विष्णुसंहिता/पटलः २४

विकिस्रोतः तः
← पटलः २३ विष्णुसंहिता
पटलः २४
[[लेखकः :|]]
पटलः २५ →
विष्णुसंहितायाः पटलाः


।। अथ चतुर्विंशः पटलः ।।

अथ वक्ष्यामि संक्षेपाज्जीर्णोद्धारविधिं परम्।
स्थापनात् सर्वथा कार्यो यस्मिन् दशगुणो विधिः।। 24.1 ।।
सर्वात्मनो हरेर्बिम्बे भग्ने जीर्णे चले स्थिते।
ग्रामराष्ट्रादिनाशः स्यात् तस्मात् कार्या तदुद्‌धृतिः।। 24.2 ।।
देहं देही यथा जीर्णं त्यक्त्वा देहान्तरं व्रजेत्।
त्यक्त्वा जीर्णं तथा बिम्बं देवोऽपि भजते नवम्।। 24.3 ।।
अर्चां त्यजति देवेशो जीर्णं जीर्णामिव स्रजम्।
मा विक्षन् यातुधाना इत्युद्धरेदविलम्बितम्।। 24.4 ।।
विप्रान् सद्यः समाहूय तन्त्रज्ञान् वेदपारगान्।
शतं सहस्रमयुतमधिकं वा यथाबलम्।। 24.5 ।।
तानर्चितान् यथाशक्ति भक्त्या कृत्वा प्रदक्षिणम्।
नमोब्रह्मण्यमन्त्रेण प्रणिपत्य समाहितः।। 24.6 ।।
आशिषो वाचयेद् बह्वीराचार्यस्तु समूर्तिपः।
जितं त इति नत्वा तान् पुनरुत्थाय वाग्यतः।। 24.7 ।।
देवं च मनसा ध्यात्वा बद्धाञ्जलिरिदं वदेत्।
पूजाबिम्बमिदं विष्णोः स्थापितं पूर्वसूरिभिः।। 24.8 ।।
अनेन दूषणेनाद्य दूषितं चे वर्तते।
दुष्टबिम्बस्य चोद्धारः कर्त्तव्य इति शासनम्।। 24.9 ।।
आगमस्य वयं कर्तु व्यवसायमुपास्महे।
तत्रेदं यदि कर्तव्यमागमार्थतया भवेत्।। 24.10 ।।
भवन्तो नोऽनुजानन्तु भवेमाज्ञाकरा वयम्।
क्रियतामिति निश्शङ्कमनुज्ञातो द्विजोत्तमैः।। 24.11 ।।
निवेदयेत् पुनश्चेदं तेभ्यो लोकहितेप्सया।
यथैव देवपूजायां विनियुक्तमनिन्दितम्।। 24.12 ।।
द्रव्यं पुष्पादिकं पश्चान्निर्माल्यमिति निन्द्यते।
एवं बिम्बमदुष्टं यत् पूजायां विनियुज्यते।। 24.13 ।।
तदेव दूषितं पश्चान्निर्माल्यमिति निन्द्यते।
तस्माद् दुष्टमिदं बिम्बं भवद्भिर्मुक्तसंशयैः।। 24.14 ।।
निर्माल्यबुद्ध्या त्यक्तव्यमिति शास्त्रस्य शासनम्।
तत आघोषयेयुस्ते ब्राह्मणा मुक्तसंशयाः।। 24.15 ।।
शान्तये यजमानस्य गुरोर्ऋत्विग्जनस्य च।
राज्ञो जनपदस्यास्य ग्रामस्य नगरस्य च।। 24.16 ।।
ततो निष्क्राम्य देवेशमात्मसात्कृत्य वा गुरुः।
आवाह्य कलशे वाऽथ बिम्बोद्धारविधिं चरेत्।। 24.17 ।।
प्रासादस्याग्रतः कुर्याच्छान्तिहोमं यथाविधि।
दूर्वास्त्रिमधुराक्ता वा समिधः क्षीरिणां तु वा।। 24.18 ।।
