सामग्री पर जाएँ

सात्त्वतसंहिता/अध्यायः १

विकिस्रोतः तः
सात्त्वतसंहिता
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →
सात्त्वतसंहितायाः अध्यायाः


सात्वतसंहिता
अलशिङ्गभट्टविरचितभाष्योपेता
प्रथमः परिच्छेदः।

विष्णोराराधनपरा[1] मुनयो मलयाचले ।
संस्थिताः सिद्वगन्धर्वविद्याधरनिषेविते ।। 1 ।।

श्रीमद्यादवशैलाग्रशेखरं सद्गुणाकरम् ।
योगानन्दनृसिंहाख्यदैवतं पर्युपास्महे ।।
श्रीमन्नारायणोऽव्याद् यदुगिरिनिलयो यः[2] परं दिव्यरूपं
सौषुप्तस्वप्नजाग्रत्पदभिदुरमिदं चातुरात्म्यं च रूपम् ।
रूपं वैशाखयूपं विविधमपि वैभवं चापि बिभ्रद्
देवीभूषायुधाढ्यो विहगपतिरथः पाति लोकान् समस्तान् ।।
विश्वस्य भजतां नित्यं नश्वरेतरभोगदः ।
शश्वत् सर्वार्थदो भूयाद् विश्वत्राता नृकेसरी ।।
प्रणम्य शिरसाऽऽचार्यान् प्रतिष्ठापितसात्वतान् ।
तदादिष्टेन मार्गेण सात्वतार्थः प्रकाश्यते ।।

[3]मलयाचले नारदस्यागमनम्
अत्र तावद् भगवान् भगवच्छास्त्रविशारदो नारदो महामुनिः साक्षाद् वासुदेवेन संकर्षणायोपदिष्टं स्वेन संकर्षणाल्लब्धरहस्याम्नायसंज्ञितैकायनश्रुतेः सूत्ररूपं भगवत्प्राप्त्यैकोपायभूताभिगमनोपादानेज्यास्वाध्याययोगरूपकर्मविचारैः परव्यूहविभवरूपब्रह्मविचारैश्च गर्भितं पञ्चविंशतिलक्षणं सात्वतं तन्त्रमुपदेक्ष्यन् आदौ तदवतारक्रमं दर्शयति- विष्णोरिति।
अत्रादौ विष्णुशब्दप्रयोगेण चिकीर्षितग्रन्थनिर्विघ्नपरिसमाप्तिसाधकं निरवधिकमङ्गलं कृतं भवति। सिद्धगन्धर्वविद्याधरनिषेविते। देवतानामपि सेव्यत्वादतिपरिशुद्धमित्यर्थः। मलयाचले मलयपर्वते। मुनयः भगवद्ध्यानशीला ऋषयः। विष्णोः जगद्व्यापनशीलस्य भगवतः। आराधनपराः सन्तः सर्वव्यापिनो भगवतः कुत्राराधनं कार्यम्? कथं तद्विधानम्? कथं तद्विधानम्? को वा उपदेक्ष्यतीति तदेकचित्ताः सन्त इत्यर्थः। संस्थिताः समित्युपसर्गेण चिरकालीना स्थितिः सूच्यते।। 1 ।।
[1 `श्रीगोविन्ददेवो जयति' इत्येवम् उ. मातृकारम्भः। ततः परम्- "शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ।।" इत्येष श्लोको दृश्यते- अ. उ., उ. मातृकायां च- "यस्य द्विरदवक्त्राद्याः पारिषद्याः परस्परम्। विघ्नं निघ्नन्ति सततं विष्ववसेनं तमाश्रये।।" इति द्वितीयोऽपि श्लोको वर्तते।]
[2 यं-म.।]
[3 नास्ति वाक्यमेतत्- म.।]

कालेन केनचित् स्वर्गाद् रामदर्शनलालसः ।
तत्रावतीर्णो देवर्षिर्नारदो भगवन्मयः ।। 2 ।।

[4]नारदस्य परशुरामदर्शनम्

कालेनेति। तत्रैवंस्थितेषु मुनिषु। केनचित्कालेन कतिपयकालानन्तरमित्यर्थः। भगवन्मयः भागवताग्रेसरः। नारदो नाम देवर्षिः। रामदर्शनलालसः सन् परशुरामसेवासक्तः सन्। तत्र मलयाचले। स्वर्गादवतीर्ण आविर्बभूव ।। 2 ।।
[4 नास्ति वाक्यमेतत्-म.।]
ज्ञात्वा तस्याचलां[5] भक्तिं देवः परशुलाञ्छनः ।
प्रत्यक्षमगमच्छश्वत्[6] सानुकम्पेन चेतसा ।। 3 ।।

