मृच्छकटिकम्/चतुर्थोऽङ्कः

विकिस्रोतः तः
← तृतीयोऽङ्कः मृच्छकटिकम्
चतुर्थोऽङ्कः
शूद्रकः
पञ्चमोऽङ्कः →

चतुर्थोऽङ्कः

चतुर्थोऽङ्कः

(ततः प्रविशति चेटी')

 चेटी-आणत्तम्हि अत्ताए अज्जआए सआसं गंतुं । एसा अज्जआ चित्तफलअणिसण्णदिट्टी मदणिआए सह किंपि मंतअंती चिट्ठदि । ता जाव उवसप्पामि । [आज्ञप्तास्मि भात्रार्यायाः सकाशं गन्तुम् । एषार्या चित्रफलकनिषण्णदृष्टिर्मदनिकया सह किमपि मन्त्रयन्ती तिष्ठति । तद्यावदुपसर्पमि । ] ( इति परिक्रामति )

(ततः प्रविशति यथानिर्दिष्टा वसन्तसेना मदनिका च)

 वसन्तसेना-हञ्जे मदणिए ! अवि सुसदिसी इअं चित्ताकिदी अज्जचारुदत्तस्स । [ चेटि मदनिके ! अपि सुसदृशीयं चित्राकृतिरार्यचा- रुदत्तस्य ।

 मदनिका—सुसदिसी । [सुसदृशी ।]

 वसन्तसेना--कधं तुमं जाणासि ? । [कथं त्वं जानासि ? ।]

 मदनिका--जेण अज्जआए सुसिणिद्धा दिट्ठी अणुलग्गा । { येनार्यायाः सुस्निग्धा दृष्टिरनुलग्ना।]

 वसन्तसेना-हञ्जे ! किं वेसवासदाक्खिण्णेण मदणिए ! एव्वं भणासि ? । [चेटि ! किं वेशवासदाक्षिण्येन मदनिके! एवं भणसि? । ]

 मदनिका--अज्जए ! किं जो ज्जेव जणो वेसे पडिवसदि, सो ज्जेव अलीअदक्खिणो भोदि? । [आर्ये ! किं य एव जनो वेशे प्रतिव- सति, स एवालीकदक्षिणो भवति ?।] टिप्प००-1 इयं काचन वसन्तसेनाया दासी । 2 वसन्तसेनामात्रा नाम माधवसे- नया। 3 चित्रफलकद्दष्टिः। 4 मम सौन्दर्यानुरूपसौन्दर्यवतीत्यर्थः । 5 चित्रे लेख्य आकृतिः सर्वावयवसंस्थाने चित्राकृतिरित्यर्थः, चित्ररूपालेख्यरूपाकृतिर्वा । 6 ‘वेशो वेश्याजनसमाश्रयः' इत्यमरः । वेशे यो वासस्तेन यद्दाक्षिण्यं नैपुण्यं अनुरागो बा तेनेत्यर्थः ।। मृ० ७  वसन्तसेना--हञ्जे ! णाणापुरिससंगेण वेस्साजणो अलीअदक्खिणो भोदि । [चेटि ! नानापुरुषसङ्गेन वेश्याजनोऽलीक1दक्षिणो भवति ।।

 मदनिका - जदो दाव अज्जआए दिट्टी इध अभिरमदि हिअअं च, तस्स कारणं किं पुच्छीअदि ? । [ यतस्तावदार्याया दृष्टिरिहाभिरमते हृदयं च, तस्य कारणं किं पृच्छय2ते ? ।।

 वसन्तसेना-हञ्जे ! सहीजणादो उवहणीअदां रक्खामि । [ चेटि ! सखीजनादु3पहसनीयतां रक्षामि।]

 मदनिका - अज्जए ! एव्वं णेदं । सहीजणचित्ताणुवत्ती अबला- जणो भोदि । [ आयें ! एवं नेदम् । सखीजनचित्तानुवर्त्यबलाजनो भवति ]

 प्रथमा चेटी----( उपसृत्य ) अज्जए ! अत्ता आणवेदि-गहि- दावगुंठणं पक्खदुआरए सज्जं पवहणं । ता गच्च' त्ति । [ आर्ये ! माता- ज्ञापयति–'गृहीता4वगुंण्ठनं पक्षद्वारे सज्जं 5प्रवहणम् । तद्गच्छ' इति ।।

 वसन्तसेना--- हञ्जे ! किं अज्जचारुदत्तो मं णइस्सदि । [चेटि ! किमार्यचारुदत्तो मां नेष्यति ? ।।

 चेटी–अज्जए । जेण पवहणेण सह 6सुवण्णदससाहस्सिओ अलंकारओ अणुप्पेसिदो । [आर्ये ! येन प्रवहणेन सह सुवर्णदशसाहस्रिकोऽलंकारोऽनुप्रेषितः ।]


तस्सेत्यादि । यत्र चक्षुहृदये लग्ने तत्र कारणं किं पर्यालोच्यते ? । अतिप्रियनामासावलं विलम्बेनेत्याशयः ॥ गहिदावरगुंठणं गृहीतावगुण्ठनम् । | टिप्प-1 य एव जनो वेशे प्रतिवसति स एवालीकदाक्षिण्यो भवति । अलीकं मिथ्या दाक्षिण्यमनुरागो यस्य सः। 2 ईदृशि सुन्दरे पुरुषे तावदासक्त अलं विलम्बेनेति भावः । ३ असदृशो नायकोऽनया वृत इत्येवंरूपाम् । 4 अवगुण्ठनं आच्छादनम्, महापटाच्छादितमित्यर्थः। 5 कर्णीरथः प्रवहणम्' इति कोशः । स्त्रीणां स्थितियोग्योऽभितः समाच्छन्नो रथः प्रवहणमित्याशयः। स्पष्टं चेदं दशुमार- चरिते द्वितीये । 6 सुवर्ण लोके 'मोहर' इति प्रसिद्धम् ।  वसन्तसेना—को उण सो?। [ कः पुनः सः?।]

 चेटी—एसो ज्जेव राअस्सालो संठाणओ। [एष एव राजश्यालः संस्थानकः।]

 वसन्तसेना—(सक्रोधम्) अवेहि मा पुणो एव्वं भणिस्ससि। [अपेहि, मा पुनरेवं भणिष्यसि।]

 चेटी—पसीददु पसीददु अज्जआ । संदेसेण1 म्हि पेसिदा । [प्रसीदतु प्रसीदत्वार्या । संदेशेनास्मि प्रेषिता ।]

 वसन्तसेना—अहं संदेस2स्स ज्जेव कुप्पामि । [अहं संदेशस्यैव कुप्यामि।]

 चेटी—ता किंति अत्तं विण्णविस्सं ? । [ तत्किमिति मातरं विज्ञापयिष्यामि ? ।।

 वसन्तसेना—एव्वं विण्णाविदव्वा-जइ मं जीअंतीं इच्छसि, ता एव्वं ण पुणो अहं अत्ताए आण्णाविदव्वा' । [ एवं विज्ञापयितव्या— 'यदि मां जीवन्तीमिच्छसि, तदैवं न पुनरहं मात्राऽऽज्ञापयितव्या' ।]

 चेटी—जधा दे रोअदि। [यथा ते रोचते।] (इति निष्क्रान्ता)

(प्रविश्य)

 शर्विलकः

दत्त्वा निशायां वचनीयदोषं निद्रां च जित्वा नृपतेश्च रक्ष्यान्।
स एष सूर्योदयमन्दरश्मिः क्षपाक्षयाच्चन्द्र इवास्मि जातः ॥१॥

अपि च,—

यः कश्चित्त्वरितगतिर्निरीक्षते मां
संभ्रान्तं द्रुतमुपसर्पति स्थितं वा।


विण्णविस्से विज्ञापयिष्यामि॥ दत्त्वेति॥१॥ य इति। त्वरितगतिः कश्चित्

टिप्प०— यथा संदेशस्तथा मयोक्तम्, मम नास्त्यत्र दोष इति भावः । यतः प्रभवो हि संदेशहारिणे न कुप्यन्ति। 2 अत्र 'संदेसस्स' इति चतुर्थ्यर्थे षष्ठी ।

तं सर्वे तुलयति दूषितोऽन्तरात्मा
स्वदोषैर्भवति हि शङ्कितो मनुष्यः॥२॥

मया खलु मदनिकायाः कृते साहसमनुष्ठितम्।

परिजनकथासक्तः कश्चिन्नरः समुपेक्षितः
क्वचिदपि गृहं नारीनाथं निरीक्ष्य विवर्जितम्।
नरपतिबले पार्श्वायाते स्थितं गृहदारुव-
ह्यवसितशतैरेवंप्रायैर्निशा दिवसीकृता॥३॥

( इति परिक्रमिति )

 वसन्तसेना—हञ्जे! इमं दाव चित्तफलअं मम सअणीए ठाविअ तालवेंटअं गेण्हिअ लहु आअच्छ। [चेटि! इमं तावचित्रफलकं मम शयनीये स्थापयित्वा तालवृन्तं गृहीत्वा लघ्वागच्छ ।]

 मदनिका—जं अज्जआ आणवेदि। [यदार्याज्ञापयति।] (इति फलकं गृहीत्वा निष्क्रान्ता)

 शर्विलकः—इदं वसन्तसेनाया गृहम्। तद्यावत्प्रविशामि। (प्रविश्य) क्व नु मया मदनिका द्रष्टव्या?।

(ततः प्रविशति तालवृन्तहस्ता मदनिका)

 शर्विलकः—(दृष्ट्वा) अये इयं मदनिका

मदनमपि गुणैर्विशेषयन्ती रतिरिय मूर्तिमती विभाति येयम्।
मम हृदयमनङ्गवह्नितप्तं भृशमिव चन्दनशीतलं करोति ॥४॥

मदनिके!।।

 मदनिका—(दृष्ट्वा) अम्मो, कधं सव्विलओ। सव्विलअ। साअदं दे, कहिं तुमं। [आश्चर्यम्, कथं शर्विलकः। शर्विलक! स्वागतं ते। कुत्र त्वम्?।]


संभ्रान्तं माम्॥२॥ परिजनेति॥३॥ मदनमिति॥४॥ अभुजिस्सं  शर्विलकः---कथयिष्यामि।

(इति सानुरागमन्योन्यं पश्यतः)

 वसन्तसेना---चिरअदि मदणिआ। ता कहिँ णु खु सा। ( गवाक्षकेन दृष्ट्वा ) कथं एसा केनावि पुरिसकेण सह मंतअंती चिट्ठदि । जधा अदिसिणिद्धाए णिच्चलदिट्टीए आपिबंती विअ एदं णिज्झाअदि तधा तक्केमि, एसो सो जणो एदं इच्छदि अभुजिस्से काटुं । ता रमदु रमदु, मा कस्सावि पीदिच्छेदो भोदु। ण खु सहाविस्सं। [चिरयति मदनिका । तत्कुत्र नु खलु सा ? कथमेषा केनापि पुरुषकेण सह मन्त्रयन्ती तिष्ठति ? । यथातिस्निग्धया निश्चलदृष्ट्या पिबन्तीवैतं निध्यायति तथा तर्कयामि, एष स जन एनामिच्छथभुजिष्यां कर्तुम् । तद्रमतां रमताम् , मा कस्यापि प्रीतिच्छेदो भवतु । न खल्वाकारयि- ष्यामि ।]