सावित्र्या तत्र होतव्याः साज्याश्चष्टसहस्रशः।
बाहृत्युपनिषद्भिश्च शान्तिं पश्चात् तु वाचयेत्।। 24.19 ।।
शान्तिरस्तु शिवं चास्तु पुष्टिरस्त्वस्तु मङ्गलम्।
स्वस्ति चास्तु समृद्ध्यस्तु सर्वेषां सन्तु सम्पदः।। 24.20 ।।
गोब्राह्मणेभ्यः क्षत्रेभ्यो विट्छूद्रेभ्यस्तथैव च।
लोकेभ्यः सर्वभूतेभ्यो राज्ञे जनपदाय च।। 24.21 ।।
राष्ट्रायास्मै विशेषेण ग्रामाय नगराय च।
अस्मै च यजमानाय सभृत्याय सबन्धवे।। 24.22 ।।
बिम्बोद्धारविधेरस्तु साकल्यमिति घोयेत्।
आचार्यं यजमानोऽत्र प्रणिपत्य प्रसाद्य च।। 24.23 ।।
हेमरत्नादिदानेन महता परितोषयेत्।
आत्मीयं च धनं सर्वमात्मानं च निवेदयेत्।। 24.24 ।।
हिरण्यं गां महीमश्वान् रत्नं वासश्च कुञ्जरम्।
भूषाणानि स्त्रियो दासानासनं शयनं तथा।। 24.25 ।।
यच्चान्यद् दयितं शक्यं तत्तद् दद्यादिति स्थितिः।
मूर्तिपेभ्यश्च दातव्यं तत्पादमधिकं तु वा।। 24.26 ।।
देहन्यासं ततः कृत्वा प्रलयोदयसंयुतम्।
आचार्यः सगणो बिम्बमलङ्कुर्यात् प्रयत्नतः।। 24.27 ।।
ततस्ते कृतपुण्याहा बद्धोष्णीषाः समाहिताः।
वाग्यताः कृतरक्षाश्च तिष्ठेयुर्बद्धकौतुकाः।। 24.28 ।।
आचार्यो यजमानस्य हेमजं कङ्कणं करे।
चक्रमन्त्रेण बध्नीयादलाभे पीतमालिकाम्।। 24.29 ।।
जप्त्वा सिद्धार्थकान् दद्यादाचार्यः स्थपतेरपि।
ततस्तूर्यरवैर्दिक्षु वेदनादैश्च घोषयेत्।। 24.30 ।।
ऋषभं कुञ्जरं वाऽग्रे स्थापयेत् समलङ्कृतम्।
बालरज्ज्वादिभिर्बद्‌ध्वा यन्त्रयोगं च कल्पयेत्।। 24.31 ।।
उच्छ्वञ्चस्व तथा नासत्सूक्तमा ते पितस्तथा।
अनन्तसूक्तं स्वादिष्ठं तथान्यानि शुभानि च।। 24.32 ।।
यौधाजयं रौरवं च बृहत्साम रथन्तरम्।
कयाशुभा ज्योष्ठसाम वैराजं यच्च शोभनम्।। 24.33 ।।
यदुष्पवित्रं सकलं वरिष्ठं विष्णुदैवतम्।
पौरुषं पावमानं च पञ्चोपनिषदस्तथा।। 24.34 ।।
चक्रशार्ङ्गासिविद्याश्च रूपविद्याश्च मूर्तयः।
गुणत्रयमहंकारो भूतादीन्यपराणि च।। 24.35 ।।
आवर्तयद्भिर्ऋत्विग्भिराचार्यः सहितः स्वयम्।
विसृज्य पीठिकाबन्धं सौवर्णैर्लाङ्गलैः शुभैः।। 24.36 ।।
अष्टाक्षरेण निर्माल्यं विष्वक्सेनोऽहमुद्धरे।
इति कृत्वा स्थिरां बुद्धिं भूर्भुवःसुवरोमिति।। 24.37 ।।
गर्तादुत्थापयेद् बिम्बं यन्त्रयोगेन साधकः।
