परमेश्वरसंहिता/अध्यायः १९

विकिस्रोतः तः
← अध्यायः १८ परमेश्वरसंहिता
अध्यायः १९
[[लेखकः :|]]
अध्यायः २० →
परमेश्वरसंहितायाः अध्यायाः

।। श्रीः ।।
एकोनविंशोऽध्यायः
सनकः ---
मुने! सिद्धान्तनिष्टस्य समाराधनकाङ्क्षिणः।
समयाचारवैकल्ये प्रायश्चित्तमुदीरय ।। 1 ।।
शाण्डिल्यः ---
श्रृणु सम्यक् प्रवक्ष्यामि प्रायश्चित्तं मुने! हितम्।
यत् कृत्वा देशिकादीनां चतुर्णआं शुभमेधते ।। 2 ।।
अस्नात्वा विधिवन् मन्त्री नद्यादौ पूजयेद्यदि।
स्नात्वा मूलसहस्रं तु जप्त्वा संपूजयेद्विभुम् ।। 3 ।।
जीर्णं पर्युषितं वासो दधानो यदि पूजयेत्।
स्नात्वा विशुद्धवासोभृन्मूलमन्त्रं जपेत्तथा ।। 4 ।।
ध्यानहीनस्त्वनाचान्तः पवित्ररहिताङ्‌गुलिः।
केशास्थिलोष्टसिरासृगस्पृश्यस्पर्शनेऽपि च ।। 5 ।।
स्नात्वा यथापुरं पूज्य मूलमन्त्रायुतं जपेत्।
उदक्यासूतिकाऽपेयचण्डालाद्युपवर्तकः ।। 6 ।।
स्पृशेच्चेद्भगवद्बिम्बं स्नात्वा पूर्वं स्वयं ततः।
पञ्चगव्येन देवेशमभिषिच्य समर्चयेत् ।। 7 ।।
उदक्यासूतिकाद्यैश्च स्पृष्टः संस्पृश्य कौतुकम्।
स्नात्वोत्तमेन देवेशमभिषिच्याथ शान्तये ।। 8 ।।
हुत्वाऽथ मूलमन्त्रेण जपेच्चायुतसङ्ख्यया।
सूतके मृतके बिम्बं स्पृशेद्वा पूजयेद्यदि ।। 9 ।।
अधमोत्तमेन संस्नाप्य प्राग्वदधुत्वा जपेन्मनुम्।
महापातकिभिः स्पृष्ठो विण्मूत्रापेयपैस्तथा ।। 10 ।।
पूजयेद्यदि देवेशं पुनः स्नात्वा विधानतः।
पूर्ववत् स्नपनं कृत्वा शान्तिहोमादिकं चरेत् ।। 11 ।।
निष्ठीवरुधिरस्वेदयुक्तो देवं स्पृशेद्यदि।
कुशोदकेन संस्नाप्य विशेषेण यजेद्विभुम् ।। 12 ।।
दिवा गत्वा स्त्रियं स्वीयामस्नात्वा चेत् स्पृशेद्विभुम्।
उपोष्य पञ्चभिर्गव्यैः कुशोदैः स्नापयेद्विभुम् ।। 13 ।।
परस्त्रीगमासक्तश्चीर्णदुश्चरितो विभुम्।
पूजये्दवा तथा स्पृष्ठे देधबिम्वेऽभिषेचयेत् ।। 14 ।।
मध्यमाधममार्गेण हुत्वा मन्त्रं जपेच्छतम्।
कृमिकीटास्थिकेशादिपतङ्गनखरादिकैः ।। 15 ।।
प्राण्यङ्गतुषभस्मादिदुष्टैः पत्रफलादिभिः।
पुष्पैस्तोयैस्तथाप्यन्यैश्चन्दनाद्यैश्च भूषणैः ।। 16 ।।
तथोपचारैरन्यैश्च वर्जितैरपि वस्तुभिः।
तथा पर्युषितैः पत्रपुष्पाङ्‌कुरफलादिभिः ।। 17 ।।
अस्पृश्यप्राणिभिः स्पृष्ठैस्तथा चास्पृश्यवस्तुभिः।
चण्डालसूतिकाद्यैश्च निषादपतितादिभिः ।। 18 ।।
संस्पृष्ठैश्च परिम्लानैः सरजोभिर्यजेद्यदि।
जपेदष्टोत्तरशतं मूलमन्त्रमनन्यधीः ।। 19 ।।
एतैर्दुष्टैस्तु वस्त्राद्यैर्देवं संपूजयेद्यदि।
संस्नाप्य चाधमेनैव पूजयित्वा विधानतः ।। 20 ।।
शान्तिहोमं प्रकुर्वीत सहस्राहुतिभिः क्रमात्।
चण्डालसूतिकोदक्याशबरापेयपायिभिः ।। 21 ।।
संस्पृष्टे पानभक्ष्यादौ देवेशस्य निवेदिते।
मृण्मयानि परित्यज्य क्षालयित्वेतराणि च ।। 22 ।।
स्नात्वा कुशोदकं पीत्वा स्नापयेदधमेन तु।
पुनः संपूज्य जुहुयान्मूलेन शतसङ्ख्यया ।। 23 ।।
विड्वराहसृगालाभि काकश्येनखरादिभिः।
एवमादिभिरन्यैश्च स्पृष्ठेऽन्नादौ निवेदिते ।। 24 ।।
पूर्ववच्छान्तिरेव स्यात्ततः शुद्धं निवेदयेत्।
परस्त्रीगमनासक्तैर्मक्ष्याभक्ष्याविवेकिभिः ।। 25 ।।
यथेष्टाचारनिरतैरवैष्णवकुलोद्भवैः।
पव्कं स्पृष्ठं तथा दृष्टं दुष्टं पूयासृगादिभिः ।। 26 ।।
अमत्या चेद्धविर्देत्तं पूर्ववच्छान्तिमाचरेत्।
शवादिदूषितान्नस्य पव्कस्य विनिवेदने ।। 27 ।।
पूर्ववत् पूज्य देवेशं शान्तिहोमं समाचरेत्।
त्यक्तमन्नादिकं दद्याद्यदि पूज्य पुनस्तिलैः ।। 28 ।।
सघृतैर्जुहुयान्मन्त्री सहस्रशतसङ्ख्यया।
तथा पर्युषितान्नस्य प्रदाने शान्तिमाचरेत् ।। 29 ।।
त्यक्तं हविः फलं पुष्पं पवित्रान्नरसादिकम्।
त्यजेज्जलाशये वाग्नौ भुवि वा गोष्वलोलुपः ।। 30 ।।
मक्षिकाघुणभृङ्गाद्यैर्दष्टं दुष्टं पुरीषगैः।
पत्रपुष्पफलाद्यन्नं त्यक्तव्यं, तदधिष्ठितम् ।। 31 ।।
अस्त्रोदकेन संप्रोक्ष्य दद्याद्देवाय भक्तितः।
महाहविर्विधाने तु विशेषमवधारय ।। 32 ।।
पचनालयमन्यत्र साधितं दीक्षितेतरैः।
अमन्त्रसंस्कृतं चान्नमविभक्तमलक्षणम् ।। 33 ।।
निरीक्षितमयोग्यैश्च संपृष्ठं मक्षिकादिभिः।
संप्रोक्ष्य चास्त्रतोयेन निवेद्यं यत्नगौरवात् ।। 34 ।।
सेनेशाय न दातव्यं होमं कुर्याद्यथारुचि।
कारिभ्यः संप्रदानं च बलिदानं न कारयेत् ।। 35 ।।
अभ्यागतेष्वनाप्तेषु दीनानाथजनेष्वपि।
प्रदेयमन्यथा शान्तिहोमं कुर्यादनन्यधीः ।। 36 ।।
बिडालभूषिकासर्पमण्डूकाद्यैश्च जन्तुभिः।
कृमिकीटपतङ्गाद्यैर्वायसाद्यैश्च खेचरैः ।। 37 ।।
न देयं देवदेवाय दुष्टं स्पृष्ठं महाहविः।
दत्ते हुत्वा च जप्त्वा च पुनर्दद्यान्महाहविः ।। 38 ।।
भोगमन्त्रक्रियाध्यानं मुद्राणामङ्गरूपिणाम्।
द्वारावरणपूर्वाणां बिंबपीठादिकारिणाम् ।। 39 ।।
कालानामपि चान्येषां नित्यनैमित्तिकात्मनाम्।
विपर्यासे प्रवृत्ते तु दिव्यैर्व्यापकपञ्चकैः ।। 40 ।।
प्रत्येकं जुहुयान्मन्त्री तिलैश्चान्यैः शतं शतम्।
समित्परिदिदर्भाणां कूर्चानां हविषायपि ।। 41 ।।
आज्यस्थाल्यादिपात्राणमग्नेः स्थण्डिलकुण्डयोः।
स्त्रुक्‌स्रवस्य प्रणीताया अभावे लक्षणोज्झिते ।। 42 ।।
शान्त्यर्थं जुहुयान्मन्त्री प्राग्वद्व्यापकपञ्चकैः।
अभावे काष्ठसमिधामाज्येन चरुणा हुनेत् ।। 43 ।।
समिद्भिराज्याभावे तु तिलैर्वा होममाचरेत्।
अलाभे हविषोऽन्येषामाज्येन जुहुयात् सुधीः ।। 44 ।।
सर्वधाहोमकर्मार्थं तिलमाज्यं न लोपयेत्।
तिलाज्ययोरभावे तु हवनं स्यान्निरर्थकम् ।। 45 ।।
शान्तिहोमं प्रकुर्वीत प्रतिष्ठायां यथोदितम्।
वह्नौ कुण्डे स्थले चुल्यां संस्कृतेऽनुगतिं गते ।। 46 ।।
पुनराधाय संस्कृत्य शान्तिहोमादिकं हुनेत्।
वह्नौ स्पृष्टे तथाऽस्पृश्यैः केशास्थिनखरैरपि ।। 47 ।।
यथावन्मूलमन्त्रेण जुहुयात् सर्पिषा शतम्।
उदक्यासूतिकाद्यैश्च सन्निकृष्टेऽयुतं हुनेत् ।। 48 ।।
संस्पृष्टेऽन्यं समाधाय जुहुयाच्चायुतं जपेत्।
असमिद्धे हुते वह्नौ पुनर्होमं समाचरेत् ।। 49 ।।
नैमित्तिकेषु काम्येषु चोत्सवेषु बिशेषतः।
तदङ्गहुतभुग्यागं कुण्डेऽनय्स्मिन् समाचरेत् ।। 50 ।।
शान्तिहोमं प्रकुर्वीतं कृते चेत्तद्विपर्यये।
परिवारानमूर्तांश्च मूर्तांश्चैव यथाक्रमम् ।। 51 ।।
अनर्चयित्वाऽहोरात्रं जपेत्तत्र पुरोऽन्तिके।
तन्मन्त्रांश्छतमष्टौ तु प्रत्येकं पूजनादिकम् ।। 52 ।।
पतने बलिवस्तूनामस्पृश्यस्पर्शनेऽपि वा।
तथैव पात्रेऽबिमते केशलोष्टादिदूषिते ।। 53 ।।
तत्त्यक्त्वाऽन्येन निर्वर्त्य शान्तिहोमं समाचरेत्।
बलिं दुष्टे न दद्याच्चेच्छान्तिहोमपुरस्सरम् ।। 54 ।।
बलिं दत्वा विशेषेण प्रागुक्तं मन्त्रवान् जपेत्।
नित्योत्सवार्थबिम्बे तु यानान्निपतिते सति ।। 55 ।।
तदेवोद्‌धृत्य तद्विम्बमक्षतं स्नाप्य मन्त्रवित्।
अधमाधममार्गेण शान्त्यर्थं जुहुयादनु ।। 56 ।।
तथैव च क्षतं बिम्बं समाधाय यथापुरम्।
कृत्वा प्रातिष्ठिकं कर्म स्वस्थाने स्थापयेदनु ।। 57 ।।
यावत्समाधिकालं तु तावद्बिम्बान्तरेण वा।
कूर्चेन वाऽन्यबिम्बेन कुर्यान्नित्योत्सवं हरेः ।। 58 ।।
अस्पृश्यैर्वाथ संस्पृष्टे बलिबिम्बेऽभिषेचयेत्।
अधमाधमंमार्गेण शान्तिहोमपुरस्सरम् ।। 59 ।।
यानस्थे त्वध बिम्बे तु व्यूढेऽयोग्यजनैः स्ति।
कुशोदकेन संप्रोक्ष्य शान्तिहोमं समाचरेत् ।। 60 ।।
अस्पृश्यैर्यदि संस्पृष्टो बलिबिम्बस्य वाहकः।
पञ्चगव्येन संप्रोक्ष्य शुचिनाऽन्येन वाहयेत् ।। 61 ।।
मुद्रामन्त्रक्रियाध्यानद्रव्याणां भोगरूपिणाम्।
विंशेषाद्बलिकाले तु हानिरुत्पद्यते यदि ।। 62 ।।
जपेन्मूलसहस्रं तु मन्त्री ध्यानसमन्वितः।
न दत्तं यदि दातव्यं फलपुष्पोदनादिकम् ।। 63 ।।
देवोपभुक्तं योग्याय मूलमन्त्रायुतं जपेत्।
हुतशेषे हविश्शेषे भुक्ते योग्यजनैर्विना ।। 64 ।।
जपेन्मूलायुतं मन्त्री दाता किल्पिषशान्तये।
सात्वतैः सत्वनिरतैः सदा भगवतःप्रियैः ।। 65 ।।
तत्तं भगवते यद्यत् तत्तत् पावनपावनम्।
व्रह्नग्नस्य सुरापस्य स्वर्णस्तेयरतस्य च ।। 66 ।।
गुरुतल्परतस्यपि संयुक्तस्यापि तैः सह।
प्राशनं सर्वपापघ्नमन्येषापपि किं पुनः ।। 67 ।।
तस्मात्तत् संप्रदातव्यं ज्ञानिनां मुख्यकल्पने।
त्रैवर्णिकानां दातव्यं दीक्षितानां तु मध्यमे ।। 68 ।।
केवलानां तु भक्तानां त्रैविद्यानां द्विजन्मनाम्।
प्रधादानमनुकल्पे स्यादन्यथा प्राशयेत् स्वयम् ।। 69 ।।
विष्वक्‌सेनस्य यद्दत्तं पूजान्ते मन्त्रिभिर्विभोः।
न भोक्तव्यंविशेषेण त्यक्तव्यं भूजलादिषु ।। 70 ।।
गोषु वा विष्णुभूतानां तृप्तये हितमिच्छताम्।
भोक्ता किल्बिषशान्त्यर्थं व्रतं चान्द्रायणं चरेत् ।। 71 ।।
संकल्प्य यागं होमान्तं हवनं न कृतं यदि।
द्विगुणं हवन कृत्वा पूर्णान्तं मन्त्रवित्तमः ।। 72 ।।
एकद्वित्रिचतुः पञ्चषट्‌कालेषु यथाक्रमम्।
एकार्दिदिनमासर्तुवत्सरेषु तथैव च ।। 73 ।।
