मृच्छकटिकम्/पञ्चमोऽङ्कः
← चतुर्थोऽङ्कः | मृच्छकटिकम् पञ्चमोऽङ्कः शूद्रकः |
षष्ठोऽङ्कः → |
पञ्चमोऽङ्कः
( ततः प्रविशत्यासनस्थः सोत्कण्ठश्चारुदत्तः )
चारुदत्तः–( ऊर्ध्वमवलोक्य ) उन्नमत्यकालदुर्दिनम् । यदेतत्
आलोकितं गृहशिखण्डिभिरुत्कलापै- |
अपि च,-
मेघो जलार्द्रमहिषोदरभृङ्गनीलो |
पूर्वाङ्केऽङ्कावतारेणैव सूचितस्य प्रकरणनायकस्य प्रवेशः । तथा चोक्तम् प्रवेशश्चूलिका चैव तथा विष्कम्भोऽपरः । अङ्कावतारोऽङ्कमुखमर्थोपक्षेपपञ्चकम् ॥' इति । प्रवेशयतीति प्रवेशः । पचाद्यच् । प्रवेशको ण्वुलन्त उच्यते । अधमपाप्रयोज्यः प्रवेशकः । तदुक्तम्----‘भृत्यवर्गकथावच्च कर्तव्यस्तु प्रवेशकः । अन्तर्जवनिकासंस्थैस्तथा मागधबन्दिभिः ॥ अर्थोपक्षेपणं यत्र क्रियते स हि चूलिका । विष्कम्भस्तु द्विधा सोऽयं शुद्धः संकीर्ण एव च । शुद्धो मध्यमपात्रेण संकीर्णो मध्यमाधमैः ॥” इति । आलोकितमिति । अपाकृतं निरस्तम् । अनभिनन्दितमिति यावत् ॥ १ ॥ मेघ इति । 'बलाक'शब्दः पुंलिङ्गोऽप्येषां
टिप्प,---1 अत्राङ्के तावत् आ समाप्ति वर्षर्तुवर्णने चारुदत्तेन वसन्तसेनयविटेन च यथायथं क्रियते । तदिदं वसन्तसेना-चारुदत्तयंरन्योन्यानुरागोद्दीपनविभावत्वेनावतरतीति बोध्यम् । एतद्वियति दृश्यमानमकालिकं यद्दुर्दिनं मेघाच्छन्नं दिनं तदवलोकितम्, तेन विरहिणां चेतस: कातरत्वं प्रियमिलनौत्सुक्यं च भवतीत्याशयः। 2 जलार्द्रमहिषस्योदरं भृङ्गश्च ततद्वन्नीलः । गज़महिषादीनां स्वतः श्यामत्वेऽपि जलार्द्रतयामतिश्यामत्वमुदरप्रदेशे चाधिकतरमिति द्रष्टव्यम् । 3 वामनावतारे श्रीहरि र्यथा गगनमाक्रमितुं प्रवृत्तः सन् रराज तद्वन्मेघ इति पूर्णोपमालंकारः ।। अपि च,--
केशवगात्रश्यामः कुटिलबलाकावलीरचितशङ्खः । |
एता निषिक्तरजतद्रवसंनिकाशा |
संसक्तैरिव चक्रवाकमिथुनैर्हंसैः प्रडीनैरिव |
एतत् तद् धृतराष्ट्रवक्त्रसदृशं मेघान्धकारं नभो । |
( विचिन्त्य ) चिरं खलु कालो मैत्रेयस्य वसन्तसेनायाः सकाशं गतस्य । नाद्याप्यागच्छति ।
( प्रविश्य )
विदूषकः--अहो गणिआए लोभो अदक्खिणदा अ, जदो ण कधा वि किदा अण्णा । अणेकहा सिणेहाणुसारं भणिअ किं पि, एवमेअ गहिदा रअणावली । एत्तिए ऋद्धीए ण तए अहं भणिदो -अज्ज-
संमतः । खं आकाशम् ॥ २ ॥ केशवेति ।। ३ ।। एता इति । निषिक्तं द्रावितम् ॥ ४ ॥ संसक्तैरिति । प्रडीनैरिति कर्मणि क्तः ( ? )। व्याविद्धैर्भ्रान्तैः । चक्रं समूहः । पत्रस्य छेदः खण्डनं विचलं (?) यत्र चित्रे तत्पत्रछेद्यं चित्रम् । तदिव गगनं शोभते ॥ ५ ॥ एतदिति । धृतराष्ट्रवक्त्रसदृशं नष्टच- न्द्रार्कत्वात् । वा इवार्थे । शिखी मयूरः । वनादिति त्यलोपे कर्मणि पञ्चमी ।
पाठा०---१ अणाअरेण ज्जेब्व अभणिअ (=अनादरेणैवाभणित्वा ). मित्तेअ ! वीसमीअदु । मल्लकेण पाणीअं पि पिबिअ गच्छीअदु’ त्ति ।। ता मा दाव दासीए धीआए गणिआए मुहं पि पेक्खिस्सं । ( सनिर्वेदम्) सुट्ठु खु वुच्चदि---‘अकंदसमुत्थिदा पउमिणी, अवंचओ वाणिओ, अचोरो सुवण्याआरो, अकलहो गामसमागमो, अलुद्धा गणिआ त्ति दुक्करं एदे संभावीअंति' । ता पिअवअस्सं गदुअ इमादो गणिआपसंगादो णिवत्तावेमि । ( परिक्रम्य, दृष्ट्वा) कथं पिअवअस्सो रुक्खवाडिआए अवविट्टो चिट्ठदि १ ता जाव उवसप्यामि । ( उपसृत्य ) सोत्थि भवदे । वड्ढ्दु भवं। [ अहो गणिकाया लोभोऽदक्षिणता च । यतो न कथापि कृता- ऽन्या । अनेकधा स्नेहानुसारं भणित्वा किमपि, एवमेव गृहीता रत्नावली । एता- वत्या ऋद्ध्या न तयाहं भणितः–'आर्यमैत्रेय! विश्रम्यताम्, मल्लकेन पानीयमपि पीत्वा गम्यताम्' इति । तन्मा तावद्दास्याःपुत्र्या गणिकाया मुखमपि द्रक्ष्यामि । सुष्टु खलूच्यते---‘अकन्दसमुत्थिता पद्मिनी, अवञ्चको वणिक्, अचौरः सुवर्णकारः, अकलहो ग्रामसमागमः, अलुब्धा गणिकेति दुष्करमेते संभाव्यन्ते । तत्प्रियवयस्यं गत्वास्माद्गणिकाप्रसङ्गान्निवर्तयामि । कथं प्रियव- यस्यो वृक्षवाटिकायामुपविष्टस्तिष्ठति ? । तद्यावदुपसर्पामि । स्वस्ति भवते । वर्धत भवान्।]
चारुदत्तो--( विलोक्य ) अये, सुहृन्मे मैत्रेयः प्राप्तः । वयस्य ! स्वागतम् , आस्यताम् ।।
विदूषकः---उवविट्टो म्हि । [उपविष्टोऽस्मि ।]
चारुदत्तः--वयस्य [ कथय तत्कार्यम् ]
विदूषकः-तं खु कज्जं विणट्टं । [ तत्खलु कार्य विनष्टम् ।]
चारुदत्तः किं तया न गृहीता रत्नावली ? ।
वनं प्राप्येत्यर्थः ॥ ६ ॥ अणेकहा सिणेहाणुसारं भणिअ अनेकधा स्नेहानुसारं भणित्वा । पाठान्तरेणैव कथा कथं हरितमलंकारभाण्डमित्यादिका । नैव कथा विदूषकः–कुदो अम्हाणं एत्तिअं भाअधेअ ? । णवणलिणकोमलं अंजलिं मत्थए कदुअ पडिच्छिआ । [ कुतोऽस्माकमेतावद्भागधे- यम् ? । नवनलिनकोमलमञ्जलिं मस्तके कृत्वा प्रतीष्टा ।]
