विष्णुसंहिता/पटलः ९

विकिस्रोतः तः
Jump to navigation Jump to search
← पटलः ८ विष्णुसंहिता
पटलः ९
[[लेखकः :|]]
पटलः १० →
विष्णुसंहितायाः पटलाः


।। अथ नवमः पटलः ।।

अथ वक्ष्यामि संक्षेपान्मण्डलं सार्वकामिकम्।
यद् ज्ञात्वा मुनयः सम्यक् परां सिद्धिमितो गताः।। 9.1 ।।
यागभूमिं परीक्ष्यादौ सर्वदोषविवर्जिताम्।
शल्यैर्विमोचितां यत्नात् समां पूर्वोत्तरप्लवाम्।। 9.2 ।।
शोधयित्वा यथान्यायं मण्डपं तत्र कारयेत्।
चतुरश्रं चतुर्द्वारमेकद्वारमथापि वा।। 9.3 ।।
तोरणध्वजसंयुक्तं वितानादिविभूषितम्।
समङ्गलाङ्कुरादर्शलाजकुम्भाष्टमङ्गलम्।। 9.4 ।।
अग्न्यायतनसंयुक्तमादर्शसमवेदिकम्।
संस्कृत्य मार्जनालेपगव्यगन्धाक्षतादिभिः।। 9.5 ।।
सूत्रपातं ततः कुर्यात् दिग्विभागानुरूपतः।
प्राक्‌पश्चिमायते सूत्रे मध्यङ्कोभयपाश्‌वगौ।। 9.6 ।।
कृत्वाऽङ्कौ लाञ्छयेत् ताभ्यां मत्स्यौ दक्षिणसौम्ययोः।
तयोश्च सूत्रमास्फाल्य लाञ्छयेद् दिक्षि मानतः।। 9.7 ।।
द्वाभ्यां द्वाभ्यामथाङ्काभ्यां लाञ्छयेत् कोणमत्स्यकान्।
बाहुसूत्राणि चास्फाल्य चतुरश्रं प्रसाधयेत्।। 9.8 ।।
समं षोडशधा भङ्क्त्वा सूत्राण्यास्फाल्य भद्रकम्।
आलिखेन्मण्डलं तत्र चतुरश्रं सुशोभनम्।। 9.9 ।।
पञ्चवर्णैश्चतुर्द्वारं सिताब्जं तत् सपीठकम्।
चतुर्भिर्नवकैः पद्मं पीठं पङ्क्यैकया बहिः।। 9.10 ।।
द्वाभ्यां वीथीं तथा द्वाराण्यब्जस्थानं तु वर्तयेत्।
तदर्धे द्वादशांशोने चतुर्धावर्तितेंऽशकैः।। 9.11 ।।
पृथिव्यादीनि तत्त्वानि कर्णिकादिषु कल्पयेत्।
कर्णिकां केसरान् सन्धीन् दलान्यग्राणि च क्रमात्।। 9.12 ।।
कोणसूत्रं समास्फाल्य कुर्यादष्टदलं यथा।
क्षिप्तेषु सन्धिसूत्रेषु दलसन्ध्यन्तरेण तु।। 9.13 ।।
दलान्यग्राणि मानेन पार्श्वस्थेन च वर्तयेत्।
पीठे त्रिभिश्चतुर्भिश्च पादगात्राणि कल्पयेत्।। 9.14 ।।
द्वेऽन्तर्बहिश्च चत्वारि द्वारे द्वारे तु मार्जयेत्।
त्रीण्येकं चैव शोभार्थमुपशोभार्थमन्यथा।। 9.15 ।।
षड्‌भिः कोणं लतापत्रवितानैर्वीथिरुज्ज्वला।
एकहस्तं द्विहस्तं च चतुर्हस्तं च भद्रकम्।। 9.16 ।।
ततोऽधिकं तु चक्राब्जमष्टहस्तान्तमिष्यते।
द्वादशारत्निका वेदिर्दशाष्टारत्निरेव वा।। 9.17 ।।
तस्या द्वादशभागेन मध्यतोऽक्षं प्रकल्पयेत्।