वह्निकार्येषु लुप्तेषु नित्यनैमित्तिकेष्चपि।
द्विगुणं मिश्रितैर्होमैरधमस्नपनं चरेत् ।। 74 ।।
पूजालोपे प्रवक्ष्यामि प्रायश्चित्तं मुने श्रृणु।
औपचारिकसांस्पर्शहृदयंगमरूपिणाम् ।। 75 ।।
परिच्युतौ च भोगानां त्रयाणां क्रमशो मुने!।
पूजान्ते सर्वबीजानि मात्रावित्तं घृतोदनम् ।। 76 ।।
निवेदनीयं देवस्य विशेषेज्यापुरस्सरम्।
एककाले च दिवसे पक्षे वैशेषिकार्चनम् ।। 77 ।।
तत्तद्‌द्विगुणितैर्द्रव्यैर्बलिहोमान्तमाचरेत्।
एकमासीयपूजाया यावद्‌द्वादशमासिकी ।। 78 ।।
तावद्‌द्विगुणितैर्द्रव्यैर्माससङ्ख्यार्चनेऽपि च।
स्नपनं चापि नवकमधमाधमपूर्वकम् ।। 79 ।।
मुख्योत्तमावसानं तु सहस्रकलशाप्लवम्।
संप्रोक्षणं च विध्युक्तं प्रतिष्ठां च क्रमाच्चरेत् ।। 80 ।।
आरभ्य मासिकीं पूजां यावद्‌द्वादशमासिकी।
तावदेकैकवृद्ध्या तु महता हविषा यजेत् ।। 81 ।।
समिद्भिः सप्तभिर्हुत्वा पुरा पश्चाद्धृताप्लुतैः।
घृतैश्च जुहुयान्मन्त्री त्वासहस्राद्यथाबलम् ।। 82 ।।
तथैव च जपं कुर्यान्मूलमन्त्रस्य सादरम्।
वलिप्रदानहीने तु हुत्वा मूलशत ततः ।। 83 ।।
तत्तदावरणद्वारदेवानां स्वस्वसंज्ञया।
जुहुयात्तिलमिश्रेण घृतेनैव शतं शतम् ।। 84 ।।
प्रायश्चित्तं प्रवक्ष्यामि नित्यादिस्नपनेषु ते।
गृहार्चने प्रकुर्वीत नित्यादिस्नपनं सुधीः ।। 85 ।।
तत्र स्नानीयतोयेन पूजार्थमभिषेचयेत्।
वहुबेरे तु कर्मार्चां स्नापयेदग्रमण्टपे ।। 86 ।।
प्रासादे वितते ब्रह्नभागस्थे भद्रविष्टरे।
स्नापयेत् स्नानकलशैः स्थापितैरग्रमण्टपे ।। 87 ।।
मद्याह्ने चापि सायाह्ने स्नानीयकलशोद्‌धृतैः।
स्नानद्रव्यसमेतैर्वा वारिभिः प्रोक्षयेत् क्रमात् ।। 88 ।।
मूलबिम्बादिबिम्बानां कुर्याद्वा विनिवेदनम्।
बहुबेरेऽभिषेकार्चां तां गृहीत्वाग्रमण्टपात् ।। 89 ।।
न गच्छेद्बाह्यतो मन्त्री स्नपनार्थं बहिर्गते।
शान्तिहोमं प्रकुर्वीत तस्य दोषस्य शान्तये ।। 90 ।।
एकबेरे बृहद्रूपे कर्मार्चामभिषेचयेत्।
बृहद्धटैश्च बहुभिः सहस्रकलशादिभिः ।। 91 ।।
यदाभिषेको बाह्यस्थे मण्टपे स्नानकौतुकम्।
संस्नाप्य विधिवन्मन्त्री महता विभवेन तु ।। 92 ।।
पूजयित्वोत्सवार्चायां विनिवेद्य महाहविः।
कलशस्नपनार्थं चेन्न कुर्यादङ्कुरार्पणम् ।। 93 ।।
तथा प्रतिसराबन्धं मूलमन्त्रायुतं जपेत्।
पुरस्तादङ्‌कुरानर्प्य बद्‌ध्रवा बिम्बेऽपि कौतुकम् ।। 94 ।।
अमत्या वा समत्या वा स्नपनं नाचरेद्यदि।
शान्तिहोमं पुरा कृत्वा जपेदष्टोत्तरायुतम् ।। 95 ।।
कौतुकाङ्‌कुरपूर्वं तु पुनरेवाभिषेचयेत्।
अकृत्वाङ्‌कुरयागं तु तथा कौतुकनन्धनम् ।। 96 ।।
स्नापितो यदि देवेशः स्नानं तन्निष्फलं भवेत्।
विधिवच्चाङ्‌कुरावापं तथा कौतुकबन्धनम् ।। 97 ।।
स्नापयेद्विधिवन्मन्त्री शान्तिहोमषुरस्सरम्।
संकल्पिते तु स्नपने त्वकृते द्विगुणं चरेत् ।। 98 ।।
नासादितैर्द्रव्यहीनैः स्नापितेऽप्येवमाचरेत्।
अधिवासितकुंभस्थतोयानां पूर्वमेव तु ।। 99 ।।
न पर्युषितहानिः स्यान्मन्त्रन्यासैस्तथार्चनैः।
स्थापितेष्वथ कुंभेषु हीनेषु स्थाप्य पूर्ववत् ।। 100 ।।
जपेत् कलशदैवत्यं मन्त्रमष्टोत्तरं शतम्।
समुद्‌धृतेषु कुंभेषु रिक्तेषु सुषिरादिना ।। 101 ।।
प्राग्वदन्यं प्रतिष्ठाप्य जपेदष्टोत्तरं शतम्।
अस्पृश्यैश्च तथा स्पृष्ठे मार्जाराराद्यैश्च दंशिते ।। 102 ।।
श्वादिभिः कुक्कुटाद्यैर्वा शबराद्यैर्विजातिभिः।
केशास्थिलोष्टसंदुष्टे पुनः कलशसञ्चये ।। 103 ।।
सद्‌द्रव्यं पूर्ववत् स्थाप्य तद्दैवत्यं जपेच्छतम्।
दुष्टैः संस्नापिते देवे पुनरप्यभिषेचयेत् ।। 104 ।।
व्यापकैः पञ्चभिर्मन्त्रैः प्रत्येकं जुहुयाच्छतम्।
पूर्ववत् कुंभदैवत्यं जपेद्ध्यानसमन्वितम् ।। 105 ।।
अक्रमेण समुद्धारे स्थापने द्रव्ययोजने।
अनर्चने च मन्त्राणां जपेदष्टोत्तरं शतम् ।। 106 ।।
माहिषाजोष्ट्रसंभूतैः दधिक्षीरघृतादिभिः।
स्नपनाद्देवदेवस्य मूलमन्त्रेण मन्त्रवित् ।। 107 ।।
समिद्भिः सप्तभिर्होमं कुर्यादष्टोत्तरं शतत्।
गेयमङ्गळवादित्रस्तोत्रनृत्तादिभिर्विना ।। 108 ।।
वीणावेणुनिनादैश्च तथा पुण्यहवाचनैः।
विनाबिषेचिते मूलं शतमष्टोत्तरं जपेत् ।। 109 ।।
बिम्बेऽभिषिच्यमाने तु पतिते स्नानविष्टरात्।
चलिते वा विशेषेण प्रतिष्ठास्नपनं चरेत् ।। 110 ।।
चरुणा सर्पिषा चैव प्रागुक्तैर्मूलपञ्चकैः।
हुत्वा चाष्टोत्तरशतं तत्सङ्‌ख्यं च जपेत्ततः ।। 111 ।।
प्रभापीठास्त्रवस्त्राह्गभेदभङ्गादिदूषिते।
तत्तद्विम्बगतां शक्तिं नियोज्य ध्रुवकौतुके ।। 112 ।।
सन्धानं शिल्पिभिः कृत्वा सुसंस्कृत्य तदैव तु।
शेषकर्मणि निर्वृत्ते स्नापयेदुत्तमक्रमात् ।। 113 ।।
तिलेन चरुणाज्येन प्रत्येकं च सहस्रशः।
जुहुयान्मूलमन्त्रेण तेन शान्तिर्भविष्यति ।। 114 ।।
तदा न घटितुं शक्तिर्यदि स्याद्यत्नगौरवात्।
शोभार्थबिम्बैः पुरतः स्थापितैः शेषमाचरेत् ।। 115 ।।
एवमुत्सवतीर्थार्थशयनादिषु मूर्तिषु।
तत्तदङ्गादिसन्धानं स्थापनं योजनं पुन ।। 116 ।।
उक्तप्रमाणादधिके हीने स्नपनवस्तुनि।
शरावे कलशे कूर्चे वस्त्रे कोष्टे सदस्यपि ।। 117 ।।
पालिकादौ तथा पीठे तोरणे चाष्टमङ्गळे।
द्वारमङ्गळकुंभेषु साधनेष्वितरेष्वपि ।। 118 ।।
मूलमन्त्रं जपेन्मन्त्री शतमष्टाधिकं सुधीः।
मोक्षार्थी स्नापयेद्देवं सर्वकालं यथाविधि ।। 119 ।।
रिपूणां निग्रहार्थाय दिवा कुर्यात्तु सर्वदा।
स्वर्गकामस्तु पूर्वाह्णे धर्मार्थी दिनमध्यमे ।। 120 ।।
विनान्ते सर्वभोगार्थी प्रायश्चित्तेषु सर्वदा।
चन्द्वसूर्योपरागे च तत्काले स्नापयेद्विभुम् ।। 121 ।।
संक्रान्तिषु च सूर्यस्य प्राग्वत् पश्चात्तथैव च।
सङ्‌क्रान्तिकालविज्ञानान्नाड्यः षोडश षोडश ।। 122 ।।
तदानीं स्नापयेद्देवमनुक्रान्ते हुनेन्मनुम्।
सहस्रकृत्वस्तदनु तत्समं जपमाचरेत् ।। 123 ।।
पुरस्तात् सर्वकर्मार्थमङ्‌कुरेष्वर्पितेष्वनु।
रक्तेषु श्यामवर्णेषु तथा तिर्यग्गतेषु च ।। 124 ।।
वक्रेषु चाप्ररूढेषु दक्षिणाबिमुखेषु च।
विधिहीनेषु चास्पृश्यस्पृष्टेष्वधिकृतैर्विना ।। 125 ।।
पालिकादिषु भिन्नेषु नष्टेषु पतितेषु च।
मूषिकाद्यैश्च दष्टेषु मूलमन्त्रायुतं जपेत् ।। 126 ।।
पुरस्तादेकयागार्थमङ्‌कुरेष्वर्पितेषु च।
असमाप्ते ततस्तस्मिन् प्राप्ते वैशेषिकान्तरे ।। 127 ।।
तदर्थमपि कुर्वीत पालिकास्वङ्‌कुरार्पणम्।
उत्सवाद्यन्तयोर्मध्ये रक्षासूत्रविवर्जितम् ।। 128 ।।
बद्धप्रतिसरे बिम्बे स्नपनार्थं तु मन्त्रिणा।
संप्राप्ते स्नपनेऽन्यस्मिन् शीर्घकर्मनिमित्ततः ।। 129 ।।
तदर्थं कौतुकं बध्वा स्नानकर्म समाप्य च।
पूर्वारब्धं प्रकुर्वीत प्रायश्चित्तादनन्तरम् ।। 130 ।।
अन्यत्र कमशः कुर्यात् पूर्वारब्धं समाप्य च।
अन्यथा चेदिदं कर्म निष्फलं भवति द्विज! ।। 131 ।।
तद्दोषपरिहारार्थं शान्तिहोमो जपस्तथा।
सहस्रसङ्‌ख्याया युक्तो मूलमन्त्रेण मन्त्रवित् ।। 132 ।।
स्नपनेऽस्मिन्नतिक्रान्ते मूलमन्त्रायुतं जपेत्।
मूषिकासर्पमण्डूकचुचुंदर्यादिजन्तुभिः ।। 133 ।।
स्थापिते कलशे स्पृष्टे लङ्‌घिते सति तं त्यजेत्।
पुनरन्यं तथा स्थाप्य जपेन्मूलशतं गुरुः ।। 134 ।।
प्रायश्चित्तेष्वनुक्तेषु एवमांदिषु सत्सु च।
मूलमंत्रायुतं चैव जपेदष्टोत्तरं गुरुः ।। 135 ।।
प्रायश्चित्तं प्रवक्ष्यामि महोत्सवविधौ मुने!।
गृहे प्रतिष्ठिते बिम्बे न कुर्वीत महोत्सवम् ।। 136 ।।
स्वतन्त्रं परतन्त्रं च दिव्याद्यायतनं द्विधा।
पर्वताग्रे नदीतीरे तीर्थानां निकटे विभोः ।। 137 ।।
स्थापितस्यालयं विद्धि स्वतन्त्रमिति सत्तम।
ग्रामाद्यङ्गतया क्लृप्तमस्वतन्त्रमितीरितम् ।। 138 ।।
तयोर्महोत्सवं कुर्यात् त्रयोदशविधं मुने!।
सङ्कल्प्यैकतमे तत्र प्रवृत्ते वत्सरं प्रति ।। 139 ।।
न तु कुर्याद्विभूत्यर्थं तस्मान्न्यूनं दिनोत्सवम्।
अमत्या यदि कुर्वीत कुर्यादूर्ध्वं गतोत्सवम् ।। 140 ।।
प्राक् प्रवृत्तं तु शान्त्यर्थमन्यथा स्यान्नृपक्षयः।
प्रमाणरहिते वंशे पटे बालध्वजेऽपि च ।। 141 ।।
वर्णभूषणमानाद्ये दण्डे यष्टौ च दैणवे।
फेणके चावटे पीठे प्रपायां ध्वजरज्जुनि ।। 142 ।।
विधिवच्छान्तिहोमं तु जपान्तं प्राग्वदाचरेत्।
छिन्ने भिन्नेऽग्निना दब्धे नष्टे मूषिकदंशिते ।। 143 ।।
विण्मूत्ररुधिरापेयरेतोनिष्ठीवनादिभिः।
दूषितं ध्वजमुत्सृज्य प्राग्वदन्यं समाहरेत् ।। 144 ।।
प्रतिष्ठाप्याथ दण्डाग्रं मानयित्वाधमेन तु।
संस्नाप्य दोषशान्त्यर्थं जुहुयात् सर्पिषा शतम् ।। 145 ।।
स्तम्भाग्रे ध्वजवस्त्रस्य रक्षाकार्याय दीक्षितैः।
आरोहणं न दोषोऽत्र रक्षाहेतोर्द्विजादिभिः ।। 146 ।।
सुजीर्णान् फेणदण्डादीन् परित्यज्य ततोऽपरान्।
संस्कृत्य योजयेत्तत्र बध्वा तु ध्वजमञ्जसा ।। 147 ।।
मध्यमस्नपनान्तं तु शान्तिहोमं समाचरेत्।