 मदनिका—सलिव्वअ ! कधेहि । [शर्विकल ! कथय । ]

( शर्विलकः सशङ्क दिशोऽवलोकयति )

 मदनिका-सव्विलअ । किं ण्णेदं ससंको विअ लक्खीअसि ।। [ शर्विलक ! किं न्विदं सशक्क इव लक्ष्यसे ? ।।

 शर्विलकः--वक्ष्ये त्वां किंचिद्रहस्यम् । तद्विविक्तमिदम् ।।

 मदनिका--अध ई । [अथ किम् ।]

 वसन्तसेना----कधं परमरहस्सं १ । ती ण सुणिस्सं । [ कथं परम- रहस्यम् ? । तन्न श्रोष्यामि । ]

 शर्विलकः--मदनिके ! किं वसन्तसेना मोक्ष्यति त्वां निष्क्रयेण ? ।

 वसन्तसेना-कधं मम संबंधिणी कधा! । ती सुणिस्सं टिप्प०-1 कस्यापि रहस्यं न श्राव्यमिति शिष्टसंप्रदायत्वादेवमुक्तिः । इमिणा गवक्खेण ओवारिदसरीरा । [कथं मम संबन्धिनी कथा? । तच्छ्रोष्याम्यनेन गवाक्षेणापवारितशरीरा ।]

 मदनिका--सव्विलअ ! भणिदा मए अज्जआ । तदो भणादि-- जइ मम छंदो तदा विणा अत्थं सव्वं परिजणं अभुजिस्सं करइस्सं' । अध सुव्विलअ ! कुदो दे एत्तिओ विहवो, जेण मं अज्जआसआसादो मोआइस्ससि ? । [शर्विलक ! भणिता मयार्या । तदा भणति-'यदि मम छन्दस्तदा विनाऽर्थं सर्वं परिजनमभुजिष्यं करिष्यामि । अथ शर्विलक! कुतस्त एतावान्विभवः, येन मामार्यासकाशोन्मोचयिष्यसि ? १]

 शर्विलकः--

दारिद्र्येणाभिभूतेन त्वत्स्नेहानुगतेन च ।
अद्य रात्रौ मया भीरु ! त्वदर्थे साहसं कृतम् ॥ ५ ॥

 वसन्तसेना---पसण्णा से आकिदी, साहसकम्मदाए उण उब्वेअणीआ । [ प्रसन्नास्याकृतिः साहसकर्मतया पुनरुद्वेजनीया ।।

 मदनिका—सव्विलअ ! इत्थीकल्लवत्तस्स कारणेण उहअ पि संसए विणिक्खितं । [ शर्विलक! स्त्रीकल्यवर्तस्य कारणेनोभयमपि संशये विनिक्षिप्तम् ।।

 शर्विलकः किं किम् ।।

 मदनिका--सरीरं चारित्तं च । [ शरीरं चारित्र्यं च ।

 शर्विलकः--अपण्डिते | साहसे श्रीः प्रतिवसति ।।

 मदनिका—सव्विलअ ! अखंडिदचारित्तो सि । ता ण खु दे मम कारणादो साहसं करंतेण अच्चंतविरुद्धं आचरिदं । [ शर्विलक !


अप्रेष्याम् , स्वाधीनामिति यावत् । मम छन्दो ममाभिलाषः ॥ दारिद्र्येणेति । साहसं चौर्यरूपम् ॥ ५ ॥ साहसे जीवतानपेक्षकर्मणि । ण हू ते इति । न --


---


--- दिप-1 वक्रोक्तिगर्भितमिदं भाषणम् । साहसं कुर्वता त्वयाऽत्यन्तविरुद्धं नाचरितम् , किंत्वाचरितमेवेति काकुः । अखण्डितचारित्र्योऽसि । तन्न खलु त्वया मम कारणास्साहसं कुर्वतात्यन्तविरुद्धमाचरितम् ।]

 शर्विलकः--

नो मुष्णाम्यबलां विभूषणवतीं फुल्लामिचाहं लतां
विप्रस्वं न हरामि काञ्चनमथो यज्ञार्थमभ्युद्धतम् ।
धात्रयुत्सङ्गगतं हरामि न तथा बालं धनार्थी क्वचि-
त्कार्याकार्यविचारिणी मम मतिश्चौर्येऽपि नित्यं स्थिता ॥ ६॥

तद्विज्ञाप्यतां वसन्तसेना,

अयं तव शरीरस्य प्रमाणादिव निर्मितः ।
अप्रकाशो ह्यलंकारो मत्स्नेहाद्धार्यतामिति ॥ ७ ॥

 मदनिका----सव्विलअ ! अप्पकाशो अलंकारओ । अअं च जणो ति दुवेविण जुज्जदि । ता उवणेहि दाव । पेक्खामि एदं अलंकारअं । [शर्विलक ! अप्रकाशोऽलंकारः । अयं च जन इति द्वयमपि न युज्यते । तदुपनय तावत् । पश्याम्येनमलंकारम् । ]

 शर्विलकः—इदमलंकरणम् । ( इति साशङ्कं समर्पयति )

 मदनिका-( निरूप्य ) दिट्ठपुरुव्वो विअ अ अलंकारओ । ता भणेहि कुदो दे एसो। [ दृष्टपूर्वं इवायमलंकारः । तद्भण कुतस्त एषः ।

 शर्विलकः---मदनिके ! किं तवानेन ? गृह्यताम् ।


खल्वाचरितम् , अपि त्वाचरितमेव । नो मुष्णामीति । शूद्रस्वर्णहरणे न तथा पोतकमिति विप्रेत्यादिनोक्तम् ॥ ६ ॥ अयमिति । तव वसन्तसेनायाः ॥ अनुचितः प्रकाशो यस्य सोऽप्रकाशः । अनेनास्माकं दण्ड इत्यनेन न प्रकाशयितव्य इत्यर्थः ॥ ७ ॥ अयं जनो बसन्तसेनास्वरूपः। 'अपिः'अनुनये। 'अयं दिप०----1 शर्विलकेनायं दत्त इति प्रकाशानर्हः। 2 क्व चायं जनो वसन्तसेनादिः सप्रमाणब्यवहारकारिजनः, क्व च पुनश्चौर्यैणासादितं वस्तु १ द्वयमपीदं न युज्यते इत्यर्थः ।  मदनिका--( सरोषम् ) जइ मे पच्चअं ण गच्छसि, ता किंणिमित्तं मं णिक्किणासि ? । [यदि मे प्रत्ययं न गच्छसि, तस्किंनिमित्तं मां निष्क्रीणासि ?।] .

 शर्विलकः--अयि, प्रभाते मया श्रुतं श्रेष्ठिचत्वरे, यथा--- ‘सार्थवाहस्य चारुदत्तस्य' इति ।

( वसन्तसेना मदनिका च मूच्छां नाटयतः )

 शर्विलकः---मदनिके ! समाश्वसिहि । किमिदानीं त्वं

विषादस्रस्तसर्वाङ्गी संभ्रमभ्रान्तलोचना ।
नीयमानाऽभुजिष्यात्वं कम्पसे नानुकम्पसे ॥ ८ ॥

 मदनिका--(समाश्वस्य ) साहसिअ ! ण खु तुए मम कारणादो इमं अकज्जं करंतेण तस्सिं गेहे को वि वावादिदो परिक्खदो वा । [ साहसिक! न खलु स्वया भम कारणादिदमकार्य कुर्वता तस्मिन्गेहे कोऽपि व्यापादितः परिक्षतो वा ? ।]

 शर्विलकः--मदनिके । भीते सुप्ते न शर्विलकः प्रहरति; तन्मया न कश्चिद्यापादितो नापि परिक्षतः ।

 मदनिका-सच्चं सच्चं । [ सत्यं सत्यम् ? ।]

 शर्विलकः-सत्यम् ।।

 वसन्तसेना-(संज्ञां लब्ध्वा ) अम्महे, पच्चुवजीविदम्हि । [ आश्चर्यम्, प्रत्युपजीवितास्मि ।]

 मदनिका—पिअं पिअं । [ प्रियं प्रियम् ।]


जनः शर्विलकः' इति प्राचीनटीका । तन्नं बुद्ध्यते । वेश्यात्वे वसन्तसेनाया टिप्प-1 अभुजिष्यात्वमनुपदोक्ता भुजिष्याशब्दार्थधर्मम् । भार्यावत् स्वाधीनत्वं नीयमानेत्यर्थः । 2 *प्रियं प्रियम्' इति विरोधिलक्षणया प्रियमित्याशयः । अत एव ‘किं नाम प्रियम्' इति शर्वलिकप्रश्नः संगच्छते ।  शर्विलकः--( सेर्ष्यम् ) मदनिके ! किं नाम प्रियमिति ?।

त्वत्स्नेहबद्धहृदयो हि करोम्यकार्ये
सद्वृत्तपूर्वपुरुषेऽपि कुले प्रसूतः ।
रक्षासि मन्मथविपन्नगुणोऽपि मानं1
मित्रं च मां व्यपदिशस्यपरं च यासि ॥ ९ ॥

( साकूतम् )

इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः ।,
निष्फलत्वमलं यान्ति वेश्याविहगभक्षिताः2 ॥ १० ॥
अयं च सुरतज्वालः कामग्निः प्रणयेन्धनः ।।
नराणां यत्र हूयन्ते यौवनानि धनानि च ॥ ११ ॥

 वसन्तसेना--( सस्मितम् ) अहो, से अत्थाणे आवेओ । [ अहो, अस्यास्थान आवेगः ।]

 शर्विलकः--सर्वथा,-

3अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसन्ति ।
श्रियो हि कुर्वन्ति तथैव नार्यो भुजङ्गकन्यापरिसर्पणानि ॥ १२ ॥

स्त्रीषु न रागः कार्यो रक्तं पुरुषं स्त्रियः परिभवन्ति । ।
रक्तैव हि रन्तव्या विरक्तभावा तु हातव्या ॥ १३ ॥

सुष्टु खल्विदमुच्यते,—

एता हसन्ति च रुदन्ति च वित्तहेतो-
र्विश्वासयन्ति पुरुषं न तु विश्वसन्ति ।


निभृतं संगतमित्यभिप्रायः ॥ विषादेति ॥ ८ ॥ त्वदिति । मन्मथेन विपन्नो गुणो यस्य । ईदृशोऽपि देहं रक्षामि । मदनिकार्थं चौर्याहरणेन हीनगुणत्वं व्यक्तम् ॥ ५ ॥ इहेति ॥ १० ॥ अयमिति ॥ ११॥ अपण्डिता इति ॥ १२ ॥ स्त्रीष्विति ॥ १३ ॥ एता इति । सुमनसः पुष्पवृत्तेरेक- | टिप्प०---1 कामातुरोऽन्यस्य मानं न रक्षति, अहं तु रक्षामीति भावः । 2 अत्र विशेषणविशेष्ययोः समस्तं सावयवरूपमलंकारः । ३ शक्तस्य कामप्रतिघाते क्रोधो भवति, अशक्तस्य तु विषाद इति शास्त्र क्रुद्धः शर्विलको वेश्याजनं निर्भर्स्त्य, स्त्रीजातिमग्रिमपञ्चश्लोकैर्निर्भर्त्सयति ।

