मृच्छकटिकम्/तृतीयोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search
← द्वितीयोऽङ्कः मृच्छकटिकम्
तृतीयोऽङ्कः
शूद्रकः
चतुर्थोऽङ्कः →

तृतीयोऽङ्कः

( ततः प्रविशति चेटः )

 चेटः

सुअणे खु भिञ्चाणुकंपके शामिए णिद्धण्गके वि शोहदि ।
पिशुणे उण दव्वगव्विदे दुक्कले क्खु पलिणामदालुणे ॥ १ ॥

अवि अ,--

शश्शपलक्क बलद्दे ण शक्कि वालिदुं
अण्णपशक्त्तकलत्ते ण शक्कि वालिदुं ।
जूदपशत्तमणुश्शे ण शक्कि वालिदुं
जे वि शहाविअदोशे ण शक्कि वालिदुं ॥२॥

का वि वेला अज्जचारुदत्तश्श गंधव्वं शुणिदं गदश्श । अदिक्क- मदि अद्धलअणी । अज्ज वि ण आअच्छदि। तो जाव बाहिलदुआलशालाए गदुअ शुविश्शं ॥

{ [१]सुजनः खलु भृत्यानुकम्पकः स्वामी निर्धनकोऽपि शोभते ।
पिशुनः[२] पुनर्द्रव्यगर्वितो दुष्करः खलु परिणामदारुणः ।।

अपि च,--

सस्यलम्पटबलीवर्दो न शक्यो वारयितु-
मन्यप्रसक्तकलत्रं न शक्यं वारयितुम् ।


सुअणे इत्यादि । वैतालीयम्। 'सुअणे' इत्येकारो लघुः, छन्दोनुरोधात् । सुजनः खलु भृत्यानुकम्पकः स्वामी निर्धनोऽपि शोभते । पिशुनः पुनर्द्रव्यगर्वितो दुष्करः खलु परिणामदारुणः ॥ ‘खलु’ यस्मादर्थे । दुष्करो यतः, अतः परिणामदारुणः ॥ १ ॥ शश्शपलक्केत्यादि । शक्करी जातिः । पलक्को


टिप्प०----1

द्यूतप्रसक्तमनुष्यो न शक्यो वारयितुं
योऽपि स्वा[३]भाविकदोषो न शक्यो वारयितुम् ॥

कापि वेलार्यचारुदत्तस्य गा[४]न्धर्वं श्रोतुं गतस्य । अतिक्राम[५]त्यर्धरजनी । अद्यापि नागच्छति । तद्यावद्धहिर्द्वारशालायां गत्वा स्वप्स्यामि ।]

( इति तथा करोति )

( ततः प्रविशति चारुदतो विदूषकश्च )

 चारुदत्तः----अहो अहो ! साधु साधु, रेभिलेन गीतम् । वीणा हि[६] नामासमुद्रोत्थित रत्नम् । कुतः,-

उत्कण्ठितस्य हृदयानुगुणा वयस्या
संकेतके चिरयति प्रवरो विनोदः ।
संस्थापना प्रियतमा विरहातुराणां
रक्तस्य रागपरिवृद्धिकरः प्रमोदः ॥ ३ ॥

 विदूषकः---भो, एहि । गेहं गच्छेम्ह । [ भोः, एहि । गृहं गच्छावः ।]


लम्पटः । 'पडकला' इति महाराष्ट्रभाषा । सस्यलम्पटो बलीवर्दो न शक्यो वारयितुम् । अन्यप्रसक्तकलत्रं न शक्यं वारयितुम् । द्यूतप्रसक्तमनुष्यो न शक्यो वारयितुम् । योऽपि स्वाभाविको दोषः सोऽपीत्यर्थान्न शक्यो वारयितुम् ॥ अतिरिक्तदातृत्वं दोष एवेति । तं च मम स्वामी न त्यजतीति भावः ॥ २ ॥ गन्धव्यं गान्धर्वम् ; गीतमित्यर्थः ॥ उत्कण्ठितस्येति॥ ३॥ सुक्कअं संस्कृ- {{rule]] टिप्प०---। अत्र न्यूनता द्रूप्यरूपकमलङ्कारः । उत्कण्ठितस्य कान्तासक्तस्य विरहिणो मनोनुगुणा वयस्या सखी वीणेत्यर्थः । यस्या वीणायाः प्रवरो विनोदो वादनव्यापारः संकेतके चिरं स्थापयति । संकेतकं नामानुरागिणोमींलने संकेतः, पक्षे;-वीणावादने संकेतविशेषः । विरहातुराणमतिप्रिया संस्थापना विरहव्याप्तप्तप्राणसंबोधना वीणेत्याशयः ।  चारुदत्तः--अहो, सुष्टु भावरेभिलेन गीतम् ।

 विदूषकः--मम दाव दुवेहिं ज्जेब्व हस्सं जाअदि । इत्थि- आए सक्कअं पठंतीए, मणुरसेण अ काअलीं गाअंतेण । इत्थिआ दाव सक्कअं पठंती, दिण्णणवणस्सा विअ गिट्टी, अहिअं सुसुआअदि । मणुस्सो वि काअलीं गाअंतो, सुक्खसुमणोदोमवेट्टिदो बुड्ढपुरोहिदो विअ मंतं जवंतो, दिढं मे ण रोअदि । [ मम तावद्द्वाभ्यामेव हास्यं जायते । स्त्रिया संस्कृतं पठन्त्या, मनुष्येण च काकलीं गायता । स्त्री तावत्संस्कृतं पठन्ती,-- दत्तनवस्येव गृ[७]ष्टिः, अधिकं सूसूशब्दं करोति । मनुष्योऽपि काकलीं गायन, शुष्कसुमनोदामवेष्टितो वृद्धपुरोहित इव मन्त्रं जपन, दृढं में न रोचते ।।

 चारुदत्तः---वयस्य ! सुष्ठु खल्वध गीतं भावरेभिलेन । न च भवान्परितुष्टः ।।

 र[८]क्तं च नाम मधुरं च समं स्फुटं च ।
भावान्वितं च ललितं च मनोहरं च ।
किंवा प्रशस्तवचनैबेहुभिर्मदुक्तै-
रन्तर्हिता यदि भवेद्वनितेति मन्ये ॥ ४ ॥

अपि च,--

तं तस्य स्वरसंक्रमं मृदुगिरः श्लिष्टं च तन्त्रीस्वनं
वर्णानामपि मूर्च्छनान्तरगतं तारं विरामे मृदुम् ।


तम् । काअलीं काकलीम् । णस्सा नासिका विवररज्जूः । सुसुआअदीत्यव्यक्त शब्दानुकारणम् । शुष्कसुमनोदामवेष्टितत्वेन चिरकालजपप्रवणत्वमुक्तम् ॥ रक्तमिति । भावान्वितं रत्यास्पदम् । ललितं लालित्याख्यधर्मविशेषशालि । पिहिता योधिदेव गायति न पुरुष इति भासते ॥ ४ ॥ तमिति ॥ ५ ॥