वर्षवातातपस्पर्शैः लुप्तवर्णे खगध्वजे ।। 148 ।।
न किंचिदप्यनिष्टं स्यात् स्तंभाग्रे यावदुत्सवम्।
बध्वा ध्वजपटे स्तम्भे वातवेगादिहेतुभिः ।। 149 ।।
तमूलदेशे तु विच्छिन्ने सध्वजे पतिते सति।
अकृत्वा ध्वजविश्लेषं स्थापयेच्छेषमञ्जसा ।। 150 ।।
स्नपनं चोत्तमं कुर्यात् चतुः स्थानार्चनादिकम्।
गोभूहेमयवादीनां दानं शक्त्या समाचरेत् ।। 151 ।।
उत्सवध्वजभङ्गेन राज्याद्भ्रष्टो भवेन्नृपः।
तस्मात्तत्परिहारार्थं त्वरया शान्तिमाचरेत् ।। 152 ।।
हेतुभिर्वातवेगाद्यैर्ध्वजे निपतिते भुवि।
क्षिप्रमुद्‌धृत्य तद्बध्वा स्नपनं चाधमेन तु ।। 153 ।।
शान्त्यर्थं जुहुयादाज्यं तिलेन शतसङ्‌ख्यया।
ध्वजे निपतिते छिन्ने कुर्यात् स्नपनमुत्तमम् ।। 154 ।।
पुनरन्यं समुत्पाद्य बध्नीयात् संस्कृतं तथा।
अन्यथा यदि दोष-स्याद्राज्ञो राष्ट्रस्य मन्त्रिणः ।। 155 ।।
पक्षीशाधिष्टिते कुंभे नष्टे वा पतिते भुवि।
स्पृष्टेऽस्पृश्यैस्तथा केशलोष्टास्थिशकृदादिभिः ।। 156 ।।
कुंभेऽन्यस्मिन् समारोप्य तां शक्तिं कुंभमध्यगाम्।
जप्त्वा मूलायुतं मन्त्री शेषकर्म समाचरेत् ।। 157 ।।
अनुक्तानां तु सर्वेषां जपेदेवं यथाबलम्।
देवतावाहनार्थं तु भेरीताडनकर्मणि ।। 158 ।।
वाद्यजातेषु सर्वेषु मृदङ्गपणवादिषु।
न स्थापितेषु स्वस्थानेतत्पूजातविलोपने ।। 159 ।।
पुण्याहपाठराहित्ये तथार्वाहनगाधया।
सगणेषु च भूतेषु सग्रहेपूत्कटादिषु ।। 160 ।।
स्वासु दिक्षु यथान्यायमनाहुतेषु सत्सु च।
द्वारावरणरथ्यासु ग्रामवास्तुष्वनुक्रमात् ।। 161 ।।
बलिप्रदानहीने तु तथा ताळस्वरादिषु।
गेयनृत्तेषु हीनेषु शान्तिहोमपुरस्सरम् ।। 162 ।।
प्रत्येकं देवतामन्त्रमष्टधाऽऽवर्तयेद्‌बुधः।
पुनरुत्पादयेत् सर्वं देवतावाहनादिकम् ।। 163 ।।
अनङ्‌कुरार्पणाग्रं तु प्रारभेच्च महोत्सवम्।
पुनःप्राप्ते दिने वाथ सद्यः कृत्वाऽङ्‌कुरार्पणम् ।। 164 ।।
शान्तिहोमं प्रकुर्वीत पूर्ववच्छतसङ्ख्यया।
तथैव तीर्थयात्रार्थं बूतरात्रादिसिद्धये ।। 165 ।।
परिच्युतौ तथाह्गानामङ्‌कुरार्पणकर्मणि।
न कृतं चेत्तथा साङ्गं तथा कौतुकबन्धनम् ।। 166 ।।
कर्तव्या पूर्ववच्छान्तिर्होमेन सजपेन च।
उत्सवार्थाधिवासेषु चतुःस्थानार्चनेऽपि च ।। 167 ।।
आरंभकलशस्नाने स्नानबेराभिषेचने।
महाहयिषि होमे च दिवसेषु तथा निशि ।। 168 ।।
भूतादिरात्रिदेवानां बलिर्द्रव्यैर्यथोदितैः।
हवने च तथोद्याने लीलया मृगयोत्सवे ।। 169 ।।
मृगयायां विशेषेण लोपः सञ्जायते यदि।
शान्तिहोमादिकं तत्तत् कृत्वा शेषं समाचरेत् ।। 170 ।।
अधिष्ठितेषु बिम्बेन यानेषु पतितेषु वा।
भिन्नेष्वपि च वाहेषु प्रमादाद्यत्र कुत्रचित् ।। 171 ।।
यानान्तरे समारोप्य वाहने वाऽथ कौतुकम्।
शान्तिहोमं पुरा कृत्वा जपेन्मूलसहस्रकम् ।। 172 ।।
गोभूहेमादिकं दद्याद्वैष्णवेभ्यो गुरोरपि।
यानाद्वा वाहनाद्वाऽपि बिम्बे तु पतिते सति ।। 173 ।।
वलिबेरोक्तविधिना समाधानपुरस्सरम्।
स्नपनं शान्तिहोमं च मन्त्रजापान्तमाचरेत् ।। 174 ।।
समाधौ दीर्धकालीने कुर्याच्छोभार्यकौतुके।
शेषकर्म माहर्चायां निर्वृत्ते सन्धिकर्मणि ।। 175 ।।
पूर्ववत्रां प्रतिष्ठाप्य यथावच्छान्तिमाचरेत्।
सून्येषु ग्रामनगरपत्तनादिषु चोत्सवम् ।। 176 ।।
बलिदानं न कुर्वीत कृते तत्रापि निष्फलम्।
समाहिते तुग्रामादौ महाशान्तिपुरस्सरम् ।। 177 ।।
पुनरप्युत्सवं कुर्यात् ब्राह्नणानामनुज्ञया।
ग्रामादावग्निना दग्धे वात्याऽऽसारादिदूषिते ।। 178 ।।
शान्तिहोमं पुरा कृत्वा पश्चादुत्सवमाचरेत्।
स्थापिते पर्वताग्रेषु देवबिम्बे महोत्सवम् ।। 179 ।।
यथावकाशं कुर्वीत तत्रैव बलिपूर्वकम्।
तदासन्नेऽग्रहारादौ शक्यं चेत् कर्तुमुत्सवम् ।। 180 ।।
बलिप्रदानरहितं तत्र कुर्यात् परिभ्रमम्।
देवताह्वानवेलायामाहूतानां विभोः पुरा ।। 181 ।।
देवासुरगणादीनां भूतानामप्यनुक्रमात्।
उत्सवार्थबलिं दद्यान्महापीठे दिवानिशम् ।। 182 ।।
ध्वजार्थमङ्‌कुरानर्प्य ध्वजमुत्थाप्य वा तथा।
दीक्षार्थं कौतुकं बध्वा पुरा तीर्थाघमर्षणात् ।। 183 ।।
देशिके व्याधिते वाऽथ मृते कार्यान्तरोद्यते।
सूतकाद्युपघाते च शेषकर्मसमापनम् ।। 184 ।।
कर्तव्यं गुरुणाऽन्येन जप्त्वा मूलायुतं जपेत्।
रिपुचोराग्निवृष्ट्यादिभयाद्विघ्ने महोत्सवे ।। 185 ।।
जाते दद्याद्वलिं तस्मिन्नष्टेऽप्यहनि देशिकः।
अतीतं तु बलिं दद्याच्छान्तिहोमजपान्वितम् ।। 186 ।।
कुर्यादुत्सवायात्रां च विहितेऽह्नि महोत्सवम्।
भ्रष्टायां तीर्थयात्रायामवारुह्य खगध्वजम् ।। 187 ।।
पूर्ववद्धजमुत्थाप्य कुर्यात्तीर्थान्तमुत्सवम्।
प्रतिरात्रिबलिद्रव्यव्यत्यासे सर्पिषा शतम् ।। 188 ।।
हुत्वाऽग्नौ मूलमन्त्रेण जपेदष्टोत्तरं शतम्।
कालेऽन्यस्मिन् बलिं दद्यात्तत्काले प्राप्तमञ्जसा ।। 189 ।।
व्त्यासे बलिदेवानां जपो होमश्च तादृशः।
अङ्‌कुरार्पणपूर्वश्च नारब्धश्चेन्महोत्सवः ।। 190 ।।
तथैव चाङ्‌कुरावापं कृत्वा मूलायुतं जपेत्।
विशेषात् पालिकावासे रथ्यावृतिषु चोत्सवे ।। 191 ।।
ग्रामवास्तुषु रथ्यासु भूतानां बलिमाचरेत्।
न चाश्रये प्रकुर्वीत राजराष्ट्रविवृद्धये ।। 192 ।।
दद्याद् ग्रामादिवृद्ध्यर्थं तस्मिन्नप्यालये बलिम्।
शान्तिहोमं प्रकुर्वीत बलिदानेऽन्यथाकृते ।। 193 ।।
खद्योतपांसुनीहारवर्षवातातपादिभिः।
बिम्बे महोत्सवे स्पृष्ठे सजपं होममाचरेत् ।। 194 ।।
प्रपामण्टपपात्राणामग्निदाहे च पूर्ववत्।
निर्वापितेषु दीपेषु पूर्ववच्छान्तिरीरिता ।। 195 ।।
वस्त्रभूषणमाल्यानां हेतीनां च तथैव च।
छत्रचामरपूर्वाणां महतां मङ्गळात्मनाम् ।। 196 ।।
ध्वजतोरणपूर्वाणां पीठानामङ्गरूपिणाम्।
अग्निदाहे समुत्पन्ने पुनरुत्पाद्य तानपि ।। 197 ।।
सजपं शान्तिहोमं तु कुर्यादष्टोत्तरं शतम्।
प्रागुक्तानां च सर्वेषां दीपानां तु विशेषतः ।। 198 ।।
पतने भुवि सञ्जाते मूलमन्त्रेण मन्त्रवित्।
अष्टोत्तरसहस्रं तु हुत्वा तत्सङ्ख्यया जपेत् ।। 199 ।।
दिवारात्र्युत्सवं कुर्यादासूर्यास्तमयोदयात्।
कालयोर्विपरीतश्चेदधमस्नपनं रेत् ।। 200 ।।
तीर्थयात्रा प्रकर्तव्या सूर्यस्यास्तमयात् पुरा।
पूर्वभागे रजन्यां वा कुर्यात् स्वव्यक्तदिव्ययोः ।। 201 ।।
उत्तमस्नपनं कुर्यात्तीर्थकालविपर्यये।
द्विवारयुक्ते तीर्थर्क्षे पुरूहूतक्षणान्वितम् ।। 202 ।।
पुण्यं भवेत्तत्पूर्वं स्यादुभयोर्विद्यते यदि।
देवस्योत्सवयात्रायां स्पृष्ठेऽस्पृश्यैस्तु देशिके ।। 203 ।।
न दोषस्तत्र विर्ज्ञयो विशेषाद्देवसन्निधौ।
उत्सवे होमविधुरे द्विगुणं जुहुयाज्जपेत् ।। 204 ।।
नेत्रास्त्रसहितं मूलं प्रत्येकं शतसङ्ख्यया।
सर्वभक्तजनैर्देवो यथाभिमुखदिङ्‌मुखैः ।। 205 ।।
स्रग्गन्धवस्त्रक्षीरान्न्नपानकापूपसत्फलैः।
ताम्बूलैर्गन्धसंमिश्रैस्तोषणीयो यथाबलम् ।। 206 ।।
सुस्थितैर्वाऽऽसनासीनैर्देशिकैर्वाथ साधकैः।
पूजिते सति देवेशे न दोषो भक्तिगौरवात् ।। 207 ।।
बिम्बे चोरादिभिर्नष्टे वर्तमाने महोत्सवे।
बिम्बान्तरं समापाद्य प्रतिष्ठाप्य यथापुरम् ।। 208 ।।
महाभिषेकं हवनं जपं कृत्वा यथाविधि।
कुर्यादुत्सवशेषं तु कर्मार्चादिषु वाऽऽचरेत् ।। 209 ।।
निशायां सर्वशान्त्यर्थी पुष्ट्यर्थी मध्यमे दिने।
आप्यायनार्थी पूर्वाह्णे धर्मार्थी मध्यतो निशि ।। 210 ।।
तथा रिपुक्षयार्थी च पुष्पयागं समाचरेत्।
न च पर्युषितैः पुष्पैः परिम्लानैस्तदार्चयेत् ।। 211 ।।
तद्दोषशानत्ये कुर्यात् स्नपनं मभ्यमं चरेत्।
न कृते पुष्पयागेऽस्मिन् कुर्यात् स्नपनमुत्तमम् ।। 212 ।।
देशिकाः षट् समाख्याताः पुष्पयागे विशेषतः।
चतुस्थानार्चनार्थं तु चत्वारः परिकीर्तिताः ।। 213 ।।
तथैकः स्नपनार्चायां बल्यादिषु तथेतरः।
जलोत्थितानि पुष्पाणि त्रिरात्रोपोषितान्यपि ।। 214 ।।
पुष्पयागे नियुञ्जीत न दोषस्तेषु सत्तम!।
तथैव पुष्पपूजार्थं कल्हारकुसुमान्यपि ।। 215 ।।
तथैव दमनीपत्रं पुष्पयागे विशेषतः।
पूर्वरात्रोपोषितैश्च दिवा संपूजयेत् प्रभुम् ।। 216 ।।
न पूर्वाह्णोषितैस्तद्वन्निशायां तु समर्चयेत्।
महोत्सवान्ते स्नपने न कृते स्नापयेत्ततः ।। 217 ।।
अधमोत्तममार्गेण शान्त्यर्थं जुहुयात्ततः।
तद्रात्रौ ध्वजदण्डाग्रादवरोप्य खगध्वजम् ।। 218 ।।
ग्रामादिवास्तुनिष्ठानां बलिं दत्वा विसर्जयेत्।
उत्सवान्ते ध्वजे नष्टे पुरस्तादवरोहणात् ।। 219 ।।
प्राग्वद्‌ध्वजं समुत्थाप्य पुनरेवावरोहयेत्।
एकाहो द्विबलिर्वाथ तथैकबलिरेव वा ।। 220 ।।
बलितीर्थविहीनो वा परिभ्रमणवर्जितः।
चतुर्भिर्बलिभिर्युक्तः त्रियहः पञ्चवासरात् ।। 221 ।।
पञ्चानामुपरिस्थानामानक्षत्रदिनोत्सवात्।
द्विगुणं दिनसङ्ख्याया विहीने बलिमाचरेत् ।। 222 ।।
ऊनाऽधिकैश्चेद्वलिभिर्युक्तास्त्वेते महोत्सवाः।
