साहित्यसारः/तृतीयप्रकाशः

विकिस्रोतः तः
               




   

तृतीयः प्रकाश:

षट्त्रिंशत्काव्यगुणाः

भूषणमक्षरसंघः शोभा गुणकीर्तनन्निरुक्तं च ।
अभिमानोदाहरणे गुणानुवादः प्रियं हेतुः ।। १ ।।

प्रोत्साहनसारूप्ये मिथ्याव्यवसाथसिद्धिदृष्टान्ताः ।
आशीस्संशयकपटौ क्षमानुवृत्ती पदोच्चयाक्रन्दौ ॥ २ ॥

परिदेवनोपवृत्ती वाच्ञा प्राप्तिर्मनोरथो युक्तिः ।
अतिशयपृच्छाख्यानप्रतिषेधास्सानुनीतिनिर्मासाः ॥ ३ ॥

कार्यं पश्चात्तापः षट्त्रिंशल्लक्षणावलिस्सेयम् ।
नाट्ये भावार्थगताः सालङ्कारा बुधैः प्रयोक्तव्याः ।। ४ ।।

अलङ्कृतेिरलङ्कारैरभिधेयस्य भूषणम् ।
अल्पाक्षरैरनल्पार्थविवृतिस्त्वक्षरावलिः ॥ ५ ॥

सिद्धैरर्थैस्समीकृत्य शोभाऽसिद्धस्य भाषणम् ।
बहूनामभिधेयानां वर्णनं गुणकीर्तनम् ॥ ६ ॥

निरुक्तं द्विविधं तथ्यमतथ्यमिति कथ्यते ।
मिथ्या(सिद्ध्या)प्रसाधितं तथ्यमतध्यमितरङ्भषेत् ।। ७ ।।

अनिर्णयोऽभिमानस्स्यादभिधेयस्य हेतुभिः ।
उदाहृतिर्गभीरोक्तिः प्रसिद्ध्याक्षेपगर्भिता ।। ८ ।।

गुणानुवादो महता गुणेनाल्पस्य तुल्यता ।
आदौ क्त्क्रोधजननं तत्प्रियं प्रीतिकृत्पुनः ॥ ९ ॥

अनादृत्य बहूनर्थान्हेतुरिष्टार्थसंसमम् ।
प्रीत्युत्साहकरैरर्थैसक्तिः प्रोत्साहनं भवेत् ॥ १० ॥
4

२६
साहित्यसारे

अपदेश्यः परोक्षोऽपि सारूप्यं जायते यतः ।
अभूतपूर्वेर्यत्रार्थैरसदर्थः प्रसाध्यते ।। ११ ।।

स मित्थाव्यवसाय: स्यात् वक्तृव्यापारनिश्चया ।
सिद्धिस्स्यादप्रसिद्धस्य सुप्रसिद्धेषु कीर्तनम् ॥ १२ ॥

सहातिसदृशार्थेन दृष्टान्तोऽर्थस्य शंसनम् ।
आशीराशंसनं वस्तुन्यभीष्टे मृदुभिः पदैः ॥ १३ ।।

अपरिज्ञाततत्त्वार्थं वचस्संशय उच्यते ।
छलोक्त्या कथितार्थस्य कपटोऽन्यादृशग्रहः ।। १४ ।।

दुर्जनोक्तिषु तीव्रासु क्षमा स्यादविकारता ।
प्रश्रयेणान्यथार्थोक्तिरनुवृत्तिरिति स्मृता ।। १५ ।।

गुणैरनेकैरेकार्थैरुचितैरुत्तरोत्तरम् ।
पदोच्चयो क्स्तुनस्स्यादुज्झतात्मकवर्णनम् ॥ १६ ॥

तीव्रस्साक्षादवाच्योऽर्थो यत्राभिप्रायगोचरः ।
आख्यायतेऽन्यथाऽन्यस्य स एवाक्रन्द उच्यते ।। १७ ।।

अन्यथाऽन्यकृतैर्दोषैः परिदेवनमन्यथा ।
प्रसिद्धदोषगुणतामुपवृत्तिं विदुर्बुधाः ॥ १८ ॥

आदौ क्रोधकृदायत्यां सफलं वस्तु याचनम् ।
दृष्ट्वाऽवयवमर्थस्य कल्पनं प्राप्तिरुच्यते ॥ १९ ॥

मनोरथो भूतपू(र्व ?)स्वाभिप्रायस्य शंसनम् ।
साध्यते योऽस्य संबन्धे युक्तिर्वस्तुभिरिष्यते ।। २० ।।

अत्युत्तमार्थादधिकः योऽर्थस्सोऽतिशयस्स्मृतः ।
यत्राकारगभीरोक्त्या पृच्छा पुष्टार्थकीर्तनम् ॥ २१ ॥

पृष्टैरपृष्टैर्वाख्यानं कैश्चिदर्थस्य निर्णयः ।
अर्थेन रमते(?) रम्या प्रतिषेधोऽपि हि क्रिया ॥ २२ ॥