अत्र मुनीन् सात्वतशास्त्रे प्रवर्तयेति नारदं प्रति रामोक्तिः- ज्ञात्वेति। परशुलाञ्छनो देवः परशुरामः। तस्य देवर्षेः। अचलां भक्तिं स्वविषयकदृढाध्यवसायम्। ज्ञात्वा सानुकम्पेन निर्हेतुककृपान्वितेन। चेतसा प्रत्यक्षमगमत् दृष्टिविषयतां प्रापेत्यर्थः।। 3 ।।
[5 मलां-बक. बख अ.।]
[6 क्षतां जगामाशु- अ.मु.।]

ततः प्रहृष्टवदनः [7]प्रोत्फुल्लपुलको मुनिः ।
पूजयामास तं देवमष्टाङ्गपतनादिना ।। 4 ।।

तत इति। ततः तस्माद्धेतोः। मुनिः नारदः। प्रहृष्टवदनः सन् सन्तोषोत्फुल्लमुखः सन्। प्रोत्फुल्लपुलकः सन् संजातरोमाञ्चः सन्। तं देवं रामम्। अष्टाङ्गपतनादिना साष्टाङ्गप्रणामप्रदक्षिणस्तुतिप्रश्नाद्युपचारैः पूजयामास ।। 4 ।।
[7 प्रोत्कल्प. बक., प्रोद्भिन्न-मु.।]

अथाह भगवान् रामो मधुराक्षरया गिरा ।
तवास्ति भक्तिरचला[8] जन्मबीजक्षयङ्करी ।। 5 ।।

एषा तु[9] सात्वती[10] शुद्धा नित्यमव्यभिचारिणी ।
तिष्ठन्ति मुनयो[11] ह्यत्र प्रार्थयाना हरेः पदम् ।। 6 ।।

अथेति। अथ मुनेरुत्साहकोलाहलानन्तरम्। भगवान् रामो मधुराक्षरया मनोहरवर्णसंदर्भया गिरा वाचा आह। नारदं प्रत्युवाचेत्यर्थः। वचनप्रकारमाह- तवेति। तव तु एषा भक्तिः एतादृशी भक्तिरेवास्ति। अस्मत्सकाशाल्लब्धव्यमुपायान्तरं नास्तीति भावः। तां भक्तिं विशिनष्टि- अचलेत्यादिपदपञ्चकेन। अचला चाञ्चल्यरहिता। जन्मबीजक्षयंकरी संसारदुःखविनाशिनी। सात्वती सात्वतशास्त्रोदिता। भगवत्प्राप्त्येकोपायभूताऽभिगमनादिकर्माङ्गिकेति यावत्। तत एव शुद्धा अमिश्रेत्यर्थः। नित्यं निरन्तरम्। अव्यभिचारिणी अनन्यदेवताविषयेत्यर्थः। [12]एतादृश्या भक्तेस्तव विद्यमानत्वादस्मद्दर्शनादृते तव प्रयोजनान्तरं नास्ति। किन्त्वेतेषां मुनीनामपि मोक्षोपायमुपदिशेत्यर्थः। तिष्ठन्तीति। हि यस्मात् कारणात्। अत्र अस्मिन् पर्वते। मुनयो हरेः पदं प्रार्थमाना मुमुक्षवः सन्तस्तिष्ठन्ति। तस्मात् तान् मुनीन्। सात्वते सात्वतशास्त्रोदिते। क्रियामार्गे अभिगमनोपादानेज्यास्वाध्यायरूपशुद्धमार्ग इत्यर्थः। मद्वाक्याद् योजय याहि परमरहस्येऽपि मार्गेऽस्मदाज्ञागौरवेण मुनीन् प्रवर्तय, तदर्थं शीघ्रं गच्छेति भावः ।। 5-6 ।।
[8 रधिका - अ. मु.।]
[9 हि- बक. बख.।]
[10 सात्त्वकी- बक. अ. मु.।]
[11 येऽत्र- बक. बख., यत्र- अ. उ.।]
[12 एतादृश-अ.।]