तस्मान्नरेण कुलशीलसमन्वितेन
वेश्याः श्मशानसुमना इव वर्जनीयाः ॥ १४ ॥

अपि च1,---

समुद्रवीचीव चलस्वभावाः संध्याभ्रलेखेव मुहूर्तरागाः ।।
स्त्रियो हृतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत्त्यजन्ति ॥ १५ ॥

स्त्रियो नाम चपलाः,---

अन्यं मनुष्यं हृदयेन कृत्वा अन्यं ततो दृष्टिभिराह्वयन्ति ।
अन्यत्र मुञ्चन्ति मदप्रसेकमन्यं शरीरेण च कामयन्ते ॥ १६ ॥

सूक्तं खलु कस्यापि.–

न2 पर्वताग्ने नलिनी प्ररोहति
न गर्दभा वाजिधुरं वहन्ति ।
यवाः प्रकीर्णा न भवन्ति शालयो
न वेशजाताः शुचयस्तथाङ्गनाः ॥ १७ ॥

आः दुरात्मन् चारुदत्तहतक । अ3यं न भवसि । ( इति कतिचित्पदानि गच्छति )

 मदनिका----{ अञ्चले गृहीत्वा ) अइ असंबद्धभासअ असंभावणीए कुप्पसि । [ अयि असंबद्धभाषक! असंभावनीये कुप्यसि ? ।]

 शर्विलकः--कथमसंभावनीयं नाम ।

 मदनिका-एसो खु अलंकारओ अज्ञआकेरओ । [ एष खल्वलंकार आर्यासंबन्धी।]


वचनान्ततापि । यथा--'अप्रत्याख्येये दधिसुमनसी” इति । ‘सुमना मालती इत्येके । वचनभेदेऽपि सतामनुद्वेजकत्वाददुष्टत्वमुपमायाः ॥ १४ ॥ समु- टिप्प०-1 चपलाश्चचला विद्युतश्च; चपला इव चपला स्त्रिया: इति व्यङ्ग्योपमा । 2 श्लोकस्यास्य प्रथमपादे द्वादशाक्षराणि, द्वितीये एकादशाक्षराणि वर्तन्ते । प्रथमपादे ज-त-ज-भ-गणाः, द्वितीये तु ज-त-ज-ग-ल-गणाश्च वर्तन्ते। अपरार्थे तु वंशस्थं वृत्तम् । ३ अधुनैव चारुदत्तं इन्मीत्यस्यर्थः ।  शर्विलका-ततः किम् ?।।

 मदनिका--स च तस्स अजस्स इत्थे विणिक्खित्तो । [स तस्यार्यस्य हस्ते विनिक्षिप्तः ।]

 शर्विलकः–किमर्थम् ? ।

 मदनिका--( कर्णे ) एव्वं विअ । [एव1मिव । ]

 शर्विलकः-( सवैलक्ष्यम् ) भोः कष्टम् ,--

छायार्थ ग्रीष्मसंतप्तो यामेवाहं समाश्रितः2 ।
अजानता मया सैव पत्रैः शाखा वियोजिता ॥ १८ ॥

 वसन्तसेना-कधं एसो वि संतप्पदि ज्जेव ? । ता अजाणंतेण एदिणा एवं अणुचिट्ठिदं । [ कथमेषोऽपि संतप्यत एव । तदजानतैतेनैवमनुष्ठितम् ।]

 शर्विलकः-मदनिके 1 किमिदानीं युक्तम् ।।

 मदनिका-इत्थं तुम जेव्व पंडिओ । [ अत्र त्वमेव पण्डितः ।

 शर्विलक-नैवम् ; पश्य,-

स्त्रियो हि नाम खल्वेता निसर्गादेव पण्डिताः ।।
पुरुषाणां तु पाण्डित्यं शास्त्ररेवोपदिश्यते ॥ १९ ॥

 मदनिका--सव्विलअ । जइ मम वेअणं सुणीअदि, ती तस्स


द्रेति ॥ १५ ॥ अन्यमिति ॥ १६ ॥ नेति ॥ १७ ॥ छायार्थमिति पाठा०---१ छायार्थी. टिप्प०-1 चारुदत्तस्याकिञ्चनतया भोगस्य भूरिधनसाध्यत्वात् अयमलंकारो न्यासमिषेण तस्य हस्ते वसन्तसेनया विनिक्षिप्त इति भावः । 2 अत्र अप्रस्तुत वृतान्तेन प्रस्तुतवृत्तान्तप्रतिपादनात् अप्रस्तुतप्रशंसालंकारः । ज्जेव माणुभावस्स पडिणिज्जादेहि । [शर्विलक ! यदि मम वचनं श्रूयते, सदा तस्यैव महानुभावस्य प्रतिनिर्यातय ।]

 शर्विलकः--मदनिके । यद्यसौ रा1जकुले मां कथयति ।

 मदनिका—ण चंदादो आदवो होदि । [ने चन्द्रादात2पो भवति ।।

 वसन्तसेना--साहु मदणिए ! साहु । [ साधु मदनिके ! साधु ।

 शर्विलकः----मदनिके !

न खलु मम विषादः साहसेऽस्मिन्भयं वा
कथयसि हि किमर्थं तस्य साधोर्गुणांस्त्वम् १ ।
जनयति मम वेदं कुत्सितं कर्म लज्जां
नृपतिरह शठानां मादृशां किं न कुर्यात् ॥ २० ॥

तथापि नीतिविरुद्धमेतत् । अन्य उपायश्चिन्त्यताम् ।

 मदनिका-सो अअं अवरो उवाओ । [ सोऽयमपर उपायः ।]

 वसन्तसेना---को खु अवरो उवाओ हुविस्सदि ? । [ कः खल्वपर उपायो भविष्यति ? ।]

 मदनिका---तस्स ज्जेव अजस्स केरओ भविअ एदं अलंकारअं अज्जआए उवणेहि । [ तस्यैवार्यस्य संबन्धी भूत्वेममलंकारकमार्याया उपनय ।।


॥ १८ ॥ स्त्रिय इति ॥ १९ ॥ न खल्विति ॥ २० ॥ | टिप्प०-1 इयं संबन्धसामान्ये षष्ठी । तथा च परावृत्य गत्वा महानुभावाय चारुदत्ताय देहीत्याशयः। 2 यदि न्यायसभायां चैतन्मम् कृत्यं कथयेदित्यर्थः । 3 *आतपशब्देनाप्रकृते केवलमुष्णपरत्वं वक्तृतात्पर्यादुन्नीयते । 4 तेन प्रेषित इत्याशयः ।  शर्विलक–एवं कृते किं भवति ।।

 मदनिका--तुमं दावं अचोरो, सो वि अज्जो अरिणो, अज्जआए

सकं अलंकारअं उवगदं भोदि । { स्वं तावदचौरः, सोऽप्यार्योनृणः, आर्यया स्वकोऽलंकार उपगतो भवति ।]

 शर्विलकः--नन्वतिसाहसमेतत् ।।

 मदनिका--अइ ! उवणेहि, अण्णधा अदिसाहसं। [ अयि ! उपनय, अन्यथातिसाहसम् ।।

 वसन्तसेना-साहु मदणिए ! साहु । अभुजिस्सए विअ मंतिदं [ साधु मदनिके! साधु । अभुजिष्ययेव मन्त्रितम् ।]

 शर्विलकः----

मयाप्ता महती बुद्धिर्भवतीमनुगच्छता ।
निशायां नष्टचन्द्रायां दुर्लभो मार्गदर्शकः ॥ २१ ॥

 मदनिका----तेण हि तुमं इमस्सिं कामदेवगेहे मुहुत्तअं चिट्ठ, जाव अज्जआए तुह आगमणं णिवेदेमि । [ तेन हि स्वमस्मिन्कामदेवगेहे मुहूर्तकं तिष्ठ, यावदार्यायै तवागमनं निवेदयामि ।]

 शर्विलकः–एवं भवतु ।।

 मदनिका--( उपसृत्य ) अज्जए ! एसो खु चारुदत्तस्स सआसादो बम्हणो आअदो। [ आर्ये! एष खलु चारुदत्तस्य सकाशाद्बाह्मण आगतः ।] अथ निजपतित्वेनैवमाह- तुमं दावेति । इदानीं ब्राह्मणभार्यात्वेनेति भावः । मयेति ॥ २१ ॥ अत्तणकेरअं वीति चारुदत्तस्यानुचरत्वं स्वीकृत्य ब्रूते । हिप्प०.-1 यथा भार्या मन्नयति तथैव मन्नितमिति भावः । एतावत्पर्यन्तमिदं गवाक्षनिषण्या वसन्तसेनया श्रुतमनुदितं स्वगतमिति ज्ञेयम् ।  वसन्तसेना--हञ्जे ! तस्स केरओ त्ति कधं तुमं जाणासि १ । [ चेटि! तस्य संबन्धीति कथं वं जानासि ।।]

 मदनिका-अज्जए ! अत्तणकेरअं वि ण जाणामि ?। [आयें ! आत्म- संबन्धिनमपि न जानामि ? ।]

 वसन्तसेना--( स्वगतं सशिरःकम्पं, विहस्य) जुज्जदि, ( प्रकाशम् ) पविसदु । [युज्यते, प्रविशतु ।]

 मदनिका--जं अज्जआ आणवेदि । (उपगम्य ) पविसदु सब्विलओ । [ यदार्याज्ञापयति । प्रविशतु शर्विलकः । ]

 शर्विलकः--( उपसृत्य, सवैलक्ष्यम् ) खस्ति भवत्यै ।

 वसन्तसेना-अज्ज ! वंदामि । उवविसदु अज्जो । [ आर्य ! वन्दे । उपविशत्वार्यः ।]

 शर्विलकः---सार्थवाहस्त्वां विज्ञापयति-जर्जरत्वाद्गृहस्य दूरक्ष्यमिदं भाण्डम् ; तद्गृह्यताम् । ( इति मदनिकायाः समर्प्य प्रस्थितः )

 वसन्तसेना---अज्ज ! ममावि दाव पडिसंदेसं तर्हि अज्जो णेदु । [ आर्य ! ममापि तावप्रतिसंदेशं तत्रार्यो नयतु ।

 शर्विलकः-( खगतम् ) कस्तत्र यास्यति । । ( प्रकाशम् ) कः प्रतिसंदेशः ?।। वसन्तसेना पडिच्छदु अज्जो मदणिअं । [प्रतीच्छत्वार्यो मदनिकाम् ।]

 शर्विलक-भवति ! न खल्ववगच्छम् । वसन्तसेना--अहं अवगच्छामि । [ अहमवगच्छामि।]

 शर्विलक---कथमिव !।  वसन्तसेना----अहं अज्जचारुदत्तेण भणिदा--जो इमं अलंकारअं समप्पइस्सदि, तस्स तुए मदणिआ दादब्वा' । ता सो ज्जेव एदं दे देदित्ति एवं अज्जेण अवगच्छिदव्वं । [अहमार्यचारुदत्तेन भणिता--‘य इममलंकारकं समर्पयिष्यति, तस्य त्वया मदनिका दातव्या । तत्स एवैतां ते ददातीत्येवमार्येणावगन्तव्यम् ।]

