सामग्री पर जाएँ

परमेश्वरसंहिता/अध्यायः ८

विकिस्रोतः तः
← अध्यायः ७ परमेश्वरसंहिता
अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →
परमेश्वरसंहितायाः अध्यायाः

।। श्रीः ।।
अष्टमोऽध्यायः
सनकः ---
भगवन्! मुनिशार्दूल! सर्वज्ञ! वदतां वर!
गरुडप्रमुखानां यदर्चनं प्रागुदीरितम् ।। 1 ।।
तदिदानीं विशेषेण विस्तरेण प्रकाशय।
शाण्‍डिल्यः ---
श्रृणु वक्ष्यामि ते सम्यग्गरुडस्यार्चनं पुरा ।। 2 ।।
येन विज्ञातमात्रेण वाञ्छितं साधकोऽश्नुते।
विष्णोःसङ्कर्षणाख्यस्य विज्ञानबलशालिनः ।। 3 ।।
मूर्तिर्ज्ञानबलाख्या या सर्वाधारस्वरूंपिणी।
महिमेति जगद्धातुर्विज्ञोयो विहगेश्वरः ।। 4 ।।
सर्वरोगभयघ्नश्च क्षेपकः सर्वविद्विषाम्।
ततस्तमर्चयेन्नित्यं प्रासादे स्थाप्य मन्त्रवित् ।। 5 ।।
प्राङ्कणे प्रथमे वाऽथ द्वितीये मूलमन्दिरात्।
अग्रदेशे प्रकुर्वीत प्रासादं मण्टपाकृतिम् ।। 6 ।।
चतुर्द्वारसमोपेतं वर्गत्रयसमन्वितम्।
वर्गषट्‌कान्वितं वाथ सर्वालङ्कारशोभितम् ।। 7 ।।
मूलगेहात्रिभागोच्चमर्धोच्चं वा सुविस्तरम्।
तस्मिन् ब्राह्नेऽथ दिव्ये वा दिव्ययुक्तेऽथ मानुषे ।। 8 ।।
संस्थाप्य लोहजां वाथ शैलीमर्चां यथोदिताम्।
त्रिकालमर्चयेन्नित्यं मुख्यमूर्त्यर्चनान्तिमे ।। 9 ।।
तद्विधानं विशेषेण मन्त्रपूर्वं श्रृणु क्रमात्।
प्रणवं पूर्वमुद्धृत्य पक्षिशब्दमनन्तरम् ।। 10 ।।
पञ्चाक्षरो महामन्त्रः स्वाहान्तः संप्रकीर्तितः।
मन्त्रार्णानि सबिन्दूनि प्रागोङ्कारान्वितानि च ।। 11 ।।
समुच्चार्याथ तुर्यान्तैर्ज्ञानाद्यैश्च हृदादिभिः।
अनेत्रैरस्त्रपर्यन्तैरङ्गानीत्यवधारय ।। 12 ।।
प्राङ्‌मूलमन्त्रमद्याद्यव्यत्ययाद्विषहा भवेत्।
सोऽयं मन्त्रः समाख्यातस्त्रिदशैरपि दुर्लभः ।। 13 ।।
पञ्चाक्षर इति ख्यातो गारुढो मुनिसत्तम!।
पञ्चाङ्गानि यथापूर्वमक्षरैः स्युः सबिन्दुकैः ।। 14 ।।
साङ्गेनानेन मन्त्रेण स्थापनीयो विधानतः।
मूलालयगते बिम्बे सुस्थिते वाथ यानगे ।। 15 ।।
स्थितैव गारुडी मूर्तिर्याने वा गमनोन्मुखी।
शयने चासने चैव त्वासीना वाथ सुस्थिता ।। 16 ।।
द्वारावरणदेवानां ध्यानाध्याये विशेषतः।
ध्वजारोहेऽपि सुव्यक्तं लक्षणं चास्य वक्ष्यते ।। 17 ।।
एवं ज्ञात्वा यथाकालं तन्मन्त्रनिरतो द्विज!।
स्नात्वा तदीयमन्त्रेण कृतपादावनेजनः ।। 18 ।।
उपस्पृश्य यथान्यायं प्रासादं संप्रविश्य च।
स्वासने सुखमासीनः प्राड्‌मुखो वाप्युदड्‌मुखः ।। 19 ।।
करशुद्धिं च दिग्बन्धं प्राणायामं समाप्य च।
भूतशुद्धिं च विधिवन्मन्त्रविन्यस्तविग्रहः ।। 20 ।।
पक्षीशमुद्रां बद्‌ध्वाथ हृदयाम्भोरुहोदरे।
स्वानन्दधामनिष्ठस्य देवस्य चतुरात्मनः ।। 21 ।।
संकर्षणांशात् संपूर्णविज्ञानबलसंकुलात्।
अवतार्यामृनैर्भोगैर्जपान्तं प्राग्वदर्च्य च ।। 22 ।।
ततो मूर्तैर्यजेद्बाह्यैः प्रागुक्तैर्भोगसंचयैः।
पात्रशिष्टैश्च देवान्नैः साधितैः पृथगेव वा ।। 23 ।।
तदर्थं कल्पयेत् प्राग्वदर्घ्याद्यं पात्रपञ्चकम्।
द्वितयं चाथवैकस्मिन् पाद्यं स्नानीयवारि च ।। 24 ।।
अर्घ्याचामे तदन्यस्मिन्नेकस्मिन् सकलं तु वा।
