विष्णुसंहिता/पटलः १

विकिस्रोतः तः
विष्णुसंहिता
पटलः १
[[लेखकः :|]]
पटलः २ →
विष्णुसंहितायाः पटलाः



।। श्रीः ।।
।। श्रीगणेशाय नमः ।।
।। विष्णुसंहिता ।।
।। अथ प्रथमः पटलः ।।

श्रीशैलशिखरे सिद्धमासीनं तन्त्रपारगम्।
प्रणम्यात्युज्ज्वलाकारं पृष्टवानौपमन्यवः।। 1.1 ।।
भगवन्! दुर्निरीक्ष्योऽर्कं जित्वेवासि स्थितस्त्विषा।
नेदृशं जात्वहं रूपं दृष्टवानस्मि कस्यचित्।। 1.2 ।।
किं देवानां भवानेको मुनीनामथवा नृणाम्।
त्वामहं प्रष्टुमिच्छामि तव विस्मापितस्त्विषा।। 1.3 ।।
तेजसोऽत्युज्ज्वलस्यास्य श्लाघनीयः समुद्भवः।
कुतोऽत्रागाः किमर्थं वा कतमे जन्म वा कुले।। 1.4 ।।
कृतकृत्योऽस्पृहो वा त्वमतुल्यमहिमा ध्रुवम्।
त्वद्गोत्रनामकर्मादि याथातथ्येन सर्वशः।। 1.5 ।।
महत् कौतूहलं श्रोतुमविज्ञेयं नचेन्मया।
इति पृष्टोऽब्रवीत् सिद्धो हरिं ध्यात्वा कृताञ्जलिः।। 1.6 ।।
हर्षगद्गदया वाचा सरोमाञ्चाश्रुविक्रियः।
श्रूयतामखिलं वक्ष्ये मायैवैषा हि वैष्णवी।। 1.7 ।।
बुद्ध्याद्यक्षार्थनानात्वैर्या मोहयति देहिनः।
सुमतिर्नाम बैदोऽहमृषेरिध्मवतः सुतः।। 1.8 ।।
साङ्गेषु त्रिषु वेदेषु तन्त्रेषु च कृतश्रमः।
बाल्येऽहं ब्रह्मचर्येण शैलेऽस्मिन् विमलोदके।। 1.9 ।।
रैभ्यस्य जपतोऽभ्याशे चिरं शुश्रूषकोऽवसम्।
चिरदृष्टं दिदृक्षुस्तमिमं पूर्वोपकारिणम्।। 1.10 ।।
इहागतोऽस्मि भद्रं ते विष्णुलोकाद् विहायसा।
को न मन्त्रस्त्वया लब्धः पुरेह जपतो गुरोः।। 1.11 ।।
किमन्यद्वा यदभ्यासात् परिणामोऽयमीदृशः।
तस्मिन्ननुपदिश्यैव मन्त्रसिद्ध्या तिरोहिते।। 1.12 ।।
रुदन् का गतिरित्युच्चैरश्रौषं खेऽस्फुटां गिरम्।
गतिस्तारनमोनामेत्यनया दुर्गमार्थया।। 1.13 ।।
शिवमन्त्रं स्मृतं जप्त्वा तत्सिद्ध्याऽद्राक्षमीश्वरम्।
तेनोक्तो ब्रह्ममन्त्रं त्वं जपेत्येनं ततोऽजपम्।। 1.14 ।।
ततश्चाविरभूद् ब्रह्मा वरदो लोकभावनः।
तेनाप्युक्तोऽस्मी नम्रोऽहं विष्णुमन्त्रस्तु जप्यताम्।। 1.15 ।।
ततो जटाक्षमालादितपोलिङ्गधरावुभौ।
मन्वानस्तावपर्याप्तौ पर्याप्तं विष्णुमेव च।। 1.16 ।।
षडक्षरं जपन् मन्त्रमहर्निशमनाकुलम्।
विश्वरूपमरूपं तं दृष्टवानस्मि रूपिणम्।। 1.17 ।।