 शर्विलकः--( खगतम् ) अये विज्ञातोऽहमनया । (प्रकाशम् ) साधु आर्यचारुदत्त । साधु;

गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा।।
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः ॥ २२ ॥

अपि च,

गुणेषु यत्नः पुरुषेण कार्यो न किंचिदप्राप्यतमं गुणानाम् ।
गुणप्रकर्षादुडुपेन शंभोरलङ्घयमुल्लङ्घितमुत्तमा2ङ्गम् ॥ २३ ॥

 वसन्तसेना--को एत्थ पवहणिओ ? । [ कोऽत्र प्रव1हणिकः १ ।।

( प्रविश्य सप्रवहणः )

 चेटः–अज्जए ! सज्जे पवहणं । [ आर्ये ! सज्जं प्रवहणम् ।

 वसन्तसेना-हञ्जे मअणिए ! सुदिट्ठ मं करेहि । दिण्णासि । अरुह पर्वहणं । सुमरेसि मं । { चेटि मदनिके! सुदृष्टां मां कुरु । दत्तासि । आरोह प्रवहणम् । स्मरसि माम् ।

 मदनिका--(रुदती ) परिच्चित्तम्हि अज्जआए । [ परित्यक्तास्म्यार्यया । ] ( इति पादयोः पतति )


गुणेष्वेवेति ॥ २२ ॥ गुणेष्विति ॥ २३ ॥

हिप्प०-1 प्रवहणं कणींरथं वहतीति प्रवहणिकः, सारथिरित्यर्थः । 2 अलङ्घ्य- मपि शिवस्य उत्तमाङ्गं शिर उडुपेन हिमांशुना स्वगुणैरेवोल्लङ्घितमिति भावः ।  वसन्तसेना-संपदं तुमं ज्जेव्व वंदणीआ संवुत्ता । ता गच्छ, आरुह पवहणं । सुमरेसि मं । [ सांप्रतं त्वमेव वन्दनीया संवृत्ता । तद्गच्छ, आरोह प्रवहणम् । स्मरसि माम् । ]

 शर्विलकः--स्वस्ति भवत्यै । मदनिके !

सुदृष्टः क्रियतामेष शिरसा वन्द्यतां जनः ।
यत्र ते दुर्लभं प्राप्तं वधू[१]शब्दावगुण्ठनम् ॥ २४ ॥

( इति मदनिकया सह प्रवहणमारुह्य गन्तुं प्रवृत्तः )

( नेपथ्ये ) ।

 कः कोऽत्र भोः ! राष्ट्रियः समाज्ञापयति--'एष खल्वार्यको गोपालदारको राजा भविष्यतीति सिद्धादेशप्रत्ययपरित्रस्तेन पालकेन राज्ञा घोषादानीय घोरे बन्धनागारे बद्धः । ततः स्वेषु स्वेषु स्थानेष्वप्रमत्तैर्भवद्भिर्भवितव्यम्' ।

 शर्विलकः--(आकर्ण्य) कथं राज्ञा पालकेन प्रियसुहृदार्यको मे बद्धः ? । कलत्रवांश्चास्मि संवृत्तः । आः, कष्टम् ; अथवा द्वयमिदमतीव लोके प्रियं नराणां सुहृच्च वनिता च । संप्रति तु सुन्दरीणां शतादपि सुहृद्विशिष्ठतमः ॥ २५ ॥ भवतु, अवतरामि । ( इत्यवतरति )

 मदनिका--(सास्रमञ्जलिं बद्धा ) एव्वं णेदं । ता परं णेदु मं अज्जउत्तो समीवं गुरुअणाणं । [एवं नेदम् । तत्परं नयतु मामार्यपुत्रः समीपं गुरुजनानाम् ।]


सुद्दष्ट इति । यत्र ते इति । हेतावाधारविवक्षया 'यत्र' इति सप्तमी । कर्तुः शेषत्वविवक्षया 'ते' इति षष्ठी ॥ २४ ॥ द्वयमिति ॥ २५ ॥ उदवसितं  शर्विलकः–साधु प्रिये ! साधु; अस्मच्चित्तसदृशमभिहितम् । ( चेटमुद्दिश्य ) भद्र ! जानीषे रेभिलस्य सार्थवाहस्यो[२]दवसितम् ? ।

 चेटः--अध इं । [ अथ किम् । ]

 शर्विलकः–तत्र प्रापय प्रियाम् ।

 चेटः–जं अज्जो आणवेदि। [यदार्य आज्ञापयति ।]

 मदनिका-जधा अज्जउत्तो भणादि, अप्पमत्तेण दाव अज्जउत्तेण होदव्वं । [ यथार्यपुत्रो भणति, अप्रमत्तेने तावदार्यपुत्रेण भवितव्यम्।]

( इति निष्क्रान्तः)

 शर्विलकः--अहमिदानीं

ज्ञातीन्विटान् स्वभुजविक्रमलब्धवर्णान्
राजापमानकुपितांश्च नरेन्द्रभृत्यान् ।
उत्तेजयामि सुहृदः परिमोक्षणाय
[३]यौगन्धरायण इवोदयनस्य राज्ञः ॥ २६ ॥

अपि च,-

प्रियसुहृदमकारणे गृहीतं
रिपुभिरसाधुभिराहितात्मशङ्कैः ।
सरभसमभिपत्य मोचयामि
स्थितमिव राहुमुखे शशाङ्कबिम्बम् ॥ २७ ॥

( इति निष्क्रान्तः)

( प्रविश्य )

 चेटः–अज्जए ! दिट्ठिआ वड्ढसि । अज्जजारुदत्तस्स सआसादो बम्हणो आअदो । [आर्ये ! दिष्ट्या वर्धसे । आर्यचारुदत्तस्य सकाशाद्ब्राह्मण आगतः ।]


गृहम् ॥ ज्ञातीनिति ॥ २६ ॥ प्रियेति ॥ २७ ॥ बन्धुलेन ।


 वसन्तसेना-—अहो, रमणीअदा अज्ज दिवसस्स । ता हञ्जे ! सादरं बंधुलेण समं पवेसेहि णं । [ अहो, रमणीयताद्य दिवसस्य । तच्चेटि! सादरं बन्धुलेन समं प्रवेशयैनम् ।]

 चेटी–जं अज्जआ आणवेदि । [यदार्याज्ञापयति ।]( इति निष्क्रान्ता)

( [४]विदूषको बन्धुलेन सह प्रविशति )

 विदुषकः-----ही ही भो, तवच्चरणकिलेसविणिज्जिदेण रक्खसराआ रावणो पुप्फकेण विमाणेण गच्छदि । अहं उण बम्हणो अकिदतवच्चरणकिलेसो वि णरणारीजणेण गच्छामि । [आश्चर्यं भोः, तपश्चरणक्लेशविनिर्जितेन राक्षसराजो रावणः पुष्पकेण विमानेन गच्छति । अहं पुनर्बाह्मणोऽकृततपश्चरणक्लेशोऽपि नरनारीजनेन गच्छामि ।]

 चेटी–पेक्खदु अज्जो अम्हकेरकं गेहदुआरं । [प्रेक्षतामार्योऽस्मदीयं गेहद्वारम् ।]

 विदूषकः----( अवलोक्य, सविस्मयम् ) अहो सलिलसित्तमज्जिदकिद-हरिदोवलेवणस्स विविहसुअंधिकुसुमोवहारचित्तलिहिदभूमिभाअस्स गअणतलाअलोअणकोदूहलदूरुण्णामिदसीसस्स दोलाअमाणावलंबिदैरा-


अत्रैवाङ्के पञ्चमप्रकोष्ठके ‘परगृहललिताः' (४।२८) इत्यादि बन्धुललक्षणं करिष्यते । 'ही ही भो' इति विस्मये । तपश्चरणक्लेशविनिर्जितेन स्वाधीनेन । पुष्पकेण विमानविशेषेण । अकृततपश्चरणक्लेशः । नरयुक्ता नारी नरनारी सोद्वाहिका यस्य । पुष्पकमपि सा नरनारी सीतारूपा उद्वाहनीया यस्येदृशम् । शब्दच्छलेन साम्यम् ॥ अहो वसन्तसेनाभवनद्वारस्य सश्रीकता । किंभूतस्य ? । सलिलसिक्तमार्जितकृतहरितोपलेपनस्य । कृतगोमयोपलेपनस्येत्यर्थात् । तथा विविधसुगन्धिकुसुमोपहारचित्रलिखितभूमिभागस्य । गगनतलावलोकनकौतूहलदूरोन्नामितशीर्षस्य । उच्छ्रायप्रकर्षपरमेतत् । दोलायमानावलम्बितैरावणहस्तभ्रमागतमल्ली-


वणहत्थब्भमाइदमल्लिआदामगुणालंकिदस्स समुच्छिददंतिदंततोरणावभासिदस्स महारअणोवराओवसोहिणा पवणबलंदोलणाललंतचंचलग्गहत्थेण 'इदो एहि' त्ति वाहरंतेण विअ मं सोहग्गपडाआणिवहेणोवसोहिदस्स तोरणधरणत्थंभवेदिअणिक्खित्तसमुल्लसंतहरिदचूदपल्लवललामफटिहमंगलकलसाभिरामोहअपास्सस्स महासुरवक्खत्थलदुब्भेज्जवज्जणिरंतरपडिबद्धकणअकवाडस्स दुग्गदजणमणोरहाआसकरस्स वसंतसेणाभवणदुआरस्स सस्सिरीअदा । जं सच्चं मज्झत्थस्स वि जणस्स बलादिट्टिं आआरेदि ।

[ अहो सलिलसिक्तमार्जितकृतहरितोपलेपनस्य विविधसुगन्धिकुसुमोपहारचित्रलिखितभूमिभागस्य गगनतलावलोकनकौतूहलदूरोन्नामितशीर्षस्य दोलायमानावलम्बितैरावणहस्तभ्रमागतमल्लिकादामगुणालंकृतस्य समुच्छ्रितदन्तिदन्ततोरणावभासितस्य महारत्नोपरागोपशोभिना पवनबलान्दोलनाललच्चञ्चलाग्रहस्तेन 'इत एहि' इति व्याहरतेव मां सौभाग्यपताकानिवहेनोपशोभितस्य तोरणधरणस्तम्भवेदिकानिक्षिप्तसमुल्लसद्धरितचूतपल्लवललामस्फटिकमङ्गलकलशाभिरामोभयपार्श्वस्य महासुरवक्षःस्थलदुर्भेद्यवज्रनिरन्तरप्रतिबद्धकनककपाटस्य दुर्गतजनमनोरथायासकरस्य वसन्तसेनाभवनद्वारस्य सश्रीकता। यत्सत्यं मध्यस्थस्यापि जनस्य बलादृृष्टिमाकारयति ।]

 चेटी-एदु एदु । इमं पढमं पओट्ठं पविसदु अज्जो । [एत्वेतु, इमं प्रथमं प्रकोष्ठं प्रविशत्वार्यः ।]