प्राग्वत् स्वदेहविन्यस्तान् मन्त्रानभ्यर्च्य मन्त्रवित् ।। 25 ।।
अर्घ्याद्यैर्धूपपर्यन्तैस्ततो द्वारचतुष्टये।
वास्त्वीशं क्षेत्तनाथं च द्वारलक्ष्मीं स्वमन्त्रतः ।। 26 ।।
चण्डाद्यं च गणं प्राग्वदासनं कल्पयेत् ततः।
शेषपूर्वं च धर्माद्यमष्टकं वा द्विरष्टकम् ।। 27 ।।
कालचक्रं तदूर्ध्वे तु सरोजाद्यं चतुष्टयम्।
समब्यर्च्य च गन्धाद्यैर्गणनाथादिकानपि ।। 28 ।।
हृत्पजकर्णिकामध्ये मानसैरर्चितं पुरा।
स्वविद्यया समावाह्य स्वस्थानाद्बिम्बहृत्कजे ।। 29 ।।
सकलीकृत्य विधिवदङ्गलाञ्छनभूषणैः।
सत्याख्यया दक्षिणतो बलशक्त्या स्वरूपया ।। 30 ।।
गणित्रकं च मन्दारकुसुमस्तबकं तथा।
कलशं चामृताधारं फणीन्द्रं दक्षिणादितः ।। 31 ।।
विन्यसेल्लाञ्छनान्येवं किरीटं वनमालिकाम्।
अनन्तादीनि नागानि न्यस्यानि तदनन्तरम् ।। 32 ।।
शक्तिः प्रागुदिता तस्य बलधर्मस्वरूपिणी।
पक्षीशमुद्रां सन्दर्श्य लययागं समाचरेत् ।। 33 ।।
भोगयागश्च कर्तव्यः पझपीठतलोपरि।
प्रागादिपझपत्रेषु हृदयादीनि पूर्वत् ।। 34 ।।
विदिक्‌पत्रेषु चैवास्त्रमेषां वर्णानि पूर्ववत्।
रूपलावण्यभूषाद्यैर्मूलमन्त्रशरीरवत् ।। 35 ।।
अग्नीशरक्षोवायव्यकोणेषु विहगेशितुः।
चतुष्टयं गणित्राद्यं किरीटं वनमालिकाम् ।। 36 ।।
पुरस्तात् पृष्ठतो न्यस्य दक्षिणोत्तरयोस्तथा।
चतुष्टयं क्रमेणैव शेषाद्याः पन्नगेश्वराः ।। 37 ।।
दक्षिणे विहगेशस्य सत्याख्या कर्णिकोपरि।
प्राणापानसमानोदानव्यान प्राणरूपिणः ।। 38 ।।
मध्यस्थस्य खगेशस्य बहिः प्रागादितः क्रमात्।
सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च विहगेश्वरः ।। 39 ।।
पञ्चात्मकस्य प्राणस्य विकारस्त्वेष पञ्चधा।
सत्याद्या दिक्षु चत्वारः कोणेषु विहगेश्वरः ।। 40 ।।
द्यानमेषां विशेषेण समाकर्णय साम्प्रतम्।
आचाङ्घ्रिगोचरात् सर्वो यस्य देहस्तु पौरुषः ।। 41 ।।
द्विभुजस्तुहिनाभस्तु स सत्यः प्राणदैवतम्।
सुपर्णः पझरागाभो निर्मलः स्वर्णलोचनः ।। 42 ।।
गरुडः काञ्चनाभस्तु कुटिलभ्रवरुणेक्षणः।
केकराक्षस्तु तार्क्ष्यो वै प्राबृड्‌जलदसन्निभः ।। 43 ।।
द्रवत्कनकनेत्रस्तु शबलाभस्तु पञ्चमः।
चतुर्भुजाः सुपर्णाद्याः सौम्यरूपा ह्यनाकुलाः ।। 44 ।।
पतत्रिचरणाः सर्वे पक्षमण्डलमण्डिताः।
लम्बोदराः सुपीनाङ्गाः कुण्डलाद्यैर्विभूषिताः ।। 45 ।।
कुटिलभ्‌रूसुवृत्ताक्षा वक्र (ज्र) तुण्डाः सिताननाः।
अपानादिसमीराणामाधिपत्येन संस्थिताः ।। 46 ।।
महाबला महाकाया रक्ततुण्‍डोऽत्र पञ्चमः।
स्वस्वाङ्‌गुष्ठद्वयप्रोतगणित्रोभयपाणिना ।। 47 ।।
पुष्पाञ्जलिधराः सर्वे मुख्येन विहगोत्तमाः।
सुपर्णः पश्चिमाभ्यां तु पाणिभ्यां दक्षिणादितः ।। 48 ।।
मन्दारपुष्पस्तबकं दधद्विस्मयमुद्रिकाम्।
तथाविधाभ्यां गरुडस्ते धत्ते व्यत्ययेन तु ।। 49 ।।
तार्क्ष्यः पश्चिमयोर्नित्यं धत्ते दक्षिणवामयोः।
कद्रूं तथाऽमृतं कुम्भं पञ्चमो विहगेश्वरः ।। 50 ।।
दक्षिणेन सुधाकुम्भं वामेन तु फणीश्वरम्।
नित्योदितस्य व्यूहस्य तथा शान्तोदितस्य च ।। 51 ।।
प्राणापानादिवायूनां पञ्चानामपि नामभाक्।
गरुडः परिवारत्वे ध्वजत्वेपि विशेषतः ।। 52 ।।
योजनीयस्तथान्येषु सषुप्त्यादिपदेषु तु।
