परमेश्वरसंहिता/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ परमेश्वरसंहिता
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →
परमेश्वरसंहितायाः अध्यायाः

।। श्रीः ।।
चतुर्दशोऽध्यायः
सनकः ---
स्नपनानां विधिं ब्रह्नन्! समाख्याहि सविस्तरम्।
यझ्ज्ञानात् सकलाः पूर्णाः नित्यनैमित्तिकाः क्रियाः ।। 1 ।।
शाण्डिल्य :---
श्रृणुवत्स! महाबुद्धे! सावधानेन चेतसा।
विधानं स्नपनानां तु बहुभेदविनिर्मितम् ।। 2 ।।
प्रासादस्याग्रतः कुर्यान्मण्डपं तु तदर्थतः।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा ।। 3 ।।
तृतीयावरणे वापि चतुर्थे पञ्चमेऽथवा।
आग्नेय्यां दक्षिणस्यां वा नैर्ऋत्यां पश्चिमे तु वा ।। 4 ।।
वायव्यामुत्तरस्यां वा ऐशान्यां वा यथा रुचि।
कुर्यान्मानादिकं सर्वं यागमण्डपवद्‌द्विज! ।। 5 ।।
विना यागस्थलान्मद्ये वेदिं चापि तदूर्ध्वतः।
अधिवासश्च कुम्भानां स्थापनं स्नपनं तथा ।। 6 ।।
युज्यतेवै यथैकस्यां तथाभ्यूह्य समाचरेत्।
आचार्यांश्चतुरो विप्र! षडष्टौ द्वादशापि वा ।। 7 ।।
यजमानस्तु वरयेच्छास्त्रज्ञान् गुरुणा सह।
प्रवीणांश्च, बहुत्वे तु तत्संख्यानियतिः कृता ।। 8 ।।
तेषां यथोक्तसंख्यानामभिज्ञानामसन्निधौ।
तादृशान् वरयेद्विप्रांश्चतुस्त्रिद्येकमेव वा ।। 9 ।।
साधकांश्चतुरः षड्‌वा ह्यष्टौ द्वादश षोडश।
वरयेच्छास्त्रकुशलान् प्रवीणानुक्तकर्मसु ।। 10 ।।
एवं सर्वेषु यागेषु नित्यनैमित्तिकात्मसु।
आचार्याणां साधकानां संख्यानियम ईरितः ।। 11 ।।
संख्याहीनं न गृण्डीयादापद्यापि कदाचन।
मोहेन यदि गृण्डीयाद्भयं स्याद्राजराष्ट्रयोः ।। 12 ।।
प्राङ्‌मुखे मण्डपे भागे तृतीये पश्चिमे स्थिते।
मध्यसूत्रं समाश्रित्य स्नानपीठं प्रकल्पयेत् ।। 13 ।।
प्राग्गतं प्रत्यगास्ये तु, सौम्यास्ये दक्षिणागतम्।
तदास्ये चोत्तरासंस्थं यथा लक्षणलक्षितम् ।। 14 ।।
यदा स्नपनबिम्बादौ बिम्बे स्नपनमाचरेत्।
एवं तदा प्रकुर्वीत मण्डपं द्विजसत्तम! ।। 15 ।।
मूलबिम्बे यदा कुर्यात्तदग्रे मण्डपं तदा।
तदानीं न तु कुर्वीत स्नानपीठं द्विजोत्तम! ।। 16 ।।
सप्तमे पञ्चमे वापि पूर्वे स्नपनवासरे(रात्)।
तृतीये वा मुनिश्रेष्ठ! तस्मिन्नहनि वा द्विज! ।। 17 ।।
अङ्‌कुरानर्पयित्वा तु ततः स्नपनमारभेत्।
यदा पूर्वदिने कुर्यात् कुम्भानामधिवासनम् ।। 18 ।।
तदानीं पूर्वरात्रौ तु कुर्यात् कौतुकबन्धनम्।
पूर्वेद्युर्विघ्निते पश्चात्तस्मिन्नहनि वाचरेत् ।। 19 ।।
यदा कर्मदिने विप्र! कुर्यात् कुम्भाधिवासनम्।
तदानीं तु दिने तस्मिन् कुर्यात् कौतुकबन्धनम् ।। 20 ।।
ततः प्रभात आचार्यः कृतस्नानः प्रसन्नधीः।
प्रविश्य मण्डपं सार्धं परिचर्यापरैर्जनैः ।। 21 ।।
शलाकासहितैर्दर्भैः सहदेवीविमिश्रितैः।
मार्जयेत् सर्वतो विप्र! प्राङ्‌मुखो वा वाप्युदङ्‌मुखः ।। 22 ।।
आलेपयेद्गोमयेन पूर्वादीशानपश्चिमम्।
नूतनेनाम्बरेणैव गालितेन जलेन तु ।। 23 ।।
प्रोक्षयेत् सर्वदिग्विप्र! पञ्चगव्यकुशाम्बुभिः।
एको द्वौ बहवो वापि देशिकाः स्नपने स्मृताः ।। 24 ।।
नवसूत्रधराः सर्वे सर्वालङ्कारसंयुताः।
नववस्त्रोत्तरीयाश्च सोष्णीषा गुरुसम्भताः ।। 25 ।।
नियमस्थास्तु बहवस्तथैव परिचारकाः।
यद्यद्योग्यं भवेद्ब्रह्नन्! स्नपने यत्र यत्र तु ।। 26 ।।
तत् समस्तं समाहृत्य मण्डपे संप्रवेश्य च।
स्नपनं प्रारभेत् पश्चाद्देशिकः शास्त्रपारगः ।। 27 ।।
स्नपनं द्विविधं विद्धि परापरविभेदतः।
परं तु दशधा प्रोक्तं प्रधानादिविभेदतः ।। 28 ।।
प्रधानं प्रथमं विद्धि द्वितीयं तु परं स्मृतम्।
तृतीयं परसूक्ष्मं स्यात् परस्थूलं चतुर्थकम् ।। 29 ।।
पञ्चमं स्यात् सूक्ष्मपरं सूक्ष्मसूक्ष्मं तु षष्ठकम्।
सूक्ष्मस्थूलं सप्तमं स्यात् स्थूलं स्यात् परमष्टमम् ।। 30 ।।
स्थूलसूक्ष्मं तु नवमं स्थूलस्थूलं तदुत्तरम्।
चतुर्धा त्वपरं विद्धि ह्येकैकं नवधा स्थितम् ।। 31 ।।
उत्तमोत्तमपूर्वेण भेदेन द्विजसत्तम!।
परापरविभेदानामेषां साधारणं स्थितम् ।। 32 ।।
अनन्तकलशं नाम्ना स्नपनं सर्वपूरकम्।
एषां प्रधानपूर्वाणां सूत्रपातपुरस्सरम् ।। 33 ।।
सर्वमुद्धारपर्यन्तं क्रमेण श्रृणु सत्तम!।
लोहजं दारुजं वापि मृण्मयं वा सुशोभनम् ।। 34 ।।
मण्डपेशानदिग्भागे संस्थाप्य जलभाजनम्।
वेदिं प्रक्षाल्य तोयेन वस्त्रैः संवेष्ट्य नूतनैः ।। 35 ।।
सूत्रपातं ततः कुर्यात् कुम्भसंख्यानुरूपतः।
यथोक्तमानविस्तीर्णक्षेत्रमण्डपमध्यतः ।। 36 ।।
मण्डपस्य तु विप्रेन्द्व! प्राग्भागमवलम्ब्य वा।
स्वीकृत्य पश्चात् प्राक् प्रत्यक् दद्यात् सूत्रचतुष्टयम् ।। 37 ।।
दक्षिणोत्तरगं सूत्रपञ्चकं विनिवेशयेत्।
एवं कृते भवन्त्यत्र पदानि द्वादश द्विज! ।। 38 ।।
एकैकस्य तु विस्तारं तालं प्रादेशभेव वा।
हस्तं वाऽरत्निमात्रं वा मण्डपस्यानुरूपतः ।। 39 ।।
सहत्त्वस्य च कुम्भानामेवं सर्वत्र चोर्ध्वतः।
पिष्टचूर्णैरलङ्‌कृत्य चतुर्दिक्षु समन्ततः ।। 40 ।।
कोष्ठेषु पीठिकां कुर्यात्तण्डुलैव्रीहिभिस्तु वा।
तासां हि प्रतिकोष्ठं तु कुर्यादाढकसंमितैः ।। 41 ।।
अर्धाथिकैस्त्रिभिः प्रश्थैरथवा केवलैस्त्रिभिः।
अर्धोत्तरेण वा विप्र! कुर्यात् प्रस्थद्वयेन वा ।। 42 ।।
यद्वा प्रस्थद्वयेनैव प्रस्थेनार्धोत्तरेण वा।
प्रस्थेन वा तदर्धेन तत्पादेनाथवा द्विज! ।। 43 ।।
तुर्याश्रामथवा वृत्तां कृत्वैवं पीठिकां ततः।
सौवर्णा राजता ग्राह्यास्तम्रा वा भेदवर्जिताः ।। 44 ।।
श्र्लक्ष्णा न सुषिराः कुम्भा चतुर्विंशाङ्‌गुलोन्नताः।
विस्तृतेर्मध्यतस्तद्वत्तद्गलं त्र्यङ्‌गुलोन्नतम् ।। 45 ।।
ततमङ्‌गुलिषट्‌केन तत्रास्यं त्र्यङ्‌गुलं स्मतम्।
मेखला परितो ज्ञेया त्र्यङ्‌गुला द्विजसत्तम! ।। 46 ।।
यद्वा तदर्धमानं तु सर्वमुच्छ्रायपूर्वकम्।
यद्वोत्तमोत्तमा विप्र! द्रोणमानोदपूरकाः ।। 47 ।।
तदष्टमांशतो न्यूनाः क्रमात् प्रस्थद्वयाबधि।
अधमाधमकुम्भास्तु प्रस्थमात्रोदपूरकाः ।। 48 ।।
एवं लक्षणयुक्तास्तु कार्या वित्तानुरूपतः।
चक्राधारोपरिस्थास्तु वितताः कमठो(लो)दराः ।। 49 ।।
पाञ्चजन्यवलिग्रीवाः शतपत्रमुखाननाः।
ऊर्ध्वाधः (र्ध्वतः) कौमुदीमालामण्डलालंकतृता द्विज! ।। 50 ।।
मकाराननशेषाभिः (हि ?) अमृताम्बुप्रबाहकाः।
नदीसमुद्र(?)श्रीवृक्षनानामाल्येः परिष्कताः ।। 51 ।।
चक्राधाराधिभिर्यद्वा रहिताः सत्यसंभवे।
मृण्मया वानुकल्पे तु भेदश्छिद्रविवर्जिताः ।। 52 ।।
पव्कविम्बफलाकाराः कालवृत्तैर्विवर्जिताः।
न द्वितप्ताः सुतप्ताश्च ह्येकवर्णास्तु सुस्वनाः ।। 53 ।।
संगृह्य क्षालयेत् सम्यक् शुद्धतोयैश्च सर्वतः।
सूत्रेण वेष्टयेद्यत्नादङ्‌गुलाङ्‌गुलमन्तरम् ।। 54 ।।
पश्चिमे कलशस्थानात् कलशानधिवासयेत्।
शालिभिः स्थण्डिलं कृत्वा केवले स्थण्डिले तु वा ।। 55 ।।
पूर्वाग्रानुत्तराग्रांश्च कुशांस्तत्र परिस्तरेत्।
तारेण तत्र कलशान् न्यस्य पुष्पेण पूज्य च ।। 56 ।।
अधोमुखांस्तु तानेव न्यस्य पङ्‌क्तिक्रमेण तु।
कुशानुपरि संस्तीर्य प्राङ्‌मुखं परमेष्ठिना ।। 57 ।।
दर्भमुद्रां प्रदर्श्याथ गन्धतोयेन सर्वतः।
संप्रोक्ष्य "पुंसा" "विश्वेन" विकिरेदक्षतानि च ।। 58 ।।
"निवृत्या" चोन्मुखीकृत्य, सर्वेण मुनिपुड्गव!।
पृथगुद्धृत्य कलशान्, स्वस्थानेषु क्रमान्न्यसेत् ।। 59 ।।
कुम्भन्यासादि सर्वं तु द्विषट्कार्णेन वाचरेत्।
निरीक्षणादिसंशुद्धान् कृत्वा सहृदयेन तु ।। 60 ।।
द्वादशाक्षरमन्त्रेण मन्त्रयेत् तान् सकृत् सकृत्।
तेनैव पूजयेत् पश्चादर्घ्यस्रकचन्दनादिना ।। 61 ।।
तदाहरणोहमं तु यथाशक्ति समाचरेत्।
पूर्णान्तमथ संपूर्य क्रमाद्‌द्रव्यैर्निबोध तत् ।। 62 ।।
पङ्‌क्तित्रये पश्चिमादि पूर्वान्तं च चतुश्चतुः।
तत्र दक्षिणदिक्‌पङ्‌क्तौ कलशे पश्चिमे स्थिते ।। 63 ।।
धात्रीफलोदकं चैव लोध्रतोयमनन्तरम्।
रक्तचन्दनतोयं च रजनीनीरमुत्तमम् ।। 64 ।।
ततस्तु मध्यपङ्‌क्तौ तु तथैव विनिवेशयेत्।
ग्रन्थिपल्लववार्येव ततस्तु तगरोदकम् ।। 65 ।।
प्रियङ्‌गुवारि तदनु मांसीजलमतः परम्।
तथैवोत्तरपङ्‌क्तौ तु भवेदेतच्चतुष्टयम् ।। 66 ।।