चारुदत्तः-तत्किं ब्रवीषि विनष्टमिति १ ।।
विदुषकः---भो ! कधं ण विणट्टं ? जं अभुत्तपीदस्स चोरेहि अवहिदस्स अप्पमुल्लस्य सुवण्णभंडअस्स कारणोदो चतुस्समुदृसारभूदा रअणमाला हारिदा । [ भोः ! कथं न विनष्टम् ? यदभुक्तपीतस्य चौरैरप- हृत्स्याल्पमूल्यस्य सुवर्णभाण्डस्य कारणाश्चतुःसमुद्रसारभूता रत्नमाला हारिता ।]
चारुदत्त---वयस्य ! मा मैवम्;
यं समालम्ब्य विश्वासं न्यासोऽस्मासु तया कृतः। |
विदूषकः--भो वअस्स ! एदं पि मे दुदिनं संदावकारणं जं सहीअणदिण्णसण्णाए पडंतोवारिदं मुहं कदुअ अहं उवहसिदो । ता अहं बम्हणो भविअ दाणिं भवंतं 'सीसेण पडिअ विण्णवेमि---णिव- तीअदु अप्पा इमादो बहुपञ्चवाआदो गणिआपसंगादो' । गणिआ णाम पादुअंतरप्पविट्ठा विअ लेट्टुआ दुक्खेण उण णिराकरीअदि । अवि अ, भो वअस्स ! गणिआ हृत्थी काअत्थओ मिक्खु चाटो रासहो अ जहिं एदे णिवसंति तहिं दुट्टा वि ण जाअंति। [ भो वयस्य ! एतदपि मे द्वितीयं संतापकारणं यसखीजनदत्तसंज्ञया पटान्तापवारितं मुखं कृत्वाऽह-
नुसारः कृतोऽस्या रत्नावल्या भाव (१) इत्यादिकः । मल्लको भाजनविशेषः । तन्मा तावत् । यद्भोजनाद्यर्थमपि न तथा भक्तिोऽहम् ॥ यदभुक्तपीतस्य चौरै- रेवापहृतस्याल्पमूल्यस्य ॥ यमिति ॥ ७ ॥ यत्सखीजनदत्तसंज्ञया पटान्तापवा- टिप्प०--..-1 ब्राह्मणो महत्कार्यं विना न कमपि साष्टाङ्गं प्रणमतीत्याशयेनोक्तिरियम् । मुपहसितः । तदहं ब्राह्मणो भूत्वेदानीं भवन्तं शीर्षेण पतित्वा विज्ञापयामि निवर्यतामात्मास्माद्वहुप्रत्यवायाद्वणिकाप्रसङ्गात्' । गणिका नाम पादुका- न्तरप्रविष्टेव लेष्टुका दुःखेन पुनर्निराक्रियते । अपि ध, भो वयस्य ! गणिका, हस्ती, कायस्थो भिक्षुः, चाटो रासभश्च यत्रैते निवसन्ति तत्र दुष्टा अपि न जायन्ते ।।
चारुदत्तः-वयस्य ! अलमिदानीं सर्वं परिवादमुक्त्वा । अवस्थयैवास्मि निवारितः । पश्य
वेगं करोति तुरगस्त्वरितं प्रयातुं |
अपि च, वयस्य ।
यस्यार्थास्तस्य सा कान्ता धनहार्यो ह्यसौ जनः । |
(स्वगतम् ) न गुणहार्यो ह्यसौ जनः । (प्रकाशम् )
वयमर्थैः परित्यक्ता ननु त्यक्तैव सा मया ॥ ९ ॥ |
विदूषकः--(अधोऽवलोक्य, स्वगतम् ) जधा एसो उद्धं पेक्खिअ दीहं णिस्ससदि, तधा तक्केमि मए विणिवारिअंतस्स अधिअदरं वड्ढिदा से उक्कंठा। ता सुठ्टु खु एवं वुच्चदि--'कामो वामो' त्ति । ( प्रकाशम् ) भो वअस्स ! भणिदं अ ताए---‘भणेहि चारुदत्तं----अज्ज पओसे मए एत्थ आअंतव्व' त्ति । तो तक्केमि रअणावलीए अपरितुट्टा अवरं मग्गिदुं आअमिस्सदि त्ति । [ यथैष ऊर्ध्व प्रेक्ष्य दीर्घं निःश्वसिति, तथा तर्कयामि मया विनिवार्षमाणस्याधिकतरं वृद्धास्योत्कण्ठा । तत्सुष्ठु खल्वेवमुच्यते-“कामो वामः' इति । भो वयस्य ! भणितं च तया-‘भण चारुदत्तम्
रितं मुखं कृत्वा । गणिका हस्ती कायस्थो भिक्षुश्वाटौ ( टो) क्षुद्र विषयभोक्तारासभो गर्दभः ॥ वेगमिति ॥८॥ यस्येति ।। ९ ।। अवेध माणहे इति । –अद्य प्रदोषे मयात्रागन्तव्यम्' इति । तत्तर्कयामि रत्नावल्या अपरितुष्टाऽपरं याचितुमागमिष्यतीति ।]
चारुदत्तः--वयस्य । आगच्छतु, परितुष्टा यास्यति ।
चेटः----( प्रविश्य ) अवेध माणहे।
जधा जधा वश्शदि अब्भखंडे तधा तधा तिम्मदि पुठिचम्मे ।। |
(अहस्य)
वंशं वाए शतच्छिदं शुशद्दं वीण वाए शत्ततंति णदंति ।। |
आणात्तम्हि अज्जआए वशंतशेणाए---कुंभीलआ ! गच्छ तुमं, मम आगमणं अज्जचारुदत्तश्श णिवेदेहि त्ति। ता जाव अज्जचारुदत्तश्श गेहं गच्छामि । ( परिक्रम्य, प्रविष्टकेन दृष्ट्वा ) एशे चालुदत्ते रुक्खाडिआए चिट्ठदि । एशे वि शे दुट्टवडुके; ता जाव उवशप्पेमि । कुधं ढक्किदे दुवाले रुक्खवाडिआए ? । भोदु, एदश्श दुट्टवडुकश्श शण्णं देमि ।
( इति लोष्टगुटिकाः क्षिपति )
[अवेत मानवाः ।।
यथा यथा वर्षत्यभ्रखण्डं तथा तथा तिम्यति पृष्ठचर्म । |
अवेत अवगच्छत मानवा इत्यर्थः । जघा जघेति । उपेन्द्रवज्रया श्लोकः । यथा यथा वर्षत्यभ्रखण्डं तथा तथा तिम्यति आद्रींभवति पृष्ठचर्म । यथा यथा लगति शीतवातस्तथा तथा वेषते मे हृदयम् ॥ १० ॥ वंशं वाए इति । उपजातिविशेषः । पादत्रयं जगतीजात्या । चतुर्थः पादः शालिन्या । वंशं वादयामि सप्तच्छदं सुशब्दं वीण चादयामि सप्ततन्त्रीं नदन्तीम् । गीतं गायामि गर्दभस्यानुरूपं को मे तुल्यस्तुम्बुरुनारदो वा ॥ ११ ॥ अस्य बटु आज्ञप्तोऽस्म्भार्यया वसन्तसेनया---'कुम्भीलक! गच्छ त्वम् । ममागमन- मार्यचारुदत्तस्य निवेदय' इति । तद्यावदार्यवारुदत्तस्य गेहं गच्छामि । एष चारुदत्तो वृक्षवाटिकायां तिष्ठति । एषोऽपि स दुष्टबटुकः तावदुपसर्पामि कथमाच्छादितं द्वारं वृक्षवाटिकायाः । भवतु, एतस्य दुष्टबटुकस्य संज्ञां ददामि ।]
