विष्णुसंहिता/पटलः २७

विकिस्रोतः तः
Jump to navigation Jump to search
← पटलः २६ विष्णुसंहिता
पटलः २७
[[लेखकः :|]]
पटलः २८ →
विष्णुसंहितायाः पटलाः


।। अथ सप्तविंशः पटलः ।।

अथ वक्ष्यामि संक्षेपात् प्रोक्षणादिविधिक्रमम्।
नवीकरणमुद्दिश्य कार्यं सर्वं यथाक्रमम।। 27.1 ।।
सम्मृज्य सर्वतो गेहं कपिलागोमयेन च।
तन्मूत्रेण च तेनात्र प्रोक्षयेच्छमिति ब्रुवन्।। 27.2 ।।
चतुर्दिक्षु तथा कृत्वा सगर्भगृहमादितः।
तूष्णीं मन्त्रैश्च सम्प्रोक्ष्य शुद्धोदैर्मन्त्रवारिभिः।। 27.3 ।।
इमा आपः शिवा गव्यैः पञ्चोपनिषदेन च।
सर्वतश्चक्रसज्जप्तैर्विकिरेत् सर्षपाक्षतैः।। 27.4 ।।
संशोध्य मण्डपं चाग्रे तोरणध्वजमण्डितम्।
शयनं कल्पयेत् यम्यक् कुसुमोत्करसंयुतम्।। 27.5 ।।
ततः सुरक्षितं कृत्वा पुण्याहं तत्र वाच्येत्।
कर्मार्यां स्थापयित्वाऽद्भिः सरत्नाभिश्च पञ्चभिः।। 27.6 ।।
तीर्थोदैश्च त्रयीसारसूक्तैः स्नपनमाचरेत्।
नवाभ्यां शुक्लवस्त्राभ्यां वेष्टयित्वाऽक्षरेण तु।। 27.7 ।।
उपवीतमथाद्येन मकुटं मध्यमेन तु।
उत्तरीयं तृतीयेन पुंबीजेन च भूषणम्।। 27.8 ।।
सर्वेण गन्धपुष्पाद्यैरिष्ट्वा पुण्याहमाचरेत्।
ओङ्कारं भगवन् सर्वव्यापिन् सर्वपदं पुनः।। 27.9 ।।
भूताधिपत इत्येवं सर्ववेदपदं पुनः।
सारमयेत्यतः सर्वदेवाधिपत इत्यपि।। 27.10 ।।
एह्येहि पुरुषेत्येन्महापुरुषशब्दवत्।
अन्तादिमध्यभूतेति परात्परतरेति च।। 27.11 ।।
व्यक्ताव्यक्तपदं पश्चाद् स्थूलसूक्ष्ममहापदम्।
योगिन् नम इति स्वाहशब्दान्तेन तमाह्वयेत्।। 27.12 ।।
सकलीकृत्य मूलेन हृदयादिभिरोमिति।
दद्यात् पाद्यं तथाचाममितिगन्धानुलेप्नम्।। 27.13 ।।
इमाः सुमनसः पुष्पं धूपं चैव वनस्पतेः।
शुभं ज्योतिः प्रदीपं च दद्यादर्ध्यं दशाङ्गवत्।। 27.14 ।।
आपः सिद्धार्थका दूर्वा अक्षतास्तितलण्डुलाः।
क्षीरं यवाश्च माषाश्च कुशाग्राणीति तद् विदुः।। 27.15 ।।
ओन्नमः पदमादौ तु ततः पुरुषोत्तमाय च।
ततः समस्तलोकाधिपतयेऽर्घ्यमनन्तरम्।। 27.16 ।।
निवेदयामिसंयुक्तो नमः स्वाहेत्ययं मनिः।
भूयश्चाचमनं दद्यात् पञ्चभिः स्नापयेत् पुनः।। 27.17 ।।
पूर्ववद् वस्त्रभूषादि पाद्याचमनमर्चनम्।
बद्ध्वाऽथ कौतुकं धेनुप्रदानं स्वस्तिवाचनम्।। 27.18 ।।