सिद्धार्थकोदकं चैव सर्वौषधिजलं ततः।
सर्वरत्नोदकं चैव शुद्धोदकमतः परम् ।। 67 ।।
न्यसेत्, कूर्चं कुशं दार्भमुदग्रं षोडशाङ्‌गुलम्।
अङ्‌गुलं ग्रन्थिमानं तु मूलं वै द्वादशाङ्‌गुलम् ।। 68 ।।
शेषमग्रं बिजानीयादित्येतत् कूर्चलक्षणम्।
अधवार्थाङ्‌गुलो ग्रन्थिरग्रं वै व्द्यङ्‌गुलं भवेत् ।। 69 ।।
मूलं कुर्यात्तु विप्रेन्द्र! द्वादशाङ्गुलसंमितम्।
ब्राह्नणस्य चतुर्दर्भं त्रिदर्भं क्षत्रियस्य तु ।। 70 ।।
द्विदर्भं तु विशां कुर्चं स्त्रीशूद्राणां तथा भवेत्।
सर्वेषामथवा कूर्चं चतुस्सप्तकृतं तु वा ।। 71 ।।
मूलमन्त्रेण तदनु पूजयेद् द्‌द्वादशात्मना।
अर्घ्यालभनपुष्पैश्च धूपेन मुनिपुह्गव! ।। 72 ।।
अपिधाय क्रमेणैव विधानैः सूत्रवेष्टितैः।
प्रतिकुम्भं तु वसनैवेर्ष्टयेद्‌विभवे सति ।। 73 ।।
आच्छाद्य नववस्त्रेण सर्वतः प्रागुदङ्‌मुखः।
पूर्ववत् पूजयित्वा तु ततो होमं समारभेत् ।। 74 ।।
अष्टोत्तरशतं हुत्वा समिदादीन् पृथक् पृथक्।
पूर्णाहुतिं ततो हुत्तत्वा कलशानभिमन्त्रयेत् ।। 75 ।।
मूलमन्त्रेण सर्वेषां म्नपनं विहितं द्विज!।
अन्तरान्तरयोगेन कुम्भैः शुद्धोदपूरितैः ।। 76 ।।
स्नपनं चार्घ्यदानं च द्रव्याणां तु समाचरेत्।
द्रव्यन्यासक्रमेणैव तदुद्धारः प्रकीर्तितः ।। 77 ।।
प्रधानमेतत् कथितं द्विषट्‌ककलशात्मकम्।
सर्वेषां कारणमिदं कार्याण्यन्यानि सत्तम! ।। 78 ।।
अम्बुना पञ्चगव्येन क्षीरेण तदनन्तरम्।
दद्ना धृतेन मधुना सर्वौषधिजलेन तु ।। 79 ।।
बीजाम्बुफलतोयं च गन्धपुष्पाम्बुना ततः।
हेमरत्नोदकेनाथ पूरितं तु यथाक्रमम् ।। 80 ।।
कलशानां द्विषट्‌कं यत् परमेतदुदात्हृतम्।
पच्चगव्यदधिक्षीरघृतमध्विक्षुवारिणा ।। 81 ।।
सर्वौषधीगन्धरत्नफलपुष्पजलैस्तथा।
केवलेनोदकेनापि क्रमेण परिपूरितम् ।। 82 ।।
द्विषट्‌कमेतत् कुम्भानां परसूक्ष्ममुदाहृतम्।
पयोदधिघृतक्षौद्रैः सर्वगन्धोदकेन च ।। 83 ।।
सर्वौषधिजलेनापि पत्रपुष्पफलाम्बुभिः।
बीजाम्बुना हेमरत्नजलेनैकीकृतेन च ।। 84 ।।
मिश्रैः पुण्यसरित्तोयैः परिपूर्णं क्रमेण तु।
परस्थूलमिमिदं विद्धि कलशं द्वादशात्मकम् ।। 85 ।।
सूत्रपातादिकं चान्यत् त्रितयेऽस्मिन् प्रधानवत्।
पञ्चधा भाजिते क्षेत्ने भागाः स्युः पञ्चविंशतिः ।। 86 ।।
बहिः प्रागादियोगेन कलशानां द्विरष्टके।
क्षीरं दधि घृतं चैवमधुवै रसमैक्षवम् ।। 87 ।।
धात्रीफलादिदशकं सर्वौषध्यन्तमेव हि।
पत्रोदकं ततः पश्चात् तदन्तः कलशाष्टके ।। 88 ।।
प्रागादिपुष्पतोयं फलबीजोदके त्वथ।
गन्धोदकं च तदनु हेमरत्नजले तथा ।। 89 ।।
पुण्यतर्त्सरेत्तोयं, मद्ये शुद्धोदकम् न्यसते।
द्रव्यन्यासक्रमेणैव तदुद्धार उदाहृतः ।। 90 ।।
एवं क्रमाद् द्रव्ययुक्तकलशैर्द्विजसत्तम!।
स्नपनं पञ्चविंशद्भि रेतत् सूक्ष्मपरं स्मृतम् ।। 91 ।।
पञ्चविंशतिकोष्ठानि कल्पयित्वा तु पूर्ववत्।
मध्ये शुद्धोदकं न्यस्य बहिरिन्द्रादियोगतः ।। 92 ।।
पूर्वं क्षीराम्भसा पूर्णं परं शुद्धेन वारिणा।
तृतीयं रत्नतोयेन हेमतोयेन चापरम् ।। 93 ।।
गन्धसंमिश्रितं चान्यत् फलपुष्पोदकान्वितम्।
शालिबीजाम्भसा पूर्णभष्टमं परिकीर्तितम् ।। 94 ।।
कुम्भाष्टकं तु तद्बाह्यदिगष्टकसमाश्रितम्।
धात्रीफलोदकं पूर्वे पथ्यातोयं ततोऽपरे ।। 95 ।।
गलूचीक्षोदमन्मस्मिन् विभीतकजलं परे।
कुमारीव्कथितं तोयं व्याघ्रीसलिलमेव च ।। 96 ।।
नागरोदकमन्यस्मिन् तथान्यस्मिन् मधूदकम्।
विहितोऽत्र समुद्धारो द्रव्यन्यासक्रमेण तु ।। 97 ।।
सत्याद्यैः पञ्चभिर्मन्त्रैस्त्रिभिः सिंहादिभिः क्रमात्।
अन्तरावरणस्थानां कलशानां महामते! ।। 98 ।।
एकैकं सप्तधामन्त्र्य प्रागादौ, तद्बहिः स्थितान्।
कलशांश्चक्रमन्त्रेण हृदाद्येनाभिमन्त्रयेत् ।। 99 ।।
गायत्र्यान्तर्गतैर्विप्र! कलशैः स्नापयेत् क्रमात्।
द्वितीयावरणस्थैस्तु उपचारा "हृदा" मुने! ।। 100 ।।
केवलेनोदकेनाथ अस्त्रजप्तेन सेचयेत्।
यद्वा प्रागुदितेनैव वर्त्मना सर्वमाचरेत् ।। 101 ।।
दशभिः सप्तभि- कुम्भैः सूक्ष्मसूक्ष्ममिदं स्मृतम्।
चतुर्हस्तं त्रिहस्तं वा क्षेत्रं सार्धद्विहस्तकम् ।। 102 ।।
द्विहस्तं वा समापाद्य तदर्धं तु द्विधा भवेत्।
एकेन कर्णिकां कुर्याद्‌द्वितयेन द्विरष्टकम् ।। 103 ।।
दलानां तु, ततो ब्रह्नन्! कर्णिकोपरि विन्यसेत्।
कलशानां चतुष्कं तु दिक्‌चतुष्कसमाश्रितम् ।। 104 ।।
पूर्वं तु पुष्पतोयेन गन्धोदेन ततः परम्।
स्वर्णोदेनापरं चान्यत् सर्वरत्नजलेन तु ।। 105 ।।
पूर्वपत्रात् समारभ्य यावदीशानगोचरम्।
षोडशान्यान् प्रतिष्ठाप्य तत्रैव कलशान्मुने! ।। 106 ।।
प्रथमं पञ्चगव्येन केवलेन तु पूरयेत्।
गोमूत्रेण द्वितीयं तु तृतीयं गोमयाम्बुना ।। 107 ।।
त्रेताग्निभूतिना विप्र! चतुर्थं सोदकेन तु।
गजगोवृषभश्रृङ्गवल्मीकाक्यमृदा परम् ।। 108 ।।
शालिक्षेत्रान्नदीमध्यात् पझषण्डाच्च पर्वतात्।
मृद्भिः षष्ठं तु कलशं पूरणीयं ततो द्विज! ।। 109 ।।
सप्तमं सर्षपाम्भोभिः सर्वौषधिभिरष्टमम्।
क्षीरेण नवमं विद्धि दध्ना दशममुच्यते ।। 110 ।।
घृतेन चैकादशमं मधुना द्वादशं द्विज!।
सर्वैस्त्रयोदशं बीजैः फलैः सर्वैश्चतुर्दशम् ।। 111 ।।
समस्तधान्यैरपरं सर्वगन्धैस्तु षोडशम्।
दलस्थान् पूर्वमुद्‌धृत्य द्रव्यन्यासक्रमेण तु ।। 112 ।।
पश्चात्तु कर्णिकासंस्थांस्तथैव तु सुमुद्धरेत्।
हृदाभिमन्त्रितं कृत्वा एकैकं कलशं पुरा ।। 113 ।।
स्नापयेन्मूलमन्त्रैण एकैकेन ततः क्रमात्।
इति विंशतिभिः कुम्भैरन्वितं द्विजसत्तम! ।। 114 ।।
सूक्ष्मस्थूलमिदं प्रोक्तं ततोऽन्यच्छृणु विस्तृतम्।
प्राक्‌प्रत्यगायतं सूत्रपञ्चकं विनिवेश्य च ।। 115 ।।
दक्षिणोत्तरसूत्रानामेकादश विनिक्षिपेत्।
एवं कृते तु कोष्ठानि चत्वारिंशद्भवन्ति हि ।। 116 ।।
तत्र पश्चिमदिक्‌पङ्‌क्तेरारभ्य क्रमयोगतः।
दक्षिणादुत्तरान्तं च कलशानां चतुश्चतुः ।। 117 ।।
विन्यस्य पूरयेत्तांस्तु क्रमाद्‌द्रव्यैर्निबोध तत्।
पाद्यार्घ्याचमनीयार्थद्रव्यैः पूर्वोदितैस्त्रयम् । 118 ।।
नगादाद्यन्तमध्येभ्यो नदीमृत्तीरसंभवा।
ह्रदाद्वल्मीकशिखरादूगजदन्तक्षतीकृतात् ।। 119 ।।
हलोत्था गोवृषश्रृङ्गशालीनां तु समुद्भवा।
तथा च पझषण्डोत्था त्वेकस्मिन् गोमयं परे ।। 120 ।।
वनदाहसमुद्भतं तथैव च महानसात्।
त्रेताग्निभस्म त्वपरे विनिवेश्य घटान्तरे ।। 121 ।।
अन्यस्मिन् पञ्चगव्यं तु कुशोदकसमन्वितम्।
सघृतं तैलकुम्भं तु चमसीवारिपूरितम् ।। 122 ।।
पलाशखदिराश्वत्थशमीलोहितचन्दनम्।
कषायोदकमन्यस्मिन् परे तु त्रिफलोदकम् ।। 123 ।।
वचा शतावरी `कन्या' `व्याघ्री' `सिंही' `कृताञ्जलिः'।
गोलोमी सिंहलोमी च कुष्ठं भूम्यञ्जनं तथा ।। 124 ।।
महागरुडवेगा च कलशेऽन्यत्र सत्तम!।
महानीला गलूची च सहदेवी शतावरी ।। 125 ।।
विष्णुक्रान्ता च कार्कोटा सांहा वह्निशिखापरे।
यष्टी वराहकर्णी चाप्यन्यस्मिन् गजपिप्पली ।। 126 ।।
श्रीफलाद्यानि चान्यस्मिन् पावनानि फलानि च।
दधिक्षीराज्यकुम्भांश्च द्वौ मध्विक्षुरसान्वितौ ।। 127 ।।
मूलान्यम्भोरुहाणां च तान्यन्यस्मिन् घटे न्यसेत्।
द्रुमाणां पावनानां तु सक्षीराणां विशेषतः ।। 128 ।।
पत्रपुष्पफलोपेतमेकस्मिन् मञ्जरीगणम्।
जात्यादिकमथैकस्मिन् कौसुमीयं लताचयम् ।। 129 ।।
रोचनारजनीयुग्मं बालमोटाथ पझकम्।
इति पञ्चकमन्यस्मिन् दर्भदूर्वाङ्‌कुराणि च ।। 130 ।।
सास्यं शाल्यङ्‌कुरचयं कलशे ह्यपरे तु वै।
सिदधार्थकान् सिताद्यांस्तु प्रियङ्‌गुं गन्धसंज्ञकम् ।। 131 ।।
अपरस्मिन् न्यसेत् कुम्भे सह वै नागकेसरैः।
ग्राम्याश्चोषधयः सप्त सप्तारण्या घटद्वये ।। 132 ।।
बाह्‌लीकं चन्दनं चैव रसं कर्पूरमेव च।
चतुष्कमेतदपरे त्वन्यस्मिन् धातवः शुभाः ।। 133 ।।
ताम्रजाम्बूनदाद्यास्तु परे रत्नचयं महत्।
न्यसेद्‌विद्रुमजालं च द्वये मुक्ताफलानि च ।। 134 ।।
अर्घ्योदकमकमथैकस्मिन्नदीतीर्थोदकं द्वये।
सर्वौषधिघटं चैव सुशीताम्भोघटं ततः ।। 135 ।।
सुगन्धपुष्पकलशं चत्वारिंशत् त्वमी स्मृताः।
द्रव्यन्यासक्रमोद्धार इदं स्थूलं परं स्मृतम् ।। 136 ।।
शीताम्बुपूरितानां च घटानां केवलं द्विज!।