शङ्खचक्रगदापद्मशार्ङ्गासिशरखेटकैः।
श्रीवत्सकौस्तुभापीतकौशेयैर्वनमालया।। 1.18 ।।
किरीटहारकेयूरकुण्डलादिविभूषणैः।
अलङ्कृतमुदाराङ्गमप्रमेयं सुरोत्तमम्।। 1.19 ।।
दिव्यरूपं खगारूढं दिव्यगन्घानुलेपनम्।
सहस्रदित्यसंकाशं दुर्निरीक्षं सुरासुरैः।। 1.20 ।।
ऋग्यजुस्सामजैर्मन्त्रैः स्तोत्रैश्च विविधैरपि।
प्रसाद्यैनं ततो भक्त्या व्यज्ञापयमहं पुनः।। 1.21 ।।
भगवन्! देवदेवेश! वासुदेव! जगत्पते!।
तज्ज्ञानं मेऽनुगृह्णीष्व येन स्यात् कृतकृत्यता।। 1.22 ।।
इत्युक्तो भगवान् प्रीतः प्राह गम्भीरया गिरा।
दिष्ट्या ते वत्स! धीः शुद्धा सुमत्याख्या तवामृषा।। 1.23 ।।
परितुष्टोऽस्मि भद्रं ते तस्माद् वक्ष्यामि ते हितम्।
शृणु त्वं दीक्षितो भूत्वा पूर्वमीश्वरसंहिताम्।। 1.24 ।।
ईश्वराद् ब्रह्मणः पश्चात् तथैव ब्रह्मसंहिताम्।
मद् विष्णुसंहितां श्रुत्वा ततो ज्ञानमवाप्स्यसि।। 1.25 ।।
त्रयो मन्त्रास्त्वया जप्ताः शिवस्य ब्रह्मणो मम।
तस्मादनुग्रहेणापि त्रिभ्यो भाव्यं तव क्रमात्।। 1.26 ।।
इत्युक्त्वाऽन्तर्हिते देवे स्मृतः प्रादुरभूच्छिवः।
स नतं प्राह मां प्रीतो विष्णूक्तं क्रियतामिति।। 1.27 ।।
ततो दीक्षाविधिं कृत्वा तस्मादीश्वरसंहिताम्।
अवाप्य द्वादशाध्यायां निर्बीजार्चाविधायिनीम्।। 1.28 ।।
ततः स्मृतागताद् देवाद् ब्रह्मणो ब्रह्मसंहिताम्।
श्रुत्वा द्वात्रिंशदध्यायां बीजाबीजार्चनाश्रयाम्।। 1.29 ।।
ततः स्मृतागतं देवमष्टबाहुमधोक्षजम्।
पूर्ववत् प्रणिपत्याहं व्यज्ञापयमिदं पुनः।। 1.30 ।।
देवदे! नमस्तेऽस्तु वासुदेव! सुरोत्तम।
ईश्वराद् ब्रह्मणश्चाहं श्रुतवानस्मि तत्कृते।। 1.31 ।।
संहिते सर्वलोकेश! त्वन्नियोगाद् यथाविधि।
अतस्त्वमनुगृह्णीष्व यथावद् विष्णुसंहिताम्।। 1.32 ।।
इति विज्ञापितो भक्त्या भगवान् विष्णुरव्ययः।
आचष्टाखिलसिद्ध्यर्थां विस्तीर्णां विष्णुसंहिताम्।। 1.33 ।।
अष्टोत्तरशताध्यायामष्टैश्वर्यादिसिद्धिदाम्।
ज्ञानचर्याक्रियायोगशुभपादचतुष्टयाम्।। 1.34 ।।
बीजाबीजसबीजार्चाविधानादिसमन्विताम्।
ततो नष्टः क्षणान्मोहः कामेषूपरता स्पृहा।। 1.35 ।।
