यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)/अध्यायः ३/मन्त्रः ३४

विकिस्रोतः तः
← मन्त्रः ३३ यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)
अध्यायः ३
दयानन्दसरस्वती
मन्त्रः ३५ →
सम्पादकः — डॉ॰ ज्ञानप्रकाश शास्त्री, जालस्थलीय-संस्करण-सम्पादकः — डॉ॰ नरेश कुमार धीमान्
यजुर्वेदभाष्यम्/अध्यायः ३


कदा चनेत्यस्य मधुच्छन्दा ऋषिः। इन्द्रो देवता। पथ्या बृहती छन्दः। मध्यमः स्वरः॥

स इन्द्रः कीदृश इत्युपदिश्यते॥

वह इन्द्र कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥

क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑।

उपो॒पेन्नु म॑घव॒न् भूय॒ऽइन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते॥३४॥

पदपाठः—क॒दा। च॒न। स्त॒रीः। अ॒सि॒। न। इ॒न्द्र॒। स॒श्च॒सि॒। दा॒शुषे॑। उपो॒पेत्युप॑ऽउप। इत्। नु। म॒घ॒व॒न्निति॑ मघऽवन्। भूयः॑। इत्। नु। ते॒। दान॑म्। दे॒वस्य॑। पृ॒च्य॒ते॒॥३४॥

पदार्थः—(कदा) कस्मिन् काले (चन) आकांक्षायाम् (स्तरीः) यः सुखैः स्तृणात्याच्छादयति सः। अत्र अवितॄ॰  (उणा॰ ३.१५८) इति ईः प्रत्ययः। (असि) भवसि (न) निषेधार्थे (इन्द्र) सुखप्रदेश्वर (सश्चसि) जानासि प्रापयसि वा। सश्चतीति गतिकर्मसु पठितम्। (निघं॰ २.१४) (दाशुषे) विद्यादिदानकर्त्रे (उपोप) सामीप्ये (इत्) एति जानात्यनेन तद्विज्ञानम् (नु) क्षिप्रम्। न्विति क्षिप्रनामसु पठितम्। (निघं॰ २.१५) (मघवन्) परमधनवन् (भूयः) पुनः (इत्) एव (नु) क्षिप्रे (ते) तव (दानम्) दीयमानम् (देवस्य) कर्मफलप्रदातुः (पृच्यते) संबध्यते। अयं मन्त्रः (शत॰ २.३.४.३८) व्याख्यातः॥३४॥

अन्वयः—हे इन्द्र! यदा त्वं स्तरीरसि तदा दाशुषे कदाचनेन्नु न सश्चसि तदा हे मघवन्! देवस्य ते तव दानं तस्मै दाशुषे भूयः कदा चनेन्नु नोपोपपृच्यते॥३४॥

भावार्थः—यदीश्वरः कर्मफलप्रदाता न स्यात्, तर्हि न कश्चिदपि जीवो व्यवस्थया कर्मफलं प्राप्नुयादिति॥३४॥

पदार्थः—हे (इन्द्र) सुख देने वाले ईश्वर! जो आप (स्तरीः) सुखों से आच्छादन करने वाले (असि) हैं और (दाशुषे) विद्या आदि दान करने वाले मनुष्य के लिये (कदाचन) कभी (इत्) ज्ञान को (नु) शीघ्र (सश्चसि) प्राप्त (न) नहीं करते तो उस काल में हे (मघवन्) विद्यादि धन वाले जगदीश्वर! (देवस्य) कर्म फल के देने वाले (ते) आपके (दानम्) दिये हुए (इत्) ही ज्ञान को (दाशुषे) विद्यादि देने वाले के लिये (भूयः) फिर (नु) शीघ्र (उपोपपृच्यते) प्राप्त (कदाचन) कभी (न) नहीं होता॥३४॥

भावार्थः—जो जगदीश्वर कर्म के फल को देने वाला नहीं होता तो कोई भी प्राणी व्यवस्था के साथ किसी कर्म के फल को प्राप्त नहीं हो सकता॥३४॥