चत्वारिंशत् समायुक्तं स्थूलसूक्ष्मं प्रकाशितम् ।। 137 ।।
गन्धोदकेन पूर्णानां चत्वारिंशद्भिरेव च।
समन्वितं घटानां तु स्थूलस्थूलं प्रकीर्तितम् ।। 138 ।।
सूत्रपातविधानं च कुम्भन्यासक्रमं ततः।
उद्धारं चानयोः कुर्यात् स्थूलाद्यसदृशं द्विज! ।। 139 ।।
भक्तिश्रद्धावशाच्चापि विभवानुगुणं तु वा।
त्रिविधं स्थूलभेदं तु द्विगुणं तु समाचरेत् ।। 140 ।।
अनुकल्पे तदर्धं वा पादमष्टांशमेव वा।
चतुष्टयं वा कुम्भानां प्रत्येकं वा द्वयं द्वयम् ।। 141 ।।
एकैकं वापि विप्रेन्द्र! सर्वद्रव्यमयं घटम्।
नवानां परिपूर्णानामुक्तादन्यदपेक्षितम् ।। 142 ।।
कुर्यादभ्यूह्य तत् सर्वं प्रधानोदितवर्त्मना।
एवं तु दशधा विप्र! परभेदाः प्रकाशिताः ।। 143 ।।
अपरस्य विभेदांस्तु क्रमेण श्रृणु सत्तम!।
चतुरश्रीकृते क्षेत्रे ह्येकत्रिंशद्विभाजिते ।। 144 ।।
कोष्ठकानां नवशतमेकपष्टिस्तथैव च।
मध्ये पङ्‌क्तित्रयं स्थाप्य मार्जयेत्तद्बहिर्द्वयम् ।। 145 ।।
वीथ्यर्थं तद्बहिर्भूयः स्थाप्य पङ्‌क्तित्रयं पुनः।
द्वयं विमृज्य वीथ्यर्थं स्थापयेत् सप्तकं पुनः ।। 146 ।।
विभज्य वा त्रिणवधा ह्येकैकं विमृजेद्‌द्विज!।
वीथ्यर्थं संकटे देशे कलशानां तु पूर्ववत् ।। 147 ।।
क्रमेण तेषु कोष्ठेषु कलशान् पूर्ववन्न्यसेत्।
घृतमुष्णोदकं चैव रत्नवारि फलोदकम् ।। 148 ।।
लोहाम्भो मार्जनाम्भश्च गन्धाम्भोऽक्षतवारि च।
यवोदकमथेशान्तं मध्यादारभ्य मध्यमे ।। 149 ।।
पाद्यमर्घ्य तथाचामं पञ्चगव्यं क्रमेण तु।
द्विचतुष्केण संवीतनकानां तु मध्यमे ।। 150 ।।
ऐन्द्राद्युत्तरपर्यन्तं विदिक्‌स्थानां तु मध्यमे।
दधि क्षीरं मधु तथा कषायं वह्निदिक्‌क्रमात् ।। 151 ।।
एवं सप्तदश प्रोक्तः प्रधानद्रव्यसंयुताः।
शेषाश्चान्ये चतुष्षष्टिः शुद्धोदकसमन्विताः ।। 152 ।।
इत्येकाशीतिकलशा मध्यतः संस्थिता द्विज!।
ततस्त्वेकोनपञ्चाशत्कलशास्तद्दिगष्टके ।। 153 ।।
तत्र मध्यमकुम्भेषु दिक्‌स्थितानां च सेचयेत्।
गुलोदकं चेक्षुरसं नालिकेररसं तथा ।। 154 ।।
`शान्तिवारि' मुनिश्रेष्ठ! पूर्वदिक्‌क्रमयोगतः।
विदिक्‌स्थब्रह्नकुम्भेषु सेचयेन्मड्गलोदकम् ।। 155 ।।
आग्नेयादीशपर्यन्तं शिष्टमन्यच्छतत्रयम्।
असीतियुक्तं कुम्भानां तथैव चतुरुत्तरम् ।। 156 ।।
सुगन्धैः शीतलैस्तोयैः संपूर्णं द्विजसत्तम!।
पस्चान्मध्यस्थनवके मध्यादीशानपश्चिमम् ।। 157 ।।
वासुदेवाद्वराहान्तं मूर्तीनां नवकं यजेत्।
अर्घ्यालभनमाल्यैश्च धूपेन च यथाक्रमम् ।। 158 ।।
तद्वहिर्नवकानां तु ब्रह्नकुम्भेषु पूजयेत्।
केशवाद्वामनान्तं च द्विचतुः पूर्वदिक्‌क्रमात् ।। 159 ।
तत एकोनपञ्चाशत् कलशानां महामते!।
पूजयेद्ब्रह्नकुम्भेषु श्रीधराद्यं चतुष्टयम् ।। 160 ।।
पूर्वाद्युत्तरपर्यन्तं वह्न्यादीशानपश्चिमम्।
नराद्यं कृष्णपर्यन्तं चतुष्कं पूजयेद्‌द्विज! ।। 161 ।।
प्राग्वत् कूर्चानि संन्यस्य चक्रिकाभिः पिधाय च।
तत आच्छादयेद्वर्स्त्रैनूतनैस्तु पृथक् पृथक् ।। 162 ।।
तत ऊर्ध्वं यजेद्देवं वासुदेवं जगत्पतिम्।
पाद्यमर्घ्यं तथाचामं पञ्चगव्यं, घृतं, दधि ।। 163 ।।
पयो, मधु, कषायं च, उष्णाम्भः फलपारि च।
मार्जनाम्भो, ऽक्षताम्भश्च, रत्नाम्भो, लोहवारि च ।। 164 ।।
गन्धाम्भश्च, यवाम्भश्च, गुलोदेक्षुरसौ, तथा।
नालिकेररसं, चापि शान्तितोयं, च मङ्गलम् ।। 165 ।।
क्रमेणानेन विप्रेन्द्र! ह्याचरेत् स्नपनं विभोः।
मूलमन्त्रेण सर्वेषां स्नपनं विहितं द्विज! ।। 166 ।।
अथवा पाद्यपूर्वं तु गन्धतोयावसानकम्।
ऋग्भिः पुरुषसूक्तस्य, तथेदं विष्णुरित्यृचा ।। 167 ।।
यवाम्भो, गुलतोयाद्यं चतुष्कं शान्तिपश्चिमम्।
त्वं विष्णुरिति मन्त्रेण, विष्णोर्नुकमिति द्विज! ।। 168 ।।
स्नापयेन्मङ्गलाद्येन तोयेन मुनिपुङ्गव!।
येनाभिषिञ्चेद्देवेशं प्रधानकलशेन तु ।। 169 ।।
तच्छुद्धवारिकलशैस्तन्मन्त्रेणाभिषेचयेत्।
प्रतिद्रव्यं तु वस्त्रेण ह्यर्घ्यालभनमाल्यकैः ।। 170 ।।
धूयेन च समभ्यर्च्य ततस्तेनाभिषेचयेत्।
यद्वार्घ्यं पाद्यमाचामं गन्धस्रग्धूपदीपकम् ।। 171 ।।
दद्याद्यथाक्रमं सर्वं, केवलं चार्ध्यमेव वा।
युक्तं शतचतुष्केण सप्तत्या च त्रयेण च ।। 172 ।।
कुम्भानां स्नपनं ह्येतदुत्तमोतममुच्यते।
हीनमष्टाष्टसंख्यातैरन्तश्शुद्धोदवारिभिः ।। 173 ।।
कलशैः स्नपनं यत्तु तत् स्यादुत्तममध्यमम्।
तथा पङ्‌क्तिचतुष्कं तु हीनं स्यात् पूर्वनिश्चितात् ।। 174 ।।
यदेतत् स्नपनं युक्तमेकाशीत्या च मध्यतः।
दिक्षु चैकोनपञ्चाशच्चतुष्केन विदिक्षु च ।। 175 ।।
ब्राह्नदैविकभागस्थैः कलशैरन्वितं द्विज!।
शेषैःषष्टयुत्तरशतसंख्यातैः शुद्धवारिभिः ।। 176 ।।
विहीनं कलशैर्विप्र! तद्भवेदुत्तमाधमम्।
शतद्वयेन कुम्भानां चतुर्दिक्संस्थितेन च ।। 177 ।।
चतुर्हीनेन वै विप्र! ह्येकाशीत्या च मध्यतः।
संयुक्तं स्नपनं प्राग्वत् तद्भवेन्मध्यमोत्तमम् ।। 178 ।।
अष्टाष्टपरिसङ्ख्यातैरन्तः शुद्धोदवारिभिः।
कलशैर्यद् भवेद्धीनं तत् स्यान्मद्यममध्यमम् ।। 179 ।।
एकाशीत्या च कुम्भानां मध्यतस्तु समन्वितम्।
दिक्षु चैकोनपञ्चाशन्मध्यस्थनवसंयुतम् ।। 180 ।।
शेषैः शुद्धोदकलशैर्विहीनं मध्यमाधमम्।
पङ्‌क्तीनामष्टकेनात्र हीनं क्षेत्रं तु कल्पयेत् ।। 181 ।।
एकाशीत्या च कुम्भानां केवलं पूर्ववद् द्विज!।
अधमोत्तममेतत्तु स्नपनं परिकीर्तितम् ।। 182 ।।
द्वात्रिंशद्भिस्तु कल्शैः सौणस्थैः शुद्धवारिभिः।
विहीनं स्नपनं यत्तद्‌ भवेद धममध्यमम् ।। 183 ।।
यच्चतुष्षष्टिकलशैर्विहीनं सर्वदिक्‌स्थितैः।
शुद्धोदकैर्द्विजश्रेष्ठ! तद्भवेद धमाधमम् ।। 184 ।।
नवधा सप्तधा वात्र क्षेत्रं कृत्वा तु पीडयेत्।
द्वयं चतुष्कं वा शिष्टं, कुम्भानां स्थापनार्थतः । 185 ।।
इत्युक्तमाद्यं नवधा, द्वितीयं श्रृणु सत्तम!।
चतुरश्रीकृते क्षेत्रे ह्यष्टादशविभाजिते ।। 186 ।।
यद्वा षोडशधा विप्र! पङ्‌क्तिषट्‌कं तु मध्यतः।
संस्थाप्य तद्बहिर्वीथ्यै मार्जयेद्‌द्वितयं द्विज! ।। 187 ।।
एकैकं वापि तद्बाह्ये स्थापयेत्तु चतुष्टयम्।
पूर्ववत्तेषु कलशान् न्यस्य द्रव्याणि निक्षिपेत् ।। 188 ।।
मध्ये कुम्भचतुष्के तु सर्वरत्नजलं ततः।
द्वितये मौक्तिकं प्राच्यामेकस्मिन् वह्निदिग्गते ।। 189 ।।
वज्रं याम्यद्वये विप्र! गोमेदकमनन्तरे।
एकस्मिन्निन्द्रनीलं तु पुष्यरागं ततो द्वये ।। 190 ।।
पश्चिमस्थे तु वायव्ये ह्येकस्मिन् ब्रह्नरागकम्।
चन्द्रकान्तं द्वये सौम्ये ह्येकस्मिन् विद्रुमं परे ।। 191 ।।
द्वितीयावरणे प्राच्यामाज्यं कुम्भद्वये द्विज!।
कुम्भ आग्नेयकोणस्थे ह्येकस्मिग्नौपमानिकम् ।। 192 ।।
क्षीरं द्वये दक्षिणस्थे नैर्ऋत्यां मार्जनं तथा।
दधि द्वये पश्चिमस्थे गन्धो वायव्यकोणगे ।। 193 ।।
सौम्यद्वये माक्षिकं स्यात् कषायं चेशकोणगे।
गन्धोदकेन संपूर्णं कुम्भानां शिष्टमष्टकम् । 194 ।।
एवं मध्यस्थिताः कुम्भाः षट्‌त्रिंशत्संख्यया द्विज!।
चतुर्विंशत्तु कलशाः प्रतिदिक्कं तु तद्बहिः ।। 195 ।।
विदिक्‌स्थितास्तु प्रत्येकं कलशाः षोडश द्विज!।
पूर्वदिक्‌संस्थितानां तु कुम्भानां मध्यमे स्थिते ।। 196 ।।
चतुष्केऽर्घ्य, तथा पाद्यं दक्षिणे पश्चिमे तथा।
आचामं, सौम्यमध्यस्थचतुष्के पञ्चगव्यकम् ।। 197 ।।
वह्निदिक्कलशानां तु चतुष्के मध्यसंस्थिते।
तैलं, गुलोदं निर्ऋतौ, वायुसंस्थे तिलोदकम् ।। 198 ।।
अक्षतं त्वीशदिक्‌संस्थे, ह्यष्टाविशोत्तरं शतम्।
अवशिष्टं तु कुम्भानां पूर्णं गन्धोदकेन तु ।। 199 ।।
अर्घ्यादिसर्वरत्नान्तमुद्धारक्रम इष्यते।
अर्घ्यं पाद्यं तथाचामं पञ्चगव्यं ततः परम् ।। 200 ।।
तैलं गुलोदकं चैब तिलोदं चाक्षतोदकम्।
आज्यं तथा चौपमान्यं क्षीरं मार्जनमेव च ।। 201 ।।
दधि गन्धं माक्षिकानि कषायं मौक्तिकं तथा।
वज्रादिसर्वरत्नान्तमष्टकं क्रमशो द्विज! ।। 202 ।।
शतद्वयेन कुम्भानां चतुर्न्यूनेन संयुतम्।
एतत् स्नपनमाख्यातमुत्तमोत्तमसंज्ञितम् ।। 203 ।।
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते।
कोष्ठकानां भवत्यत्र चतुर्न्यूनं शतद्वयम् ।। 204 ।।