टिप्प्०-

हेलासंयमितं पुनश्च ललितं रागद्विरुच्चारितं
यत्सत्यं विरतेऽपि गीतसमये गच्छामि श्रृ[९]ण्वन्निव ॥ ५ ॥

 विदूषकः--भो वअस्स ! आवणंतररच्छाविभाएसु सुहं कुक्कुरा वि सुत्ता। ता गेहूं गच्छेम्ह। ( अग्रतोऽवलोक्य ) वअस्स ! पेक्ख पेक्ख । एसो वि अंधआरस्स विअ अवआसं देंतो अंतरिक्खपासादादो ओदरदि भअवं चंदो । [ भो वयस्य ! आपणान्तररथ्वाविभागेषु सुखं कुकुरा अपि सुप्ताः । तद्गृहं गच्छावः । वयस्य ! पश्य पश्य । एषोऽप्यन्धकारस्येवावकाशं दददन्तरिक्षप्रासादादवतरति भगवांश्चन्द्रः ।]

 चारुदत्तः-सम्यगाह भवान्

असौ हि दत्त्वा तिमिरावकाशमस्तं व्रजत्युन्नतकोटिरिन्दुः ।
जलावगाढस्य वनद्विपस्य तीक्ष्ण विषाणाग्रमिवावशिष्टम् ॥ ६॥

विदूषकः----भो, एदं अम्हाणं गेहू । वड्ढमाणअ, वड्ढमाणअ ! उग्घाटेहि दुआरअं । [ भोः, इदमस्माकं गेहम् । वर्धमानक, वर्धमानक ! उद्धादय द्वारम् ।]

 चेटः-अज्जामित्तेअस्स शुलशंजोए शुणीअदि । आगदे अज्जचालुदते । ता जाव दुआलअं शे उग्घाटेमि । ( तथा कृत्वा ) अज्ज ! वंदामि । मित्तेअ ! तुम पि वदामि । एत्थ वित्थिण्णे आशणे णिशी-


आपणमध्यरथ्याविभागेषु कुक्कुरा अपि सुप्ताः । ओदरदि अवतरति । अस्वाभिमुखं मातीत्यर्थः । असाविति । विषाणाग्रं दन्ताग्रम् ॥ ६ ॥ संयोगः समवधानम् ।


| टिप्प०-१. मृदुगिरः कोमलकण्ठस्वरस्य तस्य रेभिलस्य तमिदानीं श्रुतं स्वरसंक्रमं स्वराणां निषादर्षभगान्धारादिस्वराणां क्रममारोहावरोहरूपम् । सर्व द्वितीयान्तानां शृण्वन्’ इत्यनेनान्वयः । श्लिष्टं गीताक्षरैरभिन्नतया श्रूयमाणम् । तन्त्री वीणा, तस्याश्च स्वरं श्रुण्वन्नित्याशयः । वर्णानामक्षराणां मूर्च्छना । यथा कुटुम्बिन; सर्व एकीभूता भवन्ति, तथा स्वराणां संदोहो मूर्छनेत्यभिधीयते । तस्या अन्तरगतं मध्यगतम् , तारमुच्चम् , विरामे समाप्तौ, मृदुम् । हेला रागस्यारोहावरोहयोरनौचित्यम् , तत्र संयमितं नियमितम् , अनौचित्यान्निवृत्तमिति भावः । पुनश्च ललितं रागेषु द्विरुच्चारितं द्विखिरुरुक्तं गीतं शृण्वन्नित्वाशयः । ददु अज्जा । [ आर्यमैत्रेयस्य स्वरसंयोगः श्रूयते । आगत आर्यचारुदत्तः । तद्यावद्द्वारमस्योद्धाटयामि । आर्य ! वन्दे । मैत्रेय ! त्वामपि वन्दे । अत्र विस्तीर्णआसने निषीदतमार्यौ ।

(उभौ नाट्येन प्रविश्योपविशतः )

 विदूषकः--वड्ढमाणअ ! रआणिअं सद्दावेहि पादाइं धोइदुं । [ वर्धमानक ! रदनिकामाकारय पादौ धावितुम् ।]

 चारुदत्तः---( सानुकम्पम् ) अलं सुप्तजनं प्रबोधयितुम् ।

 चेटः---अज्जमित्तेअ ! अहं पाणिअं गेण्हे । तुमं पादाइं धोवेहि । [ अर्यमैत्रेय ! अहं पानीयं गृह्णामि । त्वं पादौ धाव ।।

 विदूषकः—(सक्रोधम् ) भो वअस्स ! एसो दाणिं दासीए पुत्तो भविअ पाणिअं गेण्हेदि । मं उण बम्हणं पादाइं धोवावेदि । [ भो वयस्य ! एष इदानीं दास्याः पुत्रो भूत्वा पानीयं गृह्णाति । मां पुनर्ब्राह्मणं पादौ धावयति ।]

 चारुदत्तः---- वयस्य मैत्रेय ! त्वमुदकं गृहाण । वर्धमानकः पादौ प्रक्षालयतु ।

 चेटः-- अज्ज़मित्तेअ ! देहि उदअं । [ आर्यमैत्रेय ! देह्युदकम् ।] ( विदूषकस्तथा करोति, चेटश्चारुदत्तस्य पादों प्रक्षाल्यापसरति )

 चारुदत्तः-- दीयतां ब्राह्मणस्य पादोदकम् ।

 विदूषकः-किं मम पादोदएहिं ।। भूमीए ज्जेव्व मए ताडिदगद्दहेण विअ पुणो वि लोट्ठिदव्यं । [ किं मम पादोदकैः ? । भूम्यामेव मया ताडितगर्दभेनेव पुनरपि लोठितव्यम् ।।

 चेटः--- अज्जमित्तेअ ! बम्हणे खु तुमं । [ आर्यमैत्रेय ! ब्राह्मणः खलु त्वम् ।]

 विदूषकः---- जधा सव्वणगाणं मज्झे डुंडुहो, तधा सव्वबम्हणाणं मज्झे अहं बम्हणो । [यथा सर्वनागानां मध्ये डुण्डुभः, तथा सर्वब्राह्मणानां मध्येऽहं ब्राह्मणः ।  चेटः- अज्जमित्तेअ ! तधा वि धोइश्शं । ( तथा कृत्वा) अज्जमित्तेअ! एदं तं शुवण्णभंडअं मम दिवा, तुह लत्तिं च । ता गेण्ह । [ आर्यमैत्रेय ! तथापि धाविष्यामि । आर्यमैत्रेय ! एतत्तत्सुवर्णभाण्डं मम दिवा, तव रात्रौ च, तद्गृहाण । ] ( इति दत्त्वा निष्क्रान्तः )