वासुदेवादिमूर्तीनां चतुर्णां क्रमशस्त्वमी ।। 53 ।।
सत्याद्यास्तार्क्ष्यपर्यन्तास्तत्तन्मूर्त्यन्तरेषु तु।
त्रिषु त्रिषु समादेयाः सत्याद्याः केशवादिषु ।। 54 ।।
पझनाभादिमूर्तीनां पञ्चमो विहगेश्वरः।
परात्परपरव्यूह व्यूहान्तरतनोर्विभोः ।। 55 ।।
प्रादुर्भावतनोश्चापि जगद्रक्षणकाङ्क्षिणः।
खगानां कारणत्वाच्च प्रागुक्तो वा खगेश्वरः ।। 56 ।।
इति ते गारुडव्यूहप्रभावः संप्रकीर्तितः।
कुमुदाद्यास्ततो बाह्ये शक्राद्यास्तद्बहिः क्रमात् ।। 57 ।।
त?Rद्बहिः कुमुदादीनां भूतेशाश्चोत्कटादयः।
गणशः पूजनीया वा तदग्रे बलिण्डले ।। 58 ।।
महापीठेऽथवा पूज्या गरुडस्यानुयायिनः।
पालयन्तश्च तद्भक्तान् दिव्यान्यायतनान्यपि ।। 59 ।।
ध्यात्वैवमर्चनं कुर्यादासनाद्यैर्यथोदितैः।
चतुष्षष्ट्युपचारैर्वा द्वात्रिंशद्भिस्तु वेतरैः ।। 60 ।।
षोडशैरुपचारैर्वा मुख्यमद्याधमक्रमात्।
तन्निवेदितमन्नाद्यं नराणां रोगिणां सदा ।। 61 ।।
वन्ध्यानां वनितानां च जयेच्छूनां च भूभुजाम्।
विषोपहतवेषाणां प्रदद्यात् संविभज्य च ।। 62 ।।
आर्द्रायां प्रतिमासं तं विशेषेणैवमर्चयेत्।
उत्सवेषु विशेषेण भ्रामयेदुत्सवार्चया ।। 63 ।।
इति सम्यक् समाख्यातं गरुडस्यार्चनं परम्।
इतः परं यच्छ्रोतव्यं तद्वदस्व मुनेऽधुना ।। 64 ।।
सनकः ---
मुने! सकलधर्मज्ञ! भगवन्! भक्तवत्सल!।
विष्व?Rक्‌सेनस्य विघ्नारेः पूजनं विहितं पुरा ।। 65 ।।
तद्विधानं विशेषेण वद सानुग्रहो यदि।
शाण्डिल्यः ---
पौष्काराख्ये महाशास्त्रे पुरा पुष्करजन्मनः ।। 66 ।।
विष्वक्‌सेनार्चनं प्रोक्तं यथावच्छृणु तन्मुने!।
पौष्कर उवाच ---
किमर्थमाह भगवन्! विघ्नोच्छेदकरं प्रभुम् ।। 67 ।।
समस्तविघ्ननाथानां परमं कारणं च यः।
विष्वक्‌सेनस्तु यष्टव्यो भोगभूमिगतेऽच्युते ।। 68 ।।
कैर्द्रव्यैः केनविधिना किं करोत्यभिपूजितः ।
श्रीभगवानुंवाच ---
भविनां भाविनो विग्नाः सद्धर्मविनिवारकाः ।। 69 ।।
न यागयज्ञधर्माद्यैर्मन्ये संसारिणां शुभम्।
तत्प्रवृत्तौ तु ये विग्नाः प्रोत्साहविनिवारकाः ।। 70 ।।
व्यपयान्ति च ते सर्वे चक्रज्वालाभयार्दिताः।
प्रागार्जितेन केनापि कर्मणा द्विज! साम्प्रतम् ।। 71 ।।
अनुभुङ्‌क्ते फलं यागाद्‌द्विविधं चाग्रतःस्थितम्।
तस्य संरक्षणार्थं तु विष्वक्‌सेनः सदैव हि ।। 72 ।।
काले यागावसानाख्ये द्वितीयेऽवसरेऽथवा।
कृत्वा निर्व्याकुलं चित्तं यष्टव्यः फलसिद्धये ।। 73 ।।
यागनिर्वर्तनाच्छेषैरम्लानैरर्घ्यपूर्वकैः।
उपचारमयैर्भोगैः सर्वैराभरणादिकैः ।। 74 ।।
नैवेद्यैर्मधुपर्काद्यैर्मुख्यमूर्तेर्निवेदितैः।
द्विजप्रदानशिष्टैस्तु स्वयं प्राशनवर्जितैः ।। 75 ।।
तथा चर्वन्तरस्थैश्च ह्यपरेभ्योऽनिवेदितैः।
संस्कृतैरूष्मणोपेतैर्मधुराज्यपरिप्लुतैः ।। 76 ।।
पैष्कर उवाच ---
क एषोऽतुलवीर्यो हि यस्य दूराद्‌द्रवन्ति च।
विघ्ना निमेषमात्रेण त्रैलोक्योन्मूलनक्षमाः ।। 77 ।।
श्रीभगवानुवाच ---
कालवैश्वानराख्या या मूर्तिस्तुर्यात्मनो विभोः।
स एव द्विजदेवास्यो विष्वक्‌सेनः प्रकीर्तितः ।। 78 ।।
स्थित आहवनीयादिभेदेन मखयाजिनाम्।
