सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(४०)
[ हितोपदेशे-
 


विशेषतश्च-

विनाप्यर्थैर्वीरः स्पृशात बहुमानोन्नतिपदं
समायुक्तोऽप्यथैः परिभवपदं याति कृपणः ।
स्वभावादुद्धता गणसमुदयाच्चातिविपुलां ।
धृतं सैही किं श्वा धृतकनकमालोऽपि लभते ॥ १८५॥
धनवानिति हि मदो मे किं गतविभवो विषादमुपयामि ।
करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम्॥ १८६॥

अपर च-

अभ्रच्छाया खलप्रीतिर्नवसस्यानि योषितः ।
किञ्चित्कालोपभोग्यानि यौवनानि धनानि च ॥१८७॥
वृत्यर्थं नातिचेष्टेत सा हि धात्रैव निर्मिता ।।
गर्भादुत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥ १८८ ॥

अपि च सखे !

येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः ।
मयूराश्चित्रिता येन स ते वृत्ति विधास्यात ॥ १८९ ॥
अपर च–सता रहस्य शृणु, मित्र ।
जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु ।
मोहयन्ति च सम्पत्तौ कथमर्थाः सुखावहाः॥ १९०॥

अपर च-

धर्मार्थ यस्य वित्तेहा वरं तस्य निरीहता ।
प्रक्षालनाद्ध पङ्कस्य दूरादस्पर्शनं वरम् ॥ १९१ ॥

यतः-

यथा ह्यामिषमाकाशे पक्षिाभः श्वापदैर्भुवि ।
भक्ष्यते सलिले नङ्गैस्तथा सर्वत्र वित्तवान् ॥ १९२ ॥
राजतः सलिलाग्नेश्चोरतः स्वजनादपि ।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामेव ॥ १९३ ॥