नाभिं च तावतीं क्षेत्रमराणां द्विगुणं बहिः।। 9.18 ।।
नाभिवन्नेमिवीथ्योश्च क्रमात् क्षेत्राणि कल्पयेत्।
अक्षभिमिं त्रिधा कृत्वा कर्णिकादि यथाक्रमम्।। 9.19 ।।
वर्तयेन्नाभिसंस्थानि दलान्यग्राणि कल्पयेत्।
त्रिनाभि द्वादशारं तच्चक्राब्जं शुभवीथिकम्।। 9.20 ।।
कल्पयेद् विदिशोऽरस्था दिशोऽरान्तरगोचराः।
तुल्यमेवोभयोर्मानं सर्वत्र परिकल्पयेत्।। 9.21 ।।
अरं द्वादशधा कृत्वा सूत्राण्यूर्ध्वगतानि च।
मूलाग्रयोरराः स्थूला वृत्तरूपाश्च मध्यतः।। 9.22 ।।
पिपीलिकोदराः कार्या विपरीता यवोदराः।
नेमिक्षेत्रं द्विधा कृत्वा प्रथयश्चाधरोत्तराः।। 9.23 ।।
चतिर्विंशतिधा कार्यस्ते चाराग्रान्यसन्धयः।
बहिरावरणं चात्र नेमिमानेन कल्पयेत्।। 9.24 ।।
तत्र स्थानानि कल्प्यानि दिक्पालानां यथाक्रमम्।
चतुरश्राणि सर्वाणि तालमात्राणि कल्पयेत्।। 9.25 ।।
बहिर्द्वारादि कर्तव्यं चतुरश्रं यथोदितम्।
एवं मण्डलामालिख्य रजोभिः पूरयेत् क्रमात्।। 9.26 ।।
सितरक्तासितापीतश्यामैरेवात्र पञ्चभिः।
सर्वत्र कर्णिका पीता सितान्यब्जदलानि च।। 9.27 ।।
पृथुलारुणमध्यानि पीतान्येव यथाक्रमम्।
केसराण्यच्छबिन्द्वग्राण्युज्ज्वलानि प्रकल्पयेत्।। 9.28 ।।
दलान्तराणि श्यामानि व्योमबाह्योऽश्रयोऽरुणाः।
सिता धर्मादयः श्यामास्तथाऽधर्मादयः स्मृताः।। 9.29 ।।
द्वाराणि तु सितान्येव चतुर्दिक्षु प्रकल्पयेत्।
उत्तरादीनि सर्वाणि विप्रादीनां यथाक्रमम्।। 9.30 ।।
शोभा रक्तोपशोभा तु पीता नीलं च कोणकम्।
भद्रकेऽन्यद्यथाशोभं सर्ववर्णैस्तु कल्पयेत्।। 9.31 ।।
चक्राब्जेऽपि तथा पद्मं त्रिधा नाभिमथालिखेत्।
सितरक्तासितैः पीताः सर्वेऽराः सितसन्धयः।। 9.32 ।।
प्रथयः शुक्लकृष्णाः स्युर्व्यत्ययात् पीतसन्धयः।
नानावर्णानि कार्याणि दिक्पानां स्वस्तिकानि तु।। 9.33 ।।
पीताच्छपाटलश्यामकृष्णरेखास्तु तद्बहिः।
सितरक्तासितास्तिस्रो भद्रके विहिताः क्रमात्।। 9.34 ।।
द्वारादि भद्रके यत्तत् चक्राब्जेऽपि बहिस्तथा।
कल्पनीयं प्रयत्नेन दीक्षायां देशिकोत्तमैः।। 9.35 ।।
येन रूपेण यल्लेख्यं विधिवच्चक्रमण्डलम्।
तद्वर्णेनैव रजसा तत्तत्पूरणमत्र तु।। 9.36 ।।
रत्नैरोषधिभिर्लोहर्गन्धैर्बीजैश्च धातुभिः।
पत्रैश्च याज्ञिकैर्वृक्षै रजांस्येतानि कल्पयेत्।। 9.37 ।।
मुक्त्यै न्यासोऽपसव्येन देवतीर्थेन तु श्रियै।