कृत्वाऽधिवासयेद्धोमान् पूर्ववद् दिक्षु कारयेत्।
ऋग्यजुस्सामाथर्वज्ञा जुहुयुर्दिक्षु दीक्षिताः।। 27.19 ।।
क्रमाच्छाब्दिकनैरुक्तच्छन्दश्शिक्षाविदोऽन्यतः।
ज्योतिःकल्पेतिहासज्ञाः पुराणज्ञाः सदस्यकाः।। 27.20 ।।
मीमांसान्यायसाङ्खयज्ञा वेदान्तज्ञाश्च साक्षिणः।
गायत्र्या तु मथित्वाऽग्निमक्षरैः प्रोक्ष्य चाष्टभिः।। 27.21 ।।
तद्युक्तैस्तैर्निषेकादि कृत्वा पूर्णां प्रदाय च।
विहृत्याग्निमुखं कृत्वा जुहुयुः सर्व एव ते।। 27.22 ।।
समिधः क्षीरिजा ब्राह्मीरथ पालाश्य एव वा।
पृथगष्टसहस्राणि घृताक्ता मन्त्रसम्मिताः।। 27.23 ।।
ततः प्रोक्ष्य जलैर्बिम्बं सदस्येभ्यो निवेदयेत्।
सुहुताः समिधः पूर्वमस्माभिः शास्त्रदृष्टिभिः।। 27.24 ।।
शं भवन्तो वदन्त्वत्र प्रीयतां च जनार्दनः।
तत ओं स्वस्ति भवन्तो ब्रुवन्त्विति विधानतः।। 27.25 ।।
ओं स्वस्ति शान्तिरित्यष्टौ सदस्या ब्रूयुरादरात्।
ओं स्वस्ति शान्तिः सुहुतं भवत्विति गुरुर्वदेत्।। 27.26 ।।
सदस्यानुमताः पश्चादाज्येन जुहुयुस्तथा।
आज्यभागा हुतास्तावदित्युक्त्वा शं ब्रुवन्त्विति।। 27.27 ।।
निवेदयेयुरष्टौ ते वदेयुश्च शमस्त्विति।
आचार्य ओं शं सुहुतं भवत्विति तदा वदेत्।। 27.28 ।।
चरुं हुत्वा निवेद्यं तु चरुहोमः कृतस्त्विति।
ओं मङ्गलं ब्रुवन्त्वन्ते तेऽपि मङ्गलमस्त्विति।। 27.29 ।।
ओं मङ्गलं च सुहुतं भवत्विति गुरुर्वदेत्।
पुनराज्यं तथा हुत्वा निवेद्यं प्राग्वदेव तु।। 27.30 ।।
शमित्यत्र सदस्यैश्च वक्तव्यं गुरुणा तथा।
सर्वव्याहृतिभिर्होमाः कर्तव्यास्तैर्विदानतः।। 27.31 ।।
आद्यन्तयोः परीषेकः कार्यः पूर्णां तथान्ततः।
एवं हुत्वा तथा सर्वे जुहुयुश्चावसानिकम्।। 27.32 ।।
इन्द्रविष्णुमरुद्भ्योऽग्निधर्मनेतृभ्य एव च।
साध्येभ्यश्च दिशापालैः सर्वदेवगणैः सह।। 27.33 ।।
व्याहृत्याग्निवायुशक्रवरुणब्रह्मविष्णुभिः।
अश्विभ्यां गोपतियमाग्निविष्णुवसुबास्करैः।। 27.34 ।।
विश्वभूतदिशापालनिर्ऋतीरौद्ररूपकैः।
विष्णवे च पुनः शूलपाणये च यमाय च।। 27.35 ।।
सकालधर्मो दण्डी च त्र्यम्बको वरुणः पुनः।
विष्णुर्मित्रोऽथ परमेष्ठ्यादित्यभूतसमुद्रवान्।। 27.36 ।।
आपगावायुविष्णुभ्यो मरुद्भ्यो जातवेदसे।