 विदूषकः--( प्रविश्यावलोक्य च )ही ही भो, इधो वि पढमे पओट्ठे ससिसंखमुणालसच्छाहाओ विणिहिदचुण्णमुट्ठिपांडुराओ विविहरअण-


दामगुणालंकृतस्य । समुच्छ्रितदन्तिदन्ततोरणावभासितस्य । महारत्नोपरागोपशोभिना पवनबलान्दोलनाललच्चञ्चलाग्रहस्तेन 'इत एहि' इति व्याहतेव मां सौभाग्यपताकानिवहेनोपशोभितस्य । तोरणधरणस्तम्भवेदिकानिक्षिप्तसमुल्लसद्धरितचूतपल्लवललामस्फटिकमङ्गलकलशाभिरामोभयपार्श्वस्य । महासुरवक्षस्तटदुर्भेद्यवज्ररत्ननिरन्तरप्रतिबद्धकनककपाटस्य । दुर्गतजनमनोरथायासकरस्य । यत्सत्यं मध्यस्थस्यापि जनस्य बलाद्दृष्टिमाकारयत्याह्वयति ॥ प्रथमप्रकोष्ठपडिबद्धकंचणसोवाणसोहिदाओ पासादपंतिओ ओलंबिदमुत्तादामेहिं फटिहवादाअणमुहचंदेहिं णिज्झाअंती विअ उज्जइणिं । सोत्तिओ विअ सुहोवविट्टो णिद्दाअदि दोवारिओ । सदहिणा कलमोदणेण पलोहिदा ण भक्खंति वायसा बलिं सुधासवण्णदाए । आदिसदु भोदी । [ आश्चर्यं भोः, अत्रापि प्रथमे प्रकोष्ठे शशिशङ्खमृणालसच्छाया विनिहितचूर्णमुष्टिपाण्डुरा विविधरत्नप्रतिबद्धकाञ्चनसोपानशोभिताः प्रासादपङ्क्तयोऽवलम्बितमुक्तादामभिः स्फटिकवातायनमुखचन्द्रैर्निर्ध्यायन्तीवोज्जयिनीम् । श्रोत्रिय इव सुखोपविष्टो निद्राति दौवारिकः । सदघ्ना कलमोदनेन प्रलोभिता न भक्षयन्ति वायसा बलिं सुधासवर्णतया । आदिशतु भवती । ]

 चेटी एदु एदु अज्जो । इमं दुदिअं पओट्ठं पविसदु अज्जो । [एत्वेत्वार्यः । इमं द्वितीयं प्रकोष्ठं प्रविशत्वार्यः ।]

 विदूषकः--( प्रविश्यावलोक्य च ) ही ही भो, इदो वि दुदिए पओट्ठे पज्जंतोवणीदजवसवुसकवलसुपुट्टा तेलब्भंगिदविसाणा बद्धा पवहणबइल्ला । अअं अण्णदरो अवमाणिदो विअ कुलीणो दीहं णीससदि सेरिहो । इदो अ अवणीदजुज्झस्स मल्लस्स विअ मद्दीअदि गीवा सेसस्स । इदो इदो अवराणं अस्साणं केसकप्पणा करीअदि । अअं अवरो पाडच्चरो विअ दिढबद्धो मंदुराए साहामिओ ।


वर्णनम्--शशिशङ्खमृणालस्वच्छाभाः विनिहतचूर्णमुष्टिपाण्डुराः विविधरत्नप्रतिबद्धकाञ्चनसोपानशोभिताः प्रासादपङ्क्तयः अवलम्बितमुक्ताफलदामभिः स्फटिकवातायनमुखचन्द्रैर्निर्ध्यायन्तीवोज्जयिनीम् । श्रोत्रिय इव सुखोपविष्टो निद्राति दौवारिकः । सदघ्ना कलमोदनेन प्रलोभिता न भक्षयन्ति वायसा बलिं सुधासवर्णतया ॥ इहापि द्वितीयप्रकोष्ठके पर्यन्तोपनीतयवसबुसकवलसुपृष्टास्तैलाभ्यक्तविषाणा बद्धाः प्रवहणबलीवर्दाः । अयमपरोऽपमानित इव कुलीनो दीर्घं निःश्वसिति सैरिभो महिषः । इतोऽपनीतयुद्धस्य मल्लस्येव मृद्यते ग्रीवा मेषस्य । इतोऽपरेषामश्वानां केशकल्पना क्रियते । अयमपरः पाट( अन्यतोऽवलोक्य च ) इदो अ कुरच्चुअतेल्लमिस्सं पिंडं हत्थी पडिच्छावीअदि मेत्थपुरिसेहिं । आदिसदु भोदी । [आश्चर्यं भोः, इहापि द्वितीये प्रकोष्ठे पर्यन्तोपनीतयवसबुकवलसुपुष्टस्तैलाभ्यक्तविषाणा बद्धाः प्रवहणबलीवर्दाः । अयमन्यतरोऽवमानित इस कुलीनो दीर्घं निःश्वसिति सैरिभः । इतश्चापनीतयुद्धस्य मल्लस्येव मर्द्यते ग्रीवा मेषस्य । इत इतोऽपरेषामश्वानां केशकल्पना क्रियते । अयमपरः पाटच्चर इव दृढबद्धो मन्दुरायां शाखामृगः । इतश्च कूरच्युततैलमिश्रं पिण्डं हस्ती प्रतिग्राह्यते मात्रपुरुषैः । आदिशतु भवती ।]

 चेटी–एदु एदु अज्जो । इमं तइअं पओट्ठं पविसदु अज्जो । [ एत्वेत्वार्यः । इमं तृतीयं प्रकोष्ठं प्रविशत्वार्यः ।]

 विदूषकः---( प्रविश्य, दृष्ट्वा च ) ही ही भो, इदो वि तइए पओट्ठे इमाइं दाव कुलउत्तजणोववेसणणिमित्तं विरचिदाइं आसणाइं । अद्धवाचिदो पासअपीठे चिट्ठइ पोत्थओ । एसो अ साहीणमणिमअसारिआसहिदो पासअपीठो । इमे अ अवरे मअणसंधिविग्गहचदुरा विविहवण्णिआविलित्तचित्तफलअग्गहत्था इदो तदो परिब्भमति गणिआ वुड्ढविडा अ । आदिसदु भोदी । [आश्चर्यं भोः । इहापि तृतीये प्रकोष्ठे इमानि तावत्कुलपुत्रजनोपवेशननिमित्तं विरचितान्यासनानि । अर्धवाचितं पाशकपीठे तिष्ठति पुस्तकम् । एतच्च स्वाधी-


च्चर इव चौर इव दृढबद्धो मन्दुरायां शाखामृगः । इतोऽपि भक्ततैलघृतमिश्रपिण्डं ग्राह्यते हस्ती हस्तिपकपुरुषैः ॥ इहापि तृतीये प्रकोष्ठे इमानि तावत्कुलपुत्रजनोपवेशननिमित्तं विरचितान्यासनानि । अर्धपठितस्तिष्ठति पुस्तकः । कामशास्त्रस्येत्यर्थात् । स्वाधीनमणिमयशारीसहितं पाशकपीठम् । 'सारितम्' इति पाठे प्रसारितमित्यर्थः । 'स्वाधीनमकृत्रिमम्' इति प्राचीनटीका । इमे चापरे मदनसंधिविग्रहचतुरा विविधवर्णिकावलिप्तं चित्रफलकं वहमाना इतस्ततः परिभ्रमन्ति गणिका वृद्धविटाश्च ॥ इहापि चतुर्थे प्रकोष्ठे युवतिकरताडिता जलधरा इव गम्भीरधीरं नदन्ति मुरजाः । क्षीणपुण्या इव गगनात्तारा इव नमणिमयसारिकासहितं पाशकपीठम् । इमे चापरे मदनसंधिविग्रहचतुरा विविधवर्णिकाविलिप्तचित्रफलकाग्रहस्ता इतस्ततः परिभ्रमन्ति गणिका वृद्धविटाश्च । आदिशतु भवती । ]

 चेटी-एदु एदु अज्जो । इमं चउट्ठं पओट्ठं पविसदु अज्जो । [ एत्वेत्वार्यः । इमं चतुर्थं प्रकोष्ठं प्रविशत्वार्यः ।]

 विदूषकः—( प्रविश्यावलोक्य च ) ही ही भो, इदो वि चउट्ठे पओट्ठे जुवदिकरताडिदा जलधरा विअ गंभीरं णदंति मुदंगा, हीणपुण्णाओ विअ गअणादो तारआओ णिवडंति कंसतालआ, महुअरविरुअं विअ महुरं वज्जदि वंसो । इअं अवरा ईसाप्पणअकुविदकामिणी विअ अंकारोविदा कररुहपरामरिसेण सारिज्जदि वीणा । इमाओ अवराओ कुसुमरसमत्ताओ विअ महुअरिओ अदिमहुरं पगीदाओ गणिआदारिआओ णच्चिअंति, णट्टअं पठिअंति, ससिंगारओ । ओवग्गिदा गवक्खेसु वादं गेण्हंति सलिलगग्गरीओ। आदिसदु भोदी । [ आश्चर्यं भोः, इहापि चतुर्थे प्रकोष्ठे युवतिकरताडिता जलधरा इव गम्भीरं नदन्ति मृदङ्गाः, क्षीणपुण्या इव गगनात्तारका निपतन्ति कांस्यतालाः, मधुकरविरुतमिव मधुरं वाद्यते वंशः । इयमपरेर्ष्याप्रणयकुपितकामिनीवाङ्कारोपिता कररुहपरामर्शेन सार्यते वीणा ।


निपतन्ति कांस्यतालाः । वैदग्ध्यवादनादेव निपातः । मधुकराभिरुतमिव मधुरं वाद्यते वंशः । इयमपरा प्रणयकुपिता कामिनीवाङ्कारोपिता कररुहपरामर्शेन सार्यते वीणा । इमा अपराः कुसुमरसमत्ता इव मधुकर्योऽतिमधुरं प्रगीताः ॥ गणिकादारिका वेश्याविशेषा इति गुणपताकायामुक्तम् । नाट्यते नाट्यं । पठ्यते सशृङ्गारम् । अवलम्बिता गवाक्षेषु वातं गृह्णन्ति सलिलगर्गर्यः । एतच्च जनानां पानार्थम् ॥ इहापि पञ्चमप्रकोष्ठे । अयमपि दरिद्रजनलोभोत्पादनकरो हिङ्गुतैलगन्ध आ समताद्धरति । विविधसुरभिधूमोद्गारैर्नित्यं संताप्यमाने निश्वसितीव महानसं इमा अपराः कुसुमरसमत्ता इव मधुकर्योऽतिमधुरं प्रगीता गणिकादारिका नर्त्यन्ते, नाट्यं पाठ्यन्ते सशृङ्गारम् । अल्पवल्गिता गवाक्षेषु वातं गृह्णन्ति सलिलगर्गर्यः । आदिशतु भवती । ]

 चेटी- एदु एदु अज्जो । इमं पंचमं पओट्ठं पविसदु अज्जो । [ एत्वेत्वार्यः । इमं पञ्चमं प्रकोष्ठं प्रविशत्वार्यः ।]