विदूषकः--अए, को दाणिं एसो पारवेट्टिदं विअ कइत्थं मं लोट्टकेहिं ताडेदि १ । [ अये ! क इदानीमेष प्राकारवेष्टितमिव कपित्थं मां लोष्टकैस्ताडयति ? ।]
चारुदत्तः---आरामप्रसादवेदिकायां क्रीडद्भिः पारावतैः पातितं भवेत् ।
विदूषकः–दासीर पुत्त दुट्टपाररावअ ! चिट्ट चिट्ठ । जाव एदिणा दंडकट्ठेण सुपक्कं विअ चूअफलं इमादो पासादादो भूमीए पाडइस्सं । [दास्याःपुत्र दुष्टपारावत! तिष्ठ तिष्ठ यावदेतेन दण्डकाष्ठेने सुपक्वमिव चूत- फलमस्मात्प्रासादात्भूमौ पातयिष्यामि । ] ( इति दण्डकाष्ठमुद्यम्य धावति )
चारुदत्तः—( यज्ञोपवीतं आकृष्य ) वयस्य ! उपविश । किम- नेन ? । तिष्ठतु दयितासहितस्तपस्वी पारावतः ।।
चैट-कधं पारावदं पेक्खदि,मं ण पैक्खदि ? । भोदु, अव- राए लोट्टगुडिकाए पुणो वि ताडइस्सं । [ कथं पारावतं पश्यति, मां न पश्यति ? । भवतु, अपरया लोष्टगुटिकया पुनरपि ताडयिष्यामि ।] ( तथा करोति )
विदूषकः---( दिशोऽवलोक्य ) कधं कुंभीलओ ? । ता जाव उवसप्पामि। ( उपसृत्य, द्वारमुद्घाट्य ) अरे कुंभीलअ !पविश ; साअदं दे। [कथं कुम्भीलकः १ तद्यावदुपसर्पामि । अरे कुम्भीलक ! प्रविश; स्वागतं ते ।]
कस्य संज्ञां ददामि १ ।। कपित्थं फलविशेषः । वृद्धबिंब्बो दुवासू इति यावत् (?)। चेटः–(प्रविश्य ) अज्ज ! वंदामि । [ आर्य ! वन्दे ।]
विदूषकः---अरे, कहिं तुम ईदिसे दुद्दिणे अंधारे आअदो ! ।। [ अरे, कुत्र त्वमीदृशे दुर्दिनेऽन्धकार आगतः १ }]।
चेटः-----अले, एशा शा। [ अरे, एषा सा । ]
विदूषकः---का एसा का ? । [कैषा का ? ]
चेटः--एशा शा । [एषा सा।]
विदूषकः-—किं दाणि दासीए पुत्ता ! दुन्भिक्खकाले वुड्ढरंको विअ उद्धकं सासाअसि--‘एसा सा से” त्ति ! । [ किमिदानीं दास्याः- पुत्र ! दुर्भिक्षकाले वृद्धरङ्क इवोर्ध्वकं श्वासायसे–'एषा सा सा' इति ?]
चेटः---अले, तुम पि दाणि इंदमहकामुको विअ सुट्ठु किं काका- असि---‘का के त्ति । [ अरे स्वमपीदानीमिन्द्रमहकामुक इव सुष्टु किं काकायसे--का का' इति ?।]
विदूषकः-–ता कहेहि । [ तत्कथय ।]
चेटः---( स्वगतम् ) भोदु एवं भणिशं । (प्रकाशम् ) अले, पण्हं दे दइश्शं । [भवतु, एवं भणिष्यामि । अरे, प्रश्न ते दास्यामि ।]
विदूषकः----अहं दे मुंडे गोड्ढ दइस्सं । [ अहं ते मस्तके पादं दास्यामि ।]
चेटः–अले, जाणाहि दाव, तेण हि कश्शिं काले चूआ मोलेंति । [ अरे, जानीहि तावत् तेन हि कस्मिन्काले मुकुलिता भवन्ति ।]
विदूषकः-अरे दासीए पुत्ता ! गिम्हे । [अरे दास्याःपुत्र! ग्रीष्मे ।]
इन्द्रअहकामुकः काकः । ‘इंद्रमह कोकपोदओ विभ' इति पाठो व्यक्तार्थ एव ॥
दिप्प-1 ‘दासीए पुत्ता' इति गाली । चेटः--( सहासम् ) अले, णहि णहि । [ अरे, नहि नहि ।]
विदूषकः---(स्वगतम् ) किं दाणि एत्थ कहिस्सं १ । ( विचिन्त्य ) भोदु, चारुदत्तं गदुञ पुच्छिस्सं । ( प्रकाशम् ) अरे, मुहुत्तअं चिट्ठ । (चारुदत्तमुपसृत्य ) भो वअस्स ! पुच्छिस्सं दाव, कस्सि काले चूआ मोलेंति ? [ किमिदानीमत्र कथयिष्यामि ।। भवतु, चारुदतं गत्वा प्रक्ष्या- मि। अरे, मुहूर्तकं तिष्ठ । भो वयस्य ! प्रक्ष्यामि तावत्, कस्मिन्काले चूता मुकुलिता भवन्ति ?।
चारुदत्तः–मूर्ख ! ! वसन्ते।
विदूषकः-(चेटमुपगम्य ) मुक्ख ! वसंते । [मूर्ख ! वसन्ते । ]
चेटः---दुदिअं दे पण्हं दैइ । शुशमिद्धाणं गामाणं का लक्खों कलेदि । [द्वितीयं ते प्रश्नं दास्यामि । सुसमृद्धानां ग्रामाणाम् का रक्षां करोति ? ।]
विदूषकः--अरे, रच्छा । [ अरे, रथ्या ।
चेटः-- (सहासम् ) अले, णहि णहि । [ अरे, नहि नहि ।]
विदूषकः---भोदु, संसए पडिदम्हि । ( विचिन्त्य ) भोदु, चारुदत्तं पुणो वि पुछिस्सं । ( पुनर्निवृत्य चारुदत्तं तथैवोदाहरति ) { भवतु, संशये पतितोऽस्मि । भवतु चारुदत्तं पुनरपि प्रक्ष्यामि।]
चारुदत्तः——वयस्य ! सेना ।
विदूषकः-( चेटमुपगम्य ) अरे दासीए पुत्ता 1 सेणा । [अरे दास्याःपुत्र ! सेना ।]
चेटः---अले दुवे वि एक्काश्शिं कडुअ शिग्धं भणाहि । [ अरे, द्वे अप्येकस्मिन् कृत्वा शीघ्रं भण।]
विदूषकः–सेणावसंते । [ सेनावसन्ते ।] चेटः–णं पलिवत्तिअ भणीहि । [ ननु परिवर्त्य भण।]
विदूषकः----( कायेन परिवृत्य ) सेणावसंते । [ सेनावसन्ते ।।
चेटः----अले मुक्ख बडुका ! पदाई पलिवत्तावेहि । [अरे मूर्ख बटुक! पदे परिवर्तय !!