मध्ये पङ्‌क्तिचतुष्कं तु संस्थाप्य परिमार्जयेत्।
एकैकं वीथये बाह्ये स्थापयेच्च चतुष्टयम् ।। 205 ।।
तत्रापि कोष्ठकानां तु कलशस्थापनार्थतः।
संश्थाप्याष्टोत्तरशतं शेषाणि परिमार्जयेत् ।। 206 ।।
पूर्ववत्तेषु कलशान् न्यस्य द्रव्याणि निक्षिपेत्।
विन्यसेद्रत्ननिचयं मध्ये कुम्भचतुष्टयम् ।। 207 ।।
प्राङ्भध्यसूत्राद्दक्षिणतः कलशे मौक्तिकं द्विज!।
एतद्दक्षिणतः संश्थे वज्रगोमेदके क्रमात् ।। 208 ।।
इन्द्रनीलं पुष्यरागं पश्चिमस्थे द्वये तथा।
ब्रह्नरागं चन्द्रकान्तं सोमदिक्‌स्थे द्वये द्विज! ।। 209 ।।
प्राङ्भध्यसूत्रोत्तरतो विद्रुमं कलशे द्विज!।
एवं द्विषट्‌कं कुम्भानां मध्यतः ; तद्दिगष्टके ।। 210 ।।
प्रतिदिक्कलशानां तु द्विषट्‌कं द्विजसत्तम!।
तेषां मध्यस्थिते कुम्भे चतुष्के प्राग्दिगादितः ।। 211 ।।
अर्घ्यं तैलं तथा पाद्यं गुलाम्ब्वाचमनीयकम्।
तिलोदकं पञ्चगव्यमक्षतं त्वीशपश्चिमम् ।। 212 ।।
शेषाः कुम्भाश्चतुष्षष्टिः पूर्णा गन्धोदकेन तु।
अर्घ्यादिसर्वरत्नान्तमुद्धारक्रम इष्यते ।। 213 ।।
एवमष्टोत्तरशतैः कुम्भैरुत्तमध्यमम्।
चतुरश्रीकृते क्षेत्रे त्रयोदशविभाजिते ।। 214 ।।
पङ्‌क्तीनां पञ्चमं मद्ये संस्थाप्य परिमार्जयेत्।
एकैकं वीथये बाह्ये स्थापयेत् त्रितयं पुनः ।। 215 ।।
मध्यमे रत्नकुम्भं तत् प्रागादीशावसानकम्।
मुक्ताफलं तथा वज्रं गोमेदकेन्द्रनीलकौ ।। 216 ।।
पुष्यरागो ब्रह्नरागश्चन्द्रकान्तश्च विद्रुमः।
तद्बहिः प्राकक्रमेणैव धृतं चैवोपमानिकम् ।। 217 ।।
क्षीरं मार्जनतोयं च दधि गन्धं च माक्षिकम्।
कषायमष्टौ शिष्टाश्च गन्धाम्भः परिपूरिताः ।। 218 ।।
एवं मध्यस्थिता विप्र! कलशाः पञ्चविंशतिः।
अष्टकं नवकानां तु तद्बहिस्तु दिगष्टके ।। 219 ।।
तेषां मध्ये क्रमादर्ध्यं तैलं पाद्यं गुलोदकम्।
आचामं तिलतोयं च पञ्चगव्यं तथाक्षतम् ।। 220 ।।
प्रागाशादीशदिङ्‌निष्ठं शिष्टमष्टाष्टकं द्विज!।
पूरितं गन्धतोयेन ह्येवं कुम्भसमन्वितम् ।। 221 ।।
नवत्या सप्ताधिकया तद्भवेदुत्तमाधमम्।
त्रिपञ्चधा कृते क्षेत्रे भागानां तु भवन्ति हि ।। 222 ।।
शतद्वयं तथा पञ्चविंशतिर्मुनिपुङ्गव!।
पङ्‌क्तीनां पञ्चकं मध्ये तद्बहिर्विमृजेद्‌द्वयम् ।। 223 ।।
वीथ्यर्थं तद्बहिर्भूयः स्थापयेत् त्रितयं द्विज!।
तन्मध्ये रत्नकलशं दिक्‌स्थिते तु चतुष्टये ।। 224 ।।
रत्नाष्टकं मौक्तिकादि द्वन्द्वशः पूर्वदिक्क्रमात्।
प्रागादीशानपर्यन्तं तद्बहिः कलशाष्टके ।। 225 ।।
घृतपूर्वकषायान्तद्रव्याणामष्टकं द्विज!।
ऐन्द्रादिनवकानां तु ह्यष्टानां द्विज! मध्यमे ।। 226 ।।
अर्घ्याद्यक्षतपर्यन्तं क्रमादीशानपश्चिमम्।
शेषाः कुम्भास्चतुष्षष्टिर्गन्धोदकसमन्विताः ।। 227 ।।
पञ्चाशीतिघटोपेतमेतत् स्यान्मध्यमोत्तमम्।
मध्यमे रत्नतोयं तु तद्बहिः कलशाष्टकम् ।। 228 ।।
मुक्तादिद्रुव्यसंयुक्तं पूर्ववन्नवकाद्बहिः।
इत्येकाशीतिकलशैर्भवेन्मध्यममध्यमम् ।। 229 ।।
सप्तधा भाजिते क्षेत्रे चत्वारिंशन्नवोत्तरम्।
कोष्ठकानि भवन्त्यत्र कलशान् विन्यसेत्ततः ।। 230 ।।
पूर्ववद्‌द्रव्यसंयुक्ताः कलशाः पञ्चविंशतिः।
चपुर्विंशतिशेषास्तु शुद्धोदकसमन्विताः ।। 231 ।।
एवमेकोनपञ्चाशत्कलशैर्मध्यमाधमम्।
रत्नादिककषायान्ता युक्ताः सप्तोत्तरा दश ।। 232 ।।
अष्टौ गन्धोदसंयुक्ता एतत् स्यादधमोत्तमम्।
शुद्धोदाष्टकहीनं तद्भवेदधममध्यमम् ।। 233 ।।
रत्नादिविद्रमान्तेन द्रव्यसङ्‌घेन संयुतम्।
नवकं कलशानां यत् तद्भवेदधमाधमम् ।। 234 ।।
एवं द्वितीयभेदास्तु कीर्तिताः ; तृतीयं श्रृणु।
क्षेत्रं तु सप्तधा कृत्वा प्राग्वदापाद्य संस्थितम् ।। 235 ।।
उदङ्‌मुखस्थितो बूत्वा प्रणवं बन्धयेत्ततः।
तन्मुद्रां विन्यसेत् कुम्भे जितन्ताख्येन मध्यतः ।। 236 ।।
दैविकेऽष्टाक्षरैः कुम्भान् प्राङ्‌मुखःप्राग्दिगादितः।
मानुषांस्तु द्विषट्‌केन षोडशप्रागुदड्‌मुखः ।। 237 ।।
फट्‌कारैः पैतृकान् विप्र! न्यसेत् प्रत्यगुदङ्‌मुखः।
तन्मुद्रां बन्धयित्वा तु मध्यादुत्तरपश्चिमम् ।। 238 ।।
कुम्भानां पञ्चके विप्र! पाद्यार्घ्याचमनान्यपि।
पञ्चगव्यं घृतं चापि पञ्चोपनिषदैः क्रमात् ।। 239 ।।
विदिक्कुम्भचतुष्के तु वह्न्यादीशानपश्चिमम्।
दधि क्षीरं मधु तथा ह्युष्णाम्भोमूर्तिवाचकैः ।। 240 ।।
चतुर्भिः कलशैर्विप्र! तद्वहिर्दिक्‌चतुष्टये।
कषायं मार्जनाम्भश्च फलाम्भः परिमार्जनम् ।। 241 ।।
आग्नेयादीशपर्यन्तं कलशानां चतुष्टये।
रत्नोदं सर्वलोहाम्भः कुशाम्भः सक्तुवारि च ।। 242 ।।
क्षिपेत् क्रमेण विप्रेन्द्र! वर्णैरष्टाक्षरोदितैः।
शुद्धाम्भसान्तरालस्थं पूरितं कलशाष्टकम् ।। 243 ।।
प्रागग्निमध्यादारभ्य ईशप्राङ्भध्यपश्चिमम्।
प्रणवाख्येन मन्त्रेण केवलेन ततो वहिः ।। 244 ।।
दिक्कुम्भानां चतुष्के तु गन्धाम्भः पुष्पवारि च।
औपमानिकसंज्ञं च तथाचामलकोदकम् ।। 245 ।।
आग्नेयादिक्रमेणैव कलशानां चतुष्टये।
अक्षताम्भस्तिलाम्भश्च यवाम्भस्तण्डुलोदकम् ।। 246 ।।
द्विषट्‌कमन्त्रेण ततो विष्णुगायत्रिया द्विज!।
शेषाः षोडश शुद्धाम्भः परिपूर्णाः क्रभेण तु ।। 247 ।।
एवं संपूरयित्वा तु प्रणम्याञ्जलिमुद्रया।
वासुदेवादियागाद्यं सर्वं कृत्वा तु पूर्ववत् ।। 248 ।।
द्रव्यन्यासक्रमेणैव समुद्धारः प्रकीर्तितः।
मूलमन्त्रेण वै दद्यात् सर्वं यद्वा द्विजोत्तम! ।। 249 ।।
इदं विष्ण्वाख्यतः पाद्यमर्घ्यमापो वहन्त्विति।
आपः पुनन्त्वित्याचामं गायत्र्या पञ्चगव्यकम् ।। 250 ।।
धृतं दद्यात्ततो विप्र! घृतं शुक्रमसीति च।
दधिक्रा इति मन्त्रेण दधि दद्यात्ततः परम् ।। 251 ।।
क्षीरमाप्याययस्वेति पधुवातेति वै मधु।
आदित्यः शुक्रमित्येवमुष्णाम्भो मुनिपुङ्गव! ।। 252 ।।
ततः कषायतोयं तु शदसस्पतिमित्यृचा।
शन्नोदेवीरित्यनेन दद्याद्वै मार्जनं ततः ।। 253 ।।
गणानामिति मन्त्रेण दद्याच्चैव फलोदकम्।
त्वं विष्णुरिति मन्त्रेण दद्यात्तु परिमार्जनम् ।। 254 ।।
अग्न आयाहिवीतये इति रत्नोदकं ततः।
इषेत्वेति च लोहाम्भस्त्वग्निमीके कुशोदकम् ।। 255 ।।
किमित्त इति मन्त्रेण दद्यात् सक्तूदकं ततः।
दद्याच्छुद्धोदकान्यष्टावापो अस्मानिति क्रमात् ।। 256 ।।
अष्टौ गन्धोदकादीनि मानस्तोक्या निवेदयेत्।
शेषान् पुरुषसूक्तेन षोडश प्रत्यृचं क्रमात् ।। 257 ।।
एवमेकोनपञ्चाशत्कलशैरुत्तमोत्तमम्।
बहिःषोडश शुद्धोदैर्हीनमुत्तममध्यमम् ।। 258 ।।
तत्रस्थेः कोणकलशैर्हीनं स्यादुत्तमाधमम्।
अन्तः शुद्धोदकस्थाने स्थितं गन्धोदकाष्टकम् ।। 259 ।।
विहीनं सर्वकलशैर्बहिरावरणस्थितैः।
तदन्तः पञ्चविंशद्भिरन्वितं मध्यमोत्तमम् ।। 260 ।।
मानुषे दिक्‌चतुष्केन हीनं मध्यममध्यमम्।
तत्रस्थैः सर्वकलशैर्हीनं स्यान्मध्यमाधमम् ।। 261 ।।
नवकं कलशानां यत्तद्भवेदधमोत्तमम्।
तृतीयमेवं कथितं चतुर्थं श्रृणु सत्तम! ।। 262 ।।
मध्यस्थितैककुम्भेन तद्भवेदधमाधमम्।
तृतीयमेवं कथितं चतुर्थं श्रृणु सत्तम! ।। 263 ।।
सप्तभक्ते स्थिता भागाश्चत्वारिंशन्नवोत्तरम्।
घृतमुष्णोदकं चैव रत्नवारि फलोदकम् ।। 264 ।।
लोहाम्भो मार्जनाम्भश्च गन्धाम्भोऽक्षतवारि च।
यवोदकमथेशान्तं मध्यादारब्य मध्यमे ।। 265 ।।
पाद्यमर्घ्यं तथाऽऽचामं पञ्चगव्यं तथा दधि।
पयो मधु कषायं च दिग्विदिक्षु च तद्बहिः ।। 266 ।।
गुलोदकं चेक्षुरसं नालिकेररसं तथा।
शान्तिवारि चतुर्दिक्षु पूर्वादिक्रमयोगतः ।। 267 ।।
विदिक्कुम्भचतुष्केषु विन्यसेन्मङ्गलोदकम्।
शेषा भागाश्चतुर्विशच्छून्याः स्युर्द्विजसत्तम! ।। 268 ।।
मन्त्रार्चनं तथोद्धारो यथा चाद्योत्तमोत्तमे।
उत्तमोत्तममेतद्धि स्नपनं परिकीर्तितम् ।। 269 ।।
पञ्चभागीकृते स्थाने कलशाः पञ्चविंशतिः।
मूलमन्त्रेण कलशान् विन्यस्य प्रोक्षयेत्ततः ।। 270 ।।
द्रव्याणि निक्षिपेत्तेन प्राङ्‌मुखः प्रयतो वशी।
ब्राह्नं तु मध्यमं कुम्भं स्नानतोयेन पूरयेत् ।। 271 ।।
ततस्तु मानुषे भागे प्रागाद्ये दिक्‌चतुष्टये।
पाद्यमर्घ्यं तथाऽऽचामं पञ्चगव्यं तथैव च ।। 272 ।।
घृतं दधि तथा क्षीरं मधु चाग्नेयपूर्वकम्।
इन्द्राग्निमध्यादारब्य तदीशान्तरपश्चिमम् ।। 273 ।।