ऋक्‌पूतं हुतमादाय तर्पयत्यखिलं जगत् ।। 79 ।।
एवं मन्त्रमयाद्यागात् सात्विकाद्ब्रह्नभावितात्।
संप्राप्य गुरुमूर्तेर्बै प्रापणं मन्त्रसंस्कृतम् ।। 80 ।।
अनाहुतामराणां च सर्वलोकनिवासिनाम्।
स्वयं संविभजत्याशु तदनुग्रहकाम्यया ।। 81 ।।
ज्ञात्वैवं तस्य माहात्म्यं व्यक्तिस्थं फलसिद्धये।
त्रिसन्ध्यं नित्यपूजायां बल्यन्ते तं समर्चयेत् ।। 82 ।।
वत्सरोत्सवपूर्वेषु तथा वैशेषिकेष्वपि।
व्यक्त्याद्याधारभूतेषु(भेदेषु) क्रमात् कृत्वा पुरार्चनम् ।। 83 ।।
केवलं वाथ होमान्तं स्वशक्त्या विभवेन वा।
विस्तरेणाथवा शश्वत्ततः कमलसंभव! ।। 84 ।।
कृत्वा पर्णपुटे तोयं पात्रे वा कलशेऽव्रणे।
तमात्मनोत्तरे भागे ह्यर्चयित्वा निवेद्य च ।। 85 ।।
अथापरस्मिन् बाण्डे तु तदस्त्रपरिमन्त्रिते।
नैवेद्याद्भागमादाय तथा चर्वन्तरस्थितात् ।। 86 ।।
ओदनादंशमुद्‌धृत्य दध्याज्यव्यञ्जनैः सह।
समालभनपुष्पार्ध्यकुशाम्बुपरिभावितम् ।। 87 ।।
तद्‌धृन्मन्त्रेण बहुशो ह्यभिमन्त्र्याब्जसंभव!।
तन्मूलमन्त्रमुच्चार्य ध्यानभावनयान्वितम् ।। 88 ।।
प्राक्‌सन्निवेशिते भाण्डे समुत्कीर्य पिधाय तत्।
प्रणवाष्टकजप्तं वा तन्नाम्ना सह पौष्कर! ।। 89 ।।
एकं वै सोदकं पात्रं सनैवेद्यं जलाप्लुतम्।
सर्वत्र सर्वदा यागे कुर्यात् प्राग्विधिना विना ।। 90 ।।
तच्चापि क्ष्मातले कूपे तटाकादौ तु चोत्किरेत्।
नोपभोगं यथा याति काकादिष्वब्जसंभव! ।। 91 ।।
यस्मात् सन्मन्त्रपूतं तत् प्राधान्येनाभिवर्धते।
अतो निषिद्धः पापानामपापानां विशेषतः ।। 92 ।।
ज्ञात्वैवं यत्रतो मन्त्री तन्मन्त्रेण समर्चयते।
सा?Rङ्गं मन्त्रमतो वक्ष्ये यथावदवधारय ।। 93 ।।
आक्रान्तमनलेनैव प्राणाख्यं बीजनायकम्।
त्रैलोक्त्यैश्वर्यदोपेतमूर्जोपरि गतं तु तत् ।। 94 ।।
ततो वाराहमादाय भूधरव्योम भूषितम्।
विष्वक्‌सेनाय तदनु सनमस्कं पदं न्यसेत् ।। 95 ।।
प्रणवाद्यो ह्ययं मन्त्रो विष्वक्‌सेनस्य कीर्तितः।
पूर्वबीजं हि यच्चास्य ऊकारस्वरवर्जितम् ।। 96 ।।
आकाराद्यैश्च षड्‌दीर्घैर्भिन्नमङ्गगणं नयेत्।
प्रणवेन स्वनाम्नाथ जातिभिष्षड्‌भिरन्वितम् ।। 97 ।।
नमस्स्वाहादिभिश्चायं विष्वक्‌सेनस्य अङ्गकः।
साङ्गेनानेन मन्त्रेण प्रतिष्ठाप्यो विधानतः ।। 98 ।।
प्रथमावरणे वाथ द्वितीयावरणेऽथवा।
ईशानसोमदिङ्‌मध्ये प्रासादे दक्षिणामुखे ।। 99 ।।
मूलालयोच्चान्नीचे तु कल्पिते गर्भमन्दिरे।
ब्रह्नस्थानेऽथवा दिव्ये मूलबेरांशमानतः ।। 100 ।।
कल्पितस्य शिलादारुलीहपूर्वैस्तु वस्तुभिः।
पूजनं मुख्यकल्पं स्यादनुकल्पेऽग्रमण्टपे ।। 101 ।।
प्रागुक्तकोणभूभागे मेखलात्रयनिर्मिते।
पीठेऽवतार्य गगनादमूर्तं मूर्तमेव वा ।। 102 ।।
केबलं बलिदानेन तर्पयेदुदकेन च।
चतुस्स्थानावतीर्णस्य मण्डलादिषु वृत्तिषु ।। 103 ।।
परव्यूहादिरूपस्य देवस्य यजनावधौ।
प्रासादान्तर्गतस्यापि स्वस्थानस्थस्य मण्टपे ।। 104 ।।
पूजनं विधिवत् कार्यमारम्भदिवसादितः।
सर्वकर्मावसाने तु मण्डलादिगते विभौ ।। 105 ।।
स्वे स्वे धाम्नि विसृष्टे तु ध्यात्वा मण्डलमध्यतः।
पूजयेद्विधिवन्मन्त्री द्वितीये वासरेऽपि च ।। 106 ।।