विदूषकः--( पादौ परिवर्त्य ) सेणावसंते । [ सेनावसन्ते ।
चेटः-अले मुक्ख ! अक्खलपदाई पलिवतावेहि । [अरे मूर्ख ! अक्षरपदे परिवर्तय ।]
विदूषकः—( विचिन्त्य) वसंतसेणा । | वसन्तसेना ।]
चेटः--एशा शा आअदा । [एषा सागता।]
विदूषकः–ता जाव चारुदत्तस्स णिवेदेमि । ( उपसृत्य ) भो चारुदत्त ! धणिओ दे आअदो । तद्यावश्चारुदत्तस्य निवेदयामि । भो चारुदत्त ! धनिकस्त आगतः ।]
चारुदत्तः-कुतोऽस्मत्कुले धनिकः ।।
विदूषकः--जइ कुले णत्थि, ता दुवारे अत्थि; एसा वसंतसेणा आअदा । [यदि कुले नास्ति, तद्वारेऽस्ति; एषा वसन्तसेनागता । ।
चारुदत्तः--वयस्य! किं मां प्रतारयसि ? । ।
विदूषकः–जइ मे वअणे ण पत्तिआअसि, ता एवं कुंभीलअं पुच्छ । अरे दासीए पुत्ता कुंभीलअ ! उवसप्प । [यदि मे वचने न प्रत्ययसे, तदिमं कुम्भीलकं पृच्छ । अरे दास्याः पुत्र कुम्भीलक! उपसर्प ।]
चेदः—(उपसृत्य ) अज्ज ! वंदामि । [ आर्य ! वन्दे ।]
चारुदत्तः---भद्र ! स्वागतम् ; कथय सत्यं प्राप्ता वसन्तसेना ?।
चेटः--एशा शा अदा वशंतशेणा । [एषा सागता वसन्त- सेना ।] चारुदत्तः--( सहर्षम् ) भद्र ! न कदाचित्प्रियवचनं निष्फली- कृतं मया, तद्गृह्यतां पारितोषिकम् । ( इत्युत्तरीयं प्रयच्छति )
चेट:-( गृहीत्वा प्रणम्य, सपरितोषम् ) जाव अज्जआए णिवेदेमि । [यावदार्याया निवेदयामि । ] ( इति निष्क्रान्तः )
विदूषकः--भो ! अवि जाणासि, किंणिमित्तं ईदिसे दुद्दिणे आअदे त्ति है। भो ! अपि जानासि, किंनिमित्तमीडशे दुर्दिन आगतेति ? ।]
चारुदत्तः–वयस्य ! न सम्यगवधारयामि ।
विदूषकः-मए जाणिदं । अप्पमुल्ला रअणावली, बहुमुल्लं सुव- एणभंडअं त्ति ण परितुट्टा अवरं मग्गिदुं आअदा । [मया ज्ञातम् । अल्पमूल्या रत्नावली, बहुमूल्यं सुवर्णभाण्डमिति न परितुष्टाऽपरं याचितु- मागता।]
चारुदत्तः---( स्वगतम्) परितुष्टा यास्यति ।
(ततः प्रविशत्युज्ज्ववलाभिसारिकावेशेन वसन्तसेना, सोत्कण्ठा छत्रधारिणी, विटश्च )
विटः--(वसन्तसेनामुद्दिश्य )
अपद्मा श्रीरेषा प्रहरणमनङ्गस्य ललितं |
वसन्तसेने ! पश्य पश्य ।
गर्जन्ति शैलशिखरेषु विलम्बिबिम्बा |
पण्डं प्रश्नम् ॥ मुण्डे मस्तके । गोड्डं पदम् ॥ अपद्मेति । एषा वसन्तसेनेति संनिकर्षेण । लज्जाप्रणयिनीत्यत्र संधावचा (?) मित्यादिनाकारलोपः ॥ १२ ॥
येषां रवेण सहसोत्पतितैर्मयूखैः |
अपि च,--
पङ्कक्लिन्नमुखाः पिबन्ति सलिलं धाराहता दर्दुराः |
वसन्तसेना-भाव ! सुट्ठु दे भणिदं । [ भाव ! सुष्ठु ते भणि- तम् । एषा हि ।
मूढे ! निरन्तरपयोधरया मयैव |
विटः—भवतु एवं तावत् ; उपालभ्यतां तावदियम् ।।
वसन्तसेना-भाव ! किमनया स्त्रीस्वभावदुर्विदग्धयोपालब्धया ? । पश्यतु भावः।
मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा । |
विटः---वसन्तसेने ! पश्य पश्य, अयमपरः
गर्जन्तीति॥ १३ ॥ पङ्केति। कण्ठं मुञ्चतीति। ‘कण्ठो गले गलध्वाने' इति कोशः । लावण्ययोगवान् पूर्णं कण्ठं मुञ्चतीत्युत्प्रेक्षा (१ ) ॥ १४ ॥ मूढे इति। मूढे इति वसन्तसेनायाः साक्षेपसंबोधनम् । पयोधरो मेघः, स्तनौ च ॥ १५ ॥
दिप्प०---1 अत्र शब्दशक्तिमूलो ध्वनिः ।
पवनचपलवेगः स्थूलघाराशरौघः |
वसन्तसेना---एवं एणेदं । ती कधं एसो अवरो ? । [एवं न्विदम् । तत्कथमेषोऽपरः ?]