कर्तुः कारयितुश्चापि राज्ञो राष्ट्रस्य मन्त्रिणः ।। 223 ।।
दारुणा व्याधयो नित्यं भविष्यन्त्यसुखान्यपि।
तद्दोषशान्तये कुर्यात् स्नपनं चाधमोत्तमम् ।। 224 ।।
वैशेषिकेषु प्राप्तेषु वर्तमाने महोत्सवे।
द्वादश्यादिषु तत् सर्वं यथान्यायं समर्चयेत् ।। 225 ।।
न लोपयेत् प्रयत्नेन प्राप्तं वैशेषिकं सुधीः।
जपेदस्त्रायुतं मन्त्री त्वकृतेषु च शान्तये ।। 226 ।।
प्रायश्चित्तमितो वक्ष्ये पवित्रारोहणाय ते।
अप्रमाणे पवित्राणां कुण्डमण्डलयोरपि ।। 227 ।।
अस्त्रमन्त्रायुतं जप्त्वा पूजयेदस्त्रबन्धनम्।
पत्रपुष्पफलादीनां पूरकाणां तथैव च ।। 228 ।।
अतीत उक्तकाले तु चातुर्मास्यस्य मध्यतः।
मध्यमं स्नपनं कृत्वा कालेऽन्यस्मिन् तदाचरेत् ।। 229 ।।
कालात्यये तथान्येषु शान्तिरेवं विधीयते।
पवित्रे केशपाषाणचर्माङ्गारनखादिभिः ।। 230 ।।
दूषिते वह्निना दग्धे छिन्ने दष्टेऽथ भक्षिते।
मूषिकाद्यैश्च काकाद्यैः स्पृष्ठे त्यक्त्वा तु तत् पुनः ।। 231 ।।
सूत्रैस्तथाविधं कृत्वा त्वधिवास्य यथापुरम्।
उत्तमं स्नपनं कृत्वा समारोप्य पवित्रकम् ।। 232 ।।
शान्त्यर्थं जुहुयान्मन्त्री मधुक्षीरादिभिः क्रमात्।
अष्टोत्तरं शतं मूलमन्त्रादि च तथा जपेत् ।। 233 ।।
अस्पृश्यैरपि संस्पृष्टममत्यारोपितं यदि।
पुनरन्यं समारोप्य पूर्ववच्छान्तिमाचरेत् ।। 234 ।।
स्थापितं पूजितं कुंभमस्पृश्यः संस्पृशेद्यदि।
कुंभान्तरे समावाह्य जपेन्भूलसहस्रकम् ।। 235 ।।
कुंभभेदे तथा स्थाप्य मूलमन्त्रायुतं जपेत्।
अत्र बिम्बस्य पतने भेदे च्छेदे यथापुरम् ।। 236 ।।
समाधानादिकं कृत्वा स्थाप्य शान्तिं समाचरेत्।
पवित्रैरक्रमेणैव पूजयेद्यदि देशिकः ।। 237 ।।
शान्तिहोमं पुरा कृत्वा मूलमन्त्रं शतं जपेत्।
मुहूर्ते समतिक्रान्ते शुभे यजनविस्तरात् ।। 238 ।।
तदन्यस्मिन् समारोप्य कृत्वा स्नपनमुत्तमम्।
स्थापिते बहुबेरे तु दिव्याद्यायतनेषु च ।। 239 ।।
मुख्यकल्पविधाने तु पवित्रारोहकर्मणि।
देशिका बहवः प्रोक्ताः ध्यानमन्त्रक्रियान्विताः ।। 240 ।।
तेष्वेकः कुंभपूजायामितरो मण्डलार्चने।
अर्चायामितरो विद्वानितरः पावकार्चने ।। 241 ।।
मूलालये तथैकश्च अन्यः शोभाश्रयार्चने।
गरुडस्यार्चने त्वन्यो विष्वक्‌सेनार्चने परः ।। 242 ।।
तथैकः स्नानबेरे स्याद्बलिदाने तथा परः।
नित्याग्निहवने त्वन्यो महोदनविधौ परः ।। 243 ।।
अष्टभिर्वा समारोप्यं कर्मलाघवमीक्ष्य च।
तत्र तत्र च तैः कार्यं पवित्रारोहणं परम् ।। 244 ।।
एकाहमुत्सवं कृत्वा तस्मिन्नहनि पूर्ववत्।
तीर्थयात्रां प्रकुर्वीत तदन्यस्मिन् दिने दिवा ।। 245 ।।
द्विरात्रौ प्राग्दिनादौ वा कुर्यात्तीर्थाघमर्षणम्।
द्वितीयादौ चतुर्थाहराचरेत् त्रियहोत्सवम् ।। 246 ।।
प्रधानदिनमारब्य सप्ताहो वा महोत्सवः।
तयोरन्तेऽपि कर्तव्या तीर्थयात्रा यथापुरम् ।। 247 ।।
एवं तीर्थान्तिमाः कल्प्याः पवित्रारोहणक्रियाः।
न कृता तीर्थयात्रा चेन्निष्कृतिः स्नपनोत्तमम् ।। 248 ।।
अङ्क्‌रार्पणपूर्वं तु प्रारभ्यात् प्राग्वदुत्सवम्।
तत्तीर्थदिनयामिन्यां पवित्राणां विसर्जनम् ।। 249 ।।
कृत्वा गुरोः प्रदातव्यं पाञ्चरात्रार्थकोविदैः।
तदभावात्तदन्येषा माचार्थाणां यथाक्रमम् ।। 250 ।।
समर्पणीयमन्येषामयोग्यानां नियोजनात्।
पुनर्निवेद्य विधिवत् पवित्राणि प्रदाय च ।। 251 ।।
मध्यमं स्नपनं कृत्वा शान्तिहोमं समाचरेत्।
प्रक्लृप्ते वा यथापूर्वं चातुर्मास्ये विधानतः ।। 252 ।।
मुख्यमध्याधमे चैव प्रागुक्तेषु दिनेषु च।
न कल्पिते तथैकस्मिन् चान्द्रायणपुरस्सरम् ।। 253 ।।
तदनन्तरसंप्राप्ते दिवसे प्रारभेच्च तत्।
तदाद्यमष्टपक्षं च विधिवन्नियतो भवेत् ।। 254 ।।
चातुर्मास्यं तु संकल्प्य वर्तमाने व्रतोत्तमे।
विच्छिन्ने सति मध्येऽस्य पारतन्त्र्यादिहेतुना ।। 255 ।।
कालान्तरे च संकल्प्य कार्यश्चान्द्रायणादिकः।
काले तस्मिन् प्रकुर्वीत यथावच्छयनादिकम् ।। 256 ।।
तद्य्वत्यये विलोपे च चतुः स्थानार्चनादिकम्।
जप्त्वा मूलायुतं मन्त्री शान्त्यर्थं जुहुयात्तदा ।। 257 ।।
नृसिंहकपिलक्रोडहयहंसादिरूपिणाम्।
तथा वक्त्रविशिष्टानां शक्तीशस्य विशेषतः ।। 258 ।।
तथा च जामदग्न्यस्य विश्वरूपस्य वै प्रभोः।
पारिजातहरस्यापि तथा कल्क्यात्मनो हरेः ।। 259 ।।
शयनं न तु कुर्वीत प्रासादेषु स्थिरस्थितौ।
सौम्यरूपं समासाद्य कौतुकं कामनावशात् ।। 260 ।।
तदर्थं शाययेद्वाथ चातुर्मास्ये विधानतः।
उत्थापिते तु देवेशे चतुःस्थानेऽर्चिते सति ।। 261 ।।
वस्त्राभरणमाल्याद्यैर्यथाशोभमलंकृतम्।
विहगेशे प्रतिष्ठाप्य उत्सवार्चागतं विभुम् ।। 262 ।।
अशेषभुवनग्रामं विधिना दोषशान्तये।
महोत्सवोक्तविधिना परिभ्राम्य विशेषतः ।। 263 ।।
एकरात्रादियोगेन प्रागुक्तविधिना ततः।
कुर्यादवभृथं स्नानं नदीतीरादिषु प्रभोः ।। 264 ।।
अनुकल्पे विधानं तद्विना तीर्थाघमर्षणम्।
मध्ये सूर्यस्य सङ्‌क्रान्त्योर्दर्शद्वयसमन्वितः ।। 265 ।।
तद्वद्दर्शवियुक्तश्च मलमास इतीरितः।
चातुर्मास्योऽयमग्राह्यः सदारंभावसानयोः ।। 266 ।।
दिनत्रये तु प्रागुक्ते प्रारब्धे सति मध्ययोः।
मलमासस्य सङ्गत्या कदाचिच्च न दोषतः ।। 267 ।।
अधिके मासि सर्वत्र तथाऽस्ते गुरुशुक्रयोः।
औत्सवः प्रथमारंभः न कार्यो हितमिच्छता ।। 268 ।।
स्वयंव्यक्तालयाद्येषु तीर्थेषु गिरिमूर्धनि।
नदीतीरेषु रम्येषु वनेषूपवनेषु च ।। 269 ।।
गोष्ठेषु मुनिमुख्यानामाश्रमेषु हरेः पुनः।
सह्कल्प्य नियतं वासमभीष्टव्रतसिद्धये ।। 270 ।।
नेतव्यं देशिकेन्द्राद्यैस्तथा मासचतुष्टयम्।
नदीनगादितरणं नाचर्तव्यं कदाचन ।। 271 ।।
नद्यादिव्यवधानेऽपि दिव्यमायतनं प्रति।
गन्तव्यं योजनादर्वाक् शुभयात्राधिकारिभिः ।। 272 ।।
विशेषेण द्विषटकार्णपूर्वैर्व्यापकपञ्चकैः।
सदाराधननिष्ठानां पञ्चकालरतात्मनाम् ।। 273 ।।
दिव्य क्षेत्राभिगमनं न खण्डयति तद्‌द्वतम्।
सूतकं मृतकं नैव कालेऽस्मिन् नियतात्मनाम् ।। 274 ।।
प्राणिहिंसा न कर्तव्या द्रुमविच्छेदनं तथा।
नदीकेदारकूलानां भेदनं सस्यशोषणम् ।। 275 ।।
देवतायतनादीनां पीडनं तन्निवासिनाम्।
वापीकूपतटाकानां पूरणं मृच्छिलादिभिः ।। 276 ।।
बन्धनं च द्विजातीनां सहवासं विजातिभिः।
संभाषणं तथा तेभ्यो मात्रा वित्रपरिग्रहम् ।। 277 ।।
तस्मिन् काले विशेषेण वर्जयेद् बिद्धिमान्नरः।
य एवं कुरुते तस्य प्रायश्चित्तैर्न निष्कृतिः ।। 278 ।।
कदाचिज्जायते वाऽथ नानाधर्मप्रतिष्ठया।
स्थापनं वासुदेवस्य तेषु मुख्यं प्रकीर्तितम् ।। 279 ।।
एकान्तिद्विजमुख्यानां स्थापनं मध्यमं भवेत्।
अन्येषामपि सर्वेषां प्रतिष्ठा चरमा भवेत् ।। 280 ।।
प्रतिष्ठायां प्रवक्ष्यामि प्रायश्चित्तं यथाक्रमम्।
क्ष्माशिलातरुसल्लोहपूर्वाणां तु परिग्रहे ।। 281 ।।
तत्तदह्गेयथोदीर्णद्रव्यमन्त्रक्रियादिषु।
परिच्युतेषु तद्‌भूयः शान्तिहोमजपादिकम् ।। 282 ।।
समाचरेद्यथा शास्त्रमन्यथा निष्फलं तु तत्।
अकृते सति सर्वस्मिन् वास्तुदेशपरिग्रहे ।। 283 ।।
आनीतस्यालयक्षेत्रे शिल्पिभिः सत्क्रियां विना।
यथावदाचरेद्विद्वानर्चाद्रव्यस्य संग्रहम् ।। 284 ।।
मृद्दारुवसनादीनामेवमेव समाचरेत्।
अन्यालयार्थमानीतां शिलामर्चां सुनिर्मिताम् ।। 285 ।।
सर्वावयवसंपन्नं स्थापने तु विळम्बिताम्।
न्यायेनादाय तामर्चां स्थापयेत् सिद्धसझनि ।। 286 ।।
प्राग्वदन्यां समापाद्य स्थापयेत् प्राक् प्रकल्पिते।
निर्मितां प्रतिमां शीघ्रं स्वगृहे न निवेशिताम् ।। 287 ।।
राज्ञो राष्ट्रस्य तत्कर्तुररिष्टमुपपादयेत्।
एकविंशद्दिनादूर्ध्वमासुरी सा भवेद्धुवम् ।। 288 ।।
कृत्वा महाभिषेकाद्यं स्थापयेदन्यथा त्यजेत्।
प्रमाणरहिते बिम्बे पीठशस्त्रप्रभादिके ।। 289 ।।
वस्त्रे वा भूषणे वाऽथ शमीपत्रसमन्वितम्।
घृतसिक्तैश्च बहुशः सतिलैः शालितण्डुलैः ।। 290 ।।
जुहुयात् पञ्चभिर्मन्त्रैः प्रत्येकं शतसङ्ख्यया।
जलाधिवासस्नपने तथा नयनमोक्षणे ।। 291 ।।
शयने वेदिकायां च मन्त्रन्यासादिकर्मसु।
कुंभमण्डलपूजायां द्वारतोरणकुंभयोः ।। 292 ।।
अयथाकरणे नूनं पूर्ववच्छान्तिरिष्यते।
अस्थाने स्थापिते बिम्बे पादाधारशिलान्वितम् ।। 293 ।।
तदानीमेव चोद्‌धृत्य स्थापयेत्तं स्वके पदे।
मध्यमस्नपनं कृत्वा शान्तिहोमं समाचरेत् ।। 294 ।।
न स्थापिते मुहूर्तेऽस्मिन्न तदा बिम्बमुद्धरेत्।
पूर्ववत् स्नपने होमे कृते शान्तिर्भविष्यति ।। 295 ।।
स्थापनेऽधिकृते मुख्ये देशिके व्याधिते सति।
न्यस्तदेहेऽथवा मध्ये वर्तमाने क्रियाक्रमे ।। 296 ।।
क्रियामन्त्रोपदेष्टा च प्रतिष्ठाकर्मणि स्थितः।
पुत्रो वा देशिकेन्द्रस्य स्थापने शेषमाचरेत् ।। 297 ।।
अन्ते सहस्रकलशैरभिषिच्य सुरेश्वरम्।
चक्राम्बुरुहकुण्डे तु मधुक्षीरादिभिः क्रमात् ।। 298 ।।
