परमेश्वरसंहिता/अध्यायः १

विकिस्रोतः तः
परमेश्वरसंहिता
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →
परमेश्वरसंहितायाः अध्यायाः

।।श्रीः।।
।। श्रीमते रामानुजाय नमः ।।
।। श्रीरङ्गनाथपरब्रह्मणे नमः।।




            ।। प्रथमोऽध्यायः ।।
-----------
ॐ।। नमः सकलकल्याणदायिने चक्रपाणये।
विषयार्णवमग्नानां समुद्धरणहेतवे ।। 1 ।।
तोताद्रिशिखरक्षेत्रे देवगन्धर्वसेविते।
पुण्यतीर्थसमायुक्ते सर्वर्तुकुसुमान्विते ।। 2 ।।
प्रशस्ताश्रमसंयुक्ते पुण्यक्षेत्रोपशोभिते।
वेदवेदान्तनिष्ठैस्तु तपोनिष्ठैर्महर्षिभिः ।। 3 ।।
सांख्यसिद्धान्तसंयुक्तैः योगसिद्धान्तवेदिभिः।
इतिहासपुराणज्ञैर्धर्मशास्त्रार्थकोविदैः ।। 4 ।।
वेदाङ्गज्ञानकुशलैर्युक्ते देवर्षिभिस्तथा।
राजर्षिभिः समायुक्ते मन्त्रसिद्धैर्महात्मभिः ।। 5 ।।
सनको नाम योगर्षिर्ब्रह्मपुत्रो महातपाः।
भगवज्ज्ञानसिद्ध्यर्थं तपस्तेपे सुदुश्चरम् ।। 6 ।।
शतवर्षं ध्यायमाने परमात्मानमात्मनि।
न लेभेऽभि(सं)मतं सोऽपि तप्त्वा घोरतरं तपः ।। 7 ।।
शोकेन महताऽऽविष्टो बभूव स मुनिस्तदा।







ततः शोकार्णवे मग्नं जितक्रोधं जितेन्द्रियम् ।। 8 ।।
दान्तं योगाङ्गनिरतं तं भक्तं भक्तवत्सलः।
वाक्यमेतज्जगद्धाता जगाद जगतो हितम् ।। 9 ।।
वासुदेवः परंज्योतिरदृश्यः पुरुषोत्तमः।
श्रीभगवानुवाच -----------
त्वया योगीश्वरेणेह सुतप्तं तप उत्तमम् ।। 10 ।।
प्राप्स्यसे न चिराद्ब्रह्मन्! महतस्तपसः फलम्।
समाश्वसिहि भद्रं ते मा विषीद महामते! ।। 11 ।।
कृतकृत्यो जगत्यस्मिन् शाण्‍डिल्यः श्रूयते महान्।
तमाश्रयस्व भद्रं ते भगवद्धर्मसिद्धये ।। 12 ।।
एतस्मिन् पर्वतश्रेष्ठे(वरे) पुराऽनेन महात्मना।
साक्षाद्भगवतो व्यक्तादच्युतादच्युताभिधात् ।। 13 ।।
अधीतास्त्रिसुपर्णाद्याः साक्षात्सद्ब्रह्मवाचकाः।
शाखाश्च निषदः सर्वाः संहिता ब्राह्मणाभिधाः ।। 14 ।।
निरुक्तानि ततो ज्ञाताः पदार्थाः सप्त च क्रमात्।
ज्ञानं च द्विविधं ज्ञातं शास्त्राणि विविधानि च ।। 15 ।।
त्रयोदशविधं कर्म द्वादशाद्यात्मसंयुतम्।
श्रुत्वैवं प्रथमं शास्त्रं रहस्याम्नायसंज्ञितम् ।। 16 ।।
दिव्यमन्त्रक्रमोपेतं मोक्षैकफललक्षणम्।
भूयः संचोदितात्तस्मात्तेन लोकहितैषिणा ।। 17 ।।
श्रुतं विस्तरतः शास्त्रं भोगमोक्षप्रदं हि यत्।
अनुष्टुप्छन्दोब(न्धे)द्धेन प्रोक्तं भगवता स्वयम् ।। 18 ।।
सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम्।
तत्सर्वं विदितं सम्यक् शाण्डिल्यस्य महात्मनः ।। 19 ।।