उष्णोदकं कषायं च मार्जनं च फलोदकम्।
तिलाम्बु रत्नतोयं च लोहतोयं कुशोदकम् ।। 274 ।।
ततस्तु दैविके भागे पूर्ववद्दिक्चतुष्टये।
गन्धोदकं च पुष्पाम्भ औपमान्यामलोदके ।। 275 ।।
आग्नेयादीशपर्यन्तमक्षताम्भस्तथैव च।
नालिकेररसं चेक्षुरसं वै तण्डुलोदकम् ।। 276 ।।
एवं च पञ्चविंशद्भिः कुम्भैरुत्तममध्यमम्।
पाद्यं च मध्यमे भागे प्रागादीशानपश्चिमम् ।। 277 ।।
अर्घ्यमाचमनं चापि पञ्चगव्यं घृत दधि।
क्षीरं मधूष्णतोयं च अन्तरालेषु वै क्रमात् ।। 278 ।।
कषायं मार्जनाम्भश्च फलाम्भः परिमार्जनम्।
रत्नाम्भो लोहतोयं च कुशाम्भश्चोष्णतोयकम् ।। 279 ।।
ततस्तु दैविके भागे प्रागादीशानपश्चिमम्।
गन्धाम्भः पुष्वतोयं च औपमान्यामलाम्बुनी ।। 280 ।।
अक्षताम्भस्तिलोदं च यवोदं तण्डुलोदकम्।
विहितश्च समुद्धारः पाद्यात्तण्डुलपश्चिमाः ।। 281।।
एवं तु पञ्चविंशद्भिः स्नपनं चोत्तमाधमम्।
सप्तभक्ते स्थले प्राग्वद्धृताच्छान्त्यम्बु पश्चिमम् ।। 282 ।।
कलशैरेकविंशद्भिः स्नपनं मध्यमोत्तमम्।
त्रिधा विभक्ते कोष्ठानां नवकं तत्र सत्तम! ।। 283 ।।
मध्यादीशानपर्यन्तं धृतं दधि पयो मधु।
तथोद्वर्तनचूर्णं च ततः कोणचतुष्टये ।। 284 ।।
उष्णोदकं च गन्धाम्भः पुष्पाम्भो मङ्गलोदकम्।
द्रव्यन्यासक्रमेणैव समुद्धारः प्रकीर्तितः ।। 285 ।।
एवं तु नवभिः कुम्भैर्भवेन्मध्यममध्यमम्।
घृतं पयो दधि मधु गन्धहेमाम्बुनी तथा ।। 286 ।।
रत्नाम्भश्चोषधीवारि शालिचूर्णानि च क्रमात्।
मध्यमादीशदिङ्‌निष्ठमेतत् स्यान्मध्यमाधमम्।। 287 ।।
मध्यमे दिक्‌चतुष्के तु पञ्चगन्यैस्तु पञ्चकम्।
आग्नेयादीशपर्यन्तं कलशानां चतुष्टयम् ।। 288 ।।
शुद्धाम्भसा तु संपूर्णमेतत् स्यादधमोत्तमम्।
मध्ये रत्नजलं दिक्षु कुम्भानां तु चतुष्टयम् ।। 289 ।।
मुक्तादिरत्नसंयुक्तं द्वन्द्वयोगेन सत्तम!।
एवं तु पञ्चभिः कुम्भैर्भवेदधममध्यम् ।। 290 ।।
सर्वरत्रजलं मध्ये दिग्द्वये पूर्वपश्चिमे।
द्वौ कुम्भौ तत्र पूर्वस्मिन् मौक्तिकादिचतुष्टयम् ।। 291 ।।
चतुष्कं पुष्परागादि ह्यन्यस्मिन् द्विजसत्तम!।
एवं कुम्भत्रयेणैव स्नपनं त्वधमाधमम् ।। 292 ।।
एवं ह्यपरभेदास्तु षट्‌त्रिंशत् संप्रकाशिताः।
कुम्भाधिवासपूर्वं तु सर्वं पूर्ववदाचरेत् ।। 293 ।।
आज्यस्य दैवतं देवो वासुदेवः परः स्मृतः।
उष्णाम्भसः सङ्कर्षणः प्रद्युम्नो रत्नबारिणः ।। 294 ।।
फलाम्भसोऽनिरुद्धस्तु भगवान् दैवतं द्विज!।
नारायणस्तु मन्त्रात्मा लोहतोयस्य दैवतम् ।। 295 ।।
मार्जनस्य हयग्रीवो विष्णुः स्याद्गन्धवारिणः।
नृसिंहोऽक्षततोयस्य वराहो यववारिणः ।। 296 ।।
पाद्यस्य केशवो देवोऽर्घ्यस्य नारायणः स्मृतः।
देव आचमनीयस्य माधवस्त्वधिदेवता ।। 297 ।।
गोविन्दः पञ्चगव्यस्य विष्णुस्तु दधिदैवतम्।
मधुसूदनसंज्ञस्तु पयसो देवता स्मृता ।। 298 ।।
त्रिविक्रमाख्यो मधुनः कषायस्य च वामनः।
भगवान् श्रीधराख्यस्तु गुलतोयस्य देवता ।। 299 ।।
देवदेवो हृषीकेश इक्षुसारस्य दैवतम्।
दामोदरोऽधिदैवं तु नालिकेराम्भसो द्विज! ।। 300 ।।
पझनाभस्तु भगवान् शान्तितोयस्य देवता।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।। 301 ।।
आग्नेयादीशपर्यन्तं देवता मङ्गलाम्भसः।
परिमार्जनसंज्ञे तु शङ्खः स्यादधितैवतम् ।। 302 ।।
कुशोदकस्य पझं स्याद्गदा स्यात् सक्तुनो द्विज!।
वनमाला पुष्पतोये चक्रं स्यादौपमानिके ।। 303 ।।
किरीटमधिदैवं तु भवेदामलकाम्भसः।
कौस्तुभस्तिलतोयस्य श्रीवत्सस्तण्डुलाम्भसः । 304 ।।
एकाशीतिस्थितानां तु शुद्धोदानां तु देवता।
कान्त्याद्युन्नतिपर्यन्तमष्टकं प्रतिदिक्‌क्रमात् ।। 305 ।।
बहिरेकोनपञ्चाशच्छुद्धतोयेषु च क्रमात्।
स्वधादिगायत्र्यन्तास्तु शक्तयो ह्यधिदेवताः ।। 306 ।।
अष्टावष्टौ तु पूर्वादिदिक्ष्वगन्यादिविदिक्षु च।
अन्येषां स्नपनानां तु सर्वेषां द्विजसत्तम! ।। 307 ।।
मर्यादा चैव हृष्टिश्च शुद्धोदेष्वधिदेवता।
कलशानां तु गरुडः, शेषः सूत्रस्य दैवतम् ।। 308 ।।
कूर्चानां तु परं ब्रह्न, चक्रिकानां तु चक्रराट्।
वाससां वासुदेवस्तु, सर्वेषां च स एव वा ।। 309 ।।
मार्जनं प्रोक्षणं चैव शकृता चानुलेपनम्।
सूत्रपातमलङ्कारं पिष्टचूर्णैः समन्ततः ।। 310 ।।
द्वादशाक्षरमन्त्रेण कारयेत् पञ्च मन्त्रवित्।
पञ्चोपनिषदा मन्त्री कलशानधिवासयेत् ।। 311 ।।
विष्णुगायत्रिया तत्र कोष्ठेषु कलशान् न्यसेत्।
तत्र द्रव्याधिदेवानां वाचकैः पूरयेत् क्रमात् ।। 312 ।।
कूर्चांस्तु प्रक्षिपेत्तेषु द्विषट्‌कब्रह्नविद्यया।
तत्तद्‌द्रव्याधिदेवांस्तु तत्तद्‌द्रव्येषु पूजयेत् ।। 313 ।।
चक्रिकाः स्थापयेत् पश्चाच्चक्रमन्त्रेण साधकः।
वासोभिश्छादयेत् पश्चाद्‌द्विषट्‌कार्णेन मन्त्रवित् ।। 314 ।।
वस्त्रापनयनं, कुर्यान्मूलमन्त्रेण मन्त्रवित्।
प्रणवेन तु सूत्राणि च्छित्त्वा तेनाभिवन्द्य च ।। 315 ।।
उद्ध्त्य, विष्णुगायत्र्या दद्याद्धस्ते गुरोस्तथा।
यस्मिन् यस्मिन्न मन्त्रोऽत्र विहितः कर्मणि द्विज! ।। 316 ।।
द्वादशाक्षरमन्त्रण तत्तत्‌ कुर्याद्विचक्षणः।
अथवा सर्वकर्माणि द्वादशाक्षरविद्यया ।। 317 ।।
पूर्वोक्तः परभेदानां स्नपनानां महामते!।
अर्घ्यादिद्रव्यनिचयः, इतरेषां तु कथ्यते ।। 318 ।।
विष्णुपर्णी च दूर्वा च पझं श्यामाकमेव च।
एतानि पाद्यस्याङ्गानि चत्वारि द्विजपुङ्गव! ।। 319 ।।
गन्धपुष्पेऽक्षतफले यवसिद्धार्थकं तिलम्।
कुशाग्रमर्घ्यस्याङ्गानि ह्येतान्यष्टौ भवन्ति हि ।। 320 ।।
लवङ्गजातितक्कोलमङ्गमाचमनीयके।
शकृद्रसं च गोमूत्रं क्षीरं दधि घृतं तथा ।। 321 ।।
अङ्गानि पञ्चगव्यस्य पञ्चैतानि च सर्वतः।
शम्योदुम्बरबिल्वानां पलाशवटयोस्तथा ।। 322 ।।
खदिराश्वत्थयोश्चापि विकङ्कततरोस्तथा।
त्वक्‌सारं तु कषायं स्यात् सर्वपापापनोदनम् ।। 323 ।।
कुष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकाः।
वचाकच्चोरमुस्ताश्च `सर्वौषध्यः' प्रकीर्तिताः ।। 324 ।।
पलाशबिल्ववकुलकदम्बाम्रशिरीषजाः।
न्यग्रोधाश्वत्थजाश्चापि पल्लवाः `पत्रवारिणः' ।। 325 ।।
केतकीमल्लिका जातिनन्द्यावर्तोत्पलोद्भवाः।
पझचम्पककुन्दोत्थाः कुसुमाः `पुष्पवारिणः' ।। 326 ।।
कदलीविल्वचूताश्च पनसं मातुलङ्गकम्।
नालिकेरं चामलकं बीजपूरं `फलाम्भसः' ।। 327 ।।
अङ्गान्येतानि विप्राष्टौ फलानि कथितानि वै।
यवगोधूमकत्रीहिशालिमुद्गप्रियङ्‌गुकाः ।। 328 ।।
माषनीवारकौ चाङ्गं कथितं `बीजवारिणः'।
बाह्‌लीकं चन्दनं चैव कर्पूरमगरुं तथा ।। 329 ।।
गन्धाङ्गानि च चत्वारि, त्वथवा मुनिपुङ्गव!।
चन्दनं कुङ्‌कुमं मांसी हरिबेरं मुतं तथा ।। 330 ।।
उशीरं कुष्ठमगरु `गन्धाम्भो' ऽङ्गं तु चाष्टकम्।
सूर्यकान्तं पझरागमिन्द्रकान्तं तथैव च ।। 331 ।।
वैडूर्यं चाप्ययस्कान्तमिन्द्रनीलप्रवालकौ।
गरुडं पुष्यरागं च स्फटिकब्रह्नरागकौ ।। 332 ।।
वज्रं मौक्तिकमङ्गानि `रत्नोदस्य', अथवा द्विज!।
मणिमुक्ताफलं वज्रं प्रवालं पुष्यकं तथा ।। 333 ।।
रत्नोदकाङ्गान्येतानि पञ्च वै कथितानि ते।
अपरस्नपनानां तु द्वितीयं नवकं विना ।। 334 ।।
तत्र मुक्ताफलं वज्रं गोमेदकेन्द्रनीलकौ।
पुष्यरागं ब्रह्नरागं चन्द्रकान्तं च विद्रुमम् ।। 335 ।।
रत्नाम्भसोऽष्टावङ्गानि ह्यमूनि घदितानि वै।
सहदेवी शिरीषं च रजनी सूर्यवर्तिनी ।। 336 ।।
सदाभद्रा कुशाग्राणि मार्जनाङ्गानि षड्‌ द्विज!।
रुक्‌मं रूप्यं च ताम्रं चाप्ययस्त्रपुकमेव च ।। 337 ।।
अह्गानि कथितान्येव पञ्च वै `लोहवारिणः'।
तिलसिद्धार्थनीवारयववेणुयवानि च ।। 338 ।।
तुलसीपत्रयुक्तानि `शान्तम्भो' ऽङ्गानि चैव षट्।
इन्द्रवल्ल्यङ्कुरं पझमश्वत्थाङ्‌कुरमेव च ।। 339 ।।
एकपझं च चत्वार्यङ्गानि `मङ्गलवारिणः'।
नद्यां तटाके वल्मीके पर्वते चैव मृत्तिका ।। 340 ।।
`परिमार्जनवस्तूनि' कथितानि द्विजोत्तम!।
शङ्खं चक्रं च कूर्मं च वैनतेयं तथैव च ।। 341 ।।
कुर्यात् प्रतिकृतिं लोहैरौपमानिकमुच्यते।
शुद्धोदकलशाः सर्वे चन्दनैकाङ्गसंयुताः ।। 342 ।।
अथवानन्तकलशं नाम्ना सकलपूरकम्।
यदेतस्य विधानं त्व क्रमेण श्रृणु विस्तृतम् ।। 343 ।।