शान्त्यर्थमयुतं हुत्वा तत्सङ्ख्यं जपमाचरेत्।
ब्राह्नणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा भगवन्मयैः ।। 299 ।।
सकामैरथ निष्कामैर्मन्त्राराधनतत्परैः।
साधकैर्भगवद्बिम्बस्थापनार्थं सदैव हि ।। 300 ।।
पुरा प्रसाबनीयश्च प्रार्थनापूर्वकं तु वा।
अधिकारपदस्थश्च द्विजेन्द्रः पाञ्चरात्रिकः ।। 301 ।।
वेत्ता यो व्यूहपूर्वस्य व्यक्तस्य परमात्मनः।
सोऽन्येषां भगवद्बिम्बस्थापनेऽधिकृतः सदा ।। 302 ।।
अनुग्रहप्रतिष्ठा चाप्यधिकारनिरूपणा।
अनन्यैरुपपन्नानां भक्तानां कार्यमुच्यते ।। 303 ।।
अनन्याः पञ्चकालज्ञा व्यतिरिक्ता न ये प्रभोः।
प्राक् सृष्टास्तन्मुखोद्भूताः द्विषट्‌काध्यात्मचिन्तकाः ।। 304 ।।
चातुर्व्यूहपरत्वेन येषां वै प्रभवाप्ययौ।
कर्मणामपि सन्न्यासं कुर्वन्त्यध्यक्षतः क्रमात् ।। 305 ।।
अतोऽमी दुर्लभतराः पारम्यं यस्य तं प्रति।
प्रमेयनिष्ठा श्रद्धा वा स्फुटास्तत्कर्मणि स्थिताः ।। 306 ।।
परत्वमन्यमार्गस्था नेच्छन्ति च परस्परम्।
य इच्छन्ति विभोस्तेषां स्थितिर्नास्ति तथा कृतौ ।। 307 ।।
मुक्ताधिकारिणं तं वै लब्धलक्षमकृत्रिमम्।
पञ्चकालरतं सिद्धं तन्त्रसिद्धान्तपारगम् ।। 308 ।।
तेनैव श्रुतिमन्त्राणां स्थूलानामपि चोदना।
प्रतिकर्मणि वै कार्या यथावसरलक्षणा ।। 309 ।।
यस्मादब्जसमुद्भूतमण्डलादिषु वृत्तिषु।
स्वार्थतो वा परार्थेन सदाराधनकर्मणि ।। 310 ।।
नित्यसिद्धे तदाकारे तत्परत्वेऽपि सन्ततम्।
यस्यास्ति सक्तिर्हृदये तस्यासौ सन्निधिं व्रजेत् ।। 311 ।।
मन्त्ररूपी जगन्नाथः परमात्माच्युतः प्रभुः।
अत्यौत्सुक्यं विना विप्र! मनसः प्रीतये त्वपि ।। 312 ।।
कामाप्तये वा कीर्त्यर्थं तस्य तद्विहितं द्विज!।
सध्यानेन प्रतिष्ठानं प्रासादे स्वगृहेऽपि वा ।। 313 ।।
इति सम्यक् समाख्यातं मुख्यकल्पं महामते!।
अनुकल्पं यदत्रान्यत् तत्समासान्निबोध तु ।। 314 ।।
प्राक् प्राप्तदीक्षितैर्विधिवत्, त्रयीधर्मस्थितैर्द्विजैः।
नित्याराधनसक्तैस्तु भक्तैर्भगवतो विभोः ।। 315 ।।
धारणाध्यानपूर्वाणां लब्धलक्षैस्तु कर्मणाम्।
मन्त्रमण्डलमुद्रास्त्रकुण्डादीनां कृतश्रमैः ।। 316 ।।
षडध्वव्याप्तिनिष्ठैस्तु त्यागशीलैरमत्सरैः।
अनुज्झितक्रमैर्दक्षैः स्वकर्मपरिपालकैः ।। 317 ।।
सत्कीर्तिप्रथितैर्लोके तथाऽकीर्तिबलिप्कृतैः।
प्रतिष्ठां लभते कर्ता तैः प्रतिष्ठापने कृते ।। 318 ।।
निषिद्धमरविन्दाक्षे अतोऽन्येषां हि सर्वदा।
महामहं प्रतिष्ठाख्यं कर्तुर्व्यामिश्रयाजिनाम् ।। 319 ।।
ये पुनर्लोकधर्मस्थाः समबुद्धिपदे स्थिताः।
भगवत्यविशेषज्ञा नित्यं कार्यवशेन तु ।। 320 ।।
वाङ्भात्रेण परत्वं वै सर्वेषां प्रवदन्ति वै।
अधिकारं विना येऽत्र प्रेरिता देवतार्चने ।। 321 ।।
व्यामिश्रयाजिनस्ते वै पातित्यपदसंस्थिताः।
नयन्ति नरकं नूनमेवमेव प्रवर्तिनः ।। 322 ।।
न तु सद्भक्तिपूतानां वासुदेवरतात्मनाम्।
कदाचित्तत्कृते दोषं विदधाति च खण्डना ।। 323 ।।
अतस्तावन्महाबुद्धे! कर्तव्यं भक्तिपूर्वकम्।
भक्त्या वै मन्त्रनिष्ठानां तन्मन्त्रो जपकर्मणि ।। 324 ।।
वर्णव्यत्ययमापन्नो लुप्तस्तेन स्वरेण वा।
स्वरादिनाधिकश्चैव मन्त्रोऽनर्थप्रदः सदा ।। 325 ।।
अचिरात्तत्प्रयोक्तॄणां तथापि कमलोद्भव!।
अतिभक्तिप्रभावाच्च वाञ्झितं संप्रयच्छति ।। 326 ।।
यस्मात् सद्भक्तिपूतानां प्रपन्नानां क्रमं विना।
प्रसादमेति मन्त्रेशस्त्वचिराद्भावितात्मनाम् ।। 327 ।।
किं पुनर्वै क्रियाज्ञानसंपूर्णानां द्विजोत्तम!।
श्रद्धाभक्तिपराणां च बोधितानां च देशिकैः ।। 328 ।।
तस्मात् सर्वप्रयत्नेन शासनेऽस्मिन्महामते!।
कार्यं दीक्षादिकं सर्वं भक्तानां भक्तवत्सले ।। 329 ।।
मामसंप्रतिपन्नोऽपिं मत्प्राप्त्यर्थं करोति च।
मन्दमध्यमभक्तानां कामभोगरतात्मनाम् ।। 330 ।।
भविनां मामकीं दीक्षां मोहाद्वा स्थापनादिकम्।
स नयत्यचिरात्तस्य भक्तिर्वीजेन वै सह ।। 331 ।।
समन्त्रं कर्मतन्त्रं च सिद्धयस्च पराह्‌मुखम्।
इहैव शीघ्रं विप्रेन्द्र! देहान्ते गतसन्ततिः ।। 332 ।।
घोरं प्रयाति नरकं भुक्त्वैवं दुष्कृतं महत्।
भगवन्मन्त्रमाहात्म्यात्तद्व्यापारवशात्तु वै ।। 333 ।।
संसर्गोत्थमघं याति प्राक् संस्कारवशात् पुनः।
चीर्णदुश्चरितो भूयः प्राप्रुयान्मानुषीं तनुम् ।। 334 ।।
प्रयत्नमाचरेच्छुभ्रं येन शान्तिमवाप्नुयात्।
साहङ्कारः स आचाय स्वभक्तो नाधिकार्यपि ।। 335 ।।
प्राप्नोति नूनं स्वगतिं स्वकामो नारकीं तथा।
सर्वगस्त्वपि मन्त्रात्मा सर्वानुग्रहकृदद्विजः ।। 336 ।।
यद्यप्येवं हितं तत्र न भजेत्तत्र सन्निधिम्।
प्रतिमामध्यदेहान्तं नूनमावाह्य तत्क्षणात् ।। 337 ।।
भूतवेताळयक्षाद्याः कुर्वन्त्यर्थादिकक्षयम्।
अन्यद्रशनसंस्था ये नानुग्राह्यास्ततो मुने! ।। 338 ।।
नोपास्यो हि तथाचार्यः संसारभयभीरुणा।
सम्यग्भक्तिपरेणैव डम्भरागोज्झितेन च ।। 339 ।।
अत एव महाबुद्धे! प्रतिष्ठाख्यं मखोत्तमम्।
निर्वर्तनीयमामूलाद्वैष्णवानां च वैष्णवैः ।। 340 ।।
एवं द्रव्यमयो यत्र सन्निवेशो मुनीश्वर!।
उभयानुग्रहं नित्यं करुणाभक्तिलक्षणम् ।। 341 ।।
प्रतिष्ठाख्यं हि तत् कर्मभुक्तिमुक्तिफलप्रदम्।
तच्च सद्ब्रह्ननिष्ठानां द्विजानामात्मसिद्धये ।। 342 ।।
कर्तव्यत्वेन वै नित्यं प्रसिद्धममलेक्षण!।
तद्दोषाच्च यतस्तेषां विस्तारो हि न विद्यते ।। 343 ।।
देहपातादृते नान्यः तत्पातस्त्वतिदोषकृत्।
आदावेव हितत्तस्मान्नाचर्तव्यं कृतात्मभिः ।। 344 ।।
तत्कर्मप्रतिपन्नानां चतुर्णआमपि तैः सदा।
कार्यं सम्यक् प्रतिष्ठानमनुग्रहधिया मुने! ।। 345 ।।
नोपरोधः स्वभावेन न लोभेन न नामतः।
प्राप्ते ह्याकस्मिके दोषे त्वङ्गभङ्गादिके मुने! ।। 346 ।।
भक्तानामनुकंपार्थं दिव्यैर्मन्त्रैर्बलादिकैः।
द्वादशाक्षरपूर्वैश्च मोक्षैकफललक्षणैः ।। 347 ।।
संपूजिते तु तैर्भक्तैः कुरुते निष्कृतिं सदा।
सर्वनाशेन बिम्बानामङ्गमात्रोपकल्पना ।। 348 ।।
तत्तत्कर्तव्यमुद्दिश्य विशेषः प्रागुदीरितः।
तथापि विस्तरेणात्र विधानमवधारय ।। 349 ।।
देवसिद्धमुनीन्द्राद्यैरेवंसंस्थापिते सति।
बिम्बे चोरादिभिर्नष्टे सद्यः संपाद्य पूर्ववत् ।। 350 ।।
स्थापयेद्विधिवन्मन्त्री रात्रावहनि सन्ध्ययोः।
न कालोऽत्र परिज्ञेयो नष्टोद्धारे विशेषतः ।। 351 ।।
बालालये तु प्रथमे जीर्णोद्धारे तथान्तिमे।
प्रायस्चित्तं प्रवक्ष्यामि मुने! सम्यक् श्रृणुष्व मे ।। 352 ।।
अतीते प्रार्थिते काले कर्त्रा प्रासादबेरयोः।
निर्माणे स्नपनं कार्यमुत्तमं शास्त्रयोदितम् ।। 353 ।।
पश्चादप्यर्थयेत् कालं वाञ्छितं तत्समापने।
न कृत्वैवं गते पश्चात् काले द्वादशवार्षिके ।। 354 ।।
पुनः प्रतिष्ठां कुर्वीत मूले बालालये तु वा।
बिम्बे चोरादिभिर्नष्टे बालगेहे प्रमादतः ।। 355 ।।
तथैवापाद्य तामर्चां प्रतिष्ठाप्य यताविधि।
अधमस्नपनं कृत्वा शान्तिहोमं समाचरेत् ।। 356 ।।
स्वस्थानाच्चलिते तस्मिन् हेतुना येन केनचित्।
यथापूर्वं प्रतिष्ठाप्य स्नापयेत्पुरुषोत्तमम् ।। 357 ।।
सर्वं बालगृहे कार्यं नित्यनैमित्तिकात्मकम्।
एकबेरविधानेन पवित्रारोहपश्चिमम् ।। 358 ।।
स्तेनैर्नष्टे तथा विम्बे तत्तद्‌द्रव्येण पूर्ववत्।
निर्माय लक्षणोपेतं प्रतिष्ठाप्य तथैव तु ।। 359 ।।
पूर्ववत् पूजयेन्मन्त्री बिम्बं सर्वत्र सर्वदा।
द्रव्यान्तरेण वा कुर्याद्देशिको यागसिद्धये ।। 360 ।।
चोरैरपहृतं बिम्बं पुनः प्राप्तं यदि द्विज!।
पुनः प्रतिष्ठां कुर्वीत नयनोन्मीलनं विना ।। 361 ।।
चोरभूतैर्द्विजैः स्पृष्टे अधमस्नपनं चरेत्।
उत्तमस्नपनं कुर्यात् प्रवेशे गर्भवेश्मनि ।। 362 ।।
चिरोषिते तु संस्पृष्टे प्रतिष्ठां पुनरारभेत्।
श्वसृगालबिडालाद्यैः प्रविष्टे गर्भवेश्मनि ।। 363 ।।
अधमस्नपनेनैव शान्तिहोमं समाचरेत्।
अधिष्ठितेङ्कणे चैतैः शान्त्यर्थं जुहुयाच्छतम् ।। 364 ।।
एतैर्बिम्बे तु संस्पृष्टे स्नापयेन्मद्यमोत्तमम्।
स्पृष्टे तु पक्षिभिः कैश्चिद्दोष आयतने भवेत् ।। 365 ।।
काककुक्कुटगृध्राद्यैः स्पृष्टे बिम्बे प्रमादतः।
पूर्ववत् स्नपनं कृत्वा शान्तिहोमं समाचरेत् ।। 366 ।।
खद्योताद्यैस्तु संस्पृष्टे अधमस्नपनं चरेत्।
न भृङ्गमक्षिकाद्यैस्तु स्पृष्टे दोषो भवेद्‌ध्रुवम् ।। 367 ।।
तथा पिपीलिकाद्यैस्तु न तत्प्रायैर्विशेषतः।
रेतोरुधिरविण्मूत्रापेयमांसादिवस्तुभिः ।। 368 ।।
देवबिम्बे तु संस्पृष्टे कुर्यात् स्नपनमुत्तमम्।
एतैः स्पृष्टेऽङ्कणादौ तु तस्मादुद्धृत्य तत्क्षणात् ।। 369 ।।
गोमयेनोपलिप्याथ प्रोक्षयेद्‌द्रव्यपञ्चकैः।
शान्त्यर्थं जुहुयान्मन्त्री तिलाज्याभ्यां शतं शतम् ।। 370 ।।
वैश्यैश्च वैष्णवैर्बिम्बे शूद्रैः स्त्रीभिर्विशेषतः।
विमाने स्थापिते स्पृष्टे क्षाळयेत् पञ्चगव्यकैः ।। 371 ।।