एवं सकलशास्त्रज्ञः शाण्डिल्यः परमो गुरुः।
आस्ते शिष्यैः परिवृतः स्वाश्रमे श्रमनाशने ।। 20 ।।
पाञ्चकाल्यं परं यज्ञं कुर्वाणः सर्वदा वशी।
स ते वक्ष्यति धर्मज्ञो धर्मं भागवतं मुने! ।। 21 ।।
तमाश्रयस्व भद्रं ते भगवज्ज्ञानसिद्धये।
इत्युक्त्वाऽस्तमिता वाणी वासुदेवसमीरिता ।। 22 ।।
इत्यद्भुततमं वाक्यं श्रुत्वा हृष्टतनूरुहः।
तदा कृतार्थमात्मानं मन्यमानो महामुनिः ।। 23 ।।
शाण्डिल्यदर्शनाकाङ्क्षी संचचाराचलाधिपम्।
अपश्यदाश्रमश्रेष्ठं शाण्डिल्यस्य महात्मनः ।। 24 ।।
नानापुष्पसमाकीर्णं नानाफलसमन्वितम्।
नानापक्षिगणैर्जुष्टं नानामृगनिषेवितम् ।। 25 ।।
कमलोत्पलसंकी(पू)र्णैः शोभितं कमलाकरैः।
भगवद्धर्मजिज्ञासापरैः शान्तैरमत्सरैः ।। 26 ।।
मुनिमुख्यैः समाकीर्णं सर्वत्र च मुमुक्षुभिः।
सप्रविश्य तमद्राक्षीन्मुनिमुख्यैरुपासितम् ।। 27 ।।
शिष्यैः परिवृतं शान्तैरात्मनिष्ठं दयापरम्।
दिव्यज्ञानोपपन्नं तं दृष्ट्वा दिव्यक्रियापरम् ।। 28 ।।
उद्वहन्तं परां भक्तिं वासुदेवे परात्परे।
अभ्यवन्दिष्ट सनको विनयात्तस्य पादयोः ।। 29 ।।
तिष्ठन्तं भगवद्धर्मे दृष्ट्वा दिव्येन चक्षुषा।
शाण्डिल्यो मुनिशार्दूलः सनकं ब्रह्मसंभवम् ।। 30 ।।
अब्रवीन्मधुरं वाक्यं कृतार्थोऽसि महामुने!।
भगवान् सुप्रसन्नस्ते सुतप्तं तप उत्तमम् ।। 31 ।।








आदिष्टोऽहं भगवता भवदर्थे तपोनिधे!।
इत्युक्त्वाऽध्यापयामास वेदमेकायनाभिधम् ।। 32 ।।
मूलभूतस्तु महतो वेदवृक्षस्य यो महान्।
सद्ब्रह्मवासुदेवाख्य(ख्यं)परतत्वैकसंश्रयम् ।। 33 ।।
दिव्यैर्बलादिकैर्मन्त्रैः साक्षात्तत्प्रतिपादकैः।
अलङ्कृतमसन्दिग्धमविद्यातिमिरापहम् ।। 34 ।।
अध्याप्य संजगादास्य स्वरूपं च समागति(त)म्।
शाण्डिल्यः ----------
एष कार्तयुगो धर्मो निराशीःकर्मसंज्ञितः ।। 35 ।।
योगाख्यो योगधर्माख्यः शास्त्राख्यश्च समागमः।
प्रवर्त्यते भगवता प्रथमे प्रथमे युगे ।। 36 ।।
युगेषु मन्दसञ्चार इतरेष्वितरेष्वपि।
अनन्तचेष्टादध्यक्षादनिरुद्धात् सनातनात् ।। 37 ।।
ब्रह्मणो मानसं जन्म प्रथमं चाक्षुषं स्मृतम्।
द्वितीयं वाचिकं चान्यच्चतुर्थं श्रोत्रसंभवम् ।। 38 ।।
नासिक्यमपरं चान्यदण्डजं पद्मजं तथा।
एतेष्वपि च सर्वेषु साक्षाद्भगवतो विभोः ।। 39 ।।
ब्रह्मणा मुनिमुख्यैश्च सुपर्णाद्यैर्महर्षिभिः।
वालखिल्यमुखैश्चान्यैः क्रमाद्राजर्षिभिस्तथा ।। 40 ।।
एष प्रकृतिधर्माख्यः प्राधीतः प्रथमो द्विज!।
सप्तमे पद्मजे सर्गे प्राप्तो भगवतस्तथा ।। 41 ।।
विवस्वता ततः प्राप्तो मनुनेक्ष्वाकुणा ततः।
इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः ।। 42 ।।
एष एव महान् धर्म आद्यो विप्र! सनातनः।








दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा ।। 43 ।।
चातुरात्म्यपरैर्नित्यं पञ्चकालपरायणैः।
बलादिमन्त्रनिरतैर्देवतान्तरवर्जितैः ।। 44 ।।
एष धर्मो यथा प्राप्तो मया तद्ग(निग)दतः श्रृणु।
साङ्गोपनिषदा वेदाः समधीता मया पुरा ।। 45 ।।
ऋग्यजुस्सामसंज्ञास्तु संकीर्णा देवतान्तरैः।
व्यामिश्रयागसंयुक्ताः प्रवृत्तिफलदायिनः ।। 46 ।।
तदर्थाश्च परिज्ञाता यथान्यायं यथाविधि।
क्वचित् क्वचित् प्रदेशेषु भगवन्तं जगत्पतिम् ।। 47 ।।
तदीयं कर्म च ज्ञानमप्रणाड्या वदन्ति हि।
तथा तदतिसंक्षिप्तमनभिव्यक्तलक्षणम् ।। 48 ।।
अग्नीन्द्रादिप्रणाड्यैव प्रदेशेषु बहुष्वपि।
प्रवदन्ति जगन्नाथं तथा च सकलाः क्रियाः ।। 49 ।।
नित्यादिका मुनिश्रेष्ठ! प्रवृत्तिफलसंयुताः।
देवतान्तरनाड्यैव प्रब्रुवन्ति सुविस्तरात् ।। 50 ।।
तथा क्वचित् क्वचिद्विप्र! प्रवदन्ति च केवलम्।
इन्द्रादिदेवतावर्जं तत्कर्माऽपि सुविस्तरम् ।। 51 ।।
मन्त्राः प्राचुर्यतस्तत्र फलसङ्गसमन्विताः।
एवं व्यामिश्ररूपत्वात्तेषु निष्ठां न लब्धवान् ।। 52 ।।
यस्तु सर्वपरो धर्मो यस्मान्नास्ति महत्तरः।
वासुदेवैकनिष्ठस्तु देवतान्तरवर्जितः ।। 53 ।।
तज्जिज्ञासा बलवती तदा त्वाविरभून्मम।
ततोऽत्र पर्वतश्रेष्ठे तपस्तप्तं मयोत्तमम् ।। 54 ।।
अनेकानि सहस्राणि वर्षाणां तपसोऽन्ततः।








द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ।। 55 ।।
साक्षात्सङ्कर्षणाद्व्यक्तात् प्राप्त एव महत्तरः।
एष एकायनो वेदः प्रख्यातः सात्वतो विधिः ।। 56 ।।
दुर्विज्ञेयो दुष्करश्च प्रतिबुद्धैर्निषेव्यते।
मोक्षायनाय वैपन्था एतदन्यो न विद्यते ।। 57 ।।
तस्मादेकायनं नाम प्रवदन्ति मनीषिणः।
श्वेतद्वीपे पुराऽधीतो नारदेन सुरर्षिणा ।। 58 ।।
सनः सनत्सुजातश्च भवानपि सनन्द(क)नः।
सनत्कुमारः कपिलः सप्तमश्च सनातनः ।। 59 ।।
एते एकान्तिधर्मस्य आचार्याश्च प्रवर्तकाः।
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।। 60 ।।
वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः।
मनुः स्वायभ्भुवश्चापि समाराध्य जगत्पतिम् ।। 61 ।।
महता तपसा चैव देवं नारायणं प्रभुम्।
दिव्यं वर्षसहस्रं तु तदन्ते समधीत्य च ।। 62 ।।
मूलश्रुतिं यथावच्चा ऋषयोऽध्यापितास्तु तैः।
ततस्ते ऋषयस्त्वष्टौ लोकानां हितकाम्यया ।। 63 ।।
श्लोकानां शतसाहस्रैर्मूलवेदं निरीक्ष्य च।
तथा दिव्यानि तन्त्राणि सात्वतादीनि चक्रिरे ।। 64 ।।
अन्यच्छास्त्रं तु तन्त्राख्यमस्मान्मन्वादयोऽपि च।
धर्मशास्त्राण्यनेकानि करिष्यन्ति यथातथम् ।। 65 ।।
अन्येषामपि शास्त्राणां योनिरेतद्भविष्यति।
अस्मिन् धर्मश्च अर्थश्चोक्तः सुविस्तरम् ।। 66 ।।
मोक्षश्च सूचितः पश्चादत्रोक्तश्च यथातथम्।