तान् सात्वते क्रियामार्गे मद्वाक्याद्[13] याहि योजय ।
एवमुक्त्वा तु तं विप्रमृषीणां हितकाम्यया ।। 7 ।।
एवमिति। देवः परशुरामः। एवं पूर्वोक्तरीत्या ऋषीणां हितकाम्यया तं विप्रं नारदं प्रत्युक्त्वा तस्माद्देशात् पर्वताग्रात् तटिद्यथा[14] विद्युदिव क्षणमात्रेण अदर्शनं जगाम, अन्तर्हितो बभूवेत्यर्थः।। 7 ।।
[13 दभि-बक. अ.।]
[14 यथा तथा- म.।]

जगामादर्शनं देवस्तस्माद् देशात् [15]तटिद् यथा ।
स तु हृष्टमना वाक्यं शिरसा चाभिवाद्य तत् ।। 8 ।।
स इति। अथ भगवदन्तर्धानानन्तरम्। स नारदः। हृष्टमनाः सन्। तद्वाक्यं शिरसा अभिवाद्य, तदाज्ञां शिरसा धृत्वेत्यर्थः। तत् स्थानवरं भगवदाविर्भावस्थानं केवलं पुष्पैरर्चयित्वा निर्जगाम, तस्मात् स्थानान्निर्गतः ।। 8 ।।
[15 त्तदन्यथा- अ.।]

निर्जगामार्चयित्वाऽथ पुष्पैः [16]स्थानवरं तु तत्।
अपश्यदाश्रमं चान्यं[17] नानाद्विजनिषेवितम् ।। 9 ।।
अपश्यदिति। आश्रमम् ऋषीणामावासस्थानमपश्यच्च। नानेत्यादिविशेषणत्रयेणाऽऽश्रमस्यातिरामणीयक(त्व)मुक्तं भवति।। 9 ।।
[16 स्थानं परं- बक. बख. अ. उ.।]
[17 चाथ-बक.।]

तरुपुष्पफलै[18]राढ्यं वापी[19]कूपह्रदान्वितम् ।
सम्प्रहृष्टस्तत[20]स्तत्स्थैर्द्विजेन्द्रै[21]रभिवादितः ।। 10 ।।
संप्रहृष्ट इति। ततः तदाश्रमदर्शनाद्धेतोः संप्रहृष्टः स नारदः, तत्स्थैः तदाश्रमस्थितैः, द्विजेन्द्रैरभिवादितः नमस्कृतः, अर्घ्यपाद्येन पूजितश्च सन् विनिवेशितविष्टरः विष्टरे विनिवेशितश्चेत्यर्थः ।। 10 ।।
[18 फलेना- बक. बख. उ.।]
[19 ह्रदमृगाञ्चितम्- बक., ह्रदमृगान्वितम्- अ. उ.।]
[20 स्तस्थौ- अ., स्तस्मै- उ.।]
[21 न्द्रैः सोऽभि- बक.बख. अ. उ.।]

पूजितश्चार्घ्य22पाद्येन विनिवेशितविष्टरः ।
अथाञ्जलिधराः सर्वे प्रोत्फुल्ल23नयनाम्बुजाः ।। 11 ।।
अथेति। अथ उपचरणानन्तरम्, सर्वे मुनयः प्रोत्फुल्लनयनाम्बुजाः सन्तः सन्तोषविकसितनेत्रकमलाः सन्तः, तव दर्शनाद्धेतोः, नः अस्माकम्, जन्मसाफल्यं जातमिति शेषः, इति वदन्ति, अवदन्निति भूतार्थकत्वमङ्गीकार्यम् ।। 11 ।।
[22 पाद्याद्यैर्वि-मु.।]
[23 वदना- बक.।]

वदन्ति जन्मसाफल्यमद्य नस्तव दर्शनात् ।
24श्रुत्वा तत्प्रीतिजनकं वाक्यं प्रणयपेशलम् ।। 12 ।।
25श्रुत्वेति। नारदो मुनिरपि हृषीकेशं नमस्कृत्य प्रणम्य। अत्र प्रणामः शास्त्रोपदेशारम्भार्थक इति बोध्यम्। प्रणयपेशलं स्वकारुण्यमधुरम्, अत एव तत्प्रीतिजनकं तेषां मुनीनां संतोषजनकम्, वाक्यमाह उवाचेत्यर्थः ।। 12 ।।
[24 ततस्त- बक. बख. अ. उ.।]
[25 तत इति। ततस्तदनन्तरम्- म.।]