 विदूषकः-( गृहीत्वा ) अज्ज वि एवं चिट्ठदि । किं एत्थ उज्जइणीए चोरो वि णत्थि, जो एदं दासीए पुत्तं णिद्दाचोरं ण अवहरदि । भो वअस्स ! अव्भंतरचतुस्सालअं पवेसआमि णं । [ अद्याप्येतत्तिष्ठति । किमत्रोज्जयिन्यां चौरोऽपि नास्ति, य एतं दास्याःपुत्रं निद्राचौरं नापहरति । भो वयस्य ! अभ्यन्तरचतुःशालकं प्रवेशयाम्ये[१०]नम् ।

 चारुदत्तः-

अलं चतुःशालमिमं प्रवेश्य प्रकाश[११]नारीधृत एष यस्मात् । तस्मात्स्वयं धारय विप्र ! तावद्यावन्न तस्याः खलु भोः समर्प्यते ७

( निद्रां नाटयन्, 'तं तस्य स्वरसंक्रमम्[१२]म्-'(३॥५) इति पुनः पठति )

 विदूषकः- अवि णिद्दाअदि भवं १ । [ अपि निद्राति भवान् ? । }

 चारुदत्तः- अथ किम् ।।

इयं हि निद्रा नयनावलम्बिनी ललाटदेशदुसर्पतीव माम् ।।
अदृश्यरूपा चपला जरेव या मनुष्यसत्त्वं परिभूय वर्धते ॥ ८ ॥

 विदूषकः- ता सुवेम्ह । [ तत्स्वपिवः । ] ( नाट्येन स्वपिति )

( ततः प्रविशति शर्विलकः )


देमि ददामि ( १ ) । कवाटमुद्धाट्यावकाशं बिभरामीत्यर्थः (?) ॥ अलमिति । प्रकाशनारी वेश्या ॥ ७ ॥ इयमिति । मनुष्यसत्त्वं नृसत्ता. । मनुष्यमिति


टिप्प-1 । 2 । ३ । 4 निशीथसमये ।  शर्विलकः--

कृत्वा शरीरपरिणाहसुखप्रवेशं
शिक्षाबलेन च बलेन च कर्ममार्ग[१३]म् ।
गच्छामि भूमिपरिसर्पणधृष्टपार्श्वो
निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः ॥ ९ ॥

( नभोऽवलोक्य सहर्षम् ) अये, कथमस्तमुपगच्छति स भगवान्मृगाङ्कः ।

तथा हि,---

[१४]नृपतिपुरुषशङ्कितप्रचारं परगृहदूषण निश्चितैकवीरम् ।
घनपटलतमो निरुद्धतारा रजनिरियं जननीव संवृणोति ॥ १० ॥

वृक्षवाटिकापरिसरे संधिं कृत्वा प्रविष्टोऽस्मि मध्यमकम् । तद्याव- दिदानीं चतुःशालकमपि दूषयामि । भोः,

कामं नीचमिदं वदन्तु पुरुषाः स्वप्ने च यद्वर्धते
विश्वस्तेषु च वञ्चनापरिभवश्चौर्यं न शार्यं हि त्तत् ।
स्वाधीना वचनीयतापि हि वरं बद्धो न सेवाञ्जलि-
र्मार्गो ह्येष नरेन्द्रसौप्तिकवधे पूर्व कृतो द्रौणिना ॥ ११ ॥

तत्कस्मिन्नुद्देशे संधिमुत्पादयामि ।।

देशः को नु जलविसेकशिथिलो यस्मिन्न शब्दो भवे-।
द्भित्तीनां च न दर्शनान्तरगतः संधिः करालो भवेत् ।
क्षारक्षीणतया च लोष्टककृशं जीर्णं क्व हर्म्यं भवे- ।
त्कस्मिन्स्त्रीजनदर्शनं च न भवेत्स्यादर्थसिद्धिश्च मे ॥ १२ ॥


थावत् ॥ ८ ॥ कृत्वेति ।। कर्ममार्गं संधिम् । यथा जीर्णतनुः सर्पः मुच्यमान- कञ्चुको गच्छति ॥ ५ ॥ नृपतीति । पटलं वृन्दं रोगभेदश्च । तारानक्षत्रमक्ष्णः कनीनिका च ॥१०॥ काममिति । अश्वत्थाम्ना पाण्डवपक्षपातिनो राजानो रात्रौ संधिं कृत्वा मारिताः । सौप्तिकमिति भावक्तान्तादध्यात्मदित्वाट्ठञ् ॥ ११ ॥ देश


पाठा०-----१ घनतिमिरनिरुद्धसर्वभावा


टिप्प, ( भितिं पराभृश्य ) नित्यादित्यदर्शनोदकसेचनेन दूषितेयं भूमिः क्षार- क्षीणा । मूषिकोत्करश्चेह । हन्त, सिद्धोऽयमर्थः । प्रथममेतत्स्कन्दपुत्राणां सिद्धिलक्षणम् । अत्र कर्मप्रारम्भे कीदृशमिदानीं संधिमुत्पादयामि । इह खलु भगवता कनकशक्तिना चतुर्विधः संध्युपायो दर्शितः । तद्यथा---पक्केष्टकानामाकर्षणम्, आमेष्टकानां छेदनम् , पिण्डमयानां सेचनम् , काष्ठमयानां पाटनमिति । तदत्र पक्केष्टके इष्टिकाकर्षणम् । तत्र -

पद्मव्याकोशं भास्करं बालचन्द्रं
वापी विस्तीर्णं स्वस्तिकं पूर्णकुम्भम् ।
तत्कस्मिन्देशे दर्शयाम्यात्म शिल्पं
दृष्ट्वा श्वो यं यद्विस्मयं यान्ति पौराः ॥ १३ ॥

तदत्र पक्केष्टके पूर्णकुम्भ एव शोभते । तमुत्पादयामि ।

अन्यासु भित्तिषु मया निशि पाटितासु
क्षारक्षतासु विषमासु च कल्पनासु ।
दृष्ट्वा प्रभातसमये प्रतिवेशिवर्गो ।
दोषांश्च मे वदति कर्मणि कौशलं च ॥ १४ ॥

नमो वरदाय कुमारकार्तिकेयाय, नमः कनकशक्तये ब्रह्मण्यदेवाय देवव्रताय, नमो भास्करनन्दिने, नमो योगाचार्याय यस्याहं प्रथमः शिष्यः । तेन च परितुष्टेन योगरोचना मे दत्ता ॥


इति । संधिः किंभूतः ? । दर्शनान्तरगतो दर्शनान्तरं कनकशक्त्यादिमतविशेष- स्तदनुगतस्तद्बोधितः । करालो विपरीतः । स्त्रीजनदर्शनं हि तदनिष्टाचरणं वीरजनगर्हितं संभाव्येत ॥ १२ ॥ स्कन्दपुत्राणां स्कन्दोपजीविचौराचार्याणाम् ॥ पद्मव्याकोशमित्यादि । वैश्वदेवी छन्दः । वापी विस्तीर्णमिति द्वे नामनी । यदुक्तवान्-'इष्टकाभित्तौ च संस्कारवशेन पद्मव्याकोशादथः सप्त संज्ञाः' इति । भास्करो मण्डलाकारः। अन्येऽपि नामसदृशाः सप्त संधयः ॥ १३ ॥ अन्या- स्विति । कौशलं चेति चकारोऽप्यर्थे ॥१४॥ कार्तिकेयः परमगुरुः । ‘ब्रह्मण्यदेवा-