सर्वकामसमृद्ध्यर्थं कर्तव्योऽङ्गुलिभिस्तु सः।। 9.38 ।।
ग्रन्थिवक्रकृशस्थूलनिम्नोन्नतविमिश्रणैः।
छिद्रैश्च बहवो दोषा रेखाच्छेदो न सर्वथा।। 9.39 ।।
प्रमादाद्यत्र शिष्याणां मण्डलस्य तु लेखने।
ग्रन्थ्यादि स्यादतन्द्री तु समये कुशलो गुरुः।। 9.40 ।।
कर्णिकाकेसरादीनि ललितानि प्रयोजयेत्।
सकृदर्पणमात्रेण न पुनः परिवर्तनैः।। 9.41 ।।
कर्णिकामुच्छ्रितां कुर्यात् पत्ररेखाश्च सर्वतः।
कनिष्ठामध्यमाङ्गुष्ठमिता रेखास्त्रिधोच्छ्रिताः।। 9.42 ।।
मुख्ये मध्येऽधमेऽब्जादिक्रमादूह्यश्च तत्क्षयः।
तन्मध्येषु रजोन्यासस्तत्तत्पादोच्छ्रितो भवेत्।। 9.43 ।।
ग्रन्थ्यादिपरिहारेण प्रयत्नाद् देशिकोत्तमः।
सर्वत्र समरूपाणि रजांसि विकिरेत् क्रमात्।। 9.44 ।।
कुड्ये पटे च तच्तक्रं लिखितं मानयोगतः।
पूजनीयं गृहे नित्यं क्षुद्रभूतादिशान्तये।। 9.45 ।।
काले स्वयं तु सम्पश्येन्न तत् साधारणो जनः।
तस्यानुध्यानमात्रेण सर्वमेनो विशीर्यते।। 9.46 ।।
तस्यान्तिके न तिष्ठन्ति वेताला ब्रह्मराक्षसाः।
इदं चक्रमुपारूढो विष्णुः सर्वजगत्प्रभुः।। 9.47 ।।
पूज्यो भक्तैः प्रयत्नेन सदा सर्वार्थसिद्धये।
असम्भवे द्विहस्तादिमानेनाप्यर्चनादिषु।। 9.48 ।।
चक्राब्जं वर्तयेद्विद्वानल्पं नानल्पसम्भवे।
असम्भवेऽपि स्थानानि नेम्यन्तानि न हापयेत्।। 9.49 ।।
बहिरावरणं त्वल्पे कल्पनीयं यथेप्सितम्।
वर्णाः सितारुणाः पीताः पृष्णाः शान्त्यादिदेवताः।। 9.50 ।।
योज्या युगेषु वेदेषु वर्णेषु च यथाक्रमम्।
युगान्तरानुलोमाङ्करूपं श्यामं तु पञ्चमम्।। 9.51 ।।
पञ्चवर्णमयं विश्वं तन्मात्रा मूर्तिभेदतः।
विषयेन्द्रियभेदाच्च पञ्चधेदमवस्थितम्।। 9.52 ।।
नादरूपेण विज्ञेयं व्याप्तमाद्यक्षरेण तु।
वर्णादिकल्पनातीतं तद्विष्णोः परमं पदम्।। 9.53 ।।
व्यापिनी तु परा शक्तिररूपा सर्वतोमुखी।
अविमुक्तस्तया देवो द्रष्टव्यः साधकैः सदा।। 9.54 ।।
अवर्मा सा समाख्याता सर्ववर्णा च साधकैः।
तद्बीजं सा परा माया प्रकृतिः सा गुणात्मिका।। 9.55 ।।
एकैव सा परा सूक्ष्मा गुणभेदात् त्रिधा भवेत्।
तद्भेदाद्देवभेदोऽपि ब्रह्मोपेन्द्रहरात्मकः।। 9.56 ।।
पञ्चधा सा भवेत् पश्चाद् यथा पूर्वं मयोदितम्।
तद्भेदानुविधायित्वं देवस्य श्रुतिदर्शनात्।। 9.57 ।।