पूर्ववन्मण्डपं कुर्याच्चत्वारिंशत्करायतम्।
द्वात्रिंशत्करविस्तारं चतुर्द्वारादिसंयुतम् ।। 344 ।।
ध्वजाद्यैरप्यलंकारैः पूर्ववत् सुविभूषितम्।
आपाद्या वा प्रपामात्रं यथाभिमतदेशगम् ।। 345 ।।
यागार्थमण्डपं प्राग्वत् कल्पयेत् तत्समीपतः।
उक्ते दिनेऽङ्‌कुरारोपं कृत्वा कर्मदिनात् पुरा ।। 346 ।।
तदर्थान् सर्वसंभारान् संभृत्य सुसमाहितः।
देशिकेन्द्रस्तु पूर्वेद्युः सुस्नातश्च कृताह्निकः ।। 347 ।।
भूषणैर्विविधैर्वस्त्रैर्नूतनैश्च विभूषितः।
सितोष्णीषोत्तरीयश्च चित्रैर्माल्यैरलंकृतः ।। 348 ।।
चतुर्भिरष्टभिर्वा(चा!) र्यैस्तादृशैरपि साधकैः।
तत्संख्यैः शास्त्रकुशलैः कञ्चुकादिविभूषितैः ।। 349 ।।
अन्यैश्च सुसितैर्वस्त्रैः स्थगितानननासिकैः।
तत्तत्प्रयोगकुशलैरनेकैः परिचारकैः ।। 350 ।।
प्राप्तेऽपराङ्णसमये कृत्वा द्वार्स्थार्चनं विशेत्।
यागार्थमण्डपं तत्र देवं कुम्भादिके यजेत् ।। 351 ।।
तत्रैव वा यजेद्बिम्बं बह्नौ सन्तर्प्य पूर्ववत्।
ततोऽनुज्ञां समादाय क्रमेण मुनिपुङ्गव! ।। 352 ।।
अनुकल्पविधाने तु प्रासादं संप्रविश्य च।
मूलबिम्बं तु संपूज्य अर्घ्यालभनमाल्यकैः ।। 353 ।।
धूपेन च ततोऽनुज्ञां समादायारभेत् ततः।
द्वार्स्थाभ्यर्चनपूर्वं तु विशेत् स्नपनमण्डपम् ।। 354 ।।
प्रोक्षयेत् पञ्चगव्येन द्विषट्‌कार्णेन सर्वतः।
नानाविधानि पुष्पाणि विकिरेत् सर्वदिक् तथा ।। 355 ।।
सिद्धार्थकांश्च बीजानि ततो मण्डपमध्यतः।
सार्धद्वाविंशतिकरं भजेत् क्षेत्रं तु पञ्चधा ।। 356 ।।
एकैकं नवधा भूयश्चचत्वारिंशच्च पञ्च च।
पङ्‌क्तयश्चापि कोष्ठानां पञ्चविंशोत्तरं भवेत् ।। 357 ।।
द्विसहस्रं, ततो मध्ये कलशस्थापनार्थतः।
एकाशीति च कोष्ठानि संस्थाप्य परिमार्जयेत् ।। 358 ।।
परितोवीथये पङ्‌क्तिद्वितयं, तद्बहिः पुनः।
पूर्वादिदिक्‌चतुष्के तु एकाशीतिपदानि च ।। 359 ।।
कल्पयेत् पार्श्वतो वीथ्यै पुनः पङ्‌क्तिद्वयं भवेत्।
चतुर्षु कोणेष्वेकोनपञ्चाशत्कोष्ठकानि तु ।। 360 ।।
कल्पयेत्तत्र चाप्येकाशीतिमध्यानुसारतः।
मध्यतो नवकं स्थाप्य पङ्‌क्त्यैकां लोपयेत् परि ।। 361 ।।
बहिः पङ्‌क्तिद्वये दिक्षु षट्‌कं षट्‌कं विदिक्षु च।
चतुश्चतुश्च संस्थाप्य शेषाणि परिमार्जयेत् ।। 362 ।।
तद्बहिः परितो वीथ्यै लुम्पेत् पङ्‌क्तिद्वयं ततः।
कोणानि कल्पयेद्यत्नात् पदषोडशकानि तु ।। 363 ।।
तत्पार्श्वे लोपयेत् पङ्‌क्तिमेकैकां दिक्‌चतुष्टये।
पङ्‌क्तिद्वयेन द्वाराणामन्तर्भागास्त्रयो बहिः ।। 364 ।।
पञ्चपार्श्वे तु शोभार्थं चतुरतर्बहिर्द्वयम्।
तदन्तः पङ्‌क्तित्रितये त्नयस्त्रिंशत्पदानि तु ।। 365 ।।
वींथ्या सहैकतां नीत्वा ह्येकैकं स्थापयेद्बहिः।
द्वाराणामपि कोणानां मध्ये षोडशसंख्यया ।। 366 ।।
पच्चविंशतिकोष्ठानि स्थापयित्वा तु पार्श्वतः।
अन्ययोन्यं लोपयेत् पङ्‌क्तिमेकैकां तु महामुने! ।। 367 ।।
एवमापाद्य कुम्भानां पदानि स्थापनार्थतः।
ततः सुगन्धरजसा सितेन सुसमा द्विज! ।। 368 ।।
अङ्गुष्ठविस्तरोत्सेधा ऋज्वी रेखास्तु कल्पयेत्।
विकीर्य कोष्ठेषु रजः पश्चाद्‌द्वाराणि पूरयेत् ।। 369 ।।
तेनैव शोभां पीतेन विचित्रैः कुसुमान्वितैः।
लताबृन्दैर्मुनिश्रेष्ठ! वीथीः सर्वत्र भूषयेत् ।। 370 ।।
ततः संगृह्य कलशान् पूर्वलक्षणलक्षितान्।
अष्टोत्तरशतं कृत्वा मूलमन्त्रेण वै घृतम् ।। 371 ।।
गायत्र्या वा ततो द्वारा चतुष्के पूर्वदिक्क्रमात्।
द्वौ द्वौ संस्थाप्य कलशौ कुमुदादीन् प्रपूज्य च ।। 372 ।।
पुष्पैरभ्यर्च्य कोष्ठानि विचित्रैर्मन्त्नमन्त्नितैः।
सर्वधान्यैः प्रयत्नेन कल्पयित्वा तु पीठिकाः ।। 373 ।।
तासु द्वौ द्वौ कुशाग्रौ च निक्षिपेन्मूलमन्त्रतः।
सूत्रेण वेष्ठितान् कृत्वा कलशान् पूर्ववद्‌द्विज! ।। 374 ।।
गायत्र्या क्षालयित्वा तान्, कोष्ठेषु न्यस्य `तारतः'।
अधोमुखान् न्यसेत् पृष्ठे परमेष्ठ्यात्मना कुशान् ।। 375 ।।
ततः संप्रोक्षयेत् `पुंसा' पञ्चगव्येन तान् कुशैः।
`विश्वेन' विकिरेत् सर्वानक्षतांश्च तदूर्ध्वतः ।। 376 ।।
उत्तानये `न्निवृत्या' तान् क्रमाद्यत्नेन वै ततः।
गालितेन तु तोयेन सुगन्धैश्चन्दनादिकैः ।। 377 ।।
वासितेन तु तान्‌ विप्र! सर्वेणापूरयेत् क्रमात्।
मध्यैकाशीतिमघ्यस्थनवके मध्यकुम्भके ।। 378 ।।
सूर्यकान्तं पझरागं वैडूर्यं चन्द्रकान्तकम्।
अयस्कान्तमिन्द्रनीलं प्रवालं गारुडं तथा ।। 379 ।।
पुष्यरागं स्फाटिकं च ब्रह्नरागं च मेचकम्।
वज्रं च रजतं चैव मौक्तिकं ताम्रमेव च ।। 380 ।।
सर्वाण्येतानि निक्षिप्य तद्बहिर्नवकाष्टके।
पूर्वादीशानपर्यन्तं मध्यकुम्भेषु वै क्रमात् ।। 381 ।।
द्रव्याणि षोडशैतानि द्वन्द्वयोगेन विन्यसेत्।
द्विसप्तति च (क) संख्येषु न्यसेच्छेषेषु मौक्तिकम् ।। 382 ।।
पूर्वैकाशीतिमध्यस्थनवके मध्यगोचरे।
कदलीपनसाम्राणां क्षीरिकाबदराख्ययोः ।। 383 ।।
मातुलङ्गकेसरयोः ह (भ) व्यजम्बीरयोरपि।
फलानि निक्षिपेत् पश्चात्तद्बहिर्नवकाष्टके ।। 384 ।।
प्रागादीशानपर्यन्तं मातुलङ्गं च दाडिमम्।
नारङ्गं चापि जम्बीरं तक्कोलं बदरीं तथा ।। 386 ।।
क्षुद्रपूर्वं च पनसं कदलीमोचके तथा।
क्रमाद्‌द्वन्द्वप्रयोगेण मद्यकुम्मेषु विन्यसेत् ।। 387 ।।
नवकाष्टककुम्मेषु बदराणि विनिक्षिपेत्।
उशीर कुङ्‌कुमं चैव मांसी मलयजं तथा ।। 388 ।।
मुरं च हरिबेरं च कुष्ठं चागरुमेव च।
एकाशीतिपदे याम्ये विश्वान्येतानि निक्षिपेत् ।। 389 ।।
मध्ये मध्यस्थकलशे पूर्वादिक्रमयोगतः।
शेषेषु मध्यकुम्भेषु न्यसेदेकैकजं फलम् ।। 390 ।।
विनिक्षिपेन्मलयजमेतेषामष्टकेषु च।
समुद्रवापीकूपानां तटाकानां ह्रदस्य च ।। 391 ।।
वृष्टीनदीहिमानां च तोयानि प्रतिपादयेत्।
वारुणे मध्यमे कुम्भे एकैकं शेषमध्यमे ।। 392 ।।
शेषेषु चाष्टवर्ग्येषु शुद्धोदानि विनिक्षिपेत्।
यवगोधूमकब्रीहिशालिमुद्गप्रियङ्‌गुकान् ।। 393 ।।
माषनीवारकौ वापि नवके मध्यमे घटे।
शेषेषु धान्यमेकैकं मद्यकुम्भेषु च क्रमात् ।। 394 ।।
अष्टकेषु च सिद्धानि तोयानि प्रतिपादयेत्।
आग्नेयैकोनपञ्चाशन्नवके पूरयेद्‌घृतम् ।। 395 ।।
षट्‌केष्वैन्द्रादियोगेन गोमूत्रं गोमयं तथा।
क्षीरं दधि विनिक्षिप्य कोणेषूष्णोदकं न्यसेत् ।। 396 ।।
नैर्ऋते मध्यनवके तैलं विन्यस्य तद्बषिः।
शेषेषु चत्वारिंशत्सु कलशेषु गुलोदकम् ।। 397 ।।
वायव्यनवके मध्ये न्यसेत् तैलं तु सार्षपम्।
कलशेषु च शेषेषु विन्यसेदैक्षवं रसम् ।। 398 ।।
ईशानैकोनपञ्चाशन्नवके मधु विन्यसेत्।
शेषेषु नालिकेराम्भः तत्क्षीरं वापि विन्यसेत् ।। 399 ।।
ऐन्द्रादिपञ्चविंशत्सु प्रथमे मध्यमे घटे।
क्षेत्रतीर्थाब्धिशैलेभ्यः सूकराख्यबिलाद्गजात् ।। 400 ।।
वल्मीकाद्वृषशृङ्गाच्च मृदमादाय पूरयेत्।
शेषेष्वष्टसु चैकैकं, षोडसे गन्धवारि च ।। 401 ।।
सहदेवी वचा चैव शतमूली शतावरी।
कुमारी च गलूची च सिंही व्याग्री तथैव च ।। 402 ।।
द्वितीये मध्यमे कुम्भे विन्यस्य, बहिरष्टके।
एकैकं प्राक्‌क्रमेणैव, षोडशे पूर्ववद्भवेत् ।। 403 ।।
न्यग्रोधोदुम्बराश्वत्थजम्बूबिल्वपलाशजैः।
शिरीषमधुकोत्थैश्च त्वग्रसैर्मध्यमं घटम् ।। 404 ।।
तृतीये पूरयित्वाष्टौ व्यस्तैः षोडशपूर्ववत्।
पलाशबिल्ववकुलकदम्बाम्रशिरीषजान् ।। 405 ।।
न्यग्रोधाश्वत्थजान् क्षिप्त्वा चतुर्थे पल्लवान् घटे।
मध्यमेऽष्टासु च व्यस्तान् प्राग्वत् षोडश विन्यसेत् ।। 406 ।।
मल्लिकाजातिवकुलनन्द्यावर्तप्रियङ्‌गुजैः।
पझचम्पककुन्दैश्च पुष्पैरापूर्य मध्यमम् ।। 407 ।।
कलशं पञ्चमव्यस्तैरष्टौ शेषांस्तु पूर्ववत्।
सिद्धार्थं सर्षपं माषं रोचनां गोसमुद्भवाम् ।। 408 ।।
इन्द्रयवं वेणुयवं शमीश्यामाकबीजके।
षष्ठे मध्यस्थिते कुम्भे न्यसेदष्टासु च क्रमात् ।। 409 ।।
व्यस्तानि तानि द्रव्याणि प्राग्वत् शेषांस्तु षोडश।
तिलं वनतिलं चैव जीरकं कृष्णजीरकम् ।। 410 ।।
अतसीं शतपुष्पां च कुठारच्छिन्नमेव च।
ऋषिबीजं च विन्यस्य मध्यकुम्भे तु सप्तमे ।। 411 ।।
एकैकं बहिरष्टासु प्राग्वत् षोडशसु द्विज!।
षष्टिश्यामाकशालीनां नीवारस्य च तण्डुलम् ।। 412 ।।