अश्वमेधादयो यज्ञा अधिकृत्याच्युतं हरिम् ।। 67 ।।
यथा क्रियन्ते च तथा द्विषट्‌कार्णपुरस्सरैः।
निवृत्तिफलदैर्मन्त्रैस्तस्यासाधारणैर्हरेः ।। 68 ।।
पूजिता विनियुज्यन्ते तस्मिंस्तस्मिंश्च कर्मणि।
ऋगादिमन्त्राः सर्वेऽपि तथा चास्मिन् प्रकीर्तिताः।।69
वसूराजोपरिचरो मूलवेदेन संस्कृतः।
स्वर्गलोकाधिकारार्थमेतदुक्तप्रकारतः ।। 70 ।।
अश्वमेधादिकान् यज्ञानन्वशिष्टद्यथाविधि।
अन्यांश्च भगवद्यागान् खिन्नवृत्त्यधिकारतः ।। 71 ।।
इति श्रुत मया पूर्वं स चार्थः प्रतिभाति मे।
सुमन्तुर्जैमिनिर्ब्रह्मन्! भृगुश्चैवौपगायनः ।। 72 ।।
मौञ्ज्यायनश्च तत्सर्वं सम्यगध्यापिता मया।
नरनारायणाभ्यां तु जगतो हितकाम्यया ।। 73 ।।
तथाऽनुष्ठीयते मूलधर्मो बदरिकाश्रमे।
एष प्रकृतिधर्माख्यो वासुदेवैकगोचरः ।। 74 ।।
प्रवर्तते कृतयुगे ततस्त्रेतायुगादिषु।
विकारवेदाः सर्वत्र देवतान्तरगोचराः ।। 75 ।।
महतो वेदवृक्षस्य मूलभूतो महानयम्।
स्कन्धभूता ऋगाद्यास्ते शाखाभूतास्तथा मुने! ।। 76 ।।
जगन्मूलस्य देवस्य वासुदेवस्य मुख्यतः।
प्रतिपादकतासिद्धा मूलवेदाख्यता द्विज! ।। 77 ।।
आद्यं भागवतं धर्ममादिभूते कृते युगे।
मानवा योग्यभूतास्तु अनुतिष्ठन्ति नित्यशः ।। 78 ।।
ततस्त्रेतायुगे सर्वे नानाकामसमन्विताः।








व्यामिश्रयाजिनो भूत्वा त्यजन्त्याद्यं सनातनम् ।। 79 ।।
अन्तर्दधाति (धर्मो)सर्वोऽयं वासुदेवसमाहृतः।
ततो योग्याय भगवान् प्रादुर्भावयति स्वयम् ।। 80 ।।
यथा पुरा मया प्राप्तो देवाद्‌ ज्ञानबलात्मनः।
तथा प्रकाशितो वेदः सरहस्यो महामुने! ।। 81 ।।
एवं निगदिते सम्यक् शाण्डिल्येन महात्मना।
ततः कृतार्थमात्मानं मन्यमानः कृताञ्जलिः ।। 82 ।।
सनकः प्रश्रितं वाक्यं शाण्डिल्यं मुनिमब्रवीत्।
सनकः ---------
भगवन्! सर्वधर्मज्ञ! सर्वशास्त्रार्थपारग! ।। 83 ।।
त्वत्प्रसादेन संप्राप्तो मया धर्मवरो महान्।
निवृत्तिलक्षणाख्योऽयं प्रतिबुद्धैर्निषेवितः ।। 84 ।।
कथमप्रतिबुद्धैस्तैर्मग्नैर्भवमहाम्बुधौ।
प्राप्यते भगवद्धर्म एकान्तिभिरनुष्ठितः ।। 85 ।।
शाण्डिल्यः ---------
श्रूयतामभिधास्यामि यदहं चोदितस्त्वया।
एतदर्थं मया पृष्टः पुरा सङ्कर्षणः प्रभुः ।। 86 ।।
परित्यज्य परं धर्मं मिश्रधर्ममुपेयुषाम्।
भूयस्तत्पदकाङ्क्षाणां श्रद्धाभक्ती उपेयुषाम् ।। 87 ।।
अनुग्रहार्थं वर्णाणां योग्यतापाद(का)नाय च।
तथा जनानां सर्वेषामभीष्टफलसिद्धये ।। 88 ।।
सात्वतादीनि शास्त्राणि भोगमोक्षप्रदानि च।
उपदिश्य तु दिव्यानि शास्त्राणि तदनन्तरम् ।। 89 ।।
पारमेश्वरशास्त्राणां सर्वेषां मुनिपुङ्गव!।