नमस्कृत्य हृषीकेशं 26मुनिरप्याह नारदः ।
मन्ये कृतार्थमात्मानं नूनं विप्रवरा ह्यहम् ।। 13 ।।
मन्य इति। हे विप्रवराः मुनयः! सोऽहमात्मानं कृतार्थं मन्ये कृतार्थोऽस्मीत्यर्थः। नूनं ध्रुवम्। हीति प्रसिद्धार्थकः। यस्य मे अस्मिन् शुभाश्रमे भगवदाविर्भावस्थानतया अनेकभागवताश्रयतया च शुभावहे आश्रमे, भवद्भिः सह संबन्धो जात इति शेषः।परमभागवतानां भवतां संबन्धादहं कृतार्थोऽस्मीति भावः ।। 13 ।।
[26 मुनीन- बख. अ. उ.।]

भवद्भिः सह सम्बन्धो यस्य मेऽस्मिन् शुभाश्रमे ।
उक्तोऽहं भवतामर्थे 27रामेणाक्लिष्टकर्मणा ।। 14 ।।
उक्त इति। यद्यस्माद् भवतामर्थे युष्माकं सात्वतमार्गप्रवर्तनरूपार्थे, अक्लिष्टकर्मणा रामेण अहमुक्तः, नियुक्त इत्यर्थः तत् तस्मात् साम्प्रतं यूयं सर्वे एकमनाः सन्तः, अत्र मनश्शब्दस्य दिव्यत्वादकारान्तत्वं ज्ञेयम्, आकर्णयत शृणुध्वमित्यर्थः, तद्वाक्यमिति शेषः ।। 14 ।।
[27 देवेना- मु. अ. उ.।]

यत् तदेकमनाः [28] सर्वे[29] आकर्णयत साम्प्रतम् ।
अद्यप्रभृति देवेशमाराधयत केशवम् ।। 15 ।।
अद्येति। अद्यप्रभृति यूयं देवेशं सर्वदेवोत्तमं केशवं ब्रह्मरुद्रयोरपि स्वामिनं नारायणं शश्वन्मोक्षप्रदेन शाश्वतमोक्षफलकेन रहस्याम्नायविधिना सात्वतोक्तक्रमेण आराधयत पूजयत ।। 15 ।।
[28 हृदः- मु.।]
[29 र्बमा- मु. बक. अ. उ.।]

रहस्याम्नायविधिना शश्वन्मोक्षप्रदेन तु ।
ऋषय ऊचुः
मुने चिरप्रपन्नानां 30प्रकृष्टानां भवान् गतिः ।। 16 ।।

[30] नारदं प्रति ऋषीणां प्रार्थना
एवमुक्ता ऋषयः प्रार्थयन्ते- मुने इति। प्रकृष्टानां प्रसिद्धनानाविधतपस्सिद्धफलानाम्, तथापि चिरप्रपन्नानाम् उपायानुष्ठानपराणाम्, अस्माकमिति शेषः। भवान् आचार्यभूत[31]स्त्वं गतिः प्राप्यः प्रापकश्च। स्वतः सिद्धफलानां किमुपायान्वेषणेनेति न चिन्त्यमित्याहुः- नारायणपदप्राप्तेरिति। "नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन" (कठो. 2/23) इति तपःप्रभृत्यलभ्यस्य "यमेवैष वृणुते तेन लभ्यः" (मुण्ड. 3/2/3)इति सिद्धोपायकृपालभ्यस्य मोक्षफलस्य यच्छ्रेयस्साधन[32]भूतं भगवत्प्रीतिजनकं यत् कर्म तत् प्रकाशय ।। 16 ।।
[30 नास्ति वाक्यमेतत्- म.।]
[31 `भूत' नास्ति- अ.।]
[32 साधनी- म.।]

नारायणप[33]प्राप्तेर्यच्छ्रेयस्तत् प्रकाशय ।
[34]नारद उवाच
यच्चोदितेन [35]हलिना प्रागुक्तं चक्रपाणिना ।। 17 ।।
यदिति। हे द्विजाः, [36]हलिना संकर्षणेन चोदितेन चक्रपाणिना वासुदेवेन प्राक् त्रेतायुगादौ यदुक्तम् उपदिष्टम्, पारम्पर्यागतं गुरुपूर्वक्रमागतं तत् सात्वतं गदतो मे मत्सकाशात् शृणुत आकर्णयत ।। 17 ।।
[33 दं प्राप्तुं य-अ.।]
[34 नारदः- मु. बक., नारदः प्रत्याह- म.।]
[35 हरिणा- अटी.।]
[36 हरिणा-अ.।]