इन्द्राय सर्वलोकेभ्यो ब्रह्मणे विश्वकर्मणे।। 27.37 ।।
सोमाय सोमपार्षद्भ्यो ग्रहनक्षत्रसंयुतैः।
तारागणैर्भूतभौमदिव्यनागैश्च होमयेत्।। 27.38 ।।
सर्वाश्च देवता रुद्रविश्वरूपाख्यविष्णवः।
ब्रह्मा रुद्राः सर्वदेवाः सहविघ्नैर्गणाधिपैः।। 27.39 ।।
आदावन्ते च योक्तव्यास्तथा व्याहृतयः पृथक्।
ससम्पातैस्ततः कुम्भं पूरयेच्छान्तिवारिभिः।। 27.40 ।।
देवस्योत्तरतो विद्वान् संस्थाप्य सकमण्डलुम्,
सर्वतीर्थाहृतैः सर्वसमुद्रादाहृतैरपि।। 27.41 ।।
प्राक्‌स्रोतसीभ्यो वापीभ्यः प्रत्याहृतैरथाम्बुभिः।
सरत्नकैः सपवित्रैः कलशं पूरयामि च।। 27.42 ।।
सर्वद्वयं ततो व्यापिन् सर्वलोकाधिसंयुतम्।
पतये नमः स्वाहेति तारादिः पूरणे मनुः।। 27.43 ।।
अनेन मन्त्ररूपेण पूरियित्वा कमण्डलुम्।
वेष्टयेत् क्षौमपट्टेन सापिधानमलङ्कृतम्।। 27.44 ।।
शेषैः शान्त्युदकैः पूर्णं पूरयित्वाऽन्यमादितः।
सापिधानमलङ्कृत्य क्षौमाभ्यां परिवेष्ट्य च।। 27.45 ।।
गन्धादिभिरथाभ्यर्च्य कलशं च कमण्डलुम्।
कलशं सर्वकल्याणं गृहीत्वा प्रोक्षकः शुचिः।। 27.46 ।।
सर्वमङ्गलसंयुक्तो नवाम्बरधरो हरिः।
स्वयं भूत्वा जपन्मन्त्रं शनैर्गच्छेत् प्रदक्षिणम्।। 27.47 ।।
आधाय सकुशे हस्ते सव्ये तूपरि दक्षिणम्।
तथा कमण्डलुं चान्यो गृहीत्वा च तदग्रतः।। 27.48 ।।
सकुशां पातयेद् धारामविच्छिन्नामनुत्कटाम्।
शन्नोदेव्यणोरणीयान्मन्त्रद्वयमुदाहरेत्।। 27.49 ।।
प्रासादान्तश्च संशोध्य तथा कृत्वा विचक्षणः।
कारयेद् बिम्बशुद्धिं च युक्तितो मूर्तिपैर्गुरुः।। 27.50 ।।
शान्तिं कृत्वा तदग्रे तु कौतुकस्नानमाचरेत्।
पीठे निवेश्य तच्छय्यामनुगैरपनाययेत्।। 27.51 ।।
क्षालितं शुद्धतोयेन स्नापयेन्मन्त्रवारिभिः।
शिष्टैः शान्त्युदकैश्चैव स्नापयेत् प्रणवेन तु।। 27.52 ।।
पाद्याचामाम्बरं भूषामुपवीतं च वेष्टनम्।
पूर्ववत् सम्प्रदातव्यं दीपान्तं पुनरेव च।। 27.53 ।।
ब्रह्माणमीश्वरं विप्राननुमान्य यथाविधि।
अनुज्ञादक्षिणां दत्त्वा कुर्याच्च स्वस्तिवाचनम्।। 27.54 ।।
शयने रुद्रसूक्तेन पीठाच्चोत्थापनं भवेत्।
स्थाने पुरुषसूक्तेन ब्राह्मेणासनकर्मणि।। 27.55 ।।
पुरुषेऽक्षरराजं वा मध्यमं शाङ्करे तथा।
अन्त्यं ब्राह्मे यथायोगं युक्त्या चोत्थापनं चरेत्।। 27.56 ।।