सारभूतं विशेषेण पौष्करार्थोपपादकम् ।। 90 ।।
मूलवेदानुसारेण छन्दसाऽऽनुष्टुभेन च।
लक्षग्रन्थेन सर्वार्थक्रियाज्ञानोपलब्धये ।। 91 ।।
स मेऽब्रवीन्म(हच्छा)हाशास्त्रं पारमेश्वरसंज्ञया।
तस्मात्तु सारमुद्धृत्य सर्वशास्त्रोपयोगिनम् ।। 92 ।।
श्लोकैः षोडशसाहस्रैः पारमेश्वरसंज्ञया।
संप्रवक्ष्यामि ते शास्त्रमिदानीमवधारय ।। 93 ।।
नारदोऽपि पुरा चैतदपि संक्षेपतो विभोः।
क्षीरोदशायिनो देवात् साक्षात् संश्रुतवान् द्विज! ।। 94 ।।
ज्ञानकाण्डक्रियाकाण्डभेदेनै(तद्‌)व द्विधाकृतम्।
यत्र संकीर्त्यते सम्यग्वासुदेवस्य वै विभोः ।। 95 ।।
दिव्यमात्मस्वरूपं च नित्या ज्ञानादयो गुणाः।
प्रधाना षट्‌ समस्ताश्च व्यस्ता युग्मत्रयेण हि ।। 96 ।।
कीर्त्यादयो गुणाश्चान्ये आकृतिश्च परात्परा।
नित्यैका वासुदेवाख्या ततः सृष्ट्यादिहेतुना ।। 97 ।।
सङ्ककर्षणादिव्यूहश्च जगज्जन्मादयोऽपि च।
उपासनार्थं भक्तानामास्तिकानां महात्मनाम् ।। 98 ।।
जगतामुपकारार्थं वासुदेवस्य वै विभोः।
परात्परस्वरूपस्य चतुर्व्यूहस्तुरीयकः ।। 99 ।।
व्यूहः सुषुप्तिसंज्ञश्च स्वप्नव्यूहस्तथैव च।
जाग्रद्व्यूहस्तथाऽन्ये च व्यूहा मूर्त्यन्तरा अपि ।। 100 ।।
मूर्तयो विभवाख्याश्च प्रादुर्भावान्तराण्यपि।
लक्ष्मीपुष्ट्योः स्वरूपे च नित्ये भगवता सह ।। 101 ।।
कान्त्यादयोऽवताराश्च भूषणानां तु विग्रहाः।
नित्याः किरीटपूर्वाणामनित्याश्च पृथग्विधाः ।। 102 ।।
चक्रादीनां स्वरूपं च नित्यानित्योभयात्मकम्।
गरुडप्रमुखानां तु अन्येषामात्मनामपि ।। 103 ।।
विभोः साधनभूतानां स्वं स्वं नित्यं स्वरूपिणाम्।
एतेषां मूर्तयो नित्या अनित्याश्च पृथग्विधाः ।। 104 ।।
विभोर्वै वासुदेवस्य स्थानं नित्यं(त्यात्) परात्परम्।
अन्येषां व्यूहरूपाणां विभवानां तथैव च ।। 105 ।।
नानाविधानि स्थानानि विरजांसि बहूनि च।
तेषां विस्तारमानं च तथा स्वं स्वं व्यवस्थितम् ।। 106 ।।
तत्सालानां प्रतोलीनां संख्यामानं च लक्षणम्।
जीवात्मनां स्वरूप च मुक्तामुक्तोभयात्मकम् ।। 107 ।।
तेषां गतिविशेषाश्च प्रोच्यन्ते यत्र विस्तरात्।
भगवन्मन्त्रमूर्तीनां तथाऽन्येषां क्रमेण तु ।। 108 ।।
म(न्त्रा)न्त्रध्यानं तथा मुद्रा योगरूपं च कीर्तितम्।
ज्ञानकाण्डाभिधानेन तदेतत् परिकीर्तितम् ।। 109 ।।
यत्र नित्यानि कर्माणि स्नानादीन्यखिलानि च।
नैमित्तिकानि काम्यानि प्रायश्चित्तानि विस्तरात् ।। 110 ।।
तुलाभारादिकादीनि कर्माणि विविधान्यपि।
तथा च कर्षणादीनि स्थापनान्तान्यशेषतः ।। 111 ।।
प्रासादप्रतिमाभद्रपीठादीनां च लक्षणम्।
एवमादीनि चान्यानि देवेशयजनार्थतः ।। 112 ।।
कीर्त्यन्ते विस्तराद्यत्र क्रियाकाण्डं तु विद्धि तत्।
एवं द्विविधरूपं तु शास्त्रं वक्ष्येऽवधारय ।। 113 ।।
इति श्रीपाञ्चरात्रे पारमेस्वरसंहितायां ज्ञानकाण्डे शास्त्रावतारो नाम
                      प्रथमोऽध्यायः ।।
*************