 विदूषकः--( प्रविश्य, दृष्ट्वा च ) ही ही भो, इदो वि पंचमे पओट्ठे अअं दलिद्दजणलोहुप्पादणअरो आहरइ उवचिदो हिंगुतेल्लगंधो । विविहसुरहिधूमुग्गारेहिं णिच्चं संताविज्जमाणं णीससदि विअ महाणसं दुवारमुहेहिं । अधिअं उसुसावेदि मं साहिज्जमाणबहुविहभक्खभोअणगंधो । अअं अवरो पडच्चरं विअ पोट्टिं धोअदि रूपिदारओ । बहुविहाहारविआरं उवसाहेदि सूवआरो । बज्झंति मोदआ, पच्चंति अपूवआ । ( आत्मगतम् ) अवि दाणिं इह वड्ढिअं भुंजसु त्ति पादोदअं लहिस्सं । ( अन्यतोऽवलोक्य च ) इदो गंधव्वच्छरगणेहिं विअ विविहालंकारसोहिदेहिं गणिआजणेहिं बंधुलेहिं अ जं सच्चं सग्गीअदि एदं गेहं । भो ! के तुम्हे बंधुला णाम ?। [ आश्चर्यं भोः, इहापि पञ्चमे प्रकोष्ठेऽयं दारिद्रजनलोभोत्पादनकर आहरत्युपचितो हिङ्गुतैलगन्धः । विविधसुरभिधूमोद्गारैर्नित्यं संताप्यमानं


द्वारमुखैः । अधिकं रोमाञ्चयति मां साध्यमानबहुविधभक्ष्यभोजनगन्धः । भोजनं । करणे ल्युटि व्यञ्जनादिवचनः । अयमपरः पटच्चरमिव जीर्णवस्त्रमिव । छेद्यपट्टमनेकाधारशोणिताभ्यामुपहतत्वात् । रूपिदारओ । 'रूप'शब्दः पशुवचनस्तद्योगाद्रूपी खट्टिकस्तस्य दारकः पुत्रः । यद्वा,-रूपी रूपसंघस्तस्य दारश्छेदकः खट्टिक एव । यत्र मांसं छिद्यते तं पदं धावति प्रक्षालयति । बहुविधाहारविकारमुपसाधयति सुपकारः । बध्यन्ते मोदकाः । पच्यन्तेऽपूपकाः । अपीदानीमहं भोक्तुं पादोदकं लप्स्ये । 'वर्धितम्' इति पाठे 'व्यञ्जनादिसामग्र्योपचितं वर्धितकम्' इति पूर्वटीका । इतश्च गन्धर्वाप्सरोगणैरिव विविधालंकारशोभितैर्गणिकाजनैर्बन्धुलैश्च निःश्वसितीव महानसं द्वारमुखैः । अधिकमुत्सुकायते मां साध्यमानबहुविधभक्ष्यभोजनगन्धः । अयमपरः पटच्चरमिव हतपशूदरपेशिं धावति रूपिदारकः । बहुविधाहारविकारमुपसाधयति सूपकारः । बध्यन्ते मोदकाः । पच्यन्तेऽपूपकाः । अपीदानीमिह वर्धितं भुङ्क्ष्व इति पादोदकं लप्स्ये । इह गन्धर्वाप्सरोगणैरिव विविधालंकारशोभितैर्गणिकाजनैर्बन्धुलैश्च यत्सत्यं स्वर्गायत इदं गेहम् । भोः, के यूयं बन्धुला नाम ?।]

 बन्धुलाः--वयं खलु।

परगृहललिताः परान्नपुष्टाः परपुरुषैर्जनिताः पराङ्गनासु ।
परधननिरता गुणेष्ववाच्या गजकलभा इव बन्धुला ललामः ॥ २८ ॥

 विदूषकः---आदिसदु भोदी । [ आदिशतु भवती । ]

 चेटी-एदु एदु अज्जो । इमं छट्ठं पओट्ठं पविसदु अज्जो । [ एत्वेत्वार्यः । इमं षष्ठं प्रकोष्ठं प्रविशत्वार्यः । ]

 विदुषकः---( प्रविश्यावलोक्य च ) ही ही भो, इदो वि छट्ठे पओट्ठे अमुं दाव सुवण्णरअणाणं कम्मतोरणाइं णीलरअणविणिक्खित्ताइं इंदाउहट्ठाणं विअ दरिसअंति । वेदुरिअमोत्तिअपवालअपुप्फराअइंदणीलकक्केतरअपद्मराअमरगअपहुदिआइं रअणविसेसाइं अण्णोण्णं विचारेंति सिप्पिणो । बज्झंति जादरूवेहिं माणिक्काइं । धडिज्जंति सुवण्णालंकारा । रत्तसुतेण गत्थीअंति मोत्तिआभरणाइं । घसीअंति धीरं


यस्सत्यं स्वर्गायत इदं गृहम् ॥ परिगृहेति। गुणेष्ववाच्याः । अनभिधानीयगुणा इत्यर्थः । 'ऋणेषु' इति पाठे ऋणेष्ववाच्या ऋणमेवावसीय सर्वैरमिमुह्यामह इत्यर्थः । ललामो विलसामः । 'लले विलासे' भौवादिकः । अनुप्रासानुरोधेनानयोरैक्यम् । ‘ललामाः' इति पाठे श्रेष्ठा इत्यर्थः ॥ २८ ॥ इहापि षष्ठे प्रकोष्ठे, अयं तावत्सुवर्णरत्नानां कर्मतोरणानि नीले रत्ने वस्तुविशेषे निक्षिप्तानि प्रसारितानीन्द्रायुधस्थानकमिव दर्शयन्ति । नीलरत्नेष्वा (?) रोपितानीन्द्रायुधमिव दृश्यन्त इत्याशयः । वैडूर्यमौक्तिकप्रवालकपुष्परागनीलककर्केतरपद्मरागमरकतप्रभृतीन्रत्नविशेषानन्योन्यं विचारयन्ति शिल्पिनः । प्रवालककर्केतरौ मणिविशेषौ । वेदुरिआइं । छेदीअंति संखआ । साणिज्जंति पवालआ । सुक्खविअंति ओल्लविदकुंकुमपत्थरा । सालीअदि सल्लज्जअं । विस्साणीअदि चंदणरसो । संजोईअंति गंधजुत्तीओ । दीअदि गणिआकामुकाणं रसकप्पूरं तंबोलं । अवलोईअदि सुकडक्खअं । पअट्टदि हासो । पिबीअदि अ अणवरअं ससिक्कारं मइरा । इमे चेडा, इमा चेडिआओ, इमे अवरे अवधीरिदपुत्तदारवित्ता मणुस्सा आसवकरआपीदमदिरेहिं गणिआजणेहिं जे मुक्का ते पिअंति । आदिसदु भोदी । [ आश्चर्यं भोः, इहापि षष्ठे प्रकोष्ठेऽमूनि तावत्सुवर्णरत्नानां कर्मतोरणानि नीलरत्नविनिक्षिप्तानीन्द्रायुधस्थानमिव दर्शयन्ति । वैडूर्यमौक्तिकप्रवालकपुष्प-रागेन्द्रनीलकर्केतरकपद्मरागमरकतप्रभृतीन्रत्नविशेषानन्योन्यं विचारयन्ति शिल्पिनः । बध्यन्ते जातरूपैर्माणिक्यानि । घट्यन्ते सुवर्णालंकाराः । रक्तसूत्रेण ग्रथ्यन्ते मौक्तिकाभरणानि । धृष्यन्ते धीरं वैडूर्याणि । छिद्यन्ते शङ्खाः । शाणैर्घृष्यन्ते प्रवालकाः । शोष्यन्त आर्द्रकुङ्कुमप्रस्तराः । सार्यंते कस्तूरिका । विशेषेण घृष्यते चन्दनरसः । संयोज्यन्ते गन्धयुक्तयः । दीयते गणिकाकामुकयोः सकर्पूरं ताम्बूलम् । अवलोक्यते सकटाक्षम् । प्रवर्तते हासः । पीयते चानवरतं ससीत्कारं मदिरा । इमे चेटाः, इमाश्चेटिकाः, इमे अपरेऽवधीरितपुत्रदारवित्ता मनुष्या आसवकरकापीतमदिरैर्गणिकाजनैर्ये मुक्तास्ते पिबन्ति । आदिशतु भवती । ]


बध्यन्ते जातरूपैः सुवर्णैर्माणिक्यानि । घट्यन्ते सुवर्णालंकाराः । लोहितसूत्रैर्ग्रथ्यन्ते मौक्तिकाभरणानि । घृष्यन्ते वैडूर्याणि । छिद्यन्ते शङ्खाः । शाणे घृष्यन्ते प्रवालानि । शोष्यन्ते ओल्लविदमवतारिता आर्द्रिता वा कुङ्कुमप्रस्तराः । ‘प्रस्तरः कुङ्कुमाधारश्चर्मपुटः' इत्याहुः । सालीअदि आर्द्रीक्रियते । सल्लजअं कस्तूरिका । शल्यवद्वेधकत्वात् । आज्यमिव मृन्मदत्वात् (?) । विस्साणीअदि विशेषेण घृष्यते चन्दनरसः । संयोज्यन्ते गन्धयुक्तयः । दीयते गणिकाकामुकयोः सकर्पूरं ताम्बूलम् । अवलोक्यते सकटाक्षम् । प्रवर्तते हासः। पीयतेऽनवरतं सशृङ्गारं मदिरा । इमेऽन्येऽवज्ञातपुत्रदारवित्ता मनुष्या आसवकरकेणापीतमदिरा गणिकाजनैर्ये मुक्तास्ते वाटं पिबन्ति । अयमर्थः–मद्यपानभाण्डेनापीतमद्या अनादृतनिजपरि चेटी'-एदु एदु अज्जो । इमं सत्तमं पओट्ठं पविसद् अज्जो । {एत्वेत्वार्यः । इमं सप्तमं प्रकोष्ठं प्रविशत्वार्यः ।।

 विदकः-- प्रविश्यावलोक्य च ) ही ही भो ! इदो वि सत्तमे पओट्ठे सुसिलिट्टविहंगवाडीसुणिसण्णाइं अण्णोण्णचंुबणपराइं सुहं. अणुभवंति पारावदमिहुणाइं । दहिभत्तपूरिदोदरो बम्हणो विअ सुत्तं पढदि पंजरसुओ । इअं अवरा संमाणणालद्धपसरा विअ घरदासी अधिअं कुरुकुराअदि मदणसारिआ । अणेअफलरसास्सादपहृट्टकंठा कुंभदासी विअ कुअदि परपुट्ठा । आलंबिदा मागदंतेसु पंजरपरंपराओं । जोधीअंति लावआ । आलवीअंति कविंजला । पेसीअंति पंजरकवोदा । इदो तदो विविहमणिचित्तलिदो विअ अअं सहरिसं णच्चंतो रविकिरणसंतत्तं पक्खुक्खेवेहिं विधुवेदि विअ पासादं धरमोरो । { अन्यतोऽवलोक्य च ) इदो पिंडीकिदा विअ चंदपादा पदगर्दि सिक्खंता विअ कामिणीणं पच्छादो परिब्भमंति राअहंसमिहुणा । एदे अवरे वुड्ढमहल्लका विअ इदो तदो संचरंति घरसारसा । ही ही भो, पसारणअं किदं गणिआए णाणापक्खिसमूहेहिं । जं सच्चे खु णंद- णवणं विअ मे गणिआघरं पडिभासदि। आदिसदु भोदी । [ आश्चर्यं भोः, इहापि सप्तमे प्रकोष्ठे सुश्लिष्टविहङ्गवाटीसुखनिषण्णान्यन्योन्यचुम्बनपराणि