वेदस्तोत्रजपैस्तूर्यैर्जयशब्दैश्च पुष्कलैः।। 24.38 ।।
नृत्तगीताट्टहासैश्च ततो बिम्बं नयेद् बहिः।
अहतैर्वसनैः श्लक्ष्णैः समन्तात् परिवेष्ट्य तु।। 24.39 ।।
कृत्वोपचारं गायत्त्र्या प्रणवाद्यन्तरुद्धया।
दक्षिणे स्थण्डिलं कृत्वा सैकतं चतुरश्रकम्।। 24.40 ।।
तिलान् विकीर्य दर्भांश्च प्रतिमां तत्र शाययेत्।
क्षालयेत् तत्र तां तोयैर्गन्धपुष्पैश्च पूजयेत्।। 24.41 ।।
त्रिरप्रदक्षिणं कृत्वा सतिलैस्तण्डुलैः किरेत्।
ततो।़न्यैर्वसनैः श्लक्ष्णैराच्छाद्यारोप्य वाहनम्।। 24.42 ।।
छत्रध्वजपताकाभिश्चामरैश्चोपशोभितम्।
महाजनरवैर्युक्तं नदीं सागरगां नयेत्।। 24.43 ।।
तत्रागाधे ततो ध्यात्वा विष्वक्सेनं चतुर्भुजम्।
तन्मन्त्रेण नमोन्तेन बिम्बमप्सु विनिक्षिपेत्।। 24.44 ।।
पीठं ब्रह्मशिलां चापि निर्माल्यमिति चिन्तयेत्।
तत्र स्रात्वा ततो गत्वा प्रासादं सर्व एव ते।। 24.45 ।।
शोधयित्वा बहून् विप्रान् भोजयित्वा यथाबलम्।
गा निवास्य चतूरात्रं त्रिरात्रं वाऽपि यत्नतः।। 24.46 ।।
प्रभूतयवसं तोयं ताभ्यो दद्याच्च रात्रिषु।
त्रिदिनं कारयित्वैवमन्नाद्यं स्वस्तिवाचनम्।। 24.47 ।।
राक्षोघ्नं वास्तुहोमं म वेदस्तोत्रादिकीर्तनम्।
आदौ कृत्वाऽत्र पुण्याहं ततो मन्त्रैः पृथग्विधैः।। 24.48 ।।
प्रोक्षयेद् बहिरन्तश्च तोयैर्गव्यैस्तथाक्षतैः।
होमयेत् पञ्चदुर्गाभिर्मूलोपनिषदादिभिः।। 24.49 ।।
मन्त्रैरपि च राक्षोघ्नैर्वदैस्तूर्यैश्च नादयेत्।
जलेऽधिवासितं बिम्बमाहृत्य सह मूर्तिपैः।। 24.50 ।।
कृत्वा शुद्धिं यथान्यायं मण्डपे शाययेद् गुरुः।
मूर्तिपा जुहुयुर्दिक्षु जपेयुश्चैव मन्त्रिणः।। 24.51 ।।
वैदिकांस्तान्त्रिकान् मन्त्रान् नामानि च सहस्रशः।
ओं कारमग्रतः कृत्वा पठेद् वैष्णवमन्त्रकान्।। 24.52 ।।
प्रणवेन च संस्पृश्य हृदि सञ्चिन्त्य माधवम्।
हृदयं देवदेवस्य विष्णोर्विक्रमणेन च।। 24.53 ।।
इति मन्त्रेण संस्पृश्य मुखं चक्षुश्च नासिकाम्।
हिरण्यगर्भमन्त्रेण सर्वाङ्गं संस्पृशेत् पुनः।। 24.54 ।।
पौरुषेण च सूक्तेन तमादायाधिवासितम्।
रत्नन्यासादिसंयुक्तं पूर्ववत् त्रिः प्रदक्षिणम्।। 24.55 ।।
गत्वा वेदजयस्तोत्रनृत्तगीतपुरस्सरम्।
ध्रुवा द्यौरिति संस्थाप्य वषट् त इति कीर्तयेत्।। 24.56 ।।
प्रणवेन तु संयुक्तं परमेष्ठ्यादिविद्यया।