एतैरेव यदा गजेन्द्रमलिनैराध्मातलम्बोदरै- |
विटः---वसन्तसेने । एवमेतत् । इदमपरं पश्य
बलाका पाण्डुरोष्णीषं विद्युत्क्षिप्तचामरम् ।। |
वसन्तसेना-भाव ! पेक्ख पेक्ख । [ भाव ! पश्य पश्य ।]
एतैरार्द्रतमालपत्रमलिनैरापीतसूर्यं नभो |
विटः–वसन्तसेने ! पश्य पश्य ।
एते हि विध्युद्गुणबद्धकक्षा गजा इवान्योन्यमभिद्रवन्तः । |
मेघा इति ॥ १६ ॥ अयमपर इति शत्रोः पुनर्मध्य इत्यर्थात् । पवनेति। करसमूह अंशु-राजग्राह्यभागौ ॥ १७ ॥ एतैरिति । 'प्रोषितभर्तृ'शब्दात 'न नित्यः समासान्तः' इति न ‘नद्यृतश्च इति कप् ॥ १८ ॥ बलाकेति ॥ १९ ॥ एतैरिति ॥ २० ॥ एत इति । कक्षा मध्यबन्धनम् । गां भूमिम्
‘ | टिप्प-1 स्तनितं मेघगर्जितम् , पटहो नगारा' इति प्रसिद्धः । अत्रे पूर्णो-
पमालंकारः । 2 बलाका बकपङ्क्तिः स्यात्' इति कोश: । वारणस्यापि कर्णयोश्चामरे शिरसि विचित्रवस्त्रं च भवति । द्रघिमा नीलिमा चेति गज-गगनयोरुपमा । अपि च, पश्य
महावाताध्मातैर्महिषकुलनीलैर्जलधरै- |
वसन्तसेना----भाव ! एसो अवरो ! । [ भाव ! एषोऽपरः ।।
एह्येति शिखण्डिनां पटुतरं केकाभिराक्रन्दितः । |
विटः-एवमेतत्; तथा हि पश्य
निष्पन्दीकृतपद्मषण्डनयनं नष्टक्षपावासरं |
वसन्तसेना-भाव एव्वं ण्णेदं । ता पेक्ख पेक्ख । [भाव! एवं न्विदम्; तत्पश्य पश्य ।]
गता नाशं तारा उपकृतमसाधाविव जने |
॥२१॥ महेति । शष्कुपाङ्कुरा संलग्नशरतुल्याः ॥२२॥ एहीति ॥२३ । मेचकाः श्यामाः ।। निष्पन्दीति ॥२४॥ गता इति । गगनं जलरूपेण द्रवीभूतं पतति ।
टिप्प०-1 शिखण्डिनां मयूराणां, “केका वाणी मयूरस्य' इत्यमरः, ताभिः पटुतरं यथा स्यात्तथा 'एह्येहि' इत्याक्रन्दित आहूतः, आदरेऽत्रवीप्सा; सरभसं सावेगम् , उत्कण्ठाऽऽवेगयोरन्योन्यं जन्यजनकभाव इति भेदः । प्रावृषि न स्थितिर्मेघा- नाम् इति ‘सोद्वेगम्' इत्युक्तम् । अञ्जनवत् मेचका: श्यामाः, दिशः कुर्वन्नेषोऽपरो मेघो हि समुत्तिष्ठति इत्यन्वयः ।
प्रक्रामान्तस्तप्तं त्रि1दशपतिशस्त्रस्य शिखिना । |
अपि च, पश्य ।
उन्नमति नमति वर्षति गर्जति मेघः करोति तिमिरौघम्। |
विटः----एवमेतत्
विद्युद्भिर्ज्वलतीव संविहसतीवोच्चैर्बलाकाशतै- |
वसन्तसेना--
जलधर ! निर्लजस्त्वं यन्मां दयितस्य वेश्म गच्छन्तीम् । |
भोः शक्र !
किं ते ह्यहं पूर्वरतिप्रसक्ता यत्त्वं नदस्यम्बुद ! सिंहनादैः । |
त्रिदशपतिशस्त्रस्य वज्रस्य २५ ॥ उन्नमतीति ॥ २६ ॥ विद्युद्भिरिति ॥ २७ ।। जलधरेति ॥ ३८ ॥ किं त इति । रतिप्रसका संभोगेन प्रसक्ता ।
टिप्प-1 त्रिदशपतिशस्त्रस्येन्द्रवज्रस्य शिखिना वह्निना, इन्द्रवज्राग्निनेत्यर्थः । अन्तस्तप्तं अत एव द्रवीभूतं गगनं जलरूपेण पततीति मन्ये इत्युत्प्रेक्षालंकारः । 2 अलंकृतं भवति । विस्पष्टः कर्णारुन्तुदं श्रूयमाणो योऽशनि नि:स्वनो वज्रनिर्घोषस्तेन रसतीव शब्दं करोतीव । अनिलैराघूर्णतीव' इति झञ्झावातवर्णनम् । नीलैरहिभिः कुष्णसर्पैः; सान्द्रं व्याप्तमिवेति मेघव्याप्तेरुत्प्रेक्षा । जलधरैर्धूपायतीवात्मानं धूषितं करोतीवेत्याशयः । अपि च,-
यद्वदहल्याहेतोर्मृषा वदसि शक्र ! गौतमोऽस्मीति । |
अपि च,-
गर्ज वा वर्ष वा शक्र ! मुञ्च वा शतशोऽशनिम् । |
विटः-भवति । अलमलमुपालम्भेन । उपकारिणी तवेयम्,----
ऐरावतोरसि चलेच सुवर्णरज्जुः |
वसन्तसेना-भाव ! एवं ते ज्जेव एदं गेहं । [भाव । एवं तदेवैतद्गेहम् ।।]
विटः--सकलकलाभिज्ञाया न किंचिदिह तवोपदेष्टव्यमस्ति । तथापि स्नेहः प्रलापयति । अत्र प्रविश्य कोपोऽयन्तं न कर्तव्यः । यदि कुप्यसि नास्ति रतिः, कोपेन विनाऽथवा कुतः कामः १।। कुप्य च कोपय च त्वं प्रसीद च त्वं प्रसादय च कान्तम् ॥ ३४ ॥
प्रियेण काङ्क्षितायाः ॥ २९ ॥ यद्वदिति । हे शक्र ! यथा अहल्याया अप्राप्ति दुःखेन गौतमोऽस्मीत्यसत्यं ब्रूषे, हे निरपेक्ष परपीडनभिज्ञ ! तद्वन्ममापि दुःखं जानीहीत्यर्थात् । ततः किं कर्तुमुचितमित्याह-निवार्यतामिति । प्रियभवन- गमनं प्रति विरोधकत्वादित्याशयः ॥ ३० ॥ गर्जेति ॥ ३१॥ यदिति ॥ ३२ ॥ पाठा०-१ निरपेक्ष्य.
टिप्प -1 अस्य याथार्थ्यकृते इन्द्रागच्छेति गौरावस्कन्दिन्नहल्यायै जारेति-', 'एष एवेन्द्रो एष तपति’ ( श. ब्रा. ३.३) इत्यादिशतपथब्राह्मणवचोविमर्शनमर्हति । मृ १० भवतु एवं तावत् । भो भोः ! निवेद्यतामार्यचारुदत्ताय
एषा फुल्लकदम्बनीपसुरभौ काले घनोद्भासिते |
चारुदत्तः--( आकर्ण्य ) वयस्य | ज्ञायतां किमेतदिति ।
विदूषकः-जं भवं आणवेदि । (वसन्तसेनामुपगम्य, सादरम्) सोत्थि भोदीए । [ यद्भवानाज्ञापयति । स्वस्ति भवत्यै।]
वसन्तसेना-अज्ज ! वंदामि । साअदं अज्ञस्स । ( विटं प्रति ) भाव ! एसा छत्तधारिआ भावस्स जेव्व भोदु। [आर्य! बन्दे । स्वागतमा र्यस्य । भाव! एषा छत्रधारिका भावस्यैव भवतु ।।
विटः---(स्वगतम्) अनेनोपायेन निपुणं प्रेषितोऽस्मि । ( प्रकाशम् ) एवं भवतु भवति वसन्तसेने !