कल्पितं मुनिभिर्भेदास्त्वसंख्येया गुणोद्भवाः।
पुरुषं मण्डलं विद्यात् पद्मं हृदयमस्य तु।। 9.58 ।।
बाह्वन्तरगतं मध्यं नाभिमूलेऽब्जनालकम्।
पदे द्वे पश्चिमद्वारे ज्ञातव्ये दक्षिणोत्तरे।। 9.59 ।।
पद्मनालं नवच्छिद्रं विमलादिकलाश्रयम्।
तस्य मूलं भवेत् सूक्ष्मो बीजरूपो जनार्दनः।। 9.60 ।।
आधारभूतं सर्वस्य महिम्नि स्वे व्यवस्थितम्।
पद्ममूलं विजानीयाद्यतोऽकारादयोऽभवन्।। 9.61 ।।
मरुतः कण्टका नालं ग्रन्थिर्गुणमयो महान्।
बुद्धिभेदा दलान्यष्टौ धर्माधर्मादयस्ततः।। 9.62 ।।
नालान्तेऽहंकृतोऽनन्तस्तन्मात्रेन्द्रियभूतभृत्।
पद्मोऽव्यक्तमकारादिभेदोऽर्केन्द्वग्निमण्डलम्।। 9.63 ।।
बुद्धिगर्वमनोमात्रा दक्षिणादिदलाष्टकम्।
इत्यन्ये विमलाद्यष्टशक्तिजं चापरे विदुः।। 9.64 ।।
अण्डमध्यगतं पद्मं पिश्वस्यायतनं महत्।
मायाण्डाधःकपालस्था विद्या चोर्ध्वं व्यवस्थिता।। 9.65 ।।
पुरीततं हृदब्जस्य कल्पयेत् प्रतिवारणम्।
तद्बाह्यतः पुराकारो वैराजो देव उच्यते।। 9.66 ।।
पीताच्छारुणकृष्णेषु श्यामे च क्ष्मादयः स्थिताः।
वसवोऽब्जदलाग्रस्था रुद्रादित्याश्च केसराः।। 9.67 ।।
मरुतो दलसन्धिस्था रेणवो ग्रहतारकाः।
दलान्तराग्ररेखासु सरितः सागरास्तथा।। 9.68 ।।
मेरुस्तु कर्णिकान्तस्थो बीजेषु मुनयः स्थिताः।
सूर्येन्द्वग्निगतो विष्णुस्तानतीत्य स्थितस्त्विषा।। 9.69 ।।
तस्त्वरूपं परं नित्यं यः पश्यति स पश्यति।
आत्मानमन्तरात्मानं परमात्मानमित्यपि।। 9.70 ।।
तस्य तुर्यं परं रूपं यः पश्यति स एव सः।
यक्षाद्याः कण्टका नाले रोमाण्यप्सरसः स्मृताः।। 9.71 ।।
सूत्रं प्रजापतिः पत्रमूले प्राणादिवायवः।
चक्रमण्डलमध्यस्थ आत्मा सर्वेश्वरो हरिः।। 9.72 ।।
निष्कलस्तु समाख्यातः परमे व्योम्नि संस्थितः।
एवं यो वेत्ति देवं तं मण्डलान्तर्गतं तथा।। 9.73 ।।
स हित्वा वैष्णवीं मायामाप्नुयात् परमं पदम्।
अविधानेऽपि यो देवं मण्डलान्तः स्थितं यजेत्।। 9.74 ।।
पश्येद् वा तेन देवेशः साक्षाद् दृष्टो भवेद् ध्रुवम्।
मण्डलेऽत्र भवेन्नित्यं सान्निध्यं सर्वरूपिणः।। 9.75 ।।
तस्मात् तीर्थादिपुण्येभ्यो विशिष्टं मण्डलेऽर्चनम्।

।। इति विष्णुसंहितायां नवमः पटलः ।।


"https://sa.wikisource.org/w/index.php?title=विष्णुसंहिता/पटलः_९&oldid=207325" इत्यस्माद् प्रतिप्राप्तम्