टिप्प-1 स्कन्दशिष्याय । =-=-=-=- =

अनया हि समालब्धं न मां द्रक्ष्यन्ति रक्षिणः ।
शस्त्रं च पतितं गात्रे रुजं नोत्पादयिष्यति ॥ १५ ॥

( तथा करोति ) धिक्कष्टम् । प्रमाणसूत्रं मे विस्मृतम् । ( विचिन्त्य ) आं, इदं यज्ञोपवीतं प्रमाणसूत्रं भविष्यति । यज्ञोपवीतं हि नाम ब्राह्मणस्य महदुपकरणद्रव्यम्, विशेषतोऽस्मद्विधस्य । कुतः,---

एतेन मापयति भितिषु कर्ममार्ग-
मेतेन मोचयति भित्तिषु कर्ममार्ग-
मेतेन मापयति भूषणसंप्रयोगान् ।
उद्धाटको भवति यन्त्रदृढे कपाटे ।
दष्टस्य कीटभुजगैः परिवेष्टनं च ॥ १६॥

मापयित्वा कर्म समारभे । ( तथा कृत्वावलोक्य च ) एकलोष्टावशेषोऽयं संधिः । धिक्कष्टम् , अहिना दष्टोऽस्मि । ( यज्ञोपवीतेनाङ्गुलीं बद्ध्वा विषवेगं नाटयति; चिकित्सां कृत्वा ) स्वस्थोऽस्मि । ( पुनः कर्म कृत्वा दृष्ट्वा च ) अये, ज्वलति प्रदीपः । तथा हि,-

शिखा प्रदीपस्य सुवर्णपिञ्जरा महीतले संधिमुखेन निर्गता ।
विभाति पर्यन्ततमःसमावृता सुवर्णरेखेव कषे निवेशिता ॥ १७॥

( पुनः कर्म कृत्वा ) समाप्तोऽयं संधिः । भवतु, प्रविशामि । अथवा न तावत्प्रविशमि । प्रतिपुरुषं निवेशयामि । ( तथा कृत्वा ) अये, न कश्चित् । नमः कार्तिकेयाय । ( प्रविश्य, दृष्ट्वा च ) अये, पुरु[१५]षद्वयं सुप्तम् । भवतु, आत्मरक्षार्थं द्वारमुद्धाटयामि । कथं जीर्णत्वाद्गृहस्य विरौति कपाटम् ? ।। तद्यावत्सलिलमन्वेषयामि । क्व न खलु सलिलं


दयोऽपरगुरवः' इत्याहुः सर्वे । 'कार्तिकेयविशेषणम्” इत्येके । 'ब्रह्मण्याय देवाय इति क्वचित्पाठः ॥ अनयेति ॥१५॥ एतेनेति । कर्मसु संधिरचनासु । भुषण- संप्रयोगानिति कटकादेर्धर्मककीलकसुश्लिष्टसंयोजनाभेदात् ॥ १६ ॥ शिखेति । टिप्प०-१ भविष्यति ? । (इतस्ततो दृष्ट्वा सलिलं गृहीत्वा क्षिपन्, संशङ्कम् ) मा तावद्भूमौ। पतच्छब्दमुत्पादयेत् । भवतु एवं तावत्। ( पृष्ठेन प्रतीक्ष्य कपाटमुद्धाव्य च) भवतु एवं तावत् । इदानीं परीक्षे किं लक्ष्यसुप्तम्, उत परमार्थसुप्तमिदं द्वयम् । ( त्रासयित्वा परीक्ष्य च ) अये, परमार्थसुप्तेनानेन भवितव्यम् । तथा हि,--

निःश्वासोऽस्य न शङ्कितः सुवेशदस्तु[१६]ल्यान्तरं वर्तते
दृष्टिर्गाढनिमीलिता न विकला नाभ्यन्तरे चञ्चला ।
मात्रं स्रस्तशरीरसंधिशिथिलं शय्याप्रमाणाधिके ।
दीपं चापि न मर्षयेदभिमुख स्याल्लक्ष्यसुप्तं यदि ॥ १८ ॥

( समन्तादवलोक्य ) अये ! कथं मृदङ्गः, अयं दर्दुरः, अयं पणवः, इयमपि वीणा, एते वंशाः, अमी पुस्तकाः; कथं नाट्याचार्यस्य गृहमिदम् । अथवा भव[१७]नप्रत्ययात्प्रविष्टोऽस्मि । तत्किं परमार्थदरिद्रोऽयम् , उत राजभयाचौरभयाद्वा भूमिष्ठं द्रव्यं धारयति । तन्ममापि नाम शर्विलकस्य भूमिष्ठं द्रव्यम् । भवतु बीज[१८] प्रक्षिपामि । ( तथा कृत्वा ) निक्षिप्तं बीजं न क्वचित्स्फारीभवति । अये, परमार्थदरिद्रोऽयम् । भवतु गच्छामि ।।

 विदूषकः--( उत्स्व[१९]प्नायते ) भो वअस्स ! संधी विअ दिज्जदि, चोरं विअ पेक्खामि, ता गेण्हदु भवं एवं सुवण्णभंडअं । [ भो वयस्य !


॥ १७ ॥ 'प्रतीक्ष्य' इत्यत्र 'प्रतीच्छय' इति पाठो दृश्यते । तच्च प्रतीच्छाग्रहणं कृवेत्यत्रार्थे णिचि समासे क्स्वाप्रत्यये ल्यपि रूपम् । लक्ष्य सुप्तं व्याज सुप्तम् । निःश्वास इति । तुल्यमविषयमन्तरमन्तरालो यथा स्यादेवं वर्तत ।


पाठ०-१ स्वप्नान्तरं वर्तते.