छिन्ना मे संशयाः सर्वे प्रसन्ना चाभवन्मतिः।
प्रकाशं चाभवत् साक्षात् तद् विष्णोः परमं पदम्।। 1.36 ।।
दिव्यतूर्यरवो जज्ञे पुष्पवृष्टिश्च शोभना।
समन्तात् सुखसंस्पर्शः सुगन्धिश्च समीरणः।। 1.37 ।।
ततश्चान्तर्हिते तस्मिन् भगवत्यखिलेश्वरे।
जपार्चादिपरो भूत्वा कञ्चित् कालमिहावसम्।। 1.38 ।।
जपतो मे कदाचित्तु पुष्पवृष्ट्यादि पूर्ववत्।
सुनिमित्तान्वितं जज्ञे सर्वाश्चुक्षुभिरे दिशः।। 1.39 ।।
ततो द्रुतमुपागम्य तार्क्ष्यो मां हरिशासनात्।
आदाय दिव्यया गत्या विष्णुलोकमुपानयत्।। 1.40 ।।
तत्र साक्षान्महाविष्णुं ब्रह्मादिभिरभिष्टुतम्।
दिव्यरूपं पुनर्दृष्ट्वा प्रणम्यातिष्ठमग्रतः।। 1.41 ।।
स प्रीतो मत्समीपे त्वं वसेति वरदोऽब्रवीत्।
सुसुखं तत्समीपेऽहमुषित्वा बहुवत्सरम्।। 1.42 ।।
प्राप्याष्टगुणमैश्वर्यं तत्प्रसादादनत्ययम्।
द्युतिं चेमामिह प्राप्तश्चरँल्लोकान् यदृच्छया।। 1.43 ।।
त्वं तु भक्तो विनीतश्च श्रोतव्यं चैव तेऽखिलम्।
अशक्याऽल्पेन कालेन सा श्रोतुं विष्णुसंहिता।। 1.44 ।।
वक्ष्याम्युद्‌धृत्य सारं ते यथा न स्यादिहाश्रुतम्।
मया पृष्टो यथा भूयो भगवान् सङ्ग्रहेच्छया।। 1.45 ।।
सारभूतां ममावोचत् संक्षिप्तां विष्णुसंहिताम्।
तन्त्रोद्देशोऽथ तद्व्याख्या वैभवं क्षेत्रनिर्णयः।। 1.46 ।।
मन्त्रोद्धारोऽर्चना मुद्रा संस्कारोऽग्नेश्च मण्डलम्।
दीक्षाभिषेचनं भूमिः प्रासादो बिम्बलक्षणम्।। 1.47 ।।
प्रतिष्ठापञ्चकं चैव बिम्बशुद्धिक्रमस्तथा।
अधिवासः प्रतिष्ठा च प्रतिष्ठानन्तरक्रिया।। 1.48 ।।
उत्सवश्च तथा यात्रा बलिर्विश्वार्चनं तथा।
जीर्णोद्धारो महोत्पातशमनं स्नपनं तथा।। 1.49 ।।
प्रोक्षणं कर्मशेषश्च समयाचारसङ्ग्रहः।
योगो भागवतश्चैवमध्यायास्त्रिंशदेव तु।। 1.50 ।।
याऽष्टोत्तरशताध्याया महती विष्णुसंहिता।
तत्रोक्तानां तु सर्वेषामर्थानामिह सङ्ग्रहः।। 1.51 ।।
सेयं गुह्यतमा पुण्या स्पष्टार्था विष्णुसंहिता।
भुक्तिमुक्तिप्रदा ज्ञेया विष्णुना स्वयमीरिता।। 1.52 ।।

।। इति विष्णुसंहितायां प्रथमः पटलः ।।

"https://sa.wikisource.org/w/index.php?title=विष्णुसंहिता/पटलः_१&oldid=207289" इत्यस्माद् प्रतिप्राप्तम्