चारास्त्यकान्यकर्तव्या अत एवं तत्रैवात्यन्तमस्थाना गणिकाभिर्ये मुक्ता नि:सारिता इत्युक्तं ते पुरुषा वारंवारं पुनःपुनर्मद्यमेव पिबन्ति । मदिराया अवारितसत्रत्वमुक्तम् ॥ इह सप्तमे प्रकोष्ठे, सुश्लिष्टायां विहङ्गपाल्यां कपोतपालिकायां सुखनिषण्णान्यन्योन्यचुम्बनपराणि सुखमनुभवन्ति पारावतमिथुनानि । दधिभक्तपूरितोदो ब्राह्मण इव सूक्तं पठति पञ्जरशुकः । ऋक्समुदायः सुक्तम् । शोभनोक्तं च यथा स्यादेवम् । इयमपरा संमाननालब्धप्रसरेव गृहदासी अधिकं कुरकुरायते मदनसारिका । अनेकफलरसास्वादप्रहृष्टकण्ठा कुम्भदासीव कुञ्जति परपुष्टा कोकिला । आलम्बिता नागदन्तेषु गृहभित्तिस्थदारुविशेषेषु । नागदन्तका इति प्रकृतौ कः । ..... . :सुखमनुभवन्ति पारावतमिथुनानि । दधिभक्तपूरितोदरो ब्राह्मणे इव सूक्तं पठति परशुकः । इयमपरा संमाननालब्धप्रसरेव गृहदासी अधिकं कुरकुरायते मदनसारिका । अनेकफलरसास्वादप्रहृष्टकण्ठा कुम्भदासीव कुजति परपुष्टा । आलम्बिता नागदन्तेषु पञ्जरपरम्पराः । योध्यन्ते लावकाः । आलाप्यन्ते कपिञ्जलाः । प्रेष्यन्ते पञ्जरकपोताः । इतस्ततो विवि- धमणिचित्रित इवायं सहर्षं नृत्यन्रविकिरणसंतप्तं पक्षोत्क्षेपैर्विधुवतीव प्रासादं गृहमयूरः । इतः पिण्डीकृता इव चन्द्वपादाः पदगतिं शिक्षमाणानीव कामिनीनां पश्चात्परिभ्रमम्ति राजहंसमिथुनानि । एतेऽपरे वृद्ध महलुका इव इतस्ततः संचरन्ति गृहसारसाः। आश्चर्य भो, प्रसारण कृतं गणिकया नानापक्षिसमूहैः । यत्सत्यं खलु नन्दनवनमिव मे गणिकागृहं प्रतिभासते आदिशतु भवती । ]

 चेटी–एदु एदु अज्जो। इमं अट्टमं पओट्ठं पविसदु अज्जो । [एत्वेत्वार्यः । इममष्टमं प्रकोष्ठं प्रविशत्वार्यः ।

 विदूषकः--( प्रविश्यावलोक्य च ) भोदि ! को एसो पट्टपावरअपाउदो अधिअदरं अञ्चब्भुदपुणरुत्तालंकारालंकिदो अंगभगेहिं परिक्खलंतो इदो तदो परिब्भमदि १ । [ भवति ! के एष पट्टप्रोवारकप्रावृतोऽधि- कसरमत्यद्भुतपुनरुक्तालंकारालंकृतोऽङ्गभङ्गैः परिस्खलन्नितस्ततः परिभ्रमति ?।]

 चेटी--अज्ज ! एसो अज्जआए भादा भोदि । [ आर्य ! एष आर्याया भ्राता भवति ।]

 विदूषकः–केत्तियं तवच्चरणं कदुअ वसंतसेणारे भादा भोदि ? । अधवा


पञ्जरपरम्पराः । योध्यन्ते लावकाः । आलप्यन्ते कपिजला गौरस्तितिरयः । प्रेष्यन्ते पञ्जरकपोताः । योद्धमित्यथोत् । इतस्ततो विविधमणि विचित्रित इवायं सहचरीसहितः सहर्षं नृत्यन्तरविकिरणसंतप्तं पक्षोत्क्षेपैवींजयतीव प्रासादं गृहमयुरः । इतः पिणही कृताञ्चन्द्रकिरणा इव पदगतिं विक्षमाणानि कामिनीनां पश्चात्परिभ्रमन्ति राजहंसमिथुनानि । एतेऽपरे वृद्धमहल्लका इव इतस्ततः परिभ्रमन्ति गृहसारसाः । प्रसारणकं दत्तं गणिकाभिर्नानापक्षिसमूहे । यत्सत्यं खल्वेतच्चन्दन,

मा दाध जइ वि एसो उज्जलो
सिणिद्धो अ सुअंधो अ ।
तह वि मसाणवीधीए जादो विअ
चंपअरुक्खो अणहिगमणीओ लोअस्स ॥ २९ ॥

(अन्यतोऽवलोक्य ) भोदि ! एसा उण का फुल्लपावारअपाउदा उवाणहजुअलणिक्खित्ततेल्लचिक्कणेहिं पादेहिं उच्चासणे उवविट्टा चिट्ठदि । । [ कियत्तपश्चरणं कृत्वा वसन्तसेनाया भ्राता भवति ? । अथवा, मा तावद्यप्येष उज्वलः स्निग्धश्च सुगन्धश्च । तथापि श्मशानवीथ्यां जात इव चम्पकवृक्षोऽनभिगमनीयो लोकस्य ॥ भवति । एषा पुनः का पुष्पप्रावारकप्रावृतोपानयुगलनिक्षिप्ततैसचिक्कणाभ्यां पादाभ्यामुञ्चासन उपविष्टा तिष्ठति ? ।]

 चेटी--अज्ज ! एसा खु अम्हाणं अज्जआए अत्तिआ । [ आर्य ! एषा खल्वस्माकमार्याया माता।]

 विदूषकः----अहो से कवठ्ठडाइणीए पोट्टवित्थारो । ता किं एदं पवेसिअ महादेवं णिअ दुआर सोहा इह घरे णिम्मिदा १ । [ अहो अस्याः कपर्दकडाकिन्या उदरविस्तारः। तत्किमेतां प्रवेश्य महादेवमिव द्वारशोभा इह गृहे निर्मिता ? ।]

 चेटी---हदास ! मा एवं उवहस अम्हाणं अत्तिअं; एसा खु चाउथिएण पीडीअदि । [हताश ! भैवमुपहसास्माकं मातरम् एषा खलु चातुर्थिकेन पीड्यते ।


वनमिव में गणिकागृहं प्रतिभाति । इहापि अष्टमे प्रकोष्ठे। भवति । क एष पट्टप्रच्छदप्रावृतोऽधिकतरमत्यद्भुतपुनरुक्तालंकारालंकृतोऽङ्गभङ्गैः परिस्खलक्षितस्ततः परिभ्रमति ? १ मा दाव जइ वि इति । आर्या । बिततायामिव अमेध्य इवेति पाठान्तरे इत्यर्थः । अनभिगम्योऽनभिगमनीयः । एषा पुनः का पुष्पप्रावारकप्रावृता । 'पुष्पपट' इति प्रसिद्धः । उपानधुगलनिक्षिप्ततैलचिकणाभ्यां पादाभ्यां लक्षिता । अहो अस्याः कृपकडाकिन्या उदरविस्तारः। 'करट्ट' इति पाढे  विदुषकः--(सपरिहासम्) भअवं चाउत्थिर ! एदिणा उवआरेण में पि बम्हणं आलोएहि । [भगवंश्चातुर्थिक! एतेनोपकारेण मामपि ब्राह्मणमवलोकय ।।।

 चेटी-हदास ! मरिस्ससि । [ हताश ! मरिष्यसि । ]

 विदूषकः-( सपरिहासम् ) दासीए घीए ! वर ईदिसो ऋणपीण- जठरो मुदो ज्जेव ।।

सीधुसुरासवमत्तिआ एआवित्थं गदा हि अत्तिआ ।
जइ मरइ एत्थ अत्तिआ भोदि सिआलसहस्सपज्जत्तिआ ॥ ३० ॥

भोदि-! किं तुम्हाणं जाणवत्ता वहंति ? । [ दास्याःपुत्रि! वरमीदृशः शूनपीनजठरो मृत एव ।।

सीधुसुरासवमत्ता एतावदवस्थां गत्ता हि माता ।
यदि म्रियतेऽत्र माता भवति शृगालसहस्रपर्याप्तिका ॥

भवति ! कि युष्माकं यानपात्राणि वहन्ति ? ।।

 चेटी--अज्ज ! णहि णहि । [ आर्य ! नहि नहि । ]

 विदूषकः--किं वा एत्थ पुच्छीअदि ? । तुम्हाणं खु पेम्मणिम्मलजले मअणसमुद्दे त्यणणिअंबजहणा जेव जाणवत्ता मणहरणा । एव्वं वसंतसेणाए बहुवुत्ततं अट्टपओट्ठं भवणं पेक्खिअ जं सच्चं जाणामि, एकत्थं विअ तिविट्ठोअं दिट्ठं । पसंसिदुं णत्थि मे वाआ


अशौचाभ्यवहरणप्रयुक्तकरट्टब्राह्मणवत् । तत्किमितीमां प्रवेश्य महादेवमिव द्वारशोभा इह गृहे निर्मिता । अन्यथा अनेन द्वारेणास्या गृहे न प्रवेशः स्यादित्याशयः ॥ एषा खल्वस्माकं माता चातुर्थिकेन ज्वरविशेषेण पीड्यते, तेनैदृशी दशेत्युक्तम् ॥ सपरिहासम् । भगवंश्चातुर्थिक 1 एतेनोपकारेण मामपि ब्राह्मणमवलोक्य । शूण- पीणजठरों शूण उच्छ्नः , पीणो महाभोगः, मुदो मृतः । सीधुसुरासवेत्यादि। उपजातिविशेषः । सीधुसुरासवा मदिराविशेषाः । एतावदवस्थामापन्नपीनत्वरूपा गता यदि म्रियतेचे मृता भवति शृगालानां पर्याप्तिका विहवो । किं दाव गणिआघरो, अहवा कुबेरभवणपरिच्छेदो त्ति । कहिं तुम्हाणं अज्जआ ? 1[ किं वात्र पृच्छयते ? । युष्माकं खलु प्रेमनिर्मलजले मदनसमुद्रे स्तननितम्बजघ नान्येव यानपात्राणि मनोहराणि । एवं वसन्त सेनाया बहुवृत्तान्तमष्टप्रकोष्ठं भवन प्रेक्ष्य यत्सत्यं जानामि, एकस्थमिव त्रिविष्टपं दृष्टम् । प्रशंसितुं नास्ति में वाग्विभवः । किं तावद्गणिकागृहम् , अथवा कुबेरभवनपरिच्छेद इति । कुछ युष्माकमार्या १ ।