शान्तिकुम्भं पुरस्कृत्य धारं चैव कमण्डलोः।
कर्मार्चामानयेद् विद्वान् वाग्यतोऽन्तः स्मरन् हरिम्।। 27.57 ।।
तत्त्वज्ञेन धृतं कुम्भं सम्यगुद्वाहयेत् पुरः।
शाकुनस्वस्तिसूक्ताभ्यां जयशब्दादिसंयुतम्।। 27.58 ।।
साग्निं प्रदक्षिणीकृत्य प्रासादं प्रविशेत् पुनः।
दत्त्वाऽर्घ्यं कौतुकं पीठे स्थापयेद् ब्राह्ममुच्चरन्।। 27.59 ।।
शिखासिरोमुखग्रीवाद्विबाहुहृदये तथा।
नाभावुपस्थ ऊर्वोश्च करयोः पादयोर्न्यसेत्।। 27.60 ।।
ऐन्द्रे तु पृष्ठतः कार्यमेवं न्यासविधिः स्मृतः।
ततस्तु प्रोक्षयेत् विद्वान् तं सम्यग् द्विषडक्षरैः।। 27.61 ।।
कर्मार्चागतमावाह्य गन्धपुष्पोदकेन तु।
स्नापयेन्मूलबिम्बं तु ततः शान्त्युदकेन च।। 27.62 ।।
सर्वान्तैः कास्यहृद्गुह्यपादस्थैः कल्पयेत् तनुम्।
हृदयादीनि चाङ्गानि यथास्थानं निवेशयेत्।। 27.63 ।।
पाद्यादि पूर्ववत् कार्यं पुण्याहं वाचयेत् ततः।
गन्धपूष्पादिभिः सम्यक् पूजयित्वा च भक्तितः।। 27.64 ।।
पायसं यावकं चान्नं गौळं वाऽत्र निवेदयेत्।
तद् भक्ष्यक्षीरसंयुक्तं साज्यं स्वादूपदंशकम्।। 27.65 ।।
अनुक्तमन्त्रकार्येऽत्र गायत्रीं वैष्णवीं वदेत्।
तच्छेषेण ततो दद्यात् पार्षदेभ्यो बलिं क्रमात्।। 27.66 ।।
आचम्याचमनीयं च दत्त्वा चान्नं विसृज्य तत्।
दक्षिणां च ततो दद्यादन्नाद्यं चानिवारितम्।। 27.67 ।।
चक्रादीनां तु मन्त्राः स्युः स्वनामपदलक्षिताः।
यदुक्तं स्थापने कर्म तत् सर्वं कारयेत् ततः।। 27.68 ।।
स्थापनोक्तविधानेन स्नपनं कारयेत् ततः।
उत्सवं च तथा यात्रां सप्ताहं भक्तिपूर्वकम्।। 27.69 ।।
दिनत्रयं तु वा कुर्यादेकाहमथवाऽऽपदि।
तथाऽवश्यं तु कर्तव्या शान्त्यर्थं चोत्सवक्रिया।। 27.70 ।।
प्रोक्षणं सद्य एवेष्टं प्रायश्चित्ते विशेषतः।
स्वर्शश्च विष्णुसूक्तेन सहस्राष्टाक्षरान्वितः।। 27.71 ।।
शुद्धौ कृतायामिष्टोऽयं विधिः पञ्चाज्यहोमवान्।
न तिथिर्न च नक्षत्रं न कालस्य परीक्षणम्।। 27.72 ।।
प्रायश्चित्तेषु कर्तव्या सद्य एव च निष्कृतिः।
चतुस्त्रिद्व्येकवेदाः स्युस्तन्त्रज्ञाश्चाधिकारिणः।। 27.73 ।।
सद्यश्‌चेदेकवेदोऽपि बहुवेदो(द)विलम्बने।
आचार्यः सर्वतन्त्रज्ञस्तदा स्याच्चोत्तमो विधिः।। 27.74 ।।
अधमोऽपि विधिः कार्यः सद्योऽशक्तैरिति स्थितिः।