पारम्पर्यागतं तन्मे गदतः श्रृणुत द्विजाः ।
पुराऽतीते कृते प्राप्ते त्रेताख्ये ह्यपरे युगे ।। 18 ।।
पुरेति। पुरा पूर्वं कृते अतीते अतिक्रान्ते सति त्रेताख्ये अपरे युगे युगभेदे प्राप्ते सति जगद्धातरि अच्युते च वासुदेवे च ईषदारक्ततां याते "धत्ते सितादिकं रूपं चतुर्धा यत् कृते युगे। [37]रक्ताख्यं सितनिष्ठं च त्रेतायां हि महामते।।" (5/87/88) इति वक्ष्यमाणक्रमेण रक्ताङ्गे सतीत्यर्थः ।। 18 ।।
[37रक्ताद्यमिति मूलस्थः पाठः।]

ईषदारक्ततां याते जगद्धातरि चाच्युते ।
आह सङ्कर्षणो विष्णुं ज्ञात्वा विनयवानपि ।। 19 ।।

किमिदं देव पश्यामि तव रूपविपर्ययम् ।
प्रहस्योवाच भगवान् मेघगम्भीरया गिरा ।। 20 ।।
आहेति। संकर्षणो ज्ञात्वापि रक्ताङ्गताहेतुं विदित्वापि विनयवान् सन् गुरोरुपदेशेन ज्ञातव्यमित्याकारकविनययुक्तः सन् विष्णुं वासुदेवं प्रत्याह- किमिति। हे देव तव रूपविपर्ययं वर्णभेदं पश्यामि। इदं किं कुतः प्राप्तमित्यर्थः। प्रहस्येति[38]। भगवान् वासुदेवः प्रहस्य [39] मेघगम्भीरया गिरा मेघगर्जितसदृशगम्भीर्ययुक्तया गिरा। अत्र उपमानलुप्तालङ्कारः। गिरा वाचा संकर्षणं प्रत्युवाचेत्यर्थः ।। 19-20 ।।
[38 `प्रसह्येति' नास्ति- अ.।]
[39 रहस्यं- अ.।]

नायं स कालो यत्रासीत् सत्त्वैकबहुलो जनः ।
अद्य रागपरो लोकस्तदृत्तं[40] धारयाम्यहम् ।। 21 ।।
नायमिति। यत्र यस्मिन् काले जनः सत्त्वैकबहुलः शुद्धसात्त्विक आसीत्, अयं स कालो न, विभिन्न इत्यर्थः। अद्येति। अद्य अस्मिन् काले, लोको जनः, रागपरः अनुरागपरः, अनुरागविशिष्टः। तद्वत् एतत्कालीनजनवत्, अहमपि तं रागं धारयामि ।। 21 ।।
[40 स्तद्वृत्तमिति सार्वत्रिको मूलपाठः, टीकानुसारी पाठोऽत्र मूलेऽपि स्थापितः।]

सङ्कर्षण उवाच

कालस्वभावजः केन कर्मणा राग ईदृशः ।
[41]नाच्छादयति लोकानां त्वद्भक्तानां विशेषतः ।। 22 ।।
एवमुक्तः संकर्षणः प्रतिवदति- कालेति। कालस्वभावजः त्रेतायुगस्वभावजन्यः, ईदृशो रागः केन कर्मणा विशेषतः, त्वद्भक्तानां लोकानामिति कर्मणि षष्ठी, भक्तजनान् नाच्छादयति न तिरोधत्ते ।। 22 ।।
[41 न छादयति- बख. अ. मु.।]

श्रीभगवानुवाच

त्रिविधेन प्रकारेण परमं ब्रह्म शाश्वतम् ।
आराधयन्ति ये तेषां रागस्तिष्ठति दूरतः ।। 23 ।।
इति प्रेरितो भगवान् प्रत्याह- त्रिविधेनेति। त्रिविधेन प्रकारेण परव्यूहविभवभेदेन शाश्वतं परं ब्रह्म श्रीमन्नारायणं ये जना आराधयन्ति, तेषां दूरतो रागस्तिष्ठतीति ।। 23 ।।