शान्तिहोमं प्रकुर्वीत मधुक्षीरादिभिः शतम्।
बिम्बेऽनुलोमैः संस्पृष्टे प्रतिलोमैश्च गर्हितैः ।। 372 ।।
स्नपनं शान्तिहोमं च सदानं सर्वदा चरेत्।
वैखानसैस्तु संस्पृष्टे पयःस्नानेन शुध्यति ।। 373 ।।
आराधिते स्वमार्गेण प्रतिष्ठामाचरेत् पुनः।
प्रतिमा चैव तत्पीठं प्रासादो गर्भमन्दिरम् ।। 374 ।।
विग्रहं देवदेवस्य चतुष्टयमिदं समम्।
समाधिश्च तथा शान्तिः कार्या तत्र सदा समा ।। 375 ।।
वेदिकायां तथा चक्रे पङ्कजे चक्रपङ्कजे।
हेमादिद्रव्यरचिते मण्डले रजसा कृते ।। 376 ।।
समाधिश्चैव शान्तिश्च प्रतिपत्तिश्च तादृशी।
प्राकारे गोपुरद्वारमण्टपादिपरिष्कृते ।। 377 ।।
शिवादिभिर्न दोषोऽस्ति प्राङ्कणादावधिष्ठिते।
प्रविष्टे यजनस्थाने प्रोक्षयेत् पञ्चगव्यकैः ।। 378 ।।
मण्टपाङ्कणशालासु माळिकाद्यासु भूमिषु।
पूजाङ्गत्वेन विहितैर्गुरुसाधकदीक्षितैः ।। 379 ।।
न दोषो द्विजशार्दूल! शयनासनभोजनैः।
पादप्रक्षाळनाचामस्नानाभ्यङ्गादिकैरपि ।। 380 ।।
अन्यैः क्लृप्तेषु चैतेषु गोमयेनोपलिप्य च।
प्रोक्षयेत् पच्चभिर्गव्यैः कुशोदकसमन्वितैः ।। 381 ।।
बिडालमूषिकासर्पमण्डूककृकलासकैः।
आखुचुचुन्दरी गोधाराजिलाद्यैश्च जन्तुभिः ।। 382 ।।
अधिष्ठिते गर्भगेहे शान्तिहोमं समाचरेत्।
मक्षिकावासवल्मीककृमीणां निचयेष्वपि ।। 383 ।।
बिम्बे विमाने जातेषु तदैवोद्‌धृत्य तान् पुनः।
समाधाय यथापूर्वं चतुः स्थानार्चनादिकम् ।। 384 ।।
स्नपनं देवदेवस्य कुर्यादुत्तममध्यमम्।
मण्टपादौ तु सर्वत्र कुत्रचिद्वा हरेर्गृहे ।। 385 ।।
ब्रह्नदण्डादिरोहे च छत्राकाणां समुत्थितौ।
दुष्टसत्वगणापूर्वपक्षिसंघसमाकुले ।। 386 ।।
शान्तिहोमं प्रकुर्वीत तान् व्यपोह्य तदैव तु।
विमाने तेषु जातेषु मध्यमस्नपनं चरेत् ।। 387 ।।
बिम्बे यदि तदा कार्यं प्रवासावसथादिकम्।
कर्म कृत्वा यथापूर्वं त्यागान्तं तु नृपाज्ञया ।। 388 ।।
नवीकृत्य पुनर्बिम्बं पुरावत् स्थापयेद्‌बुधः।
रक्तस्त्रीषु समुत्पन्नास्वर्चायामेवमेव तु ।। 389 ।।
समाधाय प्रतिष्ठाप्य शान्त्यर्थं पुनरेव तु।
स्नापयेद्देवदेवेशमुत्तमोत्तमवर्त्मना ।। 390 ।।
विमान आसु जातासु कुर्यात् स्नपनमध्यमम्।
मण्टपादिषु जातासु स्नपनं च समाचरेत् ।। 391 ।।
दृष्टास्वेतासु विप्रोन्द्र! प्राङ्कणादौ तु कुत्रचित्।
तास्तदैव समुद्‌धृत्य गव्यैः संप्रोक्षयेत्ततः ।। 392 ।।
शान्त्यर्थं जुहुयान्मन्त्री बहिश्चेत् सघृतैस्तिलैः।
देवालयेष्वकर्तव्ये कृते कर्मणि कुत्रचित् ।। 393 ।।
मध्यमावरणादन्तः स्नपनं होमपश्चिमम्।
शान्तये जुहुयान्मन्त्री बहिश्चेज्ज्वलितेऽनले ।। 394 ।।
छर्दिनिष्ठीवलालाद्यैर्दूषिते देवसझनि।
तदैव तद्व्यपोह्यात्र पञ्चगव्यैर्विलिप्य च ।। 395 ।।
जपेदस्त्रशतं मन्त्री हृन्मन्त्रं च विधानतः।
प्रायश्चित्तं प्रवक्ष्यामि शवस्पृष्टौ विशेषतः ।। 396 ।।
द्विजातिशवसंस्पृष्टे प्रमादाद्देवकौतुके।
एकाशीतिघटैः स्नाप्य मूलमन्त्रायुतं हुनेत् ।। 397 ।।
क्षत्रविट्‌छूद्रजातीनां शवैः स्पृष्टे तु कौतुके।
मध्यमेनोत्तमेनैव महस्रकलशेन तु ।। 398 ।।
क्रमेण स्नापयेद्देवमेकैकेन यथाविधि।
शान्त्यर्थं हवनं कृत्वा यथापूर्वं तथा जपेत् ।। 399 ।।
अनुलोमशवस्पृष्टौ संप्रोक्षणमथाचरेत्।
चण्डालपतितोदक्यासूतिकाशवदूषिते ।। 400 ।।
बिम्बे प्रतिष्ठां कुर्वीत सहस्रकलशाप्लवम्।
शान्तिहोमायुतं तद्वज्जपं कुर्याद्यथाक्रमम् ।। 401 ।।
विमाने ब्राह्नणादीनामनुलोमादिकस्य च।
शवस्पृष्टौ तु सक्षाल्य बहूदकघटेन तु ।। 402 ।।
उत्तमोत्तमनिष्ठं तु स्नपनं मध्यमाधमात्।
संस्नाप्य देवदेवेशमेकैकेन क्रमेण तु ।। 403 ।।
शान्तिहोमं प्रकुर्वीत पश्चान्मन्त्रं यथा जपेत्।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमे ।। 404 ।।
दूषिते प्राङ्गणक्षेत्रे प्रागुक्तैः क्रमशो भुवः।
स्थलं संशोध्य विधिवद्दीक्षितैर्मन्त्रवित्तमैः ।। 405 ।।
मुख्योत्तमात्तु स्नपनान्नीचान्तिममनुक्रमात्।
स्नापयित्वा विशेषेण शान्तिहोमं स्माचरेत् ।। 406 ।।
एवमेवान्त्यजातीनां शवस्पृष्टौ समाचरेत्।
सालमण्टपपीठेषु गोपुरे मन्दिरेऽपि वा ।। 407 ।।
विमानाद्वाह्यतः व्काऽपि परिवारालयादिषु।
वर्णानां ब्राह्नणादीनामनुलोमादिकस्य च ।। 408 ।।
मरणेष्वपि जातेषु तत्तदावरमोक्तवत्।
पश्वादिषु मृतेष्वेषु गजाश्वोष्ट्रखरादिषु ।। 409 ।।
मरणादिषु सर्वत्र भूशुद्धिं पुरतश्चरेत्।
श्वसृगालशवाद्येषु काकश्येनादिजन्तुषु ।। 410 ।।
मार्जारवानराद्येषु तथान्येष्वेवमादिषु।
संप्रोक्ष्य पञ्चगव्येन शान्तिहोमं समाचरेत् ।। 411 ।।
मृते मूषिकसर्पादौ भूशुद्धिं च जपं चरेत्।
मरणादिषु सर्वत्र भूशुद्धिं पुरतश्चरेत् ।। 412 ।।
सर्वावासे महापीठे तथा शैलमयेष्वपि।
प्रदेशेषु समालिप्य गोमयेन समन्ततः ।। 413 ।।
प्रोक्षयेत् पञ्चभिर्गव्यैः पुण्याहोक्तिपुरस्सरम्।
गृहार्चायां न दोषोऽस्ति मृते पूजागृहाद्बहिः ।। 414 ।।
क्षालनालेपनाद्येन व(क)र्मणा तत्र शोधयेत्।
सन्निकर्षे गृहार्चायाः क्षीरेण स्नाप्य पूजयेत् ।। 415 ।।
देवसिद्धमुनीन्द्राद्यैः कल्पिते भगवद्‌गृहे।
तत्तदङ्गतया क्लृप्ते ग्रामादौ राष्ट्रसंकुलात् ।। 416 ।।
चण्डालपतितोदक्यासूतिकाशबरादिभिः।
दूषिते भगवद्बिम्बे संप्रोक्षणविधिं चरेत् ।। 417 ।।
सहस्रकलशैर्देवं सन्निकृष्टेऽभिषिच्य च।
शान्तिहोमं प्रकुर्वीत चतुःस्थानार्चनादिकम् ।। 418 ।।
सहस्रकृत्वस्तदनु जपं कुर्यात्तथाविधम्।
प्रासादे वाऽङ्कणद्वारि मण्टपे पचनालये ।। 419 ।।
पुष्पावासे जलागार धनधान्यालयादिषु।
ध्वजपीठे महापीठे रथ्यावृतिगणेष्वपि ।। 420 ।।
उत्सवाङ्गतया क्लृप्ते ग्रामादौ राष्ट्रसंकुलात्।
चण्डालपतितोदक्यासूतिकाशबरादिभिः ।। 421 ।।
वर्णानां ब्राह्नणादीनामनुलोमविलोमयोः।
शवास्थिभिश्च सन्दुष्टां सर्वत्रैकत्र वा क्षितिम् ।। 422 ।।
खात्वा मृदं समुद्‌धृत्य बहिः प्रक्षिप्य शुद्धया।
संपूर्य च समीकृत्य कुशाद्भिः परिमृज्य च ।। 423 ।।
गोमयेनोपलिप्याथ पुण्याहवचनादिकम्।
पञ्चगव्येन चाभ्युक्ष्य गोगणं तत्र वासयेत् ।। 424 ।।
वाचयित्वा महाशान्तिं ब्नाह्नणैर्वेदपारगैः।
भोजयित्वा द्विजांस्तत्र तेभ्यो दद्यात्तु दक्षिणाम् ।। 425 ।।
कृत्वैवं स्थूलशुद्धिं तु शान्तिं कुर्यादनुक्रमात्।
पञ्चयज्ञमयीं पुण्यां सर्वादोषापनुत्तये ।। 426 ।।
एवं वर्षावधिर्यावन्न कृता शान्तिकी क्रिया।
सहस्रकलशेनैव पवित्रावर्तितेन च ।। 427 ।।
व्यापकैः पञ्चभिर्मन्त्रैः पञ्चधा स्नापयेद्विभुम्।
ध्वजमुत्थाप्य विधिवन्नवाहाद्युत्सवं पुरा ।। 428 ।।
शान्त्यर्थं सर्वदोषाणां कुर्यात्तीर्थाघमर्षणम्।
चक्रशङ्खगदापझवृत्तकुण्डेष्वनुक्रमात् ।। 429 ।।
तत् कुर्यात् पञ्चभिर्मुख्यैर्द्वादशार्णपुरस्सरैः।
मधुक्षीरादिभिर्द्रव्यैः पञ्चभिर्नियुताख्यया ।। 430 ।।
सङ्ख्यया जुहुयान्मन्त्री लक्षसङ्ख्या भवेद्यथा।
अनुकल्पे विधिरयं शान्तिकर्मणि संमतः ।। 431 ।।
मुख्यकल्पो विशेषेण वक्ष्यते होमकर्मणि।
स्थापनोक्तविधानेन कल्पिते मण्टपे शुभे ।। 432 ।।
चक्राम्बुरुहपूर्वेषु यथावत्कल्पितेषु च।
क्लृप्तेषु दशसङ्खयेषु व्रह्नवृक्षादिसंभवैः ।। 433 ।।
समिद्गणैस्तिलैराज्यैः सेचितैः प्रागुदीरितैः।
पञ्चभिर्मधुराद्यैश्च मिश्रीभूतैः क्रमेण तु ।। 434 ।।
 महत्तराणां दोषाणां शान्तये मन्त्रवित्तमैः।
अयुतं नियुतं लक्षं कोटिनिष्ठं यथाबलम् ।। 435 ।।
होतव्यं पूर्णया सार्धं दशभिर्मन्त्रसत्तमैः।
कुण्डेषु मध्यपूर्वेषु, मन्त्राणां नियमं श्रृणु ।। 436 ।।
चक्राब्जे द्वादशार्णेन वस्वश्रेऽष्टाक्षरेण तु।
षडर्णेन षडश्रे तु शङ्खाभे प्रणवेन तु ।। 437 ।।
जितंतया चतुर्यश्रे विश्वत्राता त्रिकोणके।
द्वात्रिंशद्दलपझाख्ये नृसिंहानुष्टुभेन तु ।। 438 ।।
सौदर्शननृसिंहेन चक्रकुण्डेऽक्षरारके।
वराहेणार्धचन्द्राख्ये वृत्ते सौदर्शनेन तु ।। 439 ।।
धिष्ण्यद्वयं मध्यवेद्याः प्रागुक्तं दक्षिणोत्तरे।
शेषाणि परितः कुर्याद्दिक्षु चैवं विदिक्षु च ।। 440 ।।
सिद्धमन्त्रा नियोक्तव्या होतारःशान्तिकर्मणि।
सर्वकुण्डानि सर्वेषां मन्त्राणामिच्छया गुरोः ।। 441 ।।
कल्पनीयानि वा मन्त्रा यतः सर्वफलप्रदाः।
न्यस्तमन्त्रैर्यथान्यायं जप्यास्ते सङ्‌ख्यया तया ।। 442 ।।
गोभूहेमतिलान्नानां दानैर्योग्यजनस्य च।
तृप्तिः कार्या विशेषेण दिव्याद्यायतनस्य च ।। 443 ।।
प्रजापालनशीलेन भूपेनात्महितेच्छुना।
शान्तिरेवंविधा कार्या शास्त्रज्ञैर्बहुभिर्धनैः ।। 444 ।।
प्राचुर्यात् सर्वदोषाणां धर्मज्ञैः शान्तिकी क्रिया।
निर्वर्तुं न तु शक्या चेन्महा स्नानादिपञ्चकम् ।। 445 ।।
महादानावसानं च कार्य दिव्यालयादिषु।
पौनःपुन्येन बिधिवच्छुद्धेन द्रविणेन च ।। 446 ।।