एकैकं विन्यसेद् ध्यात्वा पञ्चोपनिषदात्मकम्।। 24.57 ।।
क्रमान्यमूर्धास्यहृन्नाभिपादेष्वोमिति सर्वतः।
नारायणेन सूक्तेन पौरुषेण च सर्वतः।। 24.58 ।।
विश्वतश्चक्षुरित्येन सकलं भावयेत् ततः।
कलशस्थं नवे बिम्बे सङ्क्राम्यैवं समाचरेत्।। 24.59 ।।
प्रतिष्ठाविधिना सर्वमुत्सवान्तं प्रयोजयेत्।
सावित्र्या पञ्चक्षिश्चात्र शान्तिहोमं प्रकल्पयेत्।। 24.60 ।।
बाहुच्छेदे परित्यागः प्रतिमायाः करे तथा।
यस्मिन्नवयवे भग्ने वैरूप्यं तत्र तां त्यजेत्।। 24.61 ।।
यद्येककरशाखा तु भग्ना द्वे वाऽत्र न त्यजेत्।
अतः परं परित्यागस्त्रिच्छेदे कैश्चिदिष्यते।। 24.62 ।।
पादशाखापरिच्छेदेऽप्येवमन्यत्र कल्पयेत्।
स्फुटिते च परित्यागो भिन्ने च परिकीर्तितः।। 24.63 ।।
सौवर्णी साङ्गुलिः कार्या या भग्ना द्वे च ते तथा।
लोहादौ चेच्छिलाबिम्बे ताम्रेण रजतेन वा।। 24.64 ।।
हेतिच्छेदे तु सर्वत्र सौवर्णं तत् प्रकल्पयेत्।
मकुटे कुण्डले चैव वस्त्रादिषु च शस्यते।। 24.65 ।।
प्रतिमायाः परित्यागे चाराहृतिवदिष्यते।
स्थापनं पूजनं चाऽत्र न ग्राह्यं पीठमक्षतम्।। 24.66 ।।
अनुयागे नवान्येव द्रव्याणि शुभदानि तु।
पिण्डिकापच्छिलादीनि द्वयोः पीठं तु गर्ह्यते।। 24.67 ।।
गहने निखनेच्छैलं दारवं वह्निना दहेत्।
दद्याद् रत्नं च लोहं च कुर्याद् विद्राव्य वा पुनः।। 24.68 ।।
पार्थिवं निक्षिपेदप्सु सर्वं पार्थिवमेव वा।
भग्ने बिम्बेऽपि देवस्य प्रासादो (प्रसादो) यत्र लक्ष्यते।। 24.69 ।।
तत्रापि कारयेत् बिम्बं सौवर्णमपरं पुनः।
लोहजं रत्नजं वाऽग्रे स्थापितं विधिनाऽर्चयेत्।। 24.70 ।।
तदप्यमन्त्रकं पूज्यमिति चाहुर्मनीषिणः।
पौराणिकेषु बिम्बेषु देवादिस्थापितेष्वपि।। 24.71 ।।
त्यायोऽयमेव विज्ञेयः स्वयं वा यत्र जायते।
संशये बहुभिः सार्धं वैष्णवैर्वेदपारगैः।। 24.72 ।।
देवस्य महतीं पूजां कृत्वा भक्तिपुरस्सरम्।
देवतूर्यादिनिर्घोषैर्द्वादश्यां श्रवणेऽपि वा।। 24.73 ।।
उपोष्य दर्भशय्यायां स्वपेयुर्देवसन्निधौ।
आचक्ष्व देव! देवेश! प्रपन्नोऽस्मि तवान्तिकम्।। 24.74 ।।
स्वप्ने सर्वाणि कार्याणि हृदयस्थानि यानि नः।
इति विज्ञाप्य सुप्तानां स्वप्नोऽत्रानुगुणो भवेत्।। 24.75 ।।
द्विस्त्रिर्वाऽपि तथा कृत्वा कृत्यं निश्चिनुयाद् बुधः।