भगवद्यजनार्थं तु प्रासादस्थं विशेषतः।
यथाविधि समब्यर्च्य नैवेद्यैस्तन्निवेदितैः ।। 107 ।।
अर्घ्याद्यैरखिलैरन्यैस्ताम्बूलाद्यैश्च नित्यशः।
जलस्थलादिनिलयांस्तद्‌भूतांश्चाथ तर्पयेत् ।। 108 ।।
प्रासादस्थस्य तस्याथ देहमानानुसारतः।
कृत्वा हेमादिभिर्द्रव्यैर्विशेषार्यां विधानतः ।। 109 ।।
उग्रां वा शान्तरूपां वा विघ्नविध्वंसनक्षमाम्।
चतुर्भुजां वा द्विभुजामासीनां वा समुत्थिताम् ।। 110 ।।
द्विभुजस्य चतुर्हस्तामन्यथा वा प्रकल्पिताम्।
वैशेषिकेषु प्राप्तेषु पूजयेदुत्सवार्चया ।। 111 ।।
मृगयाद्युत्सवे प्राप्ते यत्र यत्र व्रजेत् प्रभुः।
तत्र तत्र नयेदेनं निर्विध्नफलसिद्धये ।। 112 ।।
ध्यानमस्य प्रवक्ष्यामि यथावच्छृणु सत्तम!।
नवदूर्वाङ्‌कुराभं च त्वीषत्पित्तलकान्तिभृत् ।। 113 ।।
चतुर्दंष्ट्रं चतुर्बाहुं चतुष्किष्कुं चतुर्गतिम्।
पूर्णाङ्गं केसरिस्कन्धं पृथूरस्थलराजितम् ।। 114 ।।
दक्षिणावर्तनिम्नेन नाभिरन्ध्रेण शोभितम्।
आजानुबाहुं श्रीमन्तं पि?Rङ्गलार्जिर्जटाधरम् ।। 115 ।।
द्रवत्कनकपिङ्गाक्षं चिपिटं पृथुनासिकम्।
सितदीर्घनखश्रेणीशोभितं कुटिलभ्रुवम् ।। 116 ।।
विस्तीर्णगण्डवदनं बालेन्दुकुटिलोपमैः।
नवकिंश्वरुणाकारैर्लोमैः संपूर्णविग्रहम् ।। 117 ।।
शोभनेन प्रलम्बेन पृथुना प्रोन्नतेन च।
माणिक्यकुण्डलाढ्येन युक्तं श्रोत्रद्वयेन तु ।। 118 ।।
मकुटेनोन्नतेनैव हाराद्यैरुपशोभितम्।
चित्रकौशेयवसनं विचित्रस्रग्विमण्डितम् ।। 119 ।।
प्रलयद्वादशादित्यसहस्रगुणदीधितिम्।
ईषदूर्घ्वे तथादिर्यग्विनिपातितलोचनम् ।। 120 ।।
कुन्देन्दुकान्तिदशनं किञ्चिद्विहसिताननम्।
स्वभावसौम्यममलं मायाक्रोधोपरञ्जितम् ।। 121 ।।
सविलासचलत्पादन्यासस्थानकसंस्थितम्।
स्वेनान्तः करणेनैव भावयन्तं परं पदम् ।। 122 ।।
अङ्‌गुष्ठादि कनिष्ठान्तं वामपाणौ लतात्रयम्।
नामयत्युन्नता चैका घ्राणाग्रे विनियोजिता ।। 123 ।।
सद्विघ्नभीतिप्रदया त्वनया मुद्रयान्वितम्।
रथाङ्गशङ्खहस्तं च लम्बमानगदाधरम् ।। 124 ।।
श्रोणीतटनिबिष्टेन सावहेलेन पाणिना।
इत्थंरूपधरं देवमनेकाद्‌भुतविक्रमम् ।। 125 ।।
उग्ररूपमिति ध्यायेदाग्नेयमनलप्रभम्।
दंष्ट्रातर्जननिर्मुक्तं साभयं शान्तलक्षणम् ।। 126 ।।
मुख्यदक्षिणहस्तेन भक्तानामभयप्रदम्।
तथाविधेन वामेन लम्बमानगदाधरम् ।। 127 ।।
पृष्ठदक्षिणवामाभ्यां चक्रश?Rङ्खधरं क्रमात्।
एवं चतुर्भुजस्योक्तं द्विभुजस्यावधारय ।। 128 ।।
उक्ताभ्यामुग्रशान्ताभ्यां श?Rङ्खचक्रद्वयं विना।
प्रागुक्तद्वितयं वाथ द्वितीयं चिन्तितं तु वा ।। 129 ।।
गदाविरहितं वाथ वामकट्यवलम्बितम्।
स्थानके वाऽसने वाममूरुदेशे निवेशितम् ।। 130 ।।
गोपनीमुद्रया वाथ कटकाकारमुद्रया।
उभाभ्यामपि पाणिभ्यां विश्रान्तं पीठपृष्ठतः ।। 131 ।।
अवष्टभ्य गदामूर्ध्वे मातङ्गमुसलाकृतिम्।
प्राक्‌पढदलमाक्रम्य पादाब्यां कर्णिकासनम् ।। 132 ।।
सुस्थितं कर्णिकायां वा प्राग्वदन्यैरलंकृतम्।
एवं ध्यानविशेषेषु त्वेकं स्थाप्य विधानतः ।। 133 ।।
समर्चयीत कालेषु प्रागुक्तेषु स्वमन्त्रतः।
चतुस्स्थानार्चनार्थं तु ण्डलानां तु मध्यतः ।। 134 ।।