साटोपकूटपटानृतजन्मभूमेः |
( इति निष्कान्तो विटः )
वसन्तसेना--अज मित्तेअ ! कहिं तुम्हाणं जूदिअरो ? ।। [ आर्य मैत्रेय ! कुत्र युष्माकं द्यूतकरः ? ।।
ऐरावत इति ॥ ३३ ॥ यदिति ॥ ३४ ॥ एषेति ॥ ३५ ॥ साटोपेति । आटोपो दम्भः, कूटं माया, कपटं छद्म, अनृतं मृषाभाषणम् । निह्नवप्राकट्यभेदा- त्कूटकपटायोर्भेदः। एतेषां जन्मभूमेः । वेश्यापणो वेश्याव्यवहारः । व्यज्यके- त्यर्थः (?)। दाक्षिण्यपण्यप्रधानं निष्क्रयो मूल्यम् ।। ३६ ॥ अपि पारयिष्यामि ॥ टिप्प-1 सुरतोत्सवप्रधानस्येत्यर्थः । 2 कामतनैपुण्येन यत् क्रयक्रीतं सुखं नाम वेश्यासंभोगादिसुखं तत् पण्यसुखमुच्यते, तद्रूपा मूल्यस्य सिद्धिरस्तु । विदूषकः---स्वगतम्) ही ही भो, जूदिअरो त्ति भणतीए अलंकिदो पिअबअस्सो । (प्रकाशम् ) भोदि ! एसो खु सुक्खरुखवाडिआए । [ आश्चर्य, भोः द्यूतकर इति भणन्त्यालंकृतः प्रियवयस्यः । भवति ! एष खलु शुष्कवृक्षवाटिकायाम् ।।
वसन्तसेना-अज्ज ! का तुम्हाणं सुक्खरुक्खवाडिआ वुच्चदि ?। [ आर्य ! का युष्माकं शुष्कवृक्षवाटिकोच्यते ?।]
विदषकः----भोदि । जहिं ण खाईअदि, ण पीईअदि । [ भवति ! यत्र न खाद्यते, न पीयते ।]
( वसन्तसेना स्मितं करोति )
विदूषकः--ता पविसदु भोदी । [ तस्मात्प्रविशतु भवती ।]
वसन्तसेना----{ जनान्तिकम् ) एत्थ पविसिअ किं मए भणिदव्वं ।। [ अत्र प्रविश्य किं मया भणितव्यम् ?।]
चेटी---‘जूदिअर | अवि सुहो दे पदोसो ? ति ।[ द्यूतकर ! अपि सुखस्ते प्रदोषः ?' इति ।
वसन्तसेना-अवि पारइस्सं ? । [ अपि पारयिष्यामि ? । }
चेटी–अवसरो जेव्व पारइस्सदि । [ अवसर एव पारयिष्यति ।]
विदूषकः--पविसदु भोदी । [प्रविशतु भवती ।]
वसन्तसेना—(प्रविश्योपसृत्य च, पुष्पैस्ताडयन्ती ) अइ जूदिअर ! अवि सुहो दे पदोसो ? । [ अयि द्यूतकर ! अपि सुखस्ते प्रदोषः ? । ]
चारुदत्तः---( अवलोक्य ) अये, वसन्तसेना प्राप्ता । (सहर्षमुत्थाय ) अयि प्रिये !
सदा प्रदोषो मम याति जाग्रतः |
तत्स्वागतं भवत्यै, इदमासनम् ; अत्रोपविश्यताम् ।
विदूषकः-इदं आसणं, उवविसदु भोदी । [ इदमासनम्, उपदिशतु भवती ।।
( वसन्तसेना नाट्येनासीना, ततः सर्व उपविशन्ति)
चारुदत्तः--वयस्य ! पश्य पश्य
वर्षोंदकमुद्गिरता श्रवणान्तविलम्बिना कदम्बेन । |
तद्वयस्य ! क्लिन्ने वाससी वसन्तसेनायाः । अन्ये प्रधानवाससी समु- पनीयेतामिति ।
विदूषकः-जं भवं आणवेदि । [ यद्भवानाज्ञापयति ।]
चेटी–अज्ज मित्तेअ । चिट्ठ तुमं; अहं जेव्व अज्जअं सुस्सूसइस्सं । { तथा करोति ) [ आर्य मैत्रेय ! तिष्ठ त्वम् ; अहमेवार्यां शुश्रूषयिष्यामि ।]
विदूषकः-( अपवारितकेन ) भो वअस्स | पुच्छामि दाव तत्थ- भोदि किं पि । [ भो वयस्य ! पृच्छामि तावत्तत्रभवतीं किमपि ।] ।
चारुदत्तः–एवं क्रियताम् ।
विदूषकः--( प्रकाशम् ) अध किंणिमित्तं उण ईदिसे पणट्ट- चंदालोए दुद्दिणअंधआरे आअदा भोदी ? । [ अथ किंनिमित्तं पुनरीदृशे प्रनष्टचन्द्रालोके दुर्दिनान्धकार आगता भवती १ ।।
चेटी--अज्जए | उजुओ बम्हणो । [आर्ये ! ऋजुको ब्राह्मणः ।]
सदेति ॥ ३७॥ वर्षोदकमिति ॥ ३८ ॥ आआविओ आचार्य उपदेष्टा (?) वसन्तसेना–णं णिउणोत्ति भणाहि ।। ननु निपुण इति भण।]
चाटी-एसा खु अज्जआ एवं पुच्छिदुं आअदा---'केत्तिअं ताए रअणावलीए मुल्लं त्ति । [ एषा खल्वार्या एवं प्रष्टुमागता–‘किय- त्तस्या रत्नावल्या मूल्यम्' इति । ]
विदूषकः----( जनान्तिकम् ) भो ! भणिदं मए-जधा अप्पमुल्ला रअणावली, बहुमुल्लं सुवण्णभंडअं । ण परितुट्टा अवरं मग्गिदुं आअदा । [भोः! भणितं मया-यथाऽल्पमूल्या रत्नावली, बहुमूल्यं सुवर्ण- भाण्डम् । न परितुष्टा, अपरं याचितुमागता ।]
चेटी-सा खु अज्ञआए अत्तणकेरकेत्ति भणिअ जूदे हारिदा । सो अ सहिओ राअवात्थहारी ण जाणीअदि कहिं गदो त्ति । [ सा खल्वार्यया आत्मीयेति भणित्वा द्यूते हारिता । स च सभिको राजवार्ताहारी न ज्ञायते कुत्र गत इति ।]
विदूषकः----भोदि ! मंतिदं ज्जेव मंतीअदि । [ भवति ! मन्त्रितमेव मन्त्रयते ।]
चेटी--जाव सो अण्णेसीअदि ताव एवं जेव्व गेण्ह सुवण्णभंडअं । [ यावत्सोऽन्विष्यते तावदिदमेव गृहाण सुवर्णभाण्डम् ।] ( इति दर्शयति )
( विदूषको विचारयति )
चेटी--अदिमेतं अज्जो णिज्झाअदि । ता किं दिट्टपुरुव्वो दे ? । [ अतिमात्रमार्यो नि1ध्यायति । तत्किं 2दृष्टपूर्वस्ते ? ।।
विदूषकः----भोदि ! सिप्पकुसलदाए ओबंधेदि दिट्टि । [भवति ! शिल्पकुशलतयावबध्नाति दृष्टिम् ।]
चेटी--अज्ज ! वंचिदोसि दिट्टीए । ते जेव्व एदं सुवण्णभंडअं । [ आर्य ! वञ्चितोऽसि दृष्ट्या । तदेवेदं सुवर्णभाण्डम् ।] --- टिप्प०-1 चिन्तयतीत्यर्थः । 2 अत्र 'अलंकार' इति पदं प्रक्रान्तमेव । विषकः--( सहर्षम् ) भो वअस्स ! तं जेव्व एदं सुवण्णभंडअं, जं अम्हाणं गेहे चोरेहिं अवहिदं । [ भो वयस्य ! तदेवेदं तस्सुवर्णभाण्डम् , यदस्माकं गृहे चौरैरपहृतम् । ]
चारुदत्तः–वयस्य !