दूर्वाकुशेन्द्रवल्लीनामङ्‌कुरान् पिप्पलस्य च।
न्यसेन्मध्येष्टमेऽष्टासु व्यस्तानन्येषु पूर्ववत् ।। 413 ।।
कुशोदीच्येक्षुकाशानामुशीरशरपुङ्खयोः।
अगर्वपामा र्गयोश्च मूलानि नवमे न्यसेत् ।। 414 ।।
कुम्भे मध्यस्थितेः ऽष्टासु व्यस्तानन्येषु पूर्ववत्।
तुलस्याः कृष्णतुलस्याश्च ग्रन्थिवेणोरपिच्छदाः ।। 415 ।।
भृङ्गराजस्य बिल्वस्य शम्याः केतकि, जातयोः।
दशमे मध्यमेऽष्टासु व्यस्तान् शेषेषु पूर्ववत् ।। 416 ।।
मुस्तानगरमुस्ताख्यकन्दे कुवलयस्य च।
कुमुदोत्पलयोश्चापि शीतलीयककन्दकम् ।। 417 ।।
कल्हारस्य कशेरोश्च कन्दे एकादशे क्षिपेत्।
मध्ये कुम्मेषु चैतानि क्रमादन्येषु पूर्ववत् ।। 418 ।।
मुद्गमाषकनिष्पावशिम्बव्रीहियवाङ्‌कुरान्।
आढकानां कुलुत्थानामङ्‌कुरान् द्वादशे क्षिपेत् ।। 419 ।।
मध्यकुम्भेऽष्टके व्यस्तान् प्राग्वत् षोडशसु द्विज!।
शङ्खापुष्पी सदाभद्रा विष्णुक्रान्त्येकफझयोः ।। 420 ।।
बलायाः खरमञ्जर्याः सहायाश्च तथैव च।
अङ्‌कुरान् सहदेव्याश्च यध्ये कुम्भे त्रयोदशे ।। 421 ।।
विन्यस्याष्टासु च व्यस्तानन्येषु प्राग्वदाचरेत्।
श्वेतार्कं ब्रह्नदण्डीं च तथा ब्रह्नसुवर्चलाम् ।। 422 ।।
सरक्तां च विरक्तां च पृश्निपर्णीं स्थिरां तथा।
परण्डं चापि विन्यस्य मध्ये कुम्भे चतुर्दशे ।। 423 ।।
अष्टासु तानि व्यस्तानि प्राग्वदन्येषु विन्यसेत्।
सुरभीं पझकिञ्जल्कं नागकेसरमेव च ।। 424 ।।
पत्रमेलात्वचं चैव लतां कस्तूरिकां तथा।
जातीफलं च वै पञ्च दशमै मध्यसंस्थिते ।। 425 ।।
कुम्भे न्यस्याष्टके व्यस्तं शेषं पूर्ववदाचरेत्।
सुवर्णं रजतं ताभ्रमायसं त्रपु सीसकम् ।। 426 ।।
आरं कांस्यं च विन्यस्य षोडशे मध्यसंस्थिते।
कलशेऽष्टासु च व्यस्तं प्राग्वत् षोडशसु द्विज! ।। 427 ।।
एवं द्रव्याणि विन्यस्य क्रमेण सुसमाहितः।
तत आग्नेयकोणे तु देवस्याराधनार्थतः ।। 428 ।।
अर्घ्यादेर्द्रव्यनिचयं मधुपर्कं च विन्यसेत्।
ततो निर्ऋतिकोणे तु सरिद्राशालिपिष्टके ।। 429 ।।
दूर्वामश्वत्थपत्रं च सिद्धार्थं च तथाक्षतम्।
माल्यानि पूर्वकुम्भं च न्यसेन्नीराजनार्थतः ।। 430 ।।
तथाचोद्वर्तनार्थं च चूर्णं गोधूमशालिजम्।
रजनीचूर्णसंमिश्रमीषत् पझकभावितम् ।। 431 ।।
चमषीं च खलिं चैव तथा च मुनिपुङ्गव!।
चन्दनं मुखलेपार्थं घृष्टकर्पूरभावितम् ।। 432 ।।
चम्पकैर्मुरमांसीभ्यां हरिबेरैः समन्वितम्।
पिष्टमामलकं चैव शिरः स्नानार्थकं न्यसेत् ।। 433 ।।
पृथक्‌ पृथक्‌ च पात्रेषु ततो वायव्यकोणके।
धौतवस्त्रं करण्डं च पुष्पमाल्यादिभाजनम् ।। 434 ।।
तत ईशानकोणे तु शलाकान्यायसानि तु।
आयसा गुलिकाश्चैव तथा सन्दंशनं द्विज! ।। 435 ।।
अन्यद्यदुपयोगि स्यात् स्थापयेत् तद्यथारुचि।
एतदुक्तं समस्तं वा यथाभिमतकोणगम् ।। 436 ।।
मध्यैकाशीतिमध्यस्थनवके मध्यसंस्थिते।
कुम्भे यजेद्वासुदेवं ततः प्रागादियोगतः ।। 437 ।।
दिक्‌स्थानां नवकानां तु मध्येषु प्रभवक्रमात्।
चतुरो वासुदेवादीन् विदिक्‌स्थानां तु मध्यतः ।। 438 ।।
ईशादिवह्निपर्यन्तं तानेवाप्यययोगतः।
मध्यं शुद्धद्ककुम्मेषु सत्यं सर्वेषु पूजयेत् ।। 439 ।।
बहिर्दिङ्‌नवकानां तु शुद्धोदेषु च दिक्‌क्रमात्।
सुपर्णं गरुडं चैव तार्क्ष्यं तु विहगेश्वरम् ।। 440 ।।
वह्न्यादीशानपर्यन्तं नवकानां चतुष्टये।
शुद्धोदेषु च तानेव क्रमेण परिपूजयेत् ।। 441 ।।
एकाशीतिषु दिक्‌स्थेषु पूर्वादिक्रमयोगतः।
मध्यकुम्भेषु षट्‌त्रिंसशत्संख्यातेषु यथाक्रमम् ।। 442 ।।
पझनाभादयो विप्र! देवा वेदविदन्तिमाः।
पूज्या नवकयुक्त्या तु मध्यादिशानपश्चिमम् ।। 443 ।।
मध्ये शुद्धोदकुम्भेषु यजेत् कल्किकस्वरूपिणम्।
वहिर्नवकशुद्धोदकलशेषु यजेत् प्रभुम् ।। 444 ।।
पातालशयनाख्यं तु, पश्चादग्निदिगादितः।
चतुर्षु कोणेष्वेकोनपञ्चाशन्नवकेषु च ।। 445 ।।
मध्येषु केशवादीनां क्रमात् त्रिकचतुष्टये।
आद्यान्, दिक्‌स्थेषु कुम्भेषु द्विदीयांस्तु चतुर्ष्वपि ।। 446 ।।
विदिक्‌स्थेषु तृतीयांश्च षट्‌कं षोडशके क्रमात्।
चक्रादिवज्रपर्यन्तमस्त्रषोडशकं यजेत् ।। 447 ।।
कोणस्थेषु चतुष्केषु न्यसेच्छक्तिं ततःपरम्।
ऐन्द्री दक्षिणतः पञ्चविंशतौ प्रथमे यजेत् ।। 448 ।।
सर्वसम्पत्प्रदां लक्ष्मीं मध्यकुम्भेषु तद्बहि।
अष्टास पुष्टि तद्बाह्य कान्ति षोडशके द्विज! ।। 449 ।।
एमाद्येषु चान्येषु पञ्चविंशतिषु क्राम।
प्रभादीना च शक्तीनां त्रिय् त्रिययं यजेत् ।। 450 ।।
तत्रापि पञ्चदशमे बहिः षोडशके न्यसेत्।
किरीट, मन्ति मे पञ्चविंशतौ त्रितयं यजेत् ।। 451 ।।
श्रीवत्सकौस्तुभं चापि वनमालां तथैव च।
वासुदेवादिमन्त्रैस्तु वनमालान्तिमैः क्रमात् ।। 452 ।।
अष्टाविंशतिसंख्यं तु हुत्वाज्यं तु (वा) यथारुचि।
पूर्णान् दत्वा ततः कुम्भान् संपातविधिना स्तृशेत् ।। 453 ।।
पिधाय चक्रिकाभिस्तु सर्वानुक्तक्रमेण तु।
वासोभिश्छादयेत् पश्चान्नूतनैस्तु पऋथक् पृथक् ।। 454 ।।
भूयः पूर्णाहुतिं दत्वा दिक्षु भूतबलिं हरेत्।
मृदादिसर्वरत्नान्तमुद्धारक्रम इष्यते ।। 455 ।।
पूर्वं विष्णोर्नुकमिति मन्त्रेण च महामते!।
पूर्वादीशानपर्यन्तं मृत्कुम्भैरभिषिच्य च ।। 456 ।।
सर्वमृत्कलशेनैव मध्यस्थेन ततो बहिः।
कुम्भैः षोडशभिर्विप्र! प्रागादिक्रमयोगतः ।। 457 ।।
एवमेव क्रमः सर्वपञ्चविंशतिषु द्विज!।
"प्रतद्विष्णुरि" त्यनेन मूलाद्भिरभिषेचयेत् ।। 458 ।।
"प्रतत्ते विष्णुवास" इति कषायैरन्विताम्बुभिः।
यस्य "त्रिपूर्णे" त्येतेन कलशैः पल्लवान्वितैः ।। 459 ।।
"तदस्ये" ति च मन्त्रेण पुष्पैरापूरितैर्घटैः।
"तावा"मिति च मन्त्रेण सिद्धार्थादिसमन्वितैः ।। 460 ।।
"प्रवः पान्तमि" त्येतेन तिलाद्यन्वितवारिभिः।
"परो मात्रे" तिमन्त्रेण षष्ट्यादिद्रव्यवारिभिः ।। 461 ।।
"न ते विष्णो" रित्यनेन कुशमूलान्विताम्बुभिः।
"इरावती" ति मन्त्रेण तुलस्यादिजलैस्ततः ।। 462 ।।
"अतो देवे" ति मन्त्रेण मुस्ताकन्दादिसंयुतैः।
"इदं विष्णुरि" त्यनेन मुद्गाद्यङ्‌कुरपूरितैः ।। 463 ।।
"त्रीणि पदे" ति मन्त्रेण शङ्खपुष्पादिवारिभिः।
"विष्णोः कर्माणी" त्यनेन श्वेतार्काद्यम्बुभिस्ततः ।। 464 ।।
"तद्विष्णो" रिति मन्त्रेण सुरभ्यादिजलैस्ततः।
"तद्विप्रास" इत्यनेन स्नापयेल्लोहवारिभिः ।। 465 ।।
प्रागेकाशीतिकलशैः स्नापयेत् क्रमयोगतः।
पूर्वादिमध्यपर्यन्तनवके स्नपनक्रमः ।। 466 ।।
ऐन्द्रेण नवकेनादावुरुयज्ञाय इत्यृचा।
"इन्द्राविष्णू दृंहिते" ति वह्निदिक्‌संस्थितेन च ।। 467 ।।
"इयं मनीषे" ति याम्येन नवकेनाभिषेचयेत्।
"वषट्‌ ते विष्णुवासे" ति नैर्ऋतेन ततः परम् ।। 468 ।।
" तिस्रोवाच" इत्यनेन वारुणेन महामते!।
"योवर्ध ओषधि" मन्त्रेण वायव्यनवकेन तु ।। 469 ।।
"स्तरीरत्वदभवती" ति सौम्येन नवकेन तु।
ईशानदिक्‌स्थितेनैव यस्मिन् विश्वेति चेत्यृचा ।। 470 ।।
" इदं वचः पर्जन्याये" ति स्नापयेन्मघ्यमेन तु।
याम्येकाशीतिकलशैस्ततः संस्नापयेद्विभुम् ।। 471 ।।
"सहस्रशीर्षं देव" मिति मन्त्रपुरस्सरैः।
"सन्ततं सिराभि" रितिपर्यन्तैश्च क्रमेण तु ।। 472।।
अष्टमन्त्रैर्मुनिश्रेष्ठ! प्रागादिनवकाष्टकैः।
एतैरेव समस्तैस्तु स्नापयेन्मध्यमेन तु ।। 473 ।।
एकाशीत्या तु वारुण्या कलशैरभिषेचयेत्।
"समुद्रज्येष्ठा" इत्यनेन पूर्वादिनवकेन तु ।। 474 ।।
वापीकूपतटाकाब्धिर्ह्रदवृष्टिसमुद्भवैः।
"या आपो दिव्या" इति मन्त्रेणैवाभिषेचयेत् ।। 475 ।।
नद्यम्भसा स्नापनीत "यासां राजे" त्यृचा ततः।
"यासु राजे" ति मन्त्रेण हिमतोयेन वै ततः ।। 476 ।।
समुद्रज्येष्ठपूर्वैस्तु चतुर्भिर्मध्यमेन तु।
ततोऽभिषिञ्चेत् सौम्यैकाशीतिकुम्भैः क्रमेण तु ।। 477 ।।
"यदिमा" इति मन्त्रेण शाक्रेण नवकेन तु।
"यस्यौषधि" रित्येतेन वह्निदिक्‌संस्थितेन तु ।। 478 ।।
"साकं यक्ष्मे" ति याम्येन "अन्यावो" इति नैर्ऋते।
"याः फलिनी" ति मन्त्रेण वारुण्यां नवकेन तु ।। 479 ।।
"मुञ्चतु मा शपय्या" दिति वायुदिङ्‌नवकेन तु।
"आपः पुनन्त्वित्य" नेन सोमदिक्‌संस्थितेन तु ।। 480 ।।
"ओषधीः सोमराज्ञी" ति मन्त्रैणैशानकेन तु।