पूजितेष्वथ मन्त्रेषु नियुक्तेषु स्वधामनि।
ईशानसोमदिङ्‌मध्ये चतुरश्रे पुरेऽथवा ।। 135 ।।
द्वारशोभाश्रनिर्मुक्ते रेखात्रितयभूषिते।
तदन्तरेऽर्धचन्द्रस्थे कमलेऽष्टदलान्विते ।। 136 ।।
साम्राज्येन नियुक्तेऽस्मिन् विग्नानामच्युतेन तु।
पूजिते विधिना शश्वदभीष्टं साधकोऽश्नुते ।। 137 ।।
तस्मान्मन्त्रैस्तदीयैस्तु स्नात्वा पूर्वविधानतः।
प्रक्षाल्य पाणिपादौ वा त्वाचम्य न्यासमाचरेत् ।। 138 ।।
तदधिष्ठातृकत्वेन धारणाभिः स्वविग्रहम्।
शोधयित्वा पुनर्न्यस्य षडङ्गं तत्करादितः ।। 139 ।।
प्राग्वदानन्दधामाच्च ह्यवतार्य तथा प्रभुम्।
इष्ट्वा हृत्पुण्डरीके तु स्वापेक्षानिप्कलात्मकम् ।। 140 ।।
तमेव सकलत्वेन यातं ध्यात्वा यजेद्वहिः।
प्राग्वदर्ध्यादिपात्राणि प्रतिष्ठाप्य स्वविग्रहे ।। 141 ।।
विन्यस्तमन्त्रानभ्यर्च्य द्वारेदक्षिणसौम्ययोः।
चण्डप्रचण्डसदृशौ बलप्रबलसंज्ञितौ ।। 142 ।।
वायुवेगं महाप्राणं द्वाराग्रे गरुडोपमम्।
समभ्यर्च्य यथापूर्वं प्राग्दत्वा कमलासनम् ।। 143 ।।
धर्माद्यनन्तपर्यन्तं पञ्चकं नवकं तु वा।
सत्वेनाच्छादितं पश्चात् केवलेनाम्बुजं स्मरेत् ।। 144 ।।
तस्मिन्नावाह्य तं देवं हृदये ध्यानचोदितम्।
सन्निधानादिकं कृत्वा मुद्राबन्धपुरस्सरम् ।। 145 ।।
समभ्यर्च्यार्घ्यपुष्पाद्यैर्लययागविधानतः।
कर्णिकामध्यगं तस्य हृदाद्यं मुख्यमन्त्रवत् ।। 146 ।।
पझच्छदान्तरस्थाश्च तदाकारद्युतिं विना।
किन्त्वङ्गानां च सर्वत्र घ्यानमुक्तं सितादिकम् ।। 147 ।।
क्रियाख्यां तैजसीं शक्तिं स्वाहापर्यायरूपिणीम्।
लक्ष्मीरूपधरां पीतां सर्वालङ्कारमण्डिताम् ।। 148 ।।
प्रियानुरूपां सततं स्वासीनां वाथ सुस्थिताम्।
दक्षिणोत्तरयोगेन चामरोभयधारिणीम् ।। 149 ।।
(ओं) ह्रीं क्रियायै स्वाहान्तो मन्त्रोऽयं संप्रकीर्तितः।
अनेन स्वामिनो देहात्तैजसाद्विघ्नसूदनात् ।। 150 ।।
वामपार्श्वेऽवतार्यास्य भोगयागावसानतः।
गजाननो जयत्सेनो हरिवक्त्रो महाबलः ।। 151 ।।
कालप्रकृतिसंज्ञश्च चतुर्थः कमलोद्भव!।
गणराजेश्वरा ह्येते चत्वारश्चण्डविग्रहाः ।। 152 ।।
आज्ञाप्रतीक्षकाश्चास्य सुश्वेतचमरोद्यताः।
विनायकादयश्चैव विघ्नेशाः प्रवरास्तु ये ।। 153 ।।
अमीषां गणनाथानां नित्यमाज्ञानुपालिनः।
ईशानादिषु कोणेषु प?Rद्मबाह्ये स्थितान् न्यसेत् ।। 154 ।।
वीक्षमाणा विभोर्वक्त्रं तत्तुल्यस्थानकैः स्थिताः।
तद्वत्करा?Rङ्किताः सर्वे किन्तु मुद्राविवर्जिताः ।। 155 ।।
ध्यानमेषां पृथग्भूतं शारीरमवधारय।
भीमद्विपेन्द्रवदनं चतुरदंष्ट्रं त्रिलोचनम् ।। 156 ।।
कम्बुग्रीवं चतुर्बाहुं पूर्णचन्द्रायुतद्युतिम्।
हारनूपुरकेयूरमेखलादाममण्‍डितम् ।। 157 ।।
नानास्रग्गन्धवस्त्राढ्यमनौपम्यपराक्रमम्।
ध्यायेद्गजाननमतो जयत्सेनं च संस्मरेत् ।। 158 ।।
महत्तुरङ्गवदनं पझरागाचलप्रभम्।
द्रवच्चामीकराक्षं च त्वनेकाद्‌भुतविग्रहम् ।। 159 ।।
हरिवक्त्रमतो ध्यायेत् सटाच्छुरितमस्तकम्।
निष्टप्तकनकप्रख्यं द्योरघर्घरनिस्वनम् ।। 160 ।।
मृगरा?Rड्वदनं विप्र! कल्पान्तनिलवेगिनम्।
कालप्रकृतिनामानं भावयेदञ्जनद्रिवत् ।। 161 ।।