{{block center|{{bold|<poem>योऽस्मा1भिश्चिन्तितो व्याजः कर्तुं न्यासप्रतिक्रियाम् ।। स एव प्रस्तुतोऽस्माकं किंतु सत्यं विडम्बना ॥ ३९ ॥
विदूषकः--भो वअस्स ! सच्च सवामि बम्हण्णेण । [ भो वयस्य ! सत्यं शपे ब्राह्मण्येन ।
चारुदत्तः---प्रियं नः प्रियम् ।।
विदूषकः-( जनान्तिकम् ) भो ! पुच्छामि-णं कुदो एदं समा- सादिदं त्ति । [भोः ! पृच्छामि-ननु कुत इदं समासादितमिति ।]
चारुदत्तः--को दोषः १ ।।
विदूषकः---(चेट्याः कर्णे) एवं विअ । [एवमिव । ]
चेटी—( विदूषकस्य कर्णे ) एव्वं विअ । [एव2मिव ।]
चारुदत्तः--किमिदं कथ्यते ।। किं वयं बाह्याः १ ।।
विदूषकः---(चारुदत्तस्य कर्णे ) एवं विअ । [एव3मिव ।]
प्रेष्यतां भुज्यताम् (१) । य इति । किं तु स एव व्याजो विडम्बनास्माकं प्रस्तुत आरब्धा । ३९ ॥ अथवा सत्यमेवेदम् । अथवेति प्रकरणात्प्रतीयते । बम्हण्णेण
टिप्प०-1 स व्याज एवास्माकं प्रस्तुतो रसावलीप्रत्युत्तरत्वेनावतीर्ण इति निष्कर्षः। 2 शर्विलकेन वसन्तसेनाया गृहं गत्वा यस्य सुवर्णभाण्डस्य दानेन मदनिका निष्क्रीता तदेवेदं सवर्णभाण्डमिति ‘एवमिव इत्यस्याशयः । 3 तत्सर्वं विदूषकेन चारुदत्ताय कथितं 'एवमिव' इत्यनेन । चारुदत्तः-- भद्रे ! सत्यं तदेवेदं सुवर्णभाण्डम् ।
चेटी--अज्ज ! अध इं । [ आर्य ! अथ किम्? ]
चारुदत्तः---भद्रे ! न कदाचित्प्रियनिवेदनं निष्फलीकृतं मया । तद्गृह्यतां पारितोषिकमिदमङ्गुलीयकम् । (इत्यनङ्गुलीयकं हस्तमवलोक्य लज्जां नाटयति )
वसन्तसेना-( आत्मगतम् ) अदो जेव्व कामीअसि । [ अत एव काम्यसे ।।
चारुदत्तः--( जनान्तिकम् ) भोः ! कष्टम्;
धनैर्वियुक्त्तस्य नरस्य लोके किं जीवितेनादित एव तावत् । |
अपि च,---
पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च जलहीनम्। |
अपि च,
शून्यैर्गृहैः खलु समाः पुरुषा दरिद्राः |
ब्रह्मण्येन ॥ धनैरिति ॥ ४० ॥ पक्षेति ॥ ४१ ॥ शून्यैरिति । यद्दृष्टेति । यतो यस्माद्दृष्टपूर्वस्य जनस्य संगमेनोत्तरलतया वर्तमानस्वदैन्यविस्मृतानां पाठा०-२-१ विफला भवन्ति,
---
| टिप्प----1 धनैर्वियुक्तस्य धनहीनावस्थामापन्नस्य कोप-प्रसादा विफलीभवन्ति; यतः स कोपे प्रतिकर्तुं प्रसादे चोपकर्तुं सर्वथाऽसमर्थः। 2 संगस्य बहुकाञ्चनसाध्यतया स्वस्याकिञ्चनत्वेन च दुर्लभतया कादाचित्कतया च विस्मृतत्वं बोध्यम् । अथवा वर्तमानस्वदैन्यं विस्मृतानां मत्सदृशपुरुषाणां ईदृशपरमोत्कर्षशालिहर्षकालेऽपि दातुं किमपि नास्तीति परितोषकालानां भवति वैफल्यमित्याशयः । विदूषकः--भो। अलं अदिमेत्तं संतप्पिदेण ।( प्रकाशं, सपरिहासम्) भोदि ! समप्पीअदु ममकेरिआ ण्हाणसाडिआ । [भोः! अलमतिमात्रं संतापितेन । भवति ! समप्यर्तां मम खानशाटिका।]
वसन्तसेना---अज्ज चारुदत्त ! जुत्तं1 ण्णेदं इमाए रअणावलीए इमं जणं तुलइदुं । [आर्य चारुदत्त ! युक्तं नेदमनया रत्नावल्या इमं जनं तुलयितुम् ।]
चारुदत्तः-- ( सविलक्षस्मितम् ) वसन्तसेने ! पश्य पश्य
कः श्रद्धास्यति भूतार्थ सर्वो मां तुलयिष्यति ।। |
विदूषकः--हञ्जे ! किं भोदीए इध ज्जेव्व सुविदव्वं ?। [चेटि ! किं भवत्या इहैव सुप्तव्यम् ? । चेटी-( विहस्य ) अज्ज मित्तेअ! अदिमेत्तं दाणिं उजुअं अत्ताणअं
दंसेसि । [आर्य मैत्रेय ! अतिमात्रमिदानीसृजुमात्मानं दर्शयसि । ]
विदूषकः–भो वअस्स ! एसो खु ओसारअंतो विअ सुहोवविट्टं जणं पुणो वि वित्थारिवारिधाराहिं पविट्टो पज्जण्णो । [ भो वयस्य ! एष खल्वपसारयन्निव सुखोपविष्टं जनं पुनरपि विस्तारिवारिधाराभिः प्रविष्टः पर्जन्यः।]