पदवाक्यप्रमाणज्ञैर्वेदयज्ञव्रतस्थितैः।। 27.75 ।।
दक्षैर्जितेन्द्रियैः शान्तैर्मूर्तिपैः सहितो गुरुः।
एवं कुर्याद् विधानेन जलसम्प्रोक्षणं हरेः।। 27.76 ।।
आढकत्रयसम्पूर्णमच्छिद्रं कलशं शुभम्।
सकूर्चं वस्त्रयुग्मन वेष्टितं रत्नसंयुतम्।। 27.77 ।।
शालिकूर्चस्थितं पूर्णं पुरुषसूक्तेन पूजयेत्।
मूलेनाङ्गचतुर्मूर्तिविधिनाऽर्घ्यादिभिः क्रमात्।। 27.78 ।।
तत्र विष्णुं महाविष्णुं सदाविष्णुं च विन्यसेत्।
उल्लेखनादिकं कृत्वा संस्कृत्याग्निं च होमयेत्।। 27.79 ।।
पौरुषं विष्णुसूक्तं च चित्तिस्रुक्‌सप्तहोतृकम्।
चतुर्होता च षड्ढोता पञ्चोपनिषदो जितम्।। 27.80 ।।
सावित्री व्याहृतिश्चैव हंसःशुचिषदित्यपि।
मूलत्रयं च गायत्रीं जुहुयात् सुसमाहितः।। 27.81 ।।
हुत्वा हुत्वा स्पृशेद् बिम्बं कलशं भवनं तथा।
मूलत्रयेण होमान्ते स्पृशेत् प्रसृतिमुद्रया।। 27.82 ।।
सम्पातहुततोयेन कलशस्थेन सर्वतः।
परिभ्रम्याग्रतो धारां कृत्वा सम्प्रोक्षयेत् कुशैः।। 27.83 ।।
वास्तुहोमे कृतेऽन्तश्च वास्तोष्पदशपञ्चकैः।
हुनेदष्टसहस्रं तु पालाशं खादिरं तु वा।। 27.84 ।।
तथा पञ्चशतं वाऽपि कुर्यादष्टशतं तु वा।
तावदाज्यं चरुं लाजांस्तिलाञ् शालींश्च होमयेत्।। 27.85 ।।
प्रत्येकमेवमेवं तु मन्त्रे मन्त्रे च होमयेत्।
यथालाभं तु होतव्यं शास्त्रदृष्टेन वर्त्मना।। 27.86 ।।
वैदिकानां हुनेदाज्यं शेषं वै मूलविद्यया।
एवं कृत्वा विधानेन कौतुकं बन्धयेत् ततः।। 27.87 ।।
द्वादशाक्षरमन्त्रेण पद्मसूत्रेण चैव हि।
रात्रौ महोत्सवं कुर्याच्छङ्खतूर्यरवैः शुभैः।। 27.88 ।।
रात्रौ महोत्सवं कर्तव्यो जलसम्प्रोक्षणं दिवा।
प्रभाते सुमुहूर्ते च प्रोक्षणं कर्तुमारभेत्।। 27.89 ।।
आवाह्य पूजयेद् देवं शङ्खचक्रादिलक्षणम्।
साङ्गं द्वादशभिश्चैव दशभिर्मुर्तिभिः सह।। 27.90 ।।
आदित्यरुद्रवस्वाद्यैः किन्नराद्यैश्च संवृतम्।
वाङ्गयादिं सबिन्दुं च नमस्कारान्तमुत्तमम्।। 27.91 ।।
प्रणवादिकमन्त्रेण स्नापयेत् सुसमाहितः।
शेषोदकेन मन्त्रज्ञः स्नापयेद् भुवनेश्वरम्।। 27.92 ।।
सूक्ताभ्या

"https://sa.wikisource.org/w/index.php?title=विष्णुसंहिता/पटलः_२७&oldid=207343" इत्यस्माद् प्रतिप्राप्तम्