शङ्कर्षण उवाच
भगवंस्त्रिविधं ब्रूहि उपेयं ब्रह्मलक्षणम् ।
हितार्थं च प्रपन्नानां व्यामोहविनिवृत्तये ।। 24 ।।
पुनः संकर्षण आह- भगवन्निति। हे भगवन्, त्रिविधं त्रिप्रकारम्, उपेयं प्राप्यत्वरूपं ब्रह्मलक्षणं प्रपन्नानां व्यामोहविनिवृत्तये हितार्थं च अनिष्टनिरसनेष्टप्राप्त्यर्थं ब्रूहि वदस्वेत्यर्थः ।। 24 ।।

श्रीभगवानुवाच
षाड्गुण्यविग्रहं देवं भास्वज्ज्वलनतेजसम् ।
सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ।। 25 ।।
एवं पृष्टो नारदः[42] परत्वादिलक्षणमाह- षाड्गुण्येति। षाड्गुण्यविग्रहं ज्ञानैश्वर्यशक्तिबलवीर्यतेजोमयविग्रहम्, भास्वज्ज्वलनतेजसं सूर्यवह्निसमप्रभम्, सर्वतः पाणिपादं सर्वतोऽक्षिशिरोमुखं सर्वव्यापिनमित्यर्थः। एवं भगवतः सर्वतः पाणिपादत्वादिकमनुमानगम्यम्। तथा च जयाख्ये-
तथा समस्तमाक्षिप्तं यस्माद्वै परमात्मना ।।
तस्माद्वै सर्वपाणित्वं सर्वगस्यानुमीयते ।
नावच्छिन्नं हि देशेन न कालेनान्तरीकृतम् ।।
अतः सर्वगतत्वाद्वै सर्वतःपात् प्रभुः स्मृतः ।
ऊर्ध्वं तिर्यगधोयातैर्यथोच्चै[43]र्भासयेद् रविः ।।
तद्वत् प्रकाशरूपत्वात् सर्वचक्षुस्ततो ह्यजः ।
यथा सर्वेषु गात्रेषु प्रधानं गीयते शिरः ।।
भवेऽस्मिन् प्राकृतानां तु न तथा तस्य सत्तम् ।
समत्वात् पावनत्वाच्च सिद्धः सर्वशिराः प्रभुः ।।
यथाऽनन्तरसाः सर्वे तस्य सन्ति सदैव हि ।
सर्वत्र शान्तरूपस्य अतः सर्वमुखः स्मृतः ।।
[44]सत्त्वराशिर्यतो विद्धि स एव परमेश्वरः ।
सर्वतः श्रुतिमांश्चासौ[45] यथा दृक्श्रावकोरगः।। (4/76-82)इति। एकमद्वितीयम्, निःसमाभ्यधिकमिति यावत्। सर्वाश्रयं निखिलजगदाधारम्, प्रभुं जगत्स्वामिनं देवं परवासुदेवं परमिति समाख्यातम्। तदेतत् परत्वविशिष्टं ब्रह्म सद् विद्वीत्यनुषङ्गः ।। 25 ।।

[42 `भगवान्' इति युक्तः पाठः।]
[43 अत्र `उच्चैः' इत्यस्य स्थाने `उस्रैः' इति जयाख्यसंहितासंपादकपरिकल्पितः पाठः साधुः। उस्रैः किरणैरित्यर्थः ।]
[44 शब्द- मु.।]
[45 श्चातो- मु.।]

[46]परमेतत् समाख्यातमेकं सर्वाश्रयं [47]प्रभुम्[48]।
एतत्पूर्वं[49] त्रयं चान्यज्ज्ञानाद्यैर्भेदितं गुणैः ।। 26 ।।
एवं परलक्षणमुक्त्वा व्यूहलक्षणमाह- एतदिति। एतत्पूर्वम् एष परवासुदेवः पूर्वं प्रथमो यस्य तत् तथोक्तम्। ज्ञानाद्यैर्गुणैर्भेदितम्,
बलसंविलतेना[50]थ ज्ञानेनास्तेऽथ दक्षिणे ।।
ऐश्वर्येण तु वीर्येण प्रत्यग्भावेऽवतिष्ठते ।
तेजश्शक्त्यात्मना सौम्ये संस्थितः परमेश्वरः ।। (3/6-7)
इति वक्ष्यमाणप्रकारेण तत्तद्गुणभेदितम् अन्यत् त्रयं संकर्षणप्रद्युम्नानिरुद्धत्रयम्। एवं च वासुदेवसंकर्षणप्रद्युम्नानिरुद्धचतुष्टयम्। व्यूहसंज्ञं तद् ब्रह्म सद् निःश्रेयसफलप्रदं मोक्षफलप्रदं च सद् विद्धि।। 26 ।।
[46 एष श्लोको नास्ति- उ.।]
[47 तथा- मु. उ.।]
[48 इतः परं 22-23 संख्याकौ श्लोकौ पुनरप्यत्र दृश्येते, `संकर्षण उवाच' इति च- अ.; तद् द्विरावृत्तिमात्रम्।]
[49 पूर्वत्रयं- मु. बक. बख. उ.।]
[50 `नैव' इति मूलस्थः पाठः।]