दंष्ट्राकरालवदनं पि?Rङ्गलश्मश्रुलोचनम्।
झषकुण्डलभृद्रौद्रं मीनवन्निम्ननासिकम् ।। 162 ।।
गणराजेश्वराः ह्येते महापुरुषलक्षणैः।
संयुक्ताश्चाखिलैर्विप्र! आपादात् कन्धरावधि ।। 163 ।।
यत्किञ्चिन्मण्डनं वस्तु तदाद्योक्तं स्मरेत्त्रिषु।
एतेषामर्चनं कुर्यात् स्वनाम्ना प्रणवादिना ।। 164 ।।
नमोन्तेनाब्जसंभूत! नानासिद्धिफलाप्तये।
अष्टाष्टकैस्तदर्धैर्वातस्यार्धैर्वा यथारुचि ।। 165 ।।
क्षिप्रकर्मप्रसिध्द्यर्थमष्टभिर्वा समर्चयेत्।
तन्निवेदितमन्नाद्यमर्घ्यस्रक्‌चन्दनादिकम् ।। 166 ।।
न देयं कस्याचित् प्राज्ञैरैहिकामुष्‌मिकाप्तये।
स्वाश्रितानामनुज्ञातं भूतानां चैव तेन तत् ।। 167 ।।
नित्यं तदूर्ध्वतस्तेषामाशास्थगितचारिणी।
अत एव हि भोक्तॄणामर्थहानिं ददन्ति ते ।। 168 ।।
नूनमाशागणं सर्वं ध्वंसयन्ति सदैव हि।
तस्माद्ददाति योऽन्येषां स्वयमश्नाति वाऽधमेः ।। 169 ।।
मोहादुपेक्षते वापि स याति नरकेऽधमः।
अतः श्रेयोर्थिना कार्यः परिहारः सदैव हि ।। 170 ।।
तच्चापि क्ष्मातले कूषे तटाकादौ तु चोत्क्षिपेत्।
नोपभोगं यथा याति काकादिष्वब्जसंभव! ।। 171 ।।
य स्मात् सन्मन्त्रपूतं तत् प्राधान्येनापि वर्धते।
अतो निषिद्धः पापानामपापानां विशेषतः ।। 172 ।।
इति सम्यक् समाख्यातं विष्वक्‌सेनार्चनं तव।
अतः परं यद्वक्तव्यमस्ति चेत्तद्वदस्व भे ।। 173 ।।
सनकः ---
कुमुदाद्यावृतीशानां द्वारावरणवासिनाम्।
शिलालोहादिभिः क्लृप्ता या या मूर्तिः प्रतिष्ठिता ।। 174 ।।
तत्र तत्र च किं कार्यमर्चने तद्वदस्व मे।
शाण्डिल्यः ---
द्वारावरणदेवानां सुस्थितानां स्वसझसु ।। 175 ।।
चलानां वाथ हेमाद्यैर्निर्मितानां यथाविधि।
त्रिकालं वा द्विकालं वा संकटे त्वेककालिकम् ।। 176 ।।
तत्तन्मन्त्रेण कुर्वीत पूजामष्टोपचारतः।
परव्यूहादिरूपस्य विष्णोर्दिव्यालयादिषु ।। 177 ।।
प्रासादबेरप्राकारगोपुरद्वारमण्टपान्।
पचनालयपानीयशालापुष्पादिमण्टपान् ।। 178 ।।
धनधान्याम्बरावासमालिकाबलिविष्टरान्।
तथा?Rङ्गाश्रयस?Rद्मानि गोशालावाहनास्पदान् ।। 179 ।।
अपूर्वानथवा जीर्णान् नष्टांश्चैबोद्धरन्ति ये।
ग्रामादिरथ्यावरणानुत्सवभ्रमणाय च ।। 180 ।।
फलपुष्पद्रुमाढ्यानि वापीकूपान्वितानि च।
विश्राममण्डपोपेतनिपानालह्‌कृतानि च ।। 181 ।।
उद्यानानि प्रकुर्वन्ति ये भक्त्या तु जगत्‌प्रभोः।
केदारापणपूर्वाणि साधनानि ददन्ति ये ।। 182 ।।
समाराधकपूर्वाणां तदैव परिचारिणाम्।
दासीदासकुटुम्बानां देवालायनिवासिनाम् ।। 183 ।।
पोषं कुर्वन्ति ये वृत्या नित्यया प्रीतये विभोः।
देवस्याङ्गाङ्गिरूपस्य परिवारगणस्य च ।। 184 ।।
नू पुरादिकिरीटान्तैर्विग्रहं भूषयन्ति ये।
प्रासादगोपुरादीनि चामीकरमयानि च ।। 185 ।।
शयनासनयानानि रथानि विविधानि च।
महान्ति हेमसद्रत्नरचितानि समन्ततः ।। 186 ।।
द्विरदांश्च वराश्वांश्च यागोपकरणानि च।
पाद्यार्घ्यपात्रपूर्वाणि पादोदादिप्रतिग्रहान् ।। 187 ।।
भद्रपीठं तथा दीपधूपयोर्लक्षणान्वितम्।
पात्रयुग्मं च वै घण्टामक्षसूत्रादिकान्यपि ।। 188 ।।
छत्राणि चामरादीनि सितानि विविधानि च।
उपानत्पादुकादीनि पादपीठान्यनेकशः ।। 189 ।।