"या ओषधीस्सोमराज्ञी विष्ठिता" इति मध्यतः ।। 481 ।।
ततोऽग्न्येकोनपञ्चाशत्कलशैरभिषेचयेत्।
गायत्र्या चैन्द्रषट्‌केन "गन्धद्वारे" ति याम्यतः ।। 482 ।।
"पयस्वतीरोषधय" इति षट्‌केन पश्चिमे।
"दधिक्राव्‌ण" इत्यृचा सौम्यषटकेन तत्परम् ।। 483 ।।
सम्यक स्रवन्ति सरितः सूक्तेनैव घृतेन च।
नैर्ऋतैकोनपञ्चाशत्कलशैरभिषेचयेत् ।। 484 ।।
"तेजोसी" त्यादियजुषा तैलेन स्नापयेत्ततः।
द्वादशाक्षरमन्त्रेण प्राक्‌क्रमेण गुडोदकेः ।। 485 ।।
"तेजसीत्यादि" मन्त्रेण वायौ तैलेस्तु सार्षपेः।
द्वादशार्णाख्यमन्त्रेण सर्वैरिक्षुरसैस्ततः ।। 486 ।।
मधुवातादिभिर्मन्त्रैः कलशैर्मधुपूरितैः।
पूर्वोदितेन मन्त्रेण नालिकेरजलैः क्रमात् ।। 487 ।।
तेनेवोष्णजलैः पश्चाद्वह्‌न्यादीशानपश्चिमम्।
सुतप्तायोगुडक्षेपात् सञ्जातोष्णैस्तदैव तु ।। 488 ।।
उद्वर्तयेत्तयो देवं "द्रपदा" दीति मन्त्रतः।
शिरस्यामलकं दद्या "न्मानस्तोके" ति मन्त्रतः ।। 489 ।।
प्रक्षाल्य शुद्धतोयैश्च बहुभिश्च सुगन्धिभिः।
मध्यैकाशीतिकलशैस्ततः संस्नापयेत् क्रमात् ।। 490 ।।
"सहस्रशीर्षे" त्यनया ऋचैन्द्रीनवकैर्घटैः।
अष्टाभिरष्टदिक्‌संस्थैर्मघ्यमेन द्वितीयया ।। 491 ।।
द्वाभ्यां द्वाभ्यां तथा ऋघ्भां क्रमान्नवकसप्तकैः।
पौरुषेण तु सूक्तेन समस्तेन शनैः शनैः ।। 492 ।।
स्नापयेद्देवदेवेशं मध्यस्थनवकेन तु।
यद्वा "सर्वस्य वशिन" मित्याद्यैर्मनुभिः क्रमात् ।। 493 ।।
महोपनिषदन्तस्थैः दिक्‌स्थितैः कलशाष्टकैः।
"एक एव नारायण" इति मध्यगतेन तु ।। 494 ।।
यद्वा द्विषट्‌कमन्त्रेण सर्वकुम्भैः क्रमेण तु ।
मृदादि सर्वरत्नान्तं स्नापयेद्‌द्विजसत्तम! ।। 495 ।।
उद्धार एवं कथितः श्रृणु कर्मक्रमं द्विज!।
प्रभाते तु कृतस्नानः कृतकौतुकमङ्गलः ।। 496 ।।
देशिकेन्द्रस्तथान्यैश्च देशिकैश्च समन्वितः।
प्रासादं संप्रविश्याथ नित्यं निर्वर्त्य पूर्ववत् ।। 497 ।।
यागमण्डपमासाद्य रजोभिः पूर्य मण्डलम्।
कुम्भमण्डलयोरिष्ट्वा प्रासादं संप्रविश्य च ।। 498 ।।
ततस्त्वर्घ्यादिभिर्भोगैः मूलबिम्वं तु पूजयेत्।
तस्मात् स्नपनबिम्बे तु समावाह्य तथैव च ।। 499 ।।
इष्ट्वालंकृत्य विविधैर्वस्त्रैर्माल्यैश्च भूषणैः।
शिबिकादौ समारोप्य सर्वालङ्कारसंयुतम् ।। 500 ।।
पूर्वोक्तवर्त्मना विप्र! निनयेत् स्नानमण्डपम्।
स्नानपीठे समारोप्य पूर्वोदितविधानतः ।। 501 ।।
यथाक्रमं समभ्यर्च्य यावदात्मनिवेदनम्।
ततस्तु देवदेवस्य कुर्यात् कौतुकबन्धनम् ।। 502 ।।
देवस्य पुरतः कुर्याच्छकृता मण्डलं शुभम्।
पिष्टचूर्णैरलंकृत्य न्यसेत् कोणेषु पालिकाः ।। 503 ।।
व्रीहिभिः पीठिकां कृत्वा तदूर्ध्वं विनिवेशयेत्।
हैमं वा राजतं पात्रं पूरितं शालितण्डुलैः ।। 504 ।।
स्वारिमानैस्तदर्धैर्वा ताम्बूलैश्च विभूषितम्।
तदूर्ध्वे विन्यसेत् सूत्रं पट्टजं तु चतुर्गुणम् ।। 505 ।।
मन्त्रयित्वास्त्रमन्त्रेण संपूज्य कुसुमैरपि।
तत् पात्रं शिरसि स्थाप्य परिचर्यापरस्य च ।। 506 ।।
शिष्यस्य मण्डपं पश्चाच्चतुष्कुर्यात् प्रदक्षिणम्।
सर्वमङ्गलसंयुक्तं प्रासादाभ्यन्तरे यदि ।। 507 ।।
प्रथमावरणे वापि द्वितीयावरणेऽथवा।
प्रदक्षिणचतुष्कं तु कुर्याद्वा संकटे द्वयम् ।। 508 ।।
देवस्याग्रे तु तत्पात्रमाधारस्योपरि न्यसेत्।
कृत्वा पुण्याहघोषं तु देवमर्घ्यादिभिर्यजेत् ।। 509 ।।
ततः प्रतिसरं चेष्ट्वा गन्द्यधूपाधिवासितम्।
कौतुकं देवदेवस्य बन्धयेद्दक्षिणे करे ।। 510 ।।
संपूज्यार्ग्यादिभिर्भूयस्ताम्बूलैस्तोषयेद्‌द्विजान्।
दीक्षितान् वैष्णवांश्चापि देशिकेन्द्रपुरस्सरान् ।। 511 ।।
आचार्यः स्वयमादद्यात्तदर्धं तण्डुलादिकम्।
एवं सर्वेषु यागेषु कार्यं कौतुकबन्धनम् ।। 512 ।।
कुम्भानां विहितं कर्म न कृतं यदि व पुरा।
कया त्वनुपपत्या तु तदा तत् सर्वमाचरेत् ।। 513 ।।
स्नानासनोदितैर्भोगैः मुखलेपान्तिमैः क्रमात्।
पूजयित्वा ततः कुम्भैः स्नापयेदुक्तवर्त्मना ।। 514 ।।
सर्वेषामपि कुम्भानां स्नानशेषं तु पूरयेत्।
घटान्तरं तु द्रव्याणामन्तरान्तरयोगतः ।। 515 ।।
शुद्धाम्भसा स्नापयित्वा वस्त्रेणार्घ्यादिभिर्यजेत्।
एवं सुस्नाप्य विधिवद्रजनीचूर्णपूरितैः ।। 516 ।।
कौतुकोक्तेन मार्गेण पुरस्तादधिवासितैः।
पञ्चविंशतिभिः कुम्भैर्नवभिः पञ्चभिस्तु वा ।। 517 ।।
एकेन वापि तच्चूर्णं द्विषट्‌कब्रह्नविद्यया।
प्रदद्यान्मूर्घ्निदेवस्य भूयश्चार्घ्यादिभिर्यजेत् ।। 518 ।।
सर्वाङ्गं परिमृज्याथ भक्तानां मूर्घ्नि दापयेत्।
विष्वक्‌सेनस्य दत्वा तु तन्मन्त्रेण ततो द्विज! ।। 519 ।।
सहस्रधारास्नपनमाचरेच्छद्धवारिभिः।
सवन्दनादिकं दत्वा ततः पीठात्ततः प्रभुम् ।। 520 ।।
अलङ्कारासनं नीत्वा आसनादिक्रमाद्यजेत्।
भोगैः सांस्पर्शिकैः प्राग्वद्विविधैरौपचारिकैः ।। 521 ।।
हृदयङ्गमसंज्ञैश्च विचित्रैश्च मनोहरैः।
एवं द्विजप्रदानान्तं होमान्तं वा प्रपूज्य च ।। 522 ।।
शिबिकादौ समारोप्य पूर्ववत् संप्रवेशयेत्।
प्रदक्षिणक्रमेणैव प्रासादाभ्यन्तरं ततः ।। 523 ।।
तत्रावरोप्य तद्बिम्बं स्वस्थाने सन्निवेश्य च।
इष्ट्वाचार्घ्यादिभिर्भोगैः मूलबिम्बं तथैव च ।। 524 ।।
समार्प्य च कृतं कर्म कुर्याच्चैव विसर्जनम्।
ततश्चौत्सवबिम्बं तद्विचित्रैर्वसनैस्तथा ।। 525 ।।
ततश्चोत्सवबिम्बं तद्विचित्रैर्वसनैस्तथा।
अनेकैर्भूषणै रम्यैर्माल्यैश्च सुसुगन्धिभिः ।। 526 ।।
अलंकृत्य समारोप्य शिबिकां संप्रवेशयेत्।
आस्थानमण्डपं सम्यगुत्सवोदितवर्त्मना ।। 527 ।।
तत्रावरोप्य यानाच्च सौवर्णे वितते शुभे।
भद्रासनेऽथवा विप्र! विचित्रास्तरणान्विते ।। 528 ।।
यथाक्रमोदितेनैव वर्त्मना संप्रपूजयेत्।
सांस्पर्शादिकैर्भोगैर्विविधैस्तु विशेषतः ।। 529 ।।
महाहविर्निवेद्याथ कृत्वा सर्वं क्रमेण तु।
द्विजप्रदानपर्यन्तमग्नौ सन्तर्पयेत् क्रमात् ।। 530 ।।
समर्पणादिकं सर्वं कृत्वा देवं जगत्पतिम्।
समारोप्य च यानादौ सर्वमङ्गलसंयुतम् ।। 531 ।।
प्रवेशयेत्तु प्रासादं यानादेरवरोप्य च।
स्वस्थाने सन्निवेश्याथ अर्घ्यगन्धादिभिर्यजेत् ।। 532 ।।
मूलबिम्बं तथाभ्यर्च्य कृतं कर्म समर्पयेत्।
स्नानशेषेण तोयेन कुम्भस्थेन क्रमेण तु ।। 533 ।।
द्वारस्थान् सकलान् देवांस्तथा चावरणस्थितान्।
बलिदानक्रमेणैव संप्रोक्ष्य परिपूज्य च ।। 534 ।।
बलिं च दत्वा शेषेण गणेशमभिषिच्य च।
पूजयेदर्घ्यगन्धाद्यैरथवा ह्यनुकल्पके ।। 535 ।।
पूजावसाने देवस्य स्नपनव्यक्तिगस्य तु।
प्रोक्षणं देवतानां च गणेशस्याभिषेचनम् ।। 536 ।।
आचरेत् क्रमयोगेन, यजमानस्ततो द्विज!।
आचार्यान् साधकांश्चैव तोषयेद्‌विविधैर्धनैः ।। 537 ।।
अन्यांश्च वैष्णवान् सर्वान् यथाशक्ति च तोषयेत्।
अनिवारितमन्नाद्यं सार्वजन्यं तु कारयेत् ।। 538 ।।
एवमेव हि सर्वेषु स्नपनेषु क्रियाक्रमः।
प्रोक्षणं परिवाराणां बलिदानं च वर्जयेत् ।। 539 ।।
महाहविर्विधानं च विभवे सति कल्पयेत्।
प्रधानादिक्रमेणैव स्नपनानां तु पञ्चकम् ।। 540 ।।
कुर्यान्नित्यविधौ विप्र! तथा नैमित्तिकेऽपि च।
ततस्तु सूक्ष्मसूक्ष्मादिस्थूलस्थूलान्तपञ्चकम् ।। 541 ।।
चातुरात्म्यादिदेवानां कार्यं स्थापनकर्मणि।
अयने विषुवे चैव ग्रहणे सोप्रसूर्ययोः ।। 542 ।।
स्नपनं मुख्यकल्पे तु कुर्यादाद्योत्तमोत्तमम्।
अनुकल्पे तु तन्मध्यं, तन्न्यूनादि चतुष्टयम् ।। 543 ।।
अयनद्वयमध्यस्थसंक्रान्तिद्विचतुष्टये।
आवृत्तिक्रमयोगेन कल्पयेन्मुनिपुड्गव! ।। 544 ।।
उत्सवारम्भदिवसे तदन्ते च समारभेत्।
अधमोत्तमसंज्ञं तु तन्मध्यं वानुकल्पके ।। 545 ।।
महाहविर्विधाने तु तन्न्यूनं तु समाचरेत्।
देशकालानुरूपेण द्वितीयं नवकं तु वा ।। 546 ।।
तृतीयं वा चतुर्थं वा कल्पयेत्तु यथाक्रमम्।
प्रायश्चित्तेषु कार्येषु सर्वाण्येतानि कल्पयेत् ।। 547 ।।
तेषु स्नपनभेदं तु वक्ष्याम्युपरि विस्तृतम्।
स्नपनानां विधानं तु दिव्यशास्त्रोक्तवर्त्मना।
यथावत् कथितं सम्यक्किमन्यच्छ्रोतुमिच्छसि ।। 548 ।।
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे स्नपनविधानं नाम चतुर्दशोऽध्यायः ।।
**************