विद्धि तद् व्यूहसंज्ञं [51]सद् [52]निःश्रेयसफलप्रदम् ।
मुख्यानुवृत्तिभेदेन युक्तं ज्ञानादिकैर्गुणैः ।
नानाकृतिं[53] च तद् विद्धि वैभवं[54] भुक्तिमुक्तिदम् ।। 27 ।।
अथ विभवलक्षणमाह- मुख्येति। मुख्यानुवृत्तिभेदेन ज्ञानादिभिर्गुणैर्युतम्, अस्य विभवावतारसमूहस्य अनिरुद्धोत्पन्नत्वात् स्वकारणेऽनिरुद्धे यथा शक्तितेजसोर्मुख्यत्वं ज्ञानादिगुणचतुष्टयस्यानुवृत्तत्वम्, तथा मुख्याभ्यां शक्तितेजोभ्यामनुवृत्तैर्ज्ञानादिगुणैश्च युक्तमित्यर्थः। विभवदेवानामनिरुद्धोत्पन्नत्वं लक्ष्मीतन्त्रेऽपि-
विभवोऽनन्तरूपस्तु पद्मनाभमुखो विभोः ।।
अनिरुद्धस्य विस्तारो दर्शितस्तस्य सात्वते । (2/48-59 इति।)
"विभोः [55] शक्त्यात्मना सौम्ये संस्थितः परमेश्वरः" (3/7) इत्यनिरुद्धस्य तेजश्शक्तिगुणकत्वमुक्तम्। तस्मिन् ज्ञानादीनामनुवृत्तत्वे[56] किं मानमिति चेत्? `विभोः शक्त्या' (3/7 इत्यादिना) तद्वक्ष्यति तृतीये परिच्छेदे। स्पष्टमुक्तं लक्ष्मीतन्त्रेऽपि-
यद्यप्येकगुणोन्मेष[57]स्तदाप्येते हि षड्गुणाः ।
अन्यूनानधिकाः सर्वे वासुदेवात् सनातनात् ।। (4/21) इति।
यद्वा मुख्यानुवृत्तिभेदेन युक्तं ज्ञानादिकैर्गुणैरित्यस्य पूर्वेणैवान्वयो ज्ञेयः। नानाकृतिं पद्मनाभादिभेदेन नानाविधाकारं देवं वैभवं तद् ब्रह्म सद् विद्धि। भुक्तिमुक्तिफलप्रदं च सद् विद्धीति परव्यूहविभवलक्षणान्युक्तानि।
तथा चैवमेव क्रोडीकृतानि परादिलक्षणानि सहस्रनामभाष्ये- "परव्यूहविभवात्मना त्रिविधं परं ब्रह्मेति भागवतसिद्धान्तः। तत्र परं नामाकार्यं कार्या(दन)वच्छिन्नपूर्णषाड्गुण्यमहार्णवोत्कलिकैकातपत्रीकृतनिस्समनित्यभोगविभूतिकं मुक्तोपसृप्यमनौ[58]पाधिकमवस्थानम्। व्यूहश्च मुमुक्षुसिसृक्षया प्रदेयसृष्टिस्थितिलयाः शास्त्रतदर्थतत्फलानि ध्यानाराधने लीला चेतीदृशकार्योपयुक्तविभक्तपरगुणरूपव्यापारशीकरव्यूहनिर्वाहतलीलाविभूतिकं मुक्तिसाधकं चतुर्धावस्थानम्। विभवश्च तच्छायः सुरनरतिर्यगादिः स्वविभवसजातीय ऐच्छः प्रादुर्भाववर्ग इति। .... तत्र प्रादुर्भावाः केचित् साक्षात्, यथा मत्स्यकूर्मादयः। अन्ये तु ऋष्यादिविशिष्टपुरुषाधिष्ठानेन, यथा भार्गवरामकृष्णद्वैपायनादयः। अपरे काले शक्त्यावेशेन, यथा पुरञ्जयादिषु। इतरे च व्यक्तिषु स्वयमेवावतीर्य, यथार्चावतार इति चतुर्धा" (पृ. 182) इति।
नन्वर्चावतारस्यापि प्रादुर्भावेष्वन्तर्भावो वक्तव्यः। यद्वा-
विभवोऽनन्तरूपस्तु पद्मनाभमुखो [59] विभोः ।।
अनिरुद्धस्य विस्तारो दर्शितस्तस्य सात्वते ।
अर्चापि लौकिकी या सा भगवद्भावितात्मनाम् ।।
मन्त्रमन्त्रेश्वरन्यासात् सापि षाड्गुण्यविग्रहा ।
पराद्यर्चावतारोऽस्मिन् मम रूपचतुष्टये ।।
तुर्याद्यवस्था विज्ञेया इतीयं शुद्धपद्धतिः । (2/58-61)