हविःस्थालीश्च विविधाः साधाराश्च सलक्षणाः।
हेमराजतताम्रोत्थास्ताम्बूलाधारसंयुताः ।। 190 ।।
स्रुक् स्रुवादीनि भाण्डानि यान्यन्यानि समर्चने।
उपयोग्यानि सर्वाणि येऽर्पयन्ति जगद्विभोः ।। 191 ।।
देवद्रव्याणि रक्षन्ति देवस्वं च भयान्विताः।
सदागमादिसिद्धान्तनिश्चयार्थप्रशंसकाः ।। 192 ।।
दीक्षापयन्ति सद्भक्तान् ये वेदान्तार्थसूचकाः।
भाषाभिः स्वस्वकीयाभिर्ये तदर्थप्रबन्धकाः ।। 193 ।।
भक्तोत्तमास्ते विज्ञेयास्तान् दिव्यायतनादिषु।
चलस्थिरविभागेन लोहैर्वा शिलयाथवा ।। 194 ।।
स्वस्ववर्णाश्रमाचारसदृशाकृतिचेष्टितान्।
बद्धाञ्जलिपुटान् वाथ प्रमाणेनोपलक्षितान् ।। 195 ।।
लाञ्छितान्श्चक्रश?Rङ्खाभ्यां भुजयोर्दक्षिणादितः।
पझविष्टरमध्ये तु स्वासीनान् वाथ सुस्थितान् ।। 196 ।।
ऋजुस्थित्या यथाशोभं वैशाखस्थानकेन वा।
निर्माय च विधानेन प्राङ्कमे मण्टपेऽथवा ।। 197 ।।
प्रासादेष्वनुरूपेषु कल्पितेष्वग्रतो विभोः।
यथावकाशं वामे वा दक्षिणे वाथ पश्चिमे ।। 198 ।।
स्वस्वमन्त्रैः प्रतिष्ठाप्य विधिवच्छ्रद्धयार्चयेत्।
श्रृणु मन्त्रांस्तदीयांस्तु स्थापनादिषु कर्मसु ।। 199 ।।
प्रधानपुरुषेशात्मतारकब्रह्नणाऽथवा।
अहं स तारकेणैव सविसर्गेण चान्तिमे ।। 200 ।।
आद्येन वा द्वितीयेन युक्तया त्रितयेन वा।
संज्ञया योजनीयास्ते साङ्गयागानतः श्रृणु ।। 201 ।।
ताराद्ययोर्द्वयोरेकं षोढा कृत्वा तदन्तिमे।
ज्ञानादिहृदयादीनि चतुर्थ्यन्तान्युदीरयेत् ।। 202 ।।
प्रणवाधारयुक्तानि प्रागेवाङ्गान्यमूनि वै।
विन्यस्य संयजेन्नित्यं भक्तान् परमधर्मिणः ।। 203 ।।
पारतन्त्र्ये विधिरयं भक्तानां संप्रकीर्तितः।
स्वातन्त्र्ये चाग्रहारादौ विपिने वा नदीतटे ।। 204 ।।
सप्राकारं विमानं तु यथेष्टतलशोभितम्।
कल्पयित्वा प्रयत्नेन रथ्याभिश्च परिष्कृतम् ।। 205 ।।
देशान्तरगतानां वा भगवल्लोकवासिनाम्।
दृश्यरूपमदृश्यं वा देवसारूप्यतां गतम् ।। 206 ।।
स्थापयित्वा विधानेन प्रासादे मानुषे पदे।
दिव्यमानुषयोर्वाथ दिव्ये वा मानुषाश्रिते ।। 207 ।।
विष्णोर्मन्त्रासनाव्यक्तपझमध्यस्थचेतनात्।
भक्तबिम्बहृदम्भोजे चैतन्यमवतार्य च ।। 208 ।।
सकलीकृत्य मन्त्रेण साङ्गेनाभ्यर्चयेत् सदा।
आवाहने विशेषोऽयं जीवतां वाप्यजीवताम् ।। 209 ।।
सर्वत्राव्यक्तपझाद्यैरष्टभिर्वा द्विरष्टभिः।
भोगैः प्रागुदितैः स्फीतैस्ताम्बूलान्तैरनुक्रमात् ।। 210 ।।
तत्तज्जन्मदिने कार्यं तेषां वैशेषिकार्चनम्।
कृत्वा पझध्वजारोहं कार्यस्तत्र महोत्सवः ।। 211 ।।
देवेन सह कर्तव्यः परतन्त्रोत्सवे ध्वजः।
भक्तप्रणीता गाधाश्च श्रुत्यन्तार्थोपबृह्निताः ।। 212 ।।
श्रावयेद्विधिवद्देवं भक्त्या गीतिपुरस्सरम्।
तन्निवेदितमन्नाद्यं गायकेब्यः प्रदापयेत् ।। 213 ।।
इति ते वैनतेयादिपरिवारगणस्य च।
पूजनं सर्बमाख्यातं नानासिद्धिफलप्रदम् ।। 214 ।।
गोपनीयं प्रयत्नेन नास्तिकानांविशेषतः।
प्रकाशयस्व भक्तानां नित्यकर्मरतात्मनाम् ।। 215 ।।
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे गरुडविष्वक्सेनादिपरिवारार्चनविधानं नामाष्टमोऽध्यायः समाप्तः ।।
**************