उल्काशन्यादिपाते च नक्षत्रपतने च खात्।
सधूमे च दिशादाहे भूताद्यावेशिते नृपे ।। 447 ।।
दुर्भिक्षे व्याधिते राष्ट्रे तथा वै शत्रुसङ्कटे।
सूर्योदयस्य व्यत्यासे भूकम्पे तद्विदारणे ।। 448 ।।
अतिवृष्टावनावृष्ठौ देवताहसने सति।
रोदने च तथा खिन्ने तथार्चाचलनेऽपि च ।। 449 ।।
भ्रमणे च तथा पीठादङ्गभङ्गादिके सति।
शैथिल्ये सरघादीनामुद्भवे बहुधा गृहे ।। 450 ।।
एवमादिषु चान्येषु दुर्निमित्तेषु सत्सु च।
शान्तिरेतैश्च जायेत क्रियमाणैरनुक्रमात् ।। 451 ।।
चतुःस्थानार्चनं कार्यं दोषमात्रसमुद्भवे।
यथाशक्ति दरिद्राणां दानमात्रं कथञ्चन ।। 452 ।।
प्रासादे मण्टपे साले गोपुरे माळिकादिके।
प्रमादादग्निना दग्धे ता नीत्वाऽन्यत्र देवताः ।। 453 ।।
यथापूर्वं नवं कृत्वा प्रतिष्ठाप्य विधानतः।
उत्तमं स्नपनं कुर्यात्तस्य दोषस्य शान्तये ।। 454 ।।
हीनैकदेशे प्रासादे हुतभुग्वातवृष्टिभिः।
कारणैः कैश्चिदन्यैर्वा सन्धेयं तच्च शिल्पिभिः ।। 455 ।।
अधमं स्नपनं कृत्वा शान्तिहोमं समाचरेत्।
विमाने सर्वतो भग्ने बालस्थानं प्रकल्प्य च ।। 456 ।।
तथैव बाले बिम्बे तु नित्यनैमित्तिकादिकम्।
पवित्रारोहणान्तं च सर्वकर्म समाचरेत् ।। 457 ।।
तद्दोषशान्तये कार्यं स्नपनं मध्यमं पुनः।
भग्नबिम्बसमाधाने विशेषः प्रागुदीरितः ।। 458 ।।
तथापि विस्तरेणाद्य प्रोच्यते तद्विधिं श्रृणु।
मूलबिम्बेऽग्निना दग्धे बालस्थाने तथार्चयेत् ।। 458 ।।
तथापि विस्तरेणाद्य प्रोच्यते तद्विधिं श्रृणु।
मूलबिम्बेऽग्निना दग्धे बालस्थाने तथार्चयेत् ।। 459 ।।
सहस्रकलाशस्नानमाचर्तव्यं विधानतः।
वह्निना कमबिम्बादौ वैवर्ण्यं समुपागते ।। 460 ।।
तत्तद्बिम्बेषु कुर्वीत स्नपनं चोत्तमं क्रमात्।
वह्निवातादिवेगेन मन्त्रिणामपराधतः ।। 461 ।।
सौवर्णे राजते बिम्बे ताम्ररीतिमये तु वा।
भिन्नाङ्गे सति संधेयं तत्क्षणाच्छिल्पिवित्तमैः ।। 462 ।।
लोहान्तरेण तद्बिम्बं न सन्धेयं प्रयत्नतः।
ताम्ररीतिमयं यद्वा सन्धयेद्वित्तवर्जितः ।। 463 ।।
यद्‌द्रव्येणादितः क्लृप्तं तद्‌द्रव्येणाथ सन्धयेत्।
त्यक्तं बिम्बं समुद्रान्तः प्रक्षिपेच्छास्त्रवर्त्मना ।। 464 ।।
सुवर्णरजतोत्थं यत् महाङ्गेषु च सक्षतम्।
न त्याज्यं तत् समाधेयं तत्स्थां शक्तिं विसृज्य च ।। 465 ।।
तद्‌द्रव्येण यथापूर्वं बिम्बकर्म समापयेत्।
मृत्काष्ठोपलजे भग्ने बिम्बे केनापि हेतुना ।। 466 ।।
बालालयगते बिम्बे तां शक्तिं शन्निरोध्य च।
दुष्टामर्चां परित्यज्य कृत्वा बिम्बान्तरं पुनः ।। 467 ।।
न त्याज्या मृत्तिकाशूलरज्वाद्या देवनिर्मिते।
देवयक्षमुनीन्द्राद्यैरन्यैः पौराणिकैस्तु वा ।। 468 ।।
प्रतिष्टिते तथा जीर्णे बिम्बे स्वर्णादिलोहजे।
तदङ्गं सन्धयेत् पश्चात् सुवर्णेनैव नान्यथा ।। 469 ।।
भग्ने शिलामये बिम्बे देवमुन्यादिकल्पिते।
तदङ्गं रुक्मजं कृत्वा सन्धेयं तद्‌दृढं यथा ।। 470 ।।
देवादिस्थापिते बिम्बे हीनाङ्गे मृण्मये सति।
कदाचिन्न परित्याज्यं तत् सन्धेयं तदा शनैः ।। 471 ।।
एवं जीर्णं तथाभूतं तदङ्गं सन्धयेत् सदा।
न बालगेहबिम्बाद्यमन्येनैव तु कारयेत् ।। 472 ।।
नित्यादौ वर्तमानेऽत्र सर्वं कार्यमतन्द्रितैः।
एवमेव स्वयंव्यक्ते कारयेत्तन्त्रवित्तमः ।। 473 ।।
देवादिपूजिते वाऽपि स्वयंव्यक्ते तु कौतुके।
मृद्दारुजे तु सञ्जीर्णे कृमिवह्निजलादिभिः ।। 474 ।।
तत्तद्वालगृहं कृत्वा पूज्यमाने तु पूर्ववत्।
क्रमादर्चान्तरं कृत्वा स्थापयेच्च यथाविधि ।। 475 ।।
वालबिम्बे तु जीर्णेऽत्र कुर्यादेवं पुनः पुनः।
मनुष्यनिर्मिते जीर्णे नष्टे दुष्टे तु वा व्कचित् ।। 476 ।।
वर्णशोभादिहीने च बिम्बे शैलमये सति।
विशेषान्मृण्मये वाऽपि चित्राभासपटादिषु ।। 477 ।।
बालबिम्बे समाहूय चित्रयित्वा तु पूर्ववत्।
पुनः प्रतिष्ठां कुर्वीत विधिवन्मन्त्रवित्तमः ।। 478 ।।
रीतिजे ताम्रजे वाऽपि आरकूटविनिर्मिते।
प्रणीते पूज्यमाने तु काम्यबिम्बादिके सति ।। 479 ।।
कालान्तरेण जीर्णेऽस्मिन्नुत्कृष्टे समुपस्थिते।
निकृष्टं सन्त्यजेद्विद्वान्न दोषस्तत्र विद्यते ।। 480 ।।
लोहपाषाणमृत्काष्ठैः स्थापिते मूलकौतुके।
न संपाद्यमतोऽन्येन कदाचिन्मुख्यवस्तुना ।। 481 ।।
पुरावज्जीर्णतां यातं कर्तव्यं मूलकौतुके।
बहुबेरैकबैराभ्यां स्थापिताभ्यां गृहान्तरे ।। 482 ।।
जीर्णोद्धारेऽपि कर्तव्यं पूर्ववत् स्थापितं बुधैः।
लक्ष्म्यादिकान्तारहिते बहुबेरे पुरा स्थिते ।। 483 ।।
जीर्णे तु पस्चाद्देवीभ्यां सहितं वा प्रकल्पयेत्।
सर्वधा बहुबेरत्वहानिर्न स्याद्विपर्ययात् ।। 484 ।।
देवयक्षमुनीन्द्राद्यैः स्थापिते लक्षणोज्झिते।
बिम्बे विमाने प्राकारे गोपुरे द्वारि मण्टपे ।। 485 ।।
पीठे वा पचनावासे कोशागारादिवस्तुषु।
जीर्णेषु पूर्ववत् कुर्यान्न कुर्याल्लक्षणान्तरम् ।। 486 ।।
पापिष्ठैरतिनष्टेऽस्मिन् त्रिदशादिप्रतिष्ठिते।
बिम्बादौ वैष्णवे चिह्ने लक्षणैश्चापि वर्जिते ।। 487 ।।
युक्ते वा पूर्ववत् कुर्यात् पूर्वरूपानुसारतः।
राजराष्ट्रविनाशः स्यादन्यथा कल्पिते सति ।। 488 ।।
देवसिद्धमुनीन्द्राद्यैः स्थापिता पूजिता पुरा।
विद्युत्प्रपातपूर्वैश्च दोषैर्या चातिदूषिता ।। 489 ।।
निर्दोषादासनात्तस्मात्तामुत्थाप्य विसृज्य च।
पूर्ववन्निर्मितां पीठे प्रतिष्ठाप्य विधानतः ।। 490 ।।
पीठभङ्गे तथान्यस्मिन् कल्पिते योजयेद्‌दृढम्।
क्ष्माभेदजलवेगाद्यैः पतितं गवद्‌गृहम् ।। 491 ।।
प्राग्बिम्बसहितं तस्माद्देशादन्यत्र कल्पयेत्।
नष्टे सबिम्बे सदने दिव्यादौ प्रागावदाचरेत् ।। 492 ।।
चोरनद्यादिवेगाद्यैरतिनष्टे तु मानुषे।
बिम्बे पश्चात् प्रकुर्वीत पूर्ववद्वान्यथापि वा ।। 493 ।।
न शून्यमूलबिम्बत्वाद्बालार्चावाहनादिकम्।
न कार्यं देशिकेन्द्रेण पूर्ववत् स्थाप्य पूजयेत् ।। 494 ।।
एवं हि सर्वदेवानां परव्यूहादिरूपिणाम्।
विष्वक्‌सेनगणेशादिपरिवारगणस्य च ।। 495 ।।
क्लृप्तानां गोपुराद्येषु विभवव्यूहरूपिणाम्।
सान्निद्यातिशयात्तेषु पूजितानां दिनं प्रति ।। 496 ।।
जीर्णोद्धारविधाने च विशेषः कथितो मया।
मन्त्रसिद्धैश्च विविधैर्मुनिभिर्मनुजैस्तथा ।। 497 ।।
प्रतिष्ठितानां गेहानां चिरकालवशेन तु।
पतनस्फोटभेदादिनाशकं भगवद्‌गृहे ।। 498 ।।
निर्वाहकानां भक्तानां शास्त्रज्ञानामनुज्ञया।
बाह्ये बाह्यान्तरे तेषां रक्षणार्थं शिलादिभिः ।। 499 ।।
निपुणैः शिल्पिभिः कार्यो भित्तिबन्धः समन्ततः।
प्रासादे मण्टपे चाग्र्ये प्राकारे गोपुरे तु वा ।। 500 ।।
प्राङ्कणे पचनावासे कोशागारेऽम्बरास्पदे।
पुष्पपानीयशालायामवघातगृहादिषु ।। 501 ।।
स्नानार्थमण्टपे वाऽपि तथा वै यागमण्टपे।
जीर्णेकालान्तरे चैव विभूत्या विस्तृते गृहे ।। 502 ।।
रक्षार्थं विनियोगार्थं तद्बाह्ये तु विवर्धयेत्।
अब्यन्तरात् समारभ्य ह्रासयेन्न तु कुत्रचित् ।। 503 ।।
प्रमुखे सर्ववस्तूनि बन्धयेत् परितोऽथवा।
प्रागुदग्वा न वृद्धिः स्यात् पृष्ठे वारुणयाम्ययोः ।। 504 ।।
उत्तरे पश्चिमे वाऽथ वृद्धिं कुर्यान्महानसे।
पौराणिकालयं पीठं तथा तीर्थं सरोवरम् ।। 505 ।।
मठं वा मण्टपाद्यं वा चिह्नं सौदर्शनादिकम्।
न चालयेत् प्रयत्नेन सालादीनां च कल्पने ।। 506 ।।
बाह्यतः कल्पयेत्तानि लंघयित्वा पुरातनम्।
प्राक् स्थितस्य बहिश्चान्तर्वर्धिते ह्रासिते सति ।। 507 ।।
पाश्चात्ये न तु दोषः स्यादायामोच्छ्राबविस्तरे।
ब्रह्नरुद्रेन्द्रयक्षाद्यैस्तथा क्लृप्तं पुरातनम् ।। 508 ।।
चिरायुषोऽर्थवृध्यर्थी चालयेन्न तु कुत्रचित्।
तथा सरोवरं कूपं मृदाद्यैर्न तु पूरयेत् ।। 509 ।।
अल्पीयांसि विमानानि विभूत्या श्रद्धयाऽथवा।
महान्ति कारयेत् पश्चान्न दोष उपजायते ।। 510 ।।
सालगोपुरपीठानां मण्टपाद्यङ्गरूपिणाम्।
प्रथमे कल्पने चैव नष्टोद्धारे विशेषतः ।। 511 ।।
एकस्मिन् प्राक् स्थिते वस्तुन्यशक्तौ स्थानसङ्कटे।
ग्रहणं न तु दोषः स्यादमुख्यं मुख्यगौरवात् ।। 512 ।।
यद्यत् पादप्रतिष्ठायां प्रासादस्य जगत्पतेः।
पादाधारशिलाद्यं वै तथा ब्रह्नशिलादिकम् ।। 513 ।।
विना प्रतिष्ठिते बिम्बे कुर्यात् स्नपनमुत्तमम्।
मधुना पयसा दध्ना घृतेन चरुणा सह ।। 514 ।।
शान्तिहोमं प्रकुर्वीत सहस्रशतसङ्‌ख्यया।
प्रासादश्च तथा बिम्बो येन शास्त्रेण निर्मितौ ।। 515 ।।
प्रतिष्ठाप्य च तेनैव नित्यादौ पूजयेद्धरिम्।
योऽर्चयेदन्यमार्गेण तथा चार्चापयेत्तु यः ।। 516 ।।
तावुभौ कलुषात्मानौ राज्ञो राष्ट्रस्य वै गुरोः।
कुलं च व्याधितं चैव विप्लवं दुःखमञ्जसा ।। 517 ।।
वित्तहानिं विशेषेण कुर्यातामालयस्य च।
न कुर्यात् तन्त्रसांकर्यं पञ्चरात्रपरायणः ।। 518 ।।
पुनः प्रतिष्ठा कर्तव्या कृते चेत्तन्त्रसंकरे।
वैखानसादिभिस्तन्त्रैः प्रासादार्थं पुरैव तु ।। 519 ।।