टिप्प०-- 1.भवनमिदं महत् , अतोऽत्र धनमपि भूरित्, स्यादिति विश्वासात् । । अभिमश्रितो 2. बीजबिशेषोऽन्तर्धनसहितभूतले क्षिप्तो बहुली भवति इति चौरशास्त्रप्रसिद्धिः । 3 सान्द्रनिद्रितो जनो यत्र जल्पत्याक्रोशति हसति स उत्स्वप्नः स्वप्नविशेषः । संधिरिव दृश्यते, चौरमिव पश्यामि, तद्गृह्णातु भवानिदं सुवर्ण भाण्डम् ।]

 शर्विलकः--किं न खल्वयमिह मां प्रविष्ठं ज्ञात्वा दरिद्रोऽस्मीत्युपहसति ? । तर्कि व्यापादयामि उत लधुत्वादुत्त्स्वप्नायते ? । ( दृष्ट्वा ) अये, जर्जरस्नानशाटीनिबद्धं दीपप्रभयोद्दीपितं सत्यमेवैतदलंकरणभाएडम् । भवतु, गृह्णामि । अथवा ने युक्तं तुल्यावस्थं कुलपुत्रजनं पीडयितुम् , तद्गच्छामि ।

 विदुषकः --भो वअस्स ! साविदोसि गोबम्हणकामाए, जइ एदं सुवण्णभडअं ण गेण्हसि । [ भो वयस्य ! शापितोऽसि गोब्राह्मणका[२०]म्यया, यद्येतरसुवर्णभाण्डं न गृह्णासि ।]

 शर्विलकः----अनतिक्रमणीया भगवती गोकाम्या ब्राह्मणकाम्या च तद्गगृह्णामि । अथवा ज्वलति प्रदीपः । अस्ति च मया प्रदीपनिर्वाप- णार्थमाग्नेयः कीटो धार्यते । तं तावन्प्रवेशयामि । तस्यायं देशकालः । एष मुक्तो मया कीटो यात्वेवास्य दीपस्योपरि मण्डलैर्विचित्रैविंचरितुम् । एष पक्षद्वयानिलेन निर्वापितो भद्रपीठेन धिक्कृतमन्धकारम् । अथवा मयाप्यस्मद्ब्राह्मणकुलेन धिक्कृतमन्धकारम् । अहं हि चतुर्वेदविदोऽप्रतिग्राहकस्य पुत्रः शर्विलको नाम ब्राह्मणो गणिकामदनिकार्थमकार्यमनुतिष्टामि। इदानीं करोति ब्राह्मणस्य प्रणयम् । ( इति जिघृक्षति ।

 विदूषकः - भो वअस्स ! सीदलो दे अग्गहत्थो। [भो वयस्य ! शीतलस्तेऽग्रहस्तः ।]


कपटसुप्तस्य विषमान्तरालवत्त्वात् ॥ १८ ।। स्फारीभवति । अभिमन्त्रितो बीजविशेषो धनसहितभूतले क्षिप्तो बहलीभवतीति प्रसिद्धिः ॥ लधुत्वा्ञ्चपलत्वात्॥ गोक्राम्येति । कामयतेलिङसामान्ये अचो यति पश्चास्नात्वं विवक्षणीयम् ।


टिप्प०.] 1. गवेच्छया ब्राह्मणेच्छयो चेत्यूह्यम् ।  शर्विलकः-धिक्प्रमादः । सलिलसंपर्काच्छीतलो मेऽग्रहस्तः । भवतु, कक्षयोर्हस्तं प्रक्षिपामि । ( नाट्येन सव्यहस्तमुष्णीकृत्य गृह्णाति )

 विदूषकः--गहिदं । [गृहीतम् ।]

 शर्विलकः-अनतिक्रमणीयोऽयं ब्राह्मणप्रणयः, तद्गृहीतम् ।

 विदषकः--दाणिं विक्किणिदपण्णो विअ वाणिओ, अहं सुहंं सुविसं । [ इदानीं विक्रीतपण्य इव वणिक्, अहं सुखं स्वप्स्यामि ।]  शर्विलकः-महाबाह्मण ! स्वपिहि वर्षशतम् । कष्टमेवं मदनिकागणिकार्थे [२१]ब्राह्मणकुलं तमसि पातितम् , अथवा आत्मा पातितः ? ।

धिगस्तु खलु दारिद्यमनिर्वेदितपौरुषम् ।
यदेतद्गर्हितं कर्म निन्दामि च करोमि च ॥ १९ ॥

तद्यावन्मदनिकाया निष्क्रयणार्थं वसन्तसेनागृहं गच्छामि । ( परिक्रम्यावलोक्य च ) अये, परशब्द इव । मा नाम रक्षिणः । भवतु, स्तम्भीभूत्वा तिष्ठामि । अथवा ममापि नाम शर्विलकस्य रक्षिणः । योऽहं

[२२]मार्जारः क्रमणे मृगः प्रसरणे श्येनो ग्रहालुञ्चने
सुप्तासुप्तमनुष्यवीर्यतुलने श्वा सर्पणे पन्नगः ।
माया रूपशरीरवेशरचने वाग्वेशभाषान्तरे ।
दीपो रात्रिषु संकटेषु डुडुमो वाजी स्थले नौजले ॥ २० ॥


गोर्ब्राह्मणसहिताया भङ्गं त्वं करोषि यदीदं न गृह्णासीति शपथार्थः ॥ प्रणयोऽभ्यर्थना । विक्कीणिपणण्णो विअ विक्रीतपण्य इव ॥ धिगिति । अनिर्वेदितेति प्रकरणनिश्चयो निर्वेदः, तदभावोऽनिर्वेदः ॥१९॥ ‘पदशब्द' इत्यनेन रदनिकाप्रवे- शसूचनम्। मार्जार इति । ग्रहणयुक्तमालुञ्चनं । प्रहलुञ्चनम् श्वा कुकुरः । माया शाम्बरी विद्या। रूपमाकारम् । वेशोऽलंकारादियोजना । डुडुम उहुंसः (?) ॥२०॥


| टिप्प०-.1 । 2 । अपि च,---

भुजग इव गतौ गिरिः स्थिरत्वे पतगपतेः परिसर्पणे च तुल्यः ।
शश इव भुवनावलोकनेऽहं वृक इव च ग्रहणे बले च सिंहः २१

( प्रविश्य )

 रदनिका--हद्धी हद्धी, बाहिरदुआरसालाए पसुत्तो वड्ढमाणओ । सोवि एत्य ण दीसइ । भोदु । अज्जमित्तेअं सद्दावेमि । [हा धिक् हा धिक् , बहिर्द्वारशालायां प्रसुप्तो वर्धमानकः । सोऽप्यत्र न दृश्यते । भवतु, आर्यमैत्रेयमाह्वयामि ।] ( इति परिक्रामति )

 शर्विलकः-( रदनिकां हन्तुमिच्छति, निरूप्य ) कथं स्त्री । भवतु, गच्छामि । ( इति निष्क्रान्तः )

 रदनिका--( गत्वा, सत्रासम् ) हद्धी हद्धी, अम्हाणं गेहे संधिं कप्पिअ चोरो णिक्कमति । भोदु, मित्तेअं गदुअ, पबोधेमि । ( विदूषकमुपगम्य ) अज्जमितेअ ! उट्ठहि उट्ठहि । अम्हाणं गेहे संधिं कप्पिअ चोरो णिक्कंतो । [हा धिक हा धिक्, अस्माकं गृहे संधि कल्पयित्वा चौरो निष्क्रामति । भवतु मैत्रेयं गत्या प्रबोधयामि । आर्यमैत्रेय ! उत्तिष्ठोत्तिष्ट । अस्माकं गेहे संधिं कल्पयित्वा चौरो निष्क्रान्तः ।]

