत्र व्यापकत्वेन ध्यात्वा संपूजयेत्ततः ।। 240 ।।
सर्वाधारमयेनैव सर्वतत्वाश्रयेण च।
सर्वदोषविषघ्नेन कालचक्राम्बुजेन तु ।। 241 ।।
सम्पुटीकृत्य भवनं सप्राकारमधोर्ध्वतः।
संपूज्य ह्नादयीं मुद्रां चक्रमुद्रासमन्विताम् ।। 242 ।।
प्रदर्श्य सर्वतोदिक्कं कवचेनावकुण्ठयेत्।
एकमूर्तिविधाने च तथैकद्वारभूषिते ।। 243 ।।
भवनेऽयं विधानः स्याद्दिग्व्यूहपरिनिष्ठिते।
चतुर्द्वारान्विते गेहे दिग्द्वाराग्रस्थमण्डपे ।। 244 ।।
सर्वतोभद्रसाले च अघनिर्मोचनेऽपि च।
सदध्वाख्येऽथ धर्माख्ये द्वारद्विद्वितयान्विते ।। 245 ।।
द्वारपालगणन्यासे विशेषोऽयं प्रदर्श्यते।
चण्डाद्याश्च सुभद्रान्ताः प्रासादद्वाश्चतुष्टये ।। 246 ।।
न्यसनीयाः क्रमेणैव पूर्ववद् द्वन्द्वयोगतः।
द्वारोर्ध्वोदुम्बरद्वन्द्वद्वितयस्था यथाक्रमम् ।। 247 ।।
लक्ष्मी कीर्तिर्जया माया देव्यः प्रागुक्तलक्षणाः।
सत्यः सुपर्णो गरुडः तार्क्ष्यस्त्वग्रेषु संस्थिताः ।। 248 ।।
अनिर्वर्ती महावर्ती दर्पहा सर्वजित् स्थिरः।
जयन्तो भयकृन्मानी त्वष्टमो द्विजसत्तम! ।। 249 ।।
दिगग्रमण्डपद्वारशाखापार्श्वं समास्थिताः।
अनिर्वर्ती महावर्ती कृष्णाभः शुकसन्निभः ।। 250 ।।
दर्पहा सर्वजिच्चैव पाण्डुरक्तसुवर्णभौ।
स्थिरो जयन्तः सततं श्यामाञ्जनसमद्युती ।। 251 ।।
भयकृच्चैव मानी च पिङ्गलः पाण्डुरोज्ज्वलः।
द्विभुजाः सर्व एवैते दक्षिणेन करेण तु ।। 252 ।।
नन्दकं शङ्खमन्येन दधानाः क्रूरविक्रमाः।
यदा चतुर्भुजा ध्येयाः तदा चैते गणेश्वराः ।। 253 ।।
मुख्यदक्षिणहस्तेन खड्गवेत्रलतान्विताः।
तथा वामकरे शङ्खं पृष्ठगे दक्षिणादितः ।। 254 ।।
पाणिद्वये चक्रपझौ बिभ्रतो ज्वलनप्रभौ।
नानावस्त्रस्रगुष्णीषभूषणालेपनान्विताः ।। 255 ।।
व्यत्यस्तहस्तचरणा लाञ्झनव्यत्ययान्विताः।
ऊर्जितश्चामृताङ्गस्तु सर्वाङ्गः सर्वतोमुखः ।। 256 ।।
शुभ्राङ्गो वरदश्चैव वागीशः शब्दविक्रमः।
पाञ्चजन्यविशेषा हि द्वौ द्वौ चैव क्रमात् स्थितौ ।। 257 ।।
सर्वतोभद्रसालस्थचतुर्द्वारेषु पूर्ववत्।
द्विबाहवस्तु संस्मार्या दक्षिणेन करेण तु ।। 258 ।।
गृहीतमुसलाः सर्वे शङ्खमन्येन पाणिना।
दधानाश्चैव चत्वारः पूर्वे बन्धूकसन्निभाः ।। 259 ।।
अन्ये परभृताभास्तु सर्वभूषणभूषिताः।
बलेन महता क्षिप्तदेवासुरमहोरगाः ।। 260 ।।