२७
तृतीयः प्रकाशः

                           
अनुनीतिरपूर्वस्तु(स्य?) क्रोधस्योद्दीपनक्रिया ।
अनेकयुक्तिमद्वाक्यं तन्निर्भासनमुच्यते ॥ २३ ॥

दोषादुत्सार्य कार्यं स्यात् गुणेऽर्थस्य निवेदनम् ।
अकार्यं सहसा कृत्वा पश्चात्तापोऽनवस्थिति: ।। २४ ।।

    

पात्रसंबोधनादिक्रमः



आक्रीडं देहळी हज्जे हळा हीमाणहेति च (सखी) ।
ओवट्टिहं वरण्डी ही पुरोभागजनान्तिके ॥ २५ ॥

आकाशहन्तस्वगतप्रकाशस्वामिभावुकाः ।
ऊ राजन् भाव भगवन् अज्जु भट्टिणि गण्डिका ॥ २६।

ई शर्मन्मम्महे वण्डा बाढं मा भर्तृदारिके ।
स्वामिन्यात्मगतं क्रान्ते प्रिये हे मञ्जुभाषिणि ।। २७ ।।

आर्य देव विभो वत्स सारथे राजदारिके ।
हण्डे कुलपतिर्वद्दा सौदामन्यामनामतः ॥ २८ ॥

आवुत्तो भगवत्यत्ता गुरुर्जात हमज्जुका ।
आयुष्मन् प्रथमः कल्पः विजयी सार्थवाहकः ॥ २९ ॥

चम्पकाशोकपुन्नागमालतीयूथिकावृतम् ।
आहुरुद्यानमाक्रीडन्नामतो नाट्यकोविदाः ॥ ३० ॥

गृहालिन्दकभागस्तु देहलीति निगद्यते ।
नाटके नाट्यतत्त्वज्ञैः वक्तव्या साधु सा क्वचित् ॥ ३१ ॥

नियमेनैव वक्तव्या हज्जेति परिचारिका ।
गणिकाभिरथान्याभिः समया सा निगद्यते ॥ ३२ ॥

हलेति कथ्यते चेटी नाटके नायिकाजनैः ।
गणिकाभिरपि क्वापि विवादे राजदारिका ॥ ३३ ॥ .

२८
साहित्यसारे

शबराभीरचण्डालन्धपाकवृषत्वादिभिः ।
हीमाणह इति स्पष्टं वक्तव्यं सदृशे जने ।। ३४ ।।

समानरूपसंपत्तिशीलादिगुणशालिनी ।
सखीति कथ्यते नारी नारीभिर्नाटकाश्रिता ॥ ३५ ॥

विद्यमानेषु मनसि कार्यजातेष्वनेकधा ।
तदोवट्टिहमित्याहुः प्रधानं यन्मनीषिणः ।। ३६ ।।

आकाशे वातसंयोगात् सञ्जातो यो वरण्डकः ।
स एवान्योन्यशब्देन वरण्डीत्यभिधीयते ॥ ३७ ॥

भयाहङ्कारसम्मानमोहकण्ठग्रहादिषु ।
हीशब्दोऽपि प्रयोक्तव्यश्चेटचेटीविदूषकैः ॥ ३८ ।।

जनान्तिकादिः



पश्चात्तापप्रवासोर्वीचलनमा हामिषु
नायिकाहृदयोत्त्कम्पः पुरोभाग इति स्मृतः ॥ ३९ ॥

त्रिपताकं करं कृत्वा यदन्यस्य मनोगतम् ।
अप्रकाशं जनं वक्ति तज्जनान्तिकमुच्यते ।। ४० ।।

अप्रत्यक्षेण पात्रेण सह रङ्गस्थितो नरः ।
यद्वक्त्यभिमुखीकृत्य तदाकाशमिति स्मृतम् ॥ ४१ ॥
                      
पुरोहितद्विजामात्यविठनेतृतपस्विभिः ।
विषादभयचिन्तासु हन्त इत्यभिधीयते ॥ ४२ ॥

समीपावस्थितेष्वन्येष्व दिषु (?)
मनसा यन्नसे वक्ति स्वगतं तन्निगद्यते ॥ ४३ ॥
                                  
मनस्यवस्थितं कार्यं पुस्तः पार्श्ववर्तिनाम् ।
निश्शङ्कमुच्यते यत्तु तत्रवशं विदुर्बुधाः ॥ ४४ ॥

२९
तृतीयः प्रकाशः


चमूपरिबृढामात्यजनतामण्डलेश्वरैः ।
स्वामीति विजयोल्लासी चक्रवर्ती निगद्यते ।। ४५ ।।

समस्तख्यातसाहित्यसारनिष्णातमानसः ।
विचारचतुरः प्राज्ञो रसिको भावुकस्स्मृतः ॥ ४६ ।।

विरहोन्मादनूर्