 चेटी--अज्ज ! एसा रुक्खवाडिआए चिट्ठदि । ता पविसदु अज्जो । [आर्य ! एषा वृक्षवाटिकायां तिष्ठति । तत्प्रविशत्वार्यः ।।

 विदूषकः----(प्रविश्य, दृष्ट्वा च) ही ही भो, अहो रुखवाडि- आए एस्सिरीअदा । अच्छरीदिकुसुमपत्थारा रोविदाअणेअपादवा, णिरंतरपावतलणिम्मिदा जुवदिजणप्पमाणा पट्टदोला, सुवण्णजू- धिअसेहालिआमालईमल्लिआगोमालिआकुरबआअदिमोत्तअप्पदिकुसु- मेहिं सअं णिवडदेहिं जं सच्चं लहुकरेदि विअ णंदणवणस्स सुस्सिरीअदं । ( अन्यतोऽवलोक्य ) इदो अ उदअंतसूरसमप्पहेहिं कमलरत्तोप्पलेहिं संझाअदि विअ दीहिआ । अवि अ,----

एसो असोअवुच्छो णवणिग्गमकुसुमपल्लवो भादि ।
सुभडो दुख समरमज्झे घणलोहिदपंकवञ्चिक्को ॥ ३१ ॥

भोदु, ता कहिं तुम्हाणे अज्जआ [ आश्चर्य भोः, अहो वृक्षवाटिकायाः सश्रीकता । अच्छरीतिकुसुमप्रस्तारा रोपितानेकपादपाः निरन्तरपादपतलनिर्मिता युवतिजधनप्रमाणा पट्टदोला, सुवर्णयुथिकाशेफालिकामालतीम-


सौहित्यम् ॥ ३० ॥ युष्माकमपि यानपात्राणि वहन्ति ? । उद्वाहकेनार्जितविभवस्यैव पर मियान्विस्तारो भवतीति प्रष्टुरभिप्रायः (१) ।। प्रेमनिर्मलजले मदनसमुद्रे स्तननितम्बजघनान्येव यानपात्राणि ॥ सर्र्तुवकुसुमप्रस्तरा रोपितानेकपादपा निरन्तरपादपतलनिर्मिता युवतिजघनप्रमाण पट्टदोला । लघुकीकरोतीव। नन्दनवनस्य सश्रीकत्वम् । एसो असोज इत्यादि । गाथा । ब्रुच्छो ल्लिकानयमल्लिकाकुरबकातिमुक्तकप्रभृतिकुसुमैः स्वयं निपतितैर्यत्सत्यं लघूकरो- तीव नन्दनवनस्य सश्रीकताम् । इतश्च उदयत्सूर्यसमप्रभैः कमलरक्तोत्पलैः संध्यायते इव दीर्घिका । अपि च,-

एषोऽशोकवृक्षो नवनिर्गमकुसुमपल्लवो भाति ।
सुभट इव समरमध्ये घनलोहितपङ्कचर्चिकः ।

भवतु, तत्कुत्र युष्माकमार्या? ।]

 चेटी–अज्ज ! ओणामेहि दिट्ठिं , पैक्ख अज्जअं । [ आर्य ! अव- नमय दृष्टिम् , पश्यार्याम् ।]

 विदूषकः-( दृष्ट्वा, उपसृत्य ) सोत्थि भोदीए । [स्वस्ति भवत्यै ।]

 वसन्तसेना-( संस्कृतमाश्रित्य ) अये, मैत्रेयः । ( उत्थाय ) स्वाग- तम्, इदमासनम् ; अत्रोपविश्यताम् ।

 विदूषकः---उपविसदु भोदी । [ उपविशतु भवती ।]

( उभावुपविशतः )

 वसन्तसेना--अपि कुशलं सार्थवाहपुत्रस्य ? ।

 विदूषकः----भोदि ! कुशलं । [ भवति ! कुशलम् ।]

 वसन्तसेना–आर्य मैत्रेय ! अपीदानीं

गुणप्रवालं विनयप्रशाखं विश्रम्भमूलं महनीयपुष्पम् ।
तं साधुवृक्षं स्वगुणः फलाढ्यं सुहृद्विहङ्गाः सुखमाश्रयन्ति ? ॥३२॥

 विदूषकः— (खगतम् ) सुट्ठु उवलक्खिदं दुट्टविलासिणीए । (प्रकाशम् ) अध ईं । [ सुष्टूपलक्षितं दुष्टविलासिन्या । अथ किम् ।।

 वसन्तसेना---अये ! किमागमनप्रयोजनम् १ ।।


वृक्षः। घनरुधिरपङ्कचर्चिका यस्य सः ॥ ३१ ॥ ओणमेहि अवनमय ॥ गुणेति ॥ ३२ ॥ से अस्याः । भावे क्त योगे षष्ठी (?)।

टिप्पः--1 अन्न चारुदत्तानुराग एव परमार्थ इति हेतुगर्भितमिदं पद्यम् ।  विदूषकः---सुणादु मोदी । तत्तभवं चारुदत्तो सीसे अंजलिं कटुअ भोदिं विण्णवेदि । [ शृणोतु भवती । तत्रभवश्चारुदत्तः शीर्षेऽञ्जलिं कृत्वा भवतीं विज्ञापयति । ]

 वसन्तसेना--( अञ्जलिं बद्ध्वा ) किमाज्ञापयति ।।

 विदूषकः-मए तं सुवण्णभंडअं विस्संभादो अत्तणकेरकेत्ति कदुअ जूदे हारिदं । सो अ सहिओ राअवत्थहारी ण जाणीअदि कहिं गदो त्ति । [मया तत्सुवर्णभाण्डं विश्रम्भादात्मीयमिति कृत्वा द्यूते हारितम् । स च सभिको राजवार्ताहारी न ज्ञायते कुत्र गत इति ।]

 चेटी--अज्जए ! दिट्टिआ वड्ढसि । अज्जो जूदिअरो संवुत्तो । [आर्य! दिष्ट्या वर्धसे । आर्यो द्यूतकरः संवृत्तः ।]

 वसन्तसेना--( स्वगतम् ) कधं चोरेण अवहिदं पि सोंडीर- दाए जूदे हारिदं त्ति भणादि ? । अदो जेव कामीअदि । [कथं चौरेणापहृतमपि शौण्डीरतया द्यूते हारितमिति भणति ? । अत एव काम्यते ।

 विदूषकः----ता तस्स कारणादो गेण्हदु भोदी इमं रअणावलिं । [ तत्तस्य कारणाद्गृह्णातु भवतीमां रत्नावलीम् ।।

 वसन्तसेना-( आत्मगतम् ) किं दंसेमि तं अलंकारअं । ( विचिन्त्य ) अधवा ण दाव । [ किं दर्शयामि तमलंकारम् ? । अथवा न तावत् ।]

 विदूषकः---किं दाव ण गेण्हादि भोदी एवं रअणावलिं ? । [ किं तावन्न गृह्णाति भवतीमां रत्नावलीम् ? ।]

 वसन्तसेना---( विहस्य, सखीमुखं पश्यन्ती ) मित्तेअ ! कधं ण गेण्हीस्सं रअणावलिं ? । ( इति गृहीत्वा पार्श्वे स्थापयति,स्वगतम् ) कधं झीणकुसुमादो वि सहआरपादवादो मअरंदबिंदओ णिवडंति ? (प्रकाशम् )अज्ज ! विण्णवेहि तं जूदिअरं मम वअणेण अज्जचारुदत्तं---


छात्रस्य इसितमिति यथा ॥ अध ईं अथ किम् । अनुमतौ ॥ राअवत्थहारी 'अहं पि पदोसे अज्जं पेक्खिदं आअच्छामि' त्ति । [ मैत्रेय ! कथं न ग्रहीष्यामि रत्नावलीम्  ? । कथं हीनकुसुमादपि सहकारपादपान्मकरन्दबिन्दवो निपतन्ति ? । आर्य ! विज्ञापय तं द्यूतकरं मम वचनेनार्यचारुदत्तम्- अहमपि प्रदोष आर्यं प्रेक्षितुमागच्छामि' इति ।] विदूषकः-( स्वगतम् ) किं अण्णं तर्हि गदुअ गेण्हिस्सदि?। { प्रकाशम् ) भोदि । भणामि---(स्वगतम् ) णिअत्तीअदु इमादो गणिआ- पसंगादो' त्ति । [ किमन्यत्तत्र गत्वा ग्रहीष्यति ? । भवति ! भणामि--- निवर्ततामस्माद्गणिकाप्रसङ्गात्' इति ।

( इति निष्क्रान्तः )

 वसन्तसेना--हञ्जे ! गेण्ह एदं अलंकारअं । चारुदत्तं अहिर- मिदुं गच्छम्ह । [ चेटि ! गृहाणैतमलंकारम् । चारुदत्तमभिरन्तुं गच्छावः । ]

 चेटी--अज्जए ! पेक्ख पेक्ख । उण्णमदि अकालदुद्दिणं । [ आयें ! पश्य पश्य, उन्नमत्यकालदुर्दिनम् ।।

 वसन्तसेना--

उदयन्तु नाम मेघा भवतु निशा वर्षमविरतं पततु ।
गणयामि नैव सर्वं दयिताभिमुखेन हृदयेन ॥ ३३ ॥

हञ्जे ! हारं गेण्हिअ लहुं आअच्छ। [चेटि ! हारं गृहीत्वा शीघ्रमागच्छ ।]

( इति निष्क्रान्ताः सर्वे )

मदनिकाशर्विलको नाम चतुर्थोऽङ्कः ।


वार्तिकः । सोंडीरदाए शौण्डीर्येणाशयमह्त्त्वेन । भोदि भवति । भणामित्यनन्तरं सहासनाटकसूत्रं परितमिव तथा कृत्वा बोद्धव्यम् । (४) उदयन्त्विति ॥ ३३ ॥

इति मदनिकाप्रदानं नाम चतुर्थोऽङ्कः ॥

| टिप्प०---] अनेन ‘उदयन्तु नाम मेघा' इति चाग्रिमश्लोकेन चाव्यवहितमेव पञ्चमाङ्कादौ वर्षर्तुवर्णनावतारः सूच्यते । स चायं वर्षर्तुवर्णनावतारः पूर्वं "पातु वो नीलकण्ठस्य कण्ठः श्यामांबुदोपमः ।' इति नान्द्यामेव ग्रन्थकृता सूचित इत्यवसेयम् । 2 श्लोकेऽस्मिन् वसन्तसेनायाचारूदत्तविषयकोऽतिशयितोऽनुरागः स्फुटं प्रतीयते । मृ० १

  1. 'वधू'शब्दवाच्यत्वरूपमवगुण्ठनम् ; अन्यानवलोकनीयत्वात् ।
    अन्यानबलोकनरूपं 'असूर्यम्पश्या राजदारा:' इत्यादिसदृशमिति भावः ।
  2. चारुदत्तगृहमिति भावः ।
  3. कथानकमिदं बृहत्कथादौ वर्णितं वरीवर्ति । मृ॰ ८
  4. विदुषकोऽयं मैत्रेय एव रत्नावलीं दातुमागत इति ज्ञेयम् ।