विदूषकः-( उत्थाय ) आः दासीए धीए ! किं भणासि---‘चोरं कप्पिअ संधी णिक्कंतो’ ? । [आः दास्याःपुत्रिके ! किं भणसि-चौरं कल्पयित्वा संधिर्निष्क्रान्त: १’।]

 रदनिका-हदास ! अलं परिहासेण । किं ण पेक्खसि एणं ? । [ हताश ! अलं परिहालेन । किं न प्रेक्षस एनम् ? । ]


भुजग इति । वृक इति ‘हुण्डारइति प्रसिद्धः ॥२१॥ कप्पिअ क्लृप्त्वा । निर्मा विदुषकः----आः दासीए धीए ! किं भणासि-दुदिअं विअ हुआरअं उग्घाडिदं’ त्ति ? । भो वअस्स चारुदत्त ! उट्ठेहि उट्ठेहि । अम्हाणं गेहे संधिं दइअ चोरो णिक्कंतो । [ आ दास्याःपुत्रिके ! किं भणसि--‘द्वितीयमिव द्वारमनुद्धाटितम्' इति ? । भो वयस्य चारुदत्त ! उत्तिष्ठोत्तिष्ठ, अस्माकं गेहे संधिं दत्वा चौरो निष्क्रान्तः ।]

 चारुदत्तः----भवतु, भोः ! अलं परिहासेन ।

 विदूषकः----भो ! ण परिहासो । पेक्खदु भवं । [ भोः ! न परि- हासः, प्रेक्षतां भवान् ।]

 चारुदत्तः--कस्मिन्नुद्देशे ? ।।

 विदूषकः -- भो ! एसो । [भोः ! एषः।]

 चारुदत्तः---( विलोक्य ) अहो, दर्शनीयोऽयं संधिः-

उपरितलनिपातितेष्टकीऽयं
शिरसि तनुर्विपुलश्च मध्यदेशे।
असदृशजनसंप्रयोगभीरो ।
र्हृदयमिव स्फुटितं महागृहस्य ॥ २२ ॥

कथमस्मिन्नपि कर्मणि कुशलता ?।

 विदूषकः---भो वअस्स ! अअं संधी दुवेहिं ज्जेव दिण्णो भवेआदु आगंतुएण, सिक्खिदुकामेण वा । अण्णधा इध उज्जइणीए को अम्हाणं घरविहवं ण जाणादि ।। [ भो वयस्य ! एष संधिद्वाभ्यामेव दत्तो भवेत् -अथवाऽऽगन्तुकेन, शिक्षितुकामेन वा । अन्यथात्रोज्जयिन्यां कोऽस्माकं गृहविभवं न जानाति ? ।]

 चारुदत्तः

वैदश्येन कृती भवेन्मम गृहे व्यापारमभ्यस्यता
नासौ वेदितवान् धनैर्विरहितं विस्त्रब्धसुप्तं जनम् ।।


येत्यर्थः ।। उपरीति । उपरिभागे तलभागे च विनिपातितः आकृष्टा इष्टका यत्र । ‘उपरितन-' इति पाठ उपरितनी उपरिभत्र । शेषं तुल्यम् ॥ २१ ॥ वैदेश्येनेति ॥ २३ ॥ णिक्वामिस्सं निष्कामयिष्यामि । बहिः करिष्यामीति ।

दृष्ट्वा प्रा़्ङ्महतीं निवासरचनामस्माकमाशान्वितः
संधिच्छेदनखिन्न एव सुचिरं पश्चान्निराशो गतः ॥ २३ ॥

[२३]ततः सुहृद्य्भ्यः किमसौ कथयिष्यति तपस्वी---‘[२४]सार्थवाहसुतस्य गृहं प्रविश्य न किंचिन्मया समासादितम्' इति ? ।

 विदूषकः---भो ! कधं तं ज्जेव चोरहदअं अणुसोचसि ? । तेण चिंतिदं महंतं एदं गेहं । इदो रअणभंडअं सुअण्णभंडअं वा णिकामिस्सं । (स्मृत्वा, सविषादमात्मगतम्) कहिं ते सुवण्णभंडअं । ( पुनरनुस्मृत्ये, प्रकाशम् ) भो वअस्स ! तुं सव्व्वकालं भणासि-'मुक्खो मित्तेअओ, अपंडिदो मित्तेअओ' त्ति । सुट्ठु मए किदं तं सुवण्णभंडअं भवदो हत्थे समष्पअंतेण । अण्णधा दासीए पुत्तेण अवहिदं भवे । [ भोः ! कथं तमेव चौरहतकमनुशोचसि ? । तेन चिन्तितं महदेतद्गृहम् । इतो रत्नभाण्ड़ं सुवर्णभाण्डं वा निष्क्रामयिष्यामि । कुत्र तत्सुवर्णभाण्डम् । भो वयस्य ! त्वं सर्वकालं भणसि-‘मूर्खो मैत्रेयः, अपण्डितो मैत्रेयः' इति । सुष्टु मया कृतं तत्सुवर्णभाण्डं भवती हस्ते समर्पयता । अन्यथा दास्याःपुत्रेणापहृतं भवेत् ।

 चारुदत्तः -- अलं परिहासेन ।

 विदूषकः–भो ! जह णाम अहं मुक्खो ता किं परिहासस्स वि देशआलं ण जाणामि १ । [ भो; ! यथा नामाहं मूर्खस्तत्किं परिहासस्यापि देशकालं न जानामि ? । ।

 चारुदत्तः---कस्यां वेलायाम् ? ।।

 विदूषकः-- भो ! जदा तुमं मए भणिदोसि---‘शीदलो दे अग्गहत्थो' । [ भोः ! यदा त्वं मया भणितोऽसि-शीतलस्तेऽग्रहस्तः' ।


| टिप्प६---1 । 2  चारुदत्तः–कदाचिदेवमपि स्यात् । ( सर्वतो निरूप्य, सहर्षम् ) वयस्य । दिष्ट्या ते प्रियं निवेदयामि ।।

 विदूषकः--किं ण अवहिदं । [ किं नापहृतम् ?।]

 चारुदत्तः-हृतम् ।।

 विदूषकः–तधा वि किं पिअं ? । [ तथापि कि प्रियम् ।]

 चारुदत्तः–यदसौ कृतार्थों गतः ।

 विदूषकः–णासो खु सो । [ न्यासः खलु सः ।]

 चारुदत्तः--कथं न्यासः ? । ( मोहमुपगतः )

 विदषकः---समस्ससदु भवं । जई णासो चोरेण अवहिदो तुमं किं मोहं उवगदो? ।[ समाश्वसितु भवान् । यदि न्यासचौरेणापहृतस्त्वं किं मोहमुपगतः ? ?]

 चारुदत्तः---( समाश्वस्य ) वयस्य !

कः श्रद्धास्यति [२५]भूतार्थं सर्वो मां तुलयिष्यति ।
शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥ २४ ॥

भोः ! कष्टम् ,---


यदि तावत्कृ[२६]तान्तेन प्रणयोऽर्थेषु मे कृतः ।
किमिदानीं नृशंसेन चारित्रमपि दूषितम् ? ॥ २५ ॥

 विदूषकः--अहं खु अवलविस्सं-‘केण दिग्णं, केण गहिदं, को वा सक्खि ' त्ति । [ अहं खल्वपलपिष्यामि–'केन दत्तम् , केन गृहीतम्, को वो साक्षी' इति । ]


यावत् । अवहि (ह) दं अपहृतम् ॥ दिष्ट्या हर्षे ॥ ण अवहिदं नापहृतम् । के इति । निष्प्रतापा निष्पौरुषा ॥ २४॥ यदीति । प्रणयोsर्थित्वम् ॥ २५ ॥


टिप्प०-1 । 2 । चारुदत्तः--अहमिदानीमनृतमभिधास्ये ।।

भैक्ष्येणाप्यर्जयिष्यामि पुनर्न्यासप्रतिक्रियाम् ।।
अनृतं नाभिघास्यामि चारित्रभ्रंशकारणम् ॥ २६ ॥

 रदनिका-ता जाव अज्जा धुदाए गदुअ णिवेदेमि । [ तद्यावदार्या धूतायै गत्वा निवेदयामि । ] ( इति निष्क्रान्ताः सर्वे ) । ( ततः प्रविशति चेट्या सह चारुदत्तवधूः )

 वधूः-(ससंभ्रमम् ) अई, सच्चं अवरिक्खदसरीरो अजउत्तो अज्जमित्तेएण सह । [ अयि ! सत्यमपरिक्षतशरीर आर्यपुत्र आर्यमैत्रेयेण सह । ] ।

 | चेटी--भट्टिणि ! सच्चं, किं तु जो सो वेस्साजणकेरको अलंकारओ सो अवहिदो। [ भर्त्रि! सत्यम्, किं तु यः स वेश्याजनस्यालंकारकः सोऽपहृतः ।]

( वधूर्मोहं नाटयति )

 चेटी-समस्ससदु अज्जा धूदा। [ समाश्वसित्वार्या धूता ।]

 वधूः-( समाश्वस्य ) हञ्जे ! किं भणासि-अवरिक्खदसरीरो अज्ज उत्तो' त्ति ? । वरं दाणिं सो सरीरेण परिक्खदो, ण उण चारित्तेण । संपदं उज्जइणीए जणो एव्वं मंतइस्सदि-दलिद्ददाए अज्जउत्तेण ज्जेव ईदिसं अकज्जे अणुचिट्ठिदं' त्ति । (ऊर्ध्वमवलोक्य, निःश्वस्य च ) भअवं कअंत ! पोक्खरवत्तपडिदजलबिंदुचंचलेहिं कीलसि दलिद्दपुरिसभाअधेएहिं । इअं च मे एक्का मादुघरलद्धा अणावली चिट्ठदि । एदं पि अदिसोंडीरदाए अजउत्तो ण गेण्हिस्सदि । हञ्जे ! अज्जमितेअं दाव


भैक्ष्येणेति ॥ २६ ॥ अवरक्खणजणस्य अपगतं रक्षणं यस्यासौ अपरक्षणो टिप्प०-1 चारुदत्तस्य भार्यायै । अग्रे च 'वधू'पदेनेयमेव सर्वत्र ग्राह्या । सद्दावेहि ।। चेटि! किं भणसि–'अपरिक्षतशरीर आर्यपुत्र' इति ? वरमिदानीं स शरीरेण परिक्षतः । न पुनश्चारित्र्येण सांप्रतमुज्जयिन्यां जन एवं मन्त्रयिष्यति---‘दरिद्रतयार्यपुत्रेणैवेद्दशमकार्यमनुष्ठितम्' इति । भगवन्कृतान्त ! पुष्करपत्रपतितजलबिन्दुचञ्चलैः क्रीडसि दरिद्रपुरुषभागधेयैः । इयं च मे एका मातृगृहलब्धा रत्नावली तिष्ठति । एतामप्यतिशौण्डीर- तयार्यपुत्रो न ग्रहीष्यति । चेटि! आर्यमैत्रेयं तावदाह्वय ।] चेटी-जं अज्जा धूदा आणवेदि । ( विदूषकमुपगम्य ) अज्जमित्तेअ ! धूदा दे सद्दावेदि। [यदार्या धूताज्ञापयति । आर्य मैत्रैय ! धूता त्वामाह्व- यति ।।

 विदूषकः–कहिं सा ? । [ कुत्र सा? ।] चेटी-एसा चिट्ठदि, उवसप्प । [ एषा तिष्ठति, उपसर्प । ]

 विदूषकः--( उपसृत्य) सोत्थि भोदीए । [ स्वस्ति भवत्याः ।]

 वधूः-- अज्ज ! वंदामि । अज्ज ! पौरत्थिमामुहो होहि । [ आर्य ! वन्दे । आर्य ! पुरस्तान्मुखो भव । ]

 विदूषकः--एसो भोदि । पौरत्थिथमामुहो संवुत्तो म्हि। [ एष भवति! पुरस्तान्मुखः संवृत्तोऽस्मि ।]

 वधूः–अज्ज ! पडिच्छ इमं । [ आर्य ! प्रतीच्छेमाम् ।।

 विदूषकः-किं ण्णेदं ? । [ किं न्विदम् ?।]

 वधूः-अहं खु रअणसट्ठिं उववसिदा आसि । तहिं जधाविहवाणुसारेण बम्हणो पडिग्गाहिदव्वो । सो अ ण पडिग्गाहिदो, ता तस्स किदे पडिच्छ इमं रअणमालिअं । [ अहं खलु रत्नषष्ठीमुपोषितासम् । तत्र यथाविभवानुसारेण ब्राह्मणः प्रतिग्राहितव्यः । स च न प्रतिग्राहितः, तत्तस्य कृते प्रतीच्छेमां रत्नमालिकाम् ।।


वेश्याजनः (?)अवहिदो अपहृतः ॥ पौरत्थिमामुहो पौरस्त्याभिमुखः । पूर्व विदूषकः-(गृहीत्वा) सोत्थि, गमिस्सं; पिअवअस्सस्स णिवे- देमि। [स्वस्ति, गमिष्यामि; प्रियवयस्यस्य निवेदयामि ।]

 वधूः--अजमित्तेअ ! मा खु मं लज्जावेहि। [ आर्यमैत्रेय ! मा खलु मां लज्जितां कुरु।)

( इति निक्रान्ता )

 विदूषकः---( सविस्मयम् ) अहो, से महाणुभावदा । [ अहो, अस्या महानुभावता ।]

 चारुदत्तः--अये, चिरयति मैत्रेयः । मा नाम वैक्लव्यादकार्यं कुर्यात् । मैत्रेय, मैत्रेय ।।

 विदूषकः----( उपसृत्य ) एसो म्हि । गेण्ह एदं । (रत्नावलीं दर्शयति ) [ एषोऽस्मि, गृहाणैताम् ।। ]

 चारुदत्तः- किमेतत् ? ।

 विदूषकः--भो, जं दे सरिसदारसंगहस्स फलं । [ भोः, यत्ते सदृशदारसंग्रहस्य फलम् ।

 चारुदत्तः----कथं ब्राह्मणी मामनुकम्पते ? । कष्टम् , इदानीमस्मि दरिद्रः ।

आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः ।
अर्थतः पुरुषो नारी या नारी साऽर्थतः पुमान् ॥ २७ ॥

अथवा, नाहं दरिद्रः; यस्य मम

विभवानुगता भार्या सुखदुःखसुहृद्भवान् ।
सत्यं च न परिभ्रष्टं यद्दरिद्रेषु दुर्लभम् ॥ २८॥

मैत्रेय ! गच्छ रत्नावलीमादाय वसन्तसेनायाः सकाशम् । वक्तव्या च सा मद्वचनात्----‘यत्खल्वस्माभिः सुवर्णभाण्डमात्मीयमिति कृत्वा विश्रम्भाद्द्यूते हारितम् ; तस्य कृते गृह्यतामियं रत्नावली' इति ।


दिगवलम्बितमुख इत्यर्थः ॥ रअणसट्ठिं रत्नषष्ठिकाभिधं व्रतम् । अरण्यषष्टिका नाम ग्रीष्मव्रतम् इत्येके ॥ आत्मेति ॥ २७॥ विभवेति ॥ २८ ॥ टिप्प-1 चारुदत्तपत्न्या इत्यर्थः ।  विदूषकः--मा दाव अक्खाइदस्स अभुत्तस्स अप्पमुल्लस्स चोरेहिं अवहिदस्स कारणादो चतुःसमुद्दसारभूदा रअणावली दीअदि । [मा तावदखादितस्याभुक्तस्याल्पमूल्यस्य चौरैरपहृतस्य कारणाश्चतुःसमुद्रसारभूता रत्नावली दीयते । ।

 चारुदत्तः-वयस्य ! मा मैवम्,-

यं समालम्ब्य विश्वासं न्यासोऽस्मासु तया कृतः ।
तस्यैतन्महतो मूल्यं प्रत्ययस्यैव दीयते ॥ २९ ॥

तद्वयस्य ! अस्मच्छरीरस्पृष्टिकया शापितोऽसि, नैनामग्राहयित्वात्रागन्तव्यम् । वर्धमानक ! ।

एताभिरिष्टिकाभिः संधिः क्रियतां सुसंहतः शीघ्रम् ।
परिवादबहलदोषान्न यस्य रक्षां परिहरामि ॥ ३० ॥

वयस्य मैत्रेय ! भवताप्यकृपणशौण्डीर्यमभिधातव्यम् ।।

 विदूषकः--भो, दलिदो किं अकिवणं मंतेदि ? । [ भोः, दरिद्रः किमकृपणं मन्त्रयति ? ।]

 चारुदत्तः-अदरिद्रोऽस्मि सखे ! । ( यस्य मम ‘विभवानुगता भार्या-' [३।२८] इत्यादि पुनः पठति ) तद्गच्छतु भवान् ; अहमपि कृतशौचः संध्यामुपासे ।

( इति निष्क्रान्ताः सर्वे )

इति संधिच्छेदो नाम तृतीयोऽङ्कः ।


चतुःसमुद्देति । चतु:समुदाणां रत्नाकराणां सारभूता ।। यमिति । समालम्ब्ये- त्याद्यपूर्वेऽपि सोहणसवनविभवेति ( ? ) कुलीनत्वादेरित्यर्थः (?) ॥ २९ ॥ एताभिरिति ॥ ३० ॥ सत्त्वमाशयं महत्त्वम् (?) ॥

इति संधिच्छेदो नाम तृतीयोऽङ्कः ।

दिप्प०-- तस्य महतः प्रत्ययस्य विश्वासस्य मूल्यं रत्नावलीरूपं दीयते इति निष्कर्षः। 2 संस्पर्शेनेत्यर्थः । 3 शपथं प्रापितः । 4 कृपणमेव मन्त्रयतीत्यर्थः । इतीदं परिहसतीति भावः। 5 प्रातःसंध्याम् ।

  1. कुनृत्यस्यापि मादृशस्यकार्यकरणासमर्थस्य वर्धमानकादेरपि पालकः
    किं पुनर्वाच्यं सुभृत्यस्येति । ईदृशो दरिद्रोऽपि प्रभुः शोभते इत्याशयः।
  2. 2 उत्तरार्धेचेटेन शकारः कटाक्षित इति ज्ञेयम् ।
  3. 1 ईदृग्दशायां दातृत्वं दोषः, तं च मम स्वामी न त्यजतीति व्यज्यते ।
  4. 2 सङ्गीतसहितं गीतं गान्धर्वम् ।
  5. ३ निशीथोऽपि न जात इत्यर्थः।
  6. 4 इह जगति वीणा रत्नमेव, परंतु समुद्रोत्थितं न भवतीत्याशयः
  7. 1 सकृत्प्रसूता गौः ।,इयमुपमा परिहाससंश्लिष्टेति ज्ञेयम् ।
  8. 2 अत्र’गीतम्' इत्यस्यानुपदोक्तस्य ’रक्त” , इत्यादीनि सप्त विशेषणानि पूर्वस्मादुत्तरोत्तरं
    हेतुहेतुमद्भावापन्नानीत्यवधातव्यम्।
  9. अलंकारमित्यर्थः
  10. वसन्तसेनथा न्यासरूपेण स्थापित इति भावः
  11. इदं गायनानुध्यानमिति ज्ञेयम्
  12. कर्मणश्चौर्यस्य मार्ग संधिम् चारुदत्तभवनपर्यन्तवृक्षवाटिकाप्राकार-भितौ संधि क्रत्वा चारुदत्तभवनं प्रविष्ट इति भावः
  13. चौराणां चन्द्रमा रिपुः
    इति वचनादिन्दोवस्तंगते तुष्टेन शर्विलकेणान्धकारजन्या जननीरूपकेणेदं वर्णनम्।
  14. चारुदत्तचिदूषको.
  15. 1
  16. 2
  17. 3
  18. 1
  19. निजपित्रादि गोत्रम्
  20. तत्तद्देभाषाविज्ञानविषये वाग्देवी सरस्वती अहमित्याशयः
  21. यतो रिक्तहस्त एव गतस्तस्मादिति भावः
  22. चारुदत्तपितुः सागरदत्तस्य । ‘सार्थवाहसुतस्य' इत्यनेन महाधनिकपुत्रत्वमावेद्यते ।
  23. चौरेण हेमभाण्डं हृतमित्येवंरूपं भूतार्थमिति भावः
  24. कृतान्तेन दैवेनेत्यर्थः‘कृतान्तो यमसिद्धान्तदेवकुशलकर्मसु' इत्यमरः