प्रासादं तु नवं कुर्याद् वृत्तं वा चतुरश्रकम्।। 24.76 ।।
पूर्ववच्चतुरश्रे वा वृत्तं वृत्ते तु नान्यथा।
भूमिहानिर्न कर्तव्या नाङ्गहानिश्च तत्र वै।। 24.77 ।।
देवतारहितं स्थानमाश्रयन्त्येव नारकाः।
तस्मात् तत्परिहारार्थं रक्षां कुर्याद् विशेषतः।। 24.78 ।।
गोवासं पुरधूपं च दीपमग्निं च संस्कृतम्।
पञ्चगव्यं द्विजान् दर्भान् सर्षपांश्च न हापयेत्।। 24.79 ।।
राक्षोघ्नं च जपेत् सूक्तं नारसिंहं सुदर्शनम्।
स्तोत्राणि च प्रदोषेषु कुर्याच्च स्वस्तिवाचनम्।। 24.80 ।।
ओम्
स्वस्तयेऽस्तु सदा विष्णुः स्वस्तयेऽस्तु चतुर्मुखः।
स्वस्तयेऽस्तु सदा रुद्रः स्वस्तयेऽस्तु शतक्रतुः।। 24.81 ।।
स्वस्तयेऽस्तु सदा वह्निः स्वस्तयेऽस्तु यमः सदा।
स्वस्तये निर्ऋतिः ख्यातः स्वस्तेय वरुणः सदा।। 24.82 ।।
स्वस्तयेऽस्तु सदा वायुः स्वस्तयेऽस्तु धनेश्वरः।
स्वस्तयेऽस्तु सदेशानः स्वस्तयेऽस्तु मरुद्गणः।। 24.83 ।।
स्वस्तये सन्तु वसवो रुद्राश्च स्वस्तये सदा।
आदित्याः स्वस्तये सन्तु मुनयः स्वस्तये सदा।। 24.84 ।।
गन्धर्वाः स्वस्तये सन्तु स्वस्तये सन्तु विन्नराः।
स्वस्तये सन्तु नागाश्च स्वस्तये सन्तु पन्नगाः।। 24.85 ।।
स्वस्तये सन्तु विद्येशाः स्वस्तयेऽप्सरसः सदा।
नद्यश्च स्वस्तये सन्तु सरितः स्वस्तये सदा।। 24.86 ।।
सागराः स्वस्तये सन्तु शैलाश्च स्वस्तये सदा।
स्वस्तये भ्रातरः सन्तु पितरः स्वस्तये सदा।। 24.87 ।।
देवपारिषदाः सर्वे स्वस्तये सन्तु नः सदा।
स्वस्ति भागवतानां तु स्वस्ति चास्त्वग्रजन्मनाम्।। 24.88 ।।
स्वस्त्यस्तु पूजकानां तु स्वस्ति चास्तु गवामपि।
स्वस्त्यस्तु स्थावराणां तु जङ्गमानां तथैव च।। 24.89 ।।
स्वस्ति चास्तु च मन्त्राणां स्वस्ति वै कर्मणामपि।
बलिदानं हि देवस्य विष्णोरस्मै नमो नमः।। 24.90 ।।
यद्यद्वा क्रियते कर्म तत्तदुक्त्वा विशेषतः।
स्वस्तिवाचनमाचार्यः कुर्यादेवं शुभं भवेत्।। 24.91 ।।
बलिं चाष्टविधेभ्योऽथ भूतेभ्यो दिक्षु दापयेत्।
स्थापयित्वा नवं बिम्बं स्नपनं चोत्सवं तथा।। 24.92 ।।
पूजयेत् पूर्ववन्नित्यमेव सिद्धिर्भविष्यति।। 24.93 ।।

।। इति विष्णुसंहितायां चतुर्विशः पटलः ।।


"https://sa.wikisource.org/w/index.php?title=विष्णुसंहिता/पटलः_२४&oldid=207340" इत्यस्माद् प्रतिप्राप्तम्