इति लक्ष्मीतन्त्राद्युक्तरीत्याऽर्चावतारस्य प्रथमनिर्देशः कार्य इति चेत्? ब्रूमः। अर्चावतारस्य यत्र यत्र प्रथमनिर्देशः कृतस्तत्र न विवादः। श्रीसात्वतसंहितायां तु परव्यूहविभवाख्यत्रिविधभेदानामेव प्रतिपादितत्वात् तदनुसारेण श्रीमत्पराशरभट्टारकैरर्चावतारस्यापि[60]दर्शितः। स कथमुपपद्यते, यतः परव्यूहविभवानां त्रयाणामप्यर्चारूपत्वसंभवाद् अर्चावतारस्य परादिषु त्रिषु च विभवेष्वे[61]वान्तर्भाव उक्तः।
वस्तुतस्तु वासुदेव(संकर्षण)प्रद्युम्नानिरुद्धाख्यव्यूहानामेव श्रीकृष्णबलभद्रप्रद्युम्नानिरुद्धरूपेणावतीर्णत्वेऽपि तेषां यथा विभवत्वमेव न व्यूहत्वम्, तथा परव्यूहविभवानामर्चावताररूपेणावतीर्णत्वेऽपि तेषां विभवेष्वेवान्तर्भावः, न तु परव्यूहयोरिति भट्टारकाणामाशयः। यतः-
गुणकल्पनयाऽ[62]ध्यस्तो गुणोन्मेषकृतक्रमः ।
मूर्तीभूत[63]गुणश्चेति त्रिधा[64] मार्गोऽयमद्भुतः ।। (2/39)
इति लक्ष्मीतन्त्रोक्तमूर्तीभूतगुणत्वरूपं विभवत्वं विभवार्चावतारयोरुभयत्रापि समानम् ।। 27 ।।

[51 `वै' इति सार्वत्रिकः पाठः। टीकानुरोधेनात्र मूले `सद्' इति पाठः स्थापितः।]
[52 निरायास- मु.।]
[53 कृति- मु.।]
[54 विभवं- उ.।]
[55 तेजःशक्त्यात्मना- इति मूलस्थः पाठः।]
[56 वृत्तत्वेन- अ.।]
[57 स्तथा- मुद्रितः पाठाः।]
[58 पायिकाव- अ. म.।]
[59 `नाभादयो' इत्यभयमातृकापाठः।]
[60 पञ्च- उ.।]
[61 वचनो- बक. बख. उ., वचो- अ.।]
[62 त्रिष्वेवान्तर्भावो दर्शित इति ग्रन्थयोजना।]
[63 वेष्वन्त- म.।]
[64 `या ध्वस्तो' इत्युभयमातृकापाठः।]

इति श्री[65] पाञ्चरात्रे श्रीसात्वतसंहितायां प्रश्नप्रतिवचनं[66] नाम प्रथमः परिच्छेदः।।
इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीश्वर[67]चरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये प्रथमः परिच्छेदः ।।
[65 कृत-म.।]
[66 क्रिया-म.।]
[67गिरीश- म.।]