एकवीराऽसहायाश्च अप्रयत्नेन लीलया।
आब्रह्नभवनं शश्वत् परिवर्तनकृत्क्षमाः ।। 261 ।।
विश्वेशो विश्वभुग्विश्वो विश्वात्मा विश्वलोचनः।
विश्वपादो विश्वभुजः तथा वै विश्वकर्मकृत् ।। 262 ।।
एते द्वितीयसालस्य दिग्द्वारेषु नियामकाः।
द्विबाहवः परिज्ञेया वामदक्षिणयोगतः ।। 263 ।।
गदाखड्‌गास्त्रसंयुक्ताः करण्डमकुटान्विताः।
शोणपिङ्गसितश्यामरक्तपीतसितासिताः ।। 264 ।।
सर्वर्णाम्बरालेपस्रग्भूषाभिर्विराजिताः।
एकवीराऽसहायाश्च सर्वदोषनिवारकाः ।। 265 ।।
तद्‌द्वारान्तरभागेषु वामदक्षिणयोगतः।
प्रासादाभिमुखान् न्यस्येन्निधिनाथेश्वरान् क्रमात् ।। 266 ।।
शङ्खपझौ महापझशतधामाभिधौ ततः।
अखण्डितः सन्ततश्चानन्तधार इति श्रुतः ।। 267 ।।
सर्वद्वार इति ख्यातः प्रथमौ पूर्वमीरितौ।
अन्येषां वक्ष्यते षण्णां वर्णरूपादिकं क्रमात् ।। 268 ।।
रक्तः कृष्णः सुवर्णाभः सितारुणतमालभाः।
शङ्खपझनिधीशोक्तसर्वलक्षणलक्षिताः ।। 269 ।।
वसुरत्नसुवर्णाष्टलोहधान्यधनाधिपाः।
सर्वौषधिनिधीशानास्तेषामूर्ध्वे सुखासनाः ।। 270 ।।
सर्वालङ्कारसंयुक्ताः स्वाश्रिताभिमतप्रदाः।
ततस्तृतीयावरणद्वारेषु द्वन्द्वयोगतः ।। 271 ।।
तद्दक्षिणोत्तराभ्यां तु शाखाभ्यां विन्यसेत् क्रमात्।
पुरतश्चक्रगरुडौ हलतालौ तु दक्षिणे ।। 272 ।।
पश्चिमे शार्ङ्गमकरौ सौम्ये नन्दकऋश्यकौ।
चक्रपक्षीशताराणां शार्ङ्गनन्दकयोरपि ।। 273 ।।
स्वेषु स्थानेषु पूर्वोक्तं वर्णरूपादिकं द्विज!।
अन्येषां तालपूर्वाणां त्रयाणामथ वक्ष्यते ।। 274 ।।
तालो ध्वजः स्याद्‌भूतादिकालरूपाभिमानकः।
झषः सर्वाङ्गनिभृतो जगद्बीज उदाहृतः ।। 275 ।।
स सर्वोपद्रवो ऋश्यः संसारश्चपलात्मकः।
एतान् सूक्ष्मस्वरूपेण ध्यात्वा संपूजयेत् क्रमात् ।। 276 ।।
गङ्गा च यमुना गोदा नदी च महती तथा।
वितस्ता नर्मदा चैव जम्ब्वाख्या च सरस्वती ।। 277 ।।
नद्यश्चतुर्थसालस्य दिग्द्वारेषु क्रमात् स्थिताः।
गङ्गायमुनायोरुक्तं वर्णरूपादिकं पुरा ।। 278 ।।
ताभ्यामन्याः समानास्तु वर्णशोभां विनैव तु।
सितारुणासितस्वर्णसितकुन्दसमप्रभाः ।। 279 ।।
प्रमत्तप्रौढवेषाश्च नानाभरणभूषिताः।
सर्वधातुविचित्राङ्गाः सर्वरत्नविराजिताः ।। 280 ।।
सुधाकुम्भधरा द्वाभ्यां कराभ्यां पूर्ववच्च ताः।
एवं दिग्द्वारभवनद्वार्स्थस्थितिरुदाहृता ।। 281 ।।
एकमूर्तेषु दिङ्‌मूर्तेः प्राकारेषूर्ध्वगेषु च।
द्वारादयस्तदीयाश्च सामान्याः समुदाहृताः ।। 282 ।।
सर्वसालप्रतीहारशाखापार्श्वगतावुभौ।
ध्येयौ वा स्थापनीयौ वा बाह्यहारगतौ यदि ।। 283 ।।
यथोक्तलक्षणोपेतौ स्थापनीयौ यथाक्रमम्।
एवमावरणेशानान् ध्यात्वा संस्थाप्य वार्चयेत् ।। 284 ।।
ध्यानोत्थाः पीठदेशेषु स्वाकाराः स्वासु सझसु।
तदर्थमङ्कणक्षेत्रं त्रिधा वा पञ्चधा भवेत् ।। 285 ।।
त्रिभागमेकभागं वा त्यक्त्वा तन्मध्यतो बहिः।
पीठं वायतनं कुर्यात् सर्वदिक्ष्वनत्रेऽथवा ।। 286 ।।
अधरोत्तरनिष्ठाभ्यां प्रागुक्ते पूर्ववत् स्थिते।
शिलेष्टकादिभिः क्‌लृप्ताः पीठिका हस्तविस्तृताः ।। 287 ।।
तदर्धेनोछ्रिताः सर्वाः सर्वालङ्कारशोभिताः।
चतुश्राः सुवृत्ता वा संपूज्या वाऽथ केवलाः ।। 288 ।।
प्रामादिवास्तुदेवानां स्वदिग्भागगतेषु च।
गोमयादिविलिप्तेषु मण्डलेषु बलिं हरेत् ।। 289 ।।
विस्तारोच्छ्रायमानाद्वै पीठाः प्रागुक्तलक्षणाः।
अर्धमानेन वा कार्या रथयात्राऽविरोधकम् ।। 290 ।।
एवमावरणेशानाः पीठेषु स्वासु दिक्षु च।
दुष्टदोषनिरासार्थं प्रासादाभिमु(खं)खाः स्थिताः ।। 291 ।।
चतुः स्थानावतीर्णस्य द्वारे च यजनालये।
स्थापनं गणनाथानां श्रृणु त्वं मुनिपुङ्गव! ।। 292 ।।
वास्तुक्षेत्रेशसंज्ञौ द्वौ प्राग्द्वारे पूर्ववत् स्थितौ।
लक्ष्मीः कीर्तिर्जया माया द्वारेषूर्ध्वस्थिताः क्रमात् ।। 293 ।।
वज्रनाभादयो देवा द्वौ द्वौ दिग्द्वारशाखयोः।
प्रागादिद्वारकुम्भेषु संभवप्रभवादयः ।। 294 ।।
कुमुदाद्यन्तरङ्गं च भूतानामष्टकं परम्।
द्वारान्तर्युग्मयुक्त्या तु भ्रमणीदेशमाश्रितम् ।। 295 ।।
सुपर्णश्चक्रसंज्ञश्च सत्यः कौमोदकी द्विज!।
योजनीयाः क्रमेणैव द्वाराणामग्रभूतले ।। 296 ।।
हेमदण्डगतः सत्यः किन्तु पश्चिमदिग्गतः।
चण्डाद्याश्च सुभद्रान्ता द्वौ द्वौ प्रागादिषु द्विज! ।। 297 ।।
दक्षिणोत्तरयोगेन तोरणस्तम्भमूलगाः।
चक्रद्वितयमध्यस्थः पक्षीशस्तोरणोपरि ।। 298 ।।
सुसितासु पताकासु सत्याख्यो विहगाधिपः।
सुपर्णः शोणवर्णासु गरुजः पिङ्गलासु च ।। 299 ।।
राजपाषाणवर्णासु तार्क्ष्यसंज्ञः प्रतिष्ठितः।
नानावर्णपताकायां संपूज्यो विहगेश्वरः ।। 300 ।।
इन्द्रादिलोकपालास्ते सिद्धसङ्‌घपुरस्सराः।
वज्रादयस्तदस्त्राश्च स्वासु दिक्षु बहिः स्थिताः ।। 301 ।।
मुख्यकल्पेऽथवान्येषु निमित्तेष्वेवमाचरेत्।
अनुकल्पेऽथ चण्डादीन् वास्तुनाथादिपूर्वकम् ।। 302 ।।
द्वारेषु केवलान् न्यस्य गरुडान्तं प्रपूजयेत्।
सर्वद्वारेषु वा पूज्यः सहेतीशः पतत्रिपः ।। 303 ।।
विविधासु प्रतिष्ठासु जीर्णोद्धारविधावपि।
महोत्सवेषु सर्वेषु ध्वजारोहणकर्मणि ।। 304 ।।
मङ्गलाङ्‌कुररोपे च पवित्रारोहणादिषु।
तथा चानन्तकलशाद्यभिषेकविधावपि ।। 305 ।।
प्रायश्चित्तेष्वनित्येषु तुलारोहादिषु द्विज!।
शान्तिकादिषु मुख्येषु काम्येष्वन्येषु नित्यशः ।। 306 ।।
मुख्यकल्पोक्तविधिना कुर्यादन्यत्र चान्यथा।
सिद्धसङ्घास्तथेन्द्राद्यास्तदस्त्राश्च यथाक्रमम् ।। 307 ।।
लोकदिक्‌पालकास्त्वेते स्वसेनाभिः समावृताः।
प्रसिद्धप्राग्वशेनैव नित्यं स्वस्थानमाश्रिताः ।। 308 ।।
दिकपालकत्वादासृष्टेर्यतस्तेषां स्थितिः स्थिरा।
भगवन्मन्त्रमूर्तीनामनन्तानां महामते! ।। 309 ।।
स्वस्थानस्था नमस्यन्ति पूजयन्ति जपन्ति च।
ध्वजाद्यैरुपचारैश्च सम्यक् परिचरन्ति च ।। 310 ।।
कैवल्यसिद्धये शश्वद्बहुभिः स्वानुगैः सह।
पालयन्ति च, भक्तानां बलमोजो ददन्ति च ।। 311 ।।
ध्वंसयन्ति च विघ्नौघमनिशं मन्त्रयाजिनाम्।
संरक्षन्ति फलं मान्त्रं वर्धमानं द्विलक्षणम् ।। 312 ।।
अधिकारमनादीयं शक्तिबीजं जगत्प्रभोः।
दिक्‌सिद्धये दशात्मत्वं तदव्यत्त्यष्टदिशात्मिका ।। 313 ।।
बाह्यत्रिसालभूमिष्ठाः कालाद्या भवदेवताः।
तत्साधकत्वात् पूर्वोक्तदिग्भागनियताः सदा ।। 314 ।।
वज्रनाभादयो देवा लोकदिग्द्वारपालकाः।
तथामरेशपूर्वाश्च संभवप्रभवादयः ।। 315 ।।
प्रसिद्धप्राक्क्रमेणैव दिग्द्वारेषु स्थिताः क्रमात्।
कालाद्यमष्टकं नित्यमिन्द्राद्यं रुद्रपश्चिमम् ।। 316 ।।
नियन्ता कालतत्वान्ते तदन्ते सुस्थितं वियत्।
क्रमात् पूर्वोत्तरे कोणे न्यसेद्दक्षिणपश्चिमे ।। 317 ।।
विद्याऽविद्याद्वयं यद्वै स्वपदस्थेऽग्निमारुते।
चन्द्रादित्यावुदग्याम्यस्थानयोर्विनिवेश्य च ।। 318 ।।
प्रत्यग्भागगतं तोयं प्राग्भागे विन्यसेद्धराम्।
कुमुदाद्यावृतीशाना लोहिताक्षादयस्तथा ।। 319 ।।
वज्रनाभादिकं मुक्त्वा द्वारपालत्रिरष्टकम्।
द्वारपालगणास्त्वन्ये सालकोणगणास्तथा ।। 320 ।।
प्रोक्तक्रमेण तिष्ठन्ति भगवत्प्रागपेक्षया।
कुमुदादिगणेशानाः पुरग्रामादिवास्तुनि ।। 321 ।।
पालिकावसथे चैव दिक्‌पालोक्तवशात् स्थिताः।
त्रिसन्ध्यमेवं देवानां बलिदानं समाचरेत् ।। 322 ।।
संकल्पितेषु सालेषु द्वारावरणवासिनाम्।
असंकल्पितसालोक्तदेवानां नाचरेद्बलिम् ।। 323 ।।
तत्तन्निर्माणकाले तान् प्रतिष्ठाप्य यथाविधि।
देवयात्रा समेतं तु बलिदानं समाचरेत् ।। 324 ।।
एवं सर्वं समपाद्य महापीठोर्ध्वभूतलम्।
प्रक्षालितं समारुह्य प्राङ्‌मुखो वाप्युदङ्‌मुखः ।। 325 ।।
तदूर्ध्वाम्बुजदिक्‌पत्रे कुमुदादीनथान्तरे।
सर्वभूतान्‌ पारिषदानाहूय ग्रहसंज्ञितान् ।। 326 ।।
संपूज्य सोदकं तत्त बलिशेषं समुत्किरेत्।
पश्चादाचम्य विधिवत् स्नात्वा वा संविशेद्‌गृहम् ।। 327 ।।
सर्वद्वारावृतीशानां सोणस्थानां समर्चने।
नतिप्रणवसंयुक्तस्वनाम मन्त्र ईरितः ।। 328 ।।
महापीठस्थभूतानां पार्षदानां गृहात्मनाम्।
तारान्ते विष्णुशब्दं च नियुञ्ज्यादुदितक्रमात् ।। 329 ।।
सर्वकोणगता मन्त्राः फडन्ताः समुदीरिताः।
सर्वे समुदिता मन्त्राः स्वाहान्ता होमकर्मणि ।। 330 ।।
ध्यात्वैवमर्च्य तन्मन्त्रैरर्घ्याद्यैरुपचारकैः।
दर्शयेदावृतीशानां मुद्रां तर्जनिसंज्ञिताम् ।। 331 ।।
द्वारपालगणानां तु चण्डाद्युक्तमनन्तरम्।
धर्माद्यावरणादूर्ध्बं हेतुना येन केनचित् ।। 332 ।।
बलिदानमशक्यं चेत्तत्रत्यानां यथाक्रमम्।
सर्वतोभद्रपूर्वेषु द्विगुणीकृत्य चाचरेत् ।। 333 ।।
मुख्यकल्पे तथान्यत्र यथाशक्त्यावृतिक्षितौ।
तद्बाह्यावृतिदेवानामावृत्यावृत्य तर्पयेत् ।। 334 ।।
द्वारोपद्वारपालानां तस्मिन् द्वारे समर्पयेत्।
महापीठोदितानां च तद्‌द्वाराग्रगमण्डले ।। 335 ।।
ध्यानोत्थानां तु सञ्चारे न दोषः केन हेतुना।
तत्तदावरणद्वारदेशेषूक्तक्रमेण तु ।। 336 ।।
द्रव्यमूर्तिगतानां च संचारः स्यादनिष्टदः।
एवमावृतिदेवानां त्रिसन्ध्यं बलिमाचरेत् ।। 337 ।।
नित्योत्सवार्थबिम्बस्य सन्निधौ तत् समाचरेत्।
नृत्तगेयादिसंयुक्तं वेदघोषसमन्वितम् ।। 338 ।।
नित्योत्सवार्थबिम्बे तु यानान्निपतिते भुवि।
उत्तमं स्नपनं कृत्वा शान्तिहोमं समाचरेत् ।। 339 ।।
यानमारोप्य तद्बिम्बं पुनर्नित्योत्सवं चरेत्।
द्वादशाहं व्रतं कुर्यात् साधकः खिन्नमानसः ।। 340 ।।
जपेत् स्वमन्त्रायुतकं यदि भेदादिदूषिते।
विधिवत् तत् समाधाय कृत्वा संप्रोक्षणं ततः ।। 341 ।।
उत्सवं शेषणापाद्य खिन्नचित्तस्तु साधकः।
तदारभ्य निराहारो ब्रह्नचर्यव्रते स्थितः ।। 342 ।।
चतुष्कमयुतानां तु स्वमन्त्रस्य तदा जपेत्।
तत्र त्रिरात्रं षडहं द्वादशाहं द्विपक्षकम् ।। 343 ।।
व्रतमाचर्य यत्नेन पात्रेभ्यो दानमाचरेत्।
गोभूहेमादिकानां तु यथाशक्ति द्विजोत्तम! ।। 344 ।।
दैवाद्‌बृहति भङ्गे वा तदा बिम्बान्तरेण तु।
स्नपनादिनियुक्तेन बलिदानैस्तु कैवलैः ।। 345 ।।
कर्मशेषं समापाद्य कृत्वा मन्त्रविसर्जनम्।
जीर्णोद्धारक्रमेणैव व्रताचरणमाभेत् ।। 346 ।।
जपायुतचतुष्क च त्रिरात्राद्यं चतुष्टयम्।
यावद्बिम्बसमापत्तिर्भूयः कृछ्रादिकं चरेत् ।। 347 ।।
बिम्बारम्भदिनात् पूर्वं ततस्त्वेकादशाह्निकम्।
व्रतं कृत्वा तु देवे तु विम्बारम्भदिने द्विज! ।। 348 ।।
संपूज्य द्वादशाचार्यान् सममूल्यं पृथक् पृथक्।
तेब्यो द्वादशदानानि दत्बा गोभूतिलानि वा ।। 349 ।।
एतेषां सन्निधौ भूयो बिम्बापादनमारभेत्।
यद्वाबिम्बं समादध्यात् प्रतिष्ठादिक्रमाच्चरेत् ।। 350 ।।
गोभूहेमादिकानां तु दानं चापि समाचरेत्।
जातलोकापवादस्तु भूयश्च व्रतमाचरेत् ।। 351 ।।
यावल्लोकापवादस्तु शान्तः स्यातावदाचरेत्।
मनःप्रसादपर्यन्तकालं च व्रतमाचरेत् ।। 352 ।।
अन्येषामपि बिम्बानां जाते भेदादिके सति।
एवमेव भेवद्विप्र! प्रायस्चित्तविधिक्रमः ।। 353 ।।
शूद्रस्याराधकस्यैवं प्रायश्चित्तं समीरितम्।
वैश्यस्य द्विगुणं त्वेतत् त्रिगुणं क्षत्रियस्य तु ।। 354 ।।
चतुर्गुणं ब्राह्नणस्य प्रायश्चित्तं समीरितम्।
मनुष्यस्थापितानां तु बिम्बानां भेदनादिके ।। 355 ।।
सञ्जाते साधकस्यैवं प्रायश्चित्तं समीरितम्।
आर्षे तु भगवद्बिम्बे तदेव द्विगुणं भवेत् ।। 356 ।।
देवैः प्रतिष्ठिते बिम्बे तदेव त्रिगुणं भवेत्।
सिद्धप्रतिष्ठिते बिम्बे तदेतत् स्याच्चतुर्गुणम् ।। 357 ।।
स्वयंव्यक्तेषु बिम्बेषु जाते भेदादिके सति।
प्रायश्चित्तं यथोक्तं तु भवेत् पञ्चगुणं द्विज! ।। 358 ।।
द्विविधं स्यात् स्वयंव्यक्तं बिम्बं भगवतो विभोः।
सालग्रामशिलारूपैरितरैस्तु शिलादिभिः ।। 359 ।।
उभयत्र समानं स्यात् प्रायश्चित्तं समीरितम्।
तत्रायं हिविशेषः स्यात् स्वयंव्यक्तादिषु द्विज! ।। 360 ।।
पूजायां वर्तमानायां समाधानादिकं चरेत्।
प्रायश्चित्तादिकं सर्वं सविशेषं समाचरेत् ।। 361 ।।
स्वयंव्यक्तादिकानां तु विना मर्त्यप्रतिष्ठितम्।
सर्वेषामपि विम्बानां प्राप्तमेकतमं तु यत् ।। 362 ।।
खीकारसमये विप्र! लक्षणादिविवर्जितम्।
खण्डितं स्फुटितं वापि यथावस्थितमेव हि ।। 363 ।।
स्वीकृत्याराधयेन्नित्यं न दोषस्तस्य विद्यते।
सालग्रामशिलाबिम्बे तत्तन्मूर्तिविनिर्णयम् ।। 364 ।।
तत्तद्व्यवस्थितैश्चिह्नैर्ज्ञात्वा सम्यक् समर्चयेत्।
पश्चाद्भदादिके जाते प्रायश्चित्तं समाचरेत् ।। 365 ।।
पूर्वोदितं प्रयत्नेन साधकः क्षीणमानसः।
चोरभूवारिवन्ह्याद्यैर्जाते भेदादिकेऽपि च ।। 366 ।।
बिम्बे चापहृते वापि मार्जाराद्यैश्च जन्तुभिः।
भेदादिकेऽपि संजाते प्रागुक्तं साधकश्चरेत् ।। 367 ।।
तस्माद्दिनात् समारभ्य प्रायश्चित्तं तु यत्नतः।
यस्मात् प्रागार्जितं पापं कर्म तत्रापि कारणम् ।। 368 ।।
तस्मात्तच्छान्तये वापि ह्यपवादस्य शान्तये।
प्रायश्चित्तं तु कर्तव्यं विहितं प्राक् प्रयत्नतः ।। 369 ।।
अन्यथा पातकी स स्यादेतस्मात् पातकाद्‌द्विज!।
प्रमादतः कृतेप्येवं प्रायश्चित्तं समाचरेत् ।। 370 ।।
बुद्धिपूर्वकृते मेदे प्रायश्चित्तैर्न निष्कृतिः।
अवश्यं दण्ड्य एव स्यात् स पापिष्ठोऽतिदुर्मतिः ।। 371 ।।
स्वप्रमादकृते भेदे जन्त्वन्तरकृतेपि वा।
साधको ह्यनुतापार्तो नाचरेद्यदि कीर्तितम् ।। 372 ।।
प्रायश्चित्तं तथा सोपि दड्यः स्यात् प्रथमं ततः।
प्रायश्चित्तं च वै कुर्यादयोग्यस्त्वन्यथा भवेत् ।। 373 ।।
गोपन्नपि च दोषस्य तस्य भेदादिकस्य च।
दण्डश्च प्रायश्चित्तं च विधेयमुभयं भवेत् ।। 374 ।।
एवं भेदादिके जाते भयं स्याद्राजराष्ट्रयोः।
तच्छान्त्यै सप्तदिवसं यजेत् कुम्भस्थलादिकम् ।। 375 ।।
एकस्मिन् वा त्रिसप्ताहं बिम्बसंस्थं च मन्तनपम्।
दोषे प्रसिद्धे भेदादौ प्रायश्चित्तं समीरितम् ।। 376 ।।
अप्रकाशे यथोक्तात्तु चतुर्थांशं समाचरेत्।
पूर्वं त्वपहृतं बिम्बं भूयः प्राप्तं यदि द्विज! ।। 377 ।।
प्रायश्चित्ताद्यथोक्तात्तु यत्नेनार्थं समाचरेत्।
बिम्बानां तु क्षते जाते श्रृणु दोषान् विशेषतः ।। 378 ।।
क्षतमिन्द्रियचक्रस्थं कर्तुर्भवति दोषदम्।
आकण्ठान्नाभिपझान्तं मन्त्रस्थं पुत्रमृत्युकृत् ।। 379 ।।
पार्श्वद्वये तु जायायाः पृष्ठस्थं भ्रातृहानिदम्।
नाभेर्यन्मेढ्रप्रयन्तं स्थानमासाद्य तिष्ठति ।। 380 ।।
क्षतं सुतशिशूनां च नाशकृद्भवति द्विज!।
आकटेः पायुपर्यन्तं भगिनीनां क्षयावहम् ।। 381 ।।
ऊरुमूलाच्च जान्वन्तं यत्र यत्र भवेत् क्षतम्।
धनधान्यपशूनां च क्षयो भवति सर्वदा ।। 382 ।।
जान्वोः पादतलान्तं च भृत्यवर्गस्य दोबदम्।
सर्वेषामनुकम्पार्थमात्मनश्चापि तृप्तये ।। 383 ।।
कर्ता कमलसंभूत! क्षतमक्षततां नयेत्।
अल्पक्षते समाधानं विहितं तु निबोध मे ।। 384 ।।
योजयेच्चित्रबिम्बस्य गलितं गन्धभावितैः।
सितरक्तादिकै रागैः पावनैरस्त्रमन्त्रितैः ।। 385 ।।
मृण्मयानां तु बिम्बानां मध्वाज्यक्षीरमिश्रया।
मृदा कौशेयसंपूर्णयुक्त्या हेमोदसिक्तया ।। 386 ।।
सन्धानं कारयेद्‌विप्र! दारुजस्य निबोधतु।
भेदे भङ्गे च सन्दध्यादस्त्रशस्त्रद्वयेन तु ।। 387 ।।
अश्मजानां क्षते जाते सति रत्नशलाकया।
सहेमया च विहितं घृष्टशाणस्य घर्षणम् ।। 388 ।।
मनुष्यनिर्मितानां तु ह्यश्मजानां बृहत्‌क्षते।
सर्वथा विहितस्त्यागः स्वयंव्यक्तादिकेषु तु ।। 389 ।।
शिलामयेषु बिम्बेषु भिन्नं भग्नं च योजयेत्।
सुवर्णनिर्मितैः पट्टैर्यथा दृढतरं भवेत् ।। 390 ।।
यद्वा तदङ्गैर्हैमेन कृत्वा सम्यङ्‌नियोजयेत्।
दारुजे लोहजेष्वेवं स्वयं व्यक्तादिकेष्वपि ।। 391 ।।
भेदे भङ्गे समाधिस्स्यात् स्वयं व्यक्ताश्मबिम्बवत्।
रत्नजेऽपि समाधानमेवमेव समाचरेत् ।। 392 ।।
सालग्रामशिलाविम्बं भिन्नं भग्नं बृहत् क्षतम्।
अल्पक्षतं च सौवर्णैः पट्टैर्दृढतरं यथा ।। 393 ।।
बन्धयेल्लोहजे बिम्बे श्रृणु मर्त्यप्रतिष्ठिते।
केवलस्य हि हैमस्य यथालाभं क्षेते क्षिपेत् ।। 394 ।।
स्वर्णरत्नमयं चूर्णं द्वादशाक्षरमन्त्रितम्।
अन्यधा तूत्थिते बिम्बे क्षतं सम्यङ्‌महामते! ।। 395 ।।
ईषत्सुवर्णमिश्रेण पूरयेत् स्वेन धातुना।
स्वयं व्यक्तादिकेऽप्येवं मुख्यकल्पे समाचरेत् ।। 396 ।।
प्रासादे मण्डपे वापि गोपुरादिषु वा द्विज!।
शोभार्थं संस्थितानां च बिम्बानां पररूपिणाम् ।। 397 ।।
व्यूहानां विभवानां च सदा भगवतो विभोः।
 भेदादिके तु सञ्जाते समादध्यात् तथैव तु ।। 398 ।।
तत्तत्सन्निध्यनुगुणं प्रतिष्ठादिकमाचरेत्।
प्रायश्चित्तं समभ्यूह्य साधकस्तु समाचरेत् ।। 399 ।।
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्‍डे द्वारावरणदेवताध्याननिर्णय, बलिबिम्बादिपतन भङ्ग अङ्गवैकल्य प्रायश्चित्त, दारुजादिबिम्बसमाधानं नाम एकादशोऽध्यायः ।।
*****************