गर्भन्यासे कृतेऽप्यत्र पञ्चरात्राभिलाषया।
तदैवोद्‌धृत्य तं गर्भं पञ्चरात्रोक्तमाचरेत् ।। 520 ।।
चतुर्धा भेदभिन्नस्तु पञ्चरात्राख्य आगमः।
तल्लक्षणं च प्रागुक्तं तथाप्यत्राप्युदीर्यते ।। 521 ।।
पूर्वमागमसिद्धान्तं द्वितीयं मन्त्रसंज्ञितम्।
तृतीयं तन्त्रमित्युक्तमन्यत् तन्त्रान्तरं भवेत् ।। 522 ।।
आद्यं नित्योदितव्यूहस्थापनादिप्रकाशकम्।
अपौरुषेयं सद्ब्रह्नवासुदेवाख्ययाजिनाम् ।। 523 ।।
लक्ष्यभूतं द्विजेन्द्राणां हृदिस्थमधिकारिणाम्।
व्रह्नोपनिषदाख्यं च दिव्यमन्त्रक्रियान्वितम् ।। 524 ।।
विवेकदं परं शास्त्रमनिच्छातोऽपवर्गदम्।
एवं नित्योदिताख्यस्य नित्याकारस्य च प्रभोः ।। 525 ।।
वासुदेवाभिधानस्य षाड्‌गुण्यादिमहोदधेः।
प्रथमं लक्षणं विद्धि हृदयाद्यङ्गशब्दवत् ।। 526 ।।
एतदागमसिद्धान्तं श्रुतिरूपं तु विद्धि तत्।
एष कार्तयुगो धरमः सर्वधर्मोत्तमः स्मृतः ।। 527 ।।
ततस्त्रेतायुगस्यादौ भोगमोक्षप्रसिद्धये।
तस्मादागमसिद्धान्तान्निःसृतं बहुभेदकम् ।। 528 ।।
मन्त्रसिद्धान्तसंज्ञं तज्जाग्रद्वयूहादिमूर्तिना।
समुत्कीर्णं द्वितीयस्य सात्वसतस्य महात्मनः ।। 529 ।।
तेन प्रद्युम्नसंज्ञस्य तेन तुर्यात्मनो विभोः।
तेन वागीश्वराख्यस्य तस्माद्विद्याख्यविग्रदे ।। 530 ।।
संक्रान्तं च ततः पश्चाद्रुद्रादित्येन्द्रवह्निषु।
तथैव नारदाद्येषु देवर्षीणां गणेष्वपि ।। 531 ।।
संक्रातं मन्त्रसिद्धान्तं भेदभिन्नमनेकधा।
यत्र शान्ततरं व्यूहं शान्तोदितमनन्तरम् ।। 532 ।।
सुषुप्तिसंज्ञं स्वप्नाख्यं जाग्रद्वयूहं यथोदितम्।
मूर्त्यन्तर केशवाद्यं प्रादुर्भावं तथान्तरम् ।। 533 ।।
हृत्पझपझपीठादौ लक्ष्मीपुष्ट्यादिशक्तिभिः।
लाञ्छनैः शह्खचक्राद्यैः गरुडप्रमुखैरपि ।। 534 ।।
भूतसिद्धादिभिः सास्त्रपर्यन्तैर्यजनं हितम्।
विश्वत्रातृनृसिंहस्य दीक्षापूर्वं तथा परम् ।। 535 ।।
विहगव्यूहसूक्ष्माख्यमधिकारं यथाक्रमम्।
समयी पुत्रकादीनां चतुर्णामभिषेचनम् ।। 536 ।।
तथैव समयाचारमूर्तीनां स्थापनक्रमम्।
मन्त्रमण्डलमुद्राणां कुण्डादीनां च लक्षणम् ।। 537 ।।
कर्मणामेवमादीनां विधानं यत्र पुष्कलम्।
मन्त्रसिद्धान्तसंज्ञं तद्बहुभेदसमन्वितम् ।। 538 ।।
परव्यूहादिभेदेन विनैकैकेन मूर्तिना।
साङ्गेन केवलेनाथ कान्ताव्यूहेन भूषणैः ।। 539 ।।
तथास्त्रैर्विग्रहोपेतैरावृतं तन्त्रसंज्ञितम्।
नृसिंहकपिलक्रोडहंसवागीश्वरादयः ।। 540 ।।
मुख्यादिवृत्तिभेदेन केवला वाङ्गसंयुताः।
चक्राद्यस्त्रवरैश्चाथ बूषणैर्मकुटादिभिः ।। 541 ।।
कान्तागणैश्च लक्ष्म्याद्यैः परिवारैः खगादिकैः।
पूजिता विधिना यत्र तत्तन्त्रान्तरमीरितम् ।। 542 ।।
ये जन्मकोटिभिः सिद्धास्तेषामन्तोऽत्र जन्मनः।
यस्मात्तस्माद्विवेदैष सिद्धान्ताख्यो यथार्थतः ।। 543 ।।
शास्त्रमन्त्रक्रियादीनां मूर्तीनां भवनस्य च।
देशिकस्याभिजातस्य यथापूर्वं परिग्रहः ।। 544 ।।
तथैव यावत्कालं तु नाचर्तव्यं तदन्यथा।
विपरीते कृते चात्र राजराष्ट्राद्यनर्थकृत् ।। 545 ।।
ततः समाचरेद्यत्नात् प्रतिष्ठां प्राक् प्रयत्नतः।
ततः सिद्धान्तसाङ्कर्यं न कर्तव्यं कृतात्मभिः ।। 546 ।।
यद्यदिष्टतमं लोके पूर्वसिद्धाविरोधि तत्।
प्रतिग्राह्यमतोऽन्योन्यविरुद्धं संत्यजेद्‌बुधः ।। 547 ।।
वैखानसेषु तन्त्रेषु शैवपाशुपतेषु च।
विहितान्यत्रजातानि विरुद्धानीति किं पुनः ।। 548 ।।
पञ्चरात्रविधानेन पूज्यमाने प्रतिष्टिते।
नान्येन पूजनं कार्यं विदुषाऽपि कदाचन ।। 549 ।।
सद्ब्रह्ननिरतैर्मुख्यैः पञ्चरात्रपरायणैः।
पूजनीयं विशेषेण मुख्यकल्पाधिकारिभिः ।। 550 ।।
त्रयीधर्मरतैर्विप्रैः सिद्धान्तेष्वपि दीक्षितैः।
सदाचाररतैर्वाथ तदलाभेऽनुकल्पके ।। 551 ।।
प्रासादे स्थापितो देवो नैकेनार्च्यो विशेषतः।
बलिहोमादिसंयुक्ते वित्ताढ्ये त्वपि किं पुनः ।। 552 ।।
पञ्चकालरतैर्मुख्यैर्मन्त्रसिद्धान्तवेदिभिः।
पदार्थसप्तकप्राज्ञैर्दादशाध्यात्मकोविदैः ।। 553 ।।
त्रयोदशविधे कर्मण्यभिसन्धिपरैः सदा।
कर्मसन्यासिभिश्चाप्तैः मुख्यकल्पाधिकारिभिः ।। 554 ।।
तथान्यैर्वा त्रयीनिष्ठैः सिद्धान्तार्थविशारदैः।
समर्चनीयमनिशं द्विचुतःषड्‌भिरष्टभिः ।। 555 ।।
द्विषट्‌षोडशविंशद्भिश्चतुर्विंशतिभिस्तु वा।
तेष्वेकः पूजयेदन्तः पर्यायेण दिनं प्रति ।। 556 ।।
द्वौ च त्रयो वा चत्वारः कुर्युरेवं पुनः पुनः।
परिवारानर्चयेयुरन्ये देशिकसत्तमाः ।। 557 ।।
अन्योऽग्निकार्यं कुर्वीत कुर्यादन्यो बलिं क्रमात्।
एतेषामुपकुर्वीरन्नन्ये भागवतोत्तमाः ।। 558 ।।
गुर्वादिष्टेन विधिना कुर्युरन्ये च साधकाः।
सर्वमेकेन वा कार्यं बहूनां संयतात्मनाम् ।। 559 ।।
प्रवीणानामभिज्ञानां दीक्षितानामसन्निधौ।
वैदेशिकेषु प्राप्तेषु बहुष्वायतनार्चने ।। 560 ।।
मूलादावाह्य बिम्बेषु कुर्वीरन् प्रतिकर्मणि।
उत्सवं स्नपनं यात्रां प्रभूतान्ननिवेदनम् ।। 561 ।।
तत्तद्बिम्बेषु कुर्वीरन् मन्त्रिणो बहवो यदि।
नित्येऽप्येवं हि कुर्वीरन् पूजनं वह्नितर्पणम् ।। 562 ।।
बलियानादिकं सर्वमेकदैव तु मन्त्रिणः।
न दोषोऽत्र तु विज्ञेयः कालकर्मनिमित्ततः ।। 563 ।।
न गृहे बहुभिः कार्यं नित्यनैमित्तिकादिकम्।
एकदैवं तु यजनमन्यथा दोषदं भवेत् ।। 564 ।।
तद्दोषशान्तये कुर्याच्छान्तिहोमसमन्वितम्।
यथाशक्ति जपेन्मन्त्री मूलमन्त्रस्य सादरम् ।। 565 ।।
भक्तैर्भागवतैरेवं प्रासादे च प्रतिष्ठितः।
समर्चनीयो नित्यादौ राजराष्ठ्रसमृद्धये ।। 566 ।।
अन्यैः संपूजितो देवो न कदाचित् प्रसीदति।
प्रयच्छत्यशुबं शश्वद्विशेषाद्राजराष्ट्रयोः ।। 567 ।।
तद्दोषशान्तये कार्यं स्नपनं चोत्तमोत्तमम्।
आवाहिते प्रतिष्ठायामर्चासु जगतः पतौ ।। 568 ।।
नोद्वास्यः सर्वपूजानामावाह्य पुरतोऽर्चनात्।
त्रिकालमङ्गबिम्बेषु कर्मार्चादिषु सत्स्वपि ।। 569 ।।
आवाह्य पूजयेन्मूलाद्विशेषेष्वपि कार्यतः।
तत्तत्कर्मावसाने तु पुनर्मूले नियोजयेत् ।। 570 ।।
यद्यन्यथा कृतेऽर्चासु मूलमावाहनादिके।
शान्तये स्नपनं कुर्यात् अधमाधमसंज्ञितम् ।। 571 ।।
प्रायश्चित्तेषु सर्वेषु दोषगौरवलाघवम्।
समीक्ष्य चाङ्कुरानर्प्य पुण्याहोक्तिपुरस्सरम् ।। 572 ।।
चतुःस्थानार्चनं चैव महता हविषार्चनम्।
स्नपनं जपसंयुक्तमाचार्याणां च दक्षिणाम् ।। 573 ।।
गोभूहेमादिदानं च पञ्चकालज्ञभोजनम्।
कारये च्च यथाशक्ति मुख्यकल्पे विशेषतः ।। 574 ।।
पूजनं स्नपनं होममनुकल्पे समाचरेत्।
अतिक्रूरैरवाच्यैस्तु भुवं दोषैश्च दूषिताम् ।। 575 ।।
खननाद्यैश्च संशोध्य दशभिर्विधिचोदितैः।
यथावत् कर्षयित्वा तु रत्नकाञ्चनजं रजः ।। 576 ।।
विकीर्य सर्वतो दिक्षु जुहुयात्तत्र शान्तये।
देवालयेषु शून्येषु महास्नानादिकं चरेत् ।। 577 ।।
स्वतन्त्रपरतन्त्रेषु शून्यग्रामादिवास्तुषु।
मार्जनालेपनाब्यां च गव्यैरभ्युक्षणेन च ।। 578 ।।
संशोध्य तत्तन्मध्ये तु वापयेद्गव्यपञ्चकम्।
बलिदानं प्रकुर्वीत वास्तुदेवगणस्य च ।। 579 ।।
गोभूहेमादिकं दद्यादगुर्वादीनां यथाबलम्।
भूपतिः सत्वनिष्ठस्तु प्रजापालनतत्परः ।। 580 ।।
द्विजेन्द्रः पञ्चकालज्ञः प्रयत्नाच्छान्तिमाचरेत्।
अन्यथा यद्युपेक्षेत शान्तिकर्म नराधिपः ।। 581 ।।
स्वमात्मानं स्वराष्ट्रं च स्वकोशं वाहनादिकम्।
कळत्रपुत्रपौत्रांश्च नाशयत्यविसंशयम् ।। 582 ।।
तस्मादेतानि रक्षेत भूपतिर्बूतितत्परः।
स्वबुध्या परबुध्या वा कृते वापदि संकटे ।। 583 ।।
तुलापुरुषदानेन सुवर्णेनोपशाम्यति।
तथा हिरण्यगर्भस्थः कुर्याद्दानमलोलुपः ।। 584 ।।
काले काले विशेषेण ब्राह्नणानामनुज्ञया।
समठं साग्रहारं च प्रासादं परिकल्प्य च ।। 585 ।।
सर्वदेवमयो देवःसर्ववेदमयो हरिः।
सर्वयज्ञमयो विष्णुः सर्वलोकमयो विभुः ।। 586 ।।
सर्वधर्ममयोऽनन्तः सर्वभूतमयो ध्रुवः।
सर्वतीर्थमयो योगी प्रतिष्ठाप्यो विधानतः ।। 587 ।।
अन्यत्र वितते कुण्डे यथाभिमतमेखले।
पावनैर्वैष्णवैः सर्वदोषघ्नैः श्रुतिचोदितैः ।। 588 ।।
मन्त्रैः प्रयोगकुशलैः जुहुयुर्ब्राह्नणोत्तमाः।
दिव्यन्तरिक्षभौमेषु महोत्पातेषु सत्स्वपि ।। 589 ।।
शान्तिरेवं विधानेन कर्तव्या भूतिमिच्छता।
बहुनात्र किमुक्तेन मुने! सर्वाघनाशनम् ।। 590 ।।
सौदर्शनमहायन्त्रस्थापनं विषये स्वके।
विधानं परमं विद्धि राजराष्ट्राभिवर्धनम् ।। 591 ।।
लोहेन वा सच्छिलया प्रकल्प्य
सुदर्शनं यन्त्रवरस्य मध्ये।
तस्यापराङ्गे नृहरिं विधाय
कराम्बुजैश्चक्रधरैश्चतुर्भिः ।। 592 ।।
गर्भावृतिद्वारि गवाक्षयुक्त-
प्रासादमध्ये विधिवन्निवेश्य।
समर्चयेद्यो विजयी स भूत्वा
भुनक्ति भोगानखिलानिहैव ।। 593 ।।
इति श्रीपाञ्चरात्रे पारमेस्वरसंहितायां क्रियाकाण्‍डे प्रायश्चित्तविधानं नाम एकोनविंशोऽध्यायः।
**************