विस्मरणवतां पुंसाम् ॥ ४२ ॥ मत्संबन्धिनी स्नानशाटिका ॥ तुलयितुमिति । लुब्धालुब्धजिज्ञासया बहुमूल्याया रत्नावल्या अल्पमूल्यसुवर्णभाण्डस्य टिप्प०-1 मद्दत्तसुवर्णभाण्डगमने तत्प्रतिदानतया रक्षावलीदाने न युक्तम् । येषां जनानां मेदस्त एवान्योन्यं वसुनि गते सति देयोपादेयभावमावहन्ति, येषां तु तादात्म्यं तेषु नायं भाव इति भावः । 'इमं जनम्' इत्युक्तिर्विनय-गर्वयोरप्याविर्भावि- केति तत्त्वम् । 2 भाग्यवतेश्वरेण यदसदपि कृतं तत् सदिव प्रतिभाति, दरिद्रेण तु सदपि कृतं नातिभाति: पुनरसतः का कथा ? किं चास्माकमकिञ्चनानामस्मिन्विषये चौर्यस्य रत्नमालाप्रतिदानसावधानतायामेव सर्वानर्थनिवारणमिति भावः । चारुदत्तः-----सम्यगाह भवान्,-
अमूर्हि भित्वा जलदान्तराणि पङ्कान्तराणीव मृणासूच्यः ।। |
अपि च,
धाराभिरार्यजनचित्तसुनिर्मलाभि- |
प्रिये ! पश्य पश्य
एतैः पिष्टत2मालवर्णकनिभैरालिप्तमम्भोधरैः |
कृते योगात् ।। क इति ।। ४३ ॥ अमूरिति ॥ ४४ ॥ धाराभिरिति टिप्प-1 बलरामवत्सदृशा इत्यर्थः । 2 वर्णकोऽस्त्री विलेपनम्' इत्यमरः । पिष्टं यत्तमालस्य वर्णकं विलेपने तमालवर्णं वा वर्णनं तत्सदृशैः, नीलविलेपनसद्दशै- र्मेघैरालिप्तं कृतकस्तूरिकाङ्गरागमिवेति भावः । प्रदोषानिलैः सन्ध्यावातैः, शीतैः सुगन्धैः, संसक्तैः सर्वतोमिलितैः, उपवीजितं संजातव्यजनवीजनमिवेत्यर्थः । आकण्ठमुत्कण्ठामन्तरा नातिस्फुरत्यकुण्ठः शृङ्गार इत्युत्कण्ठामवतारयति-अम्भोदेत्यादिना । अम्भोदानां समागमेनोद्दीपनविभावरूपेण प्रणयिनी । अत एवं स्वच्छन्दं स्वयमेव अभ्यागता, नतु प्रियेणाहूता । यथा त्वं स्वयमेवातासीति व्यङ्ग्यम् । रक्ता शोणवर्णा, पक्षेऽनुरक्ता च प्रियतमा कान्तमिव विद्युदम्बरं समालिङ्गतीत्यन्वयः । 3 अत्र ’अम्बर'शब्दगतं नपुंसकं लिङ्गं नार्थतो भासते; येन नपुंसकमालिङ्घतीति दूषणमुद्भाव्येत; ‘दाराः कलत्रं योषित्' इत्यादौ व्यभिचारात् । अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः' इत्यादौ भासते, तथापि प्रकृते न व्यङ्ग्यार्थहानिः, अपि त्वधिकचमस्कृतिरेव । तथा हि-अपुमांसमप्यम्बरं साऽऽलिङ्गति, त्वं तु सुन्दरमपि पुमांसं मामालिङ्ग रमयेत्याशयः ।
( वसन्तसेना शृङ्गारभावं नाटयन्ती चारुदत्तमालिङ्गति )
चारुदत्तः–( स्पर्श नाटयन्प्रत्यालिङ्ग्य )
भो मेघ ! गम्भीरतरं नद त्वं तव प्रसादात्स्मरपीडितं मे । |
विदूषकः----दासीए पुत्त दुद्दिण ! अणज्जो दाणिं सि तुमं, जे अत्तभोदिं विजुआए भायावेसि । [ दास्याःपुत्र दुर्दिन ! अनार्य इदानीमसि त्वम्, यदत्रभवतीं विद्युता भीषयसि ।।
चारुदत्तः-वयस्य ! नार्हस्युपालब्धुम्,--
वर्षशतमस्तु दुर्दिनमविरतधारं शतहृदा स्फुरतु । |
अपि च, वयस्य ।।
धन्यानि तेषां खलु जीवितानि ये कामिनीनां गृहमागतानाम् । |
प्रिये वसन्तसेने !
स्तम्भेषु प्रचलितवेदिसंचयान्तं |
॥ ४५ ॥ एतैरिति । वर्णक विलेपनम् ॥ ४६ ॥ ॥ भो मेघेति ॥ ४७ ॥ वर्षशतमिति । अस्मद्विधदुर्लभया । दरिद्रस्य वेश्यावाप्त्यसंभवात् ॥ ४८ ॥ धन्यानीति ॥ ४९ ॥ स्तम्भेष्वित्यादि । प्रकृतिच्छन्दसा । वितानं टिप्प०-1 अत्र गात्रस्य कदम्बोपमा वर्षर्तावनुगुणैव; नच स्त्री-पुंसयोः सामानाधिकरण्यमेव संभोग इति वाच्यम् , एकशयनस्थितयोरपि विप्रलम्भसंभवात्; किन्तु द्वयोरपि मनोवृत्तिसांमुख्यमेव मुख्यः शृङ्गारः । स च मनोवृत्तेरनुकूलतायां संभोगः, प्रतिकूलतायां विप्रलम्भ इति विवेकः । (ऊर्ध्वमवलोक्य ) अये इन्द्रधनुः; प्रिये ! पश्य पश्य
विद्युजिह्वेनेदं महेन्द्रचापोच्छ्रितायतभुजेन। |
तदेहि, अभ्यन्तरमेव प्रविशावः ( इत्युत्थाय परिक्रमति )
1तालीषु तारं विटपेषु मन्द्रं शिलासु रुक्षं सलिलेषु चण्डम् । |
(इति निष्क्रान्ताः सर्वे )
दुर्दिनो नाम पञ्चमोऽङ्कः ।
चन्द्रातपः ॥ ५० ॥ विद्युदिति । आर्या । अनया च वेतालादिभयानकरूप- वर्णनम् ॥५१ ।
तालीष्विति | संगीतवीणा इव धाराः ।। ५२ ॥
इति दुर्दिनो नाम पञ्चमोऽङ्कः ।
1 यथा वीणास्तत्र तत्र रागस्थाने तालानुसारेण तारं मन्द्रं रूक्षं चण्डं च स्वनन्ति तथा धारा इति भावः । तालीदलेषु जलधाराघाते महानुच्चस्वरः श्रवणप्रत्यक्ष एव । शाखासु मन्द्रं गभीरम्, रूक्ष-चण्डस्वरयोः परमभेदेऽपि शिलासु सलिलेषु च धारघाते मृदुकाठिन्यकृत आबालवृद्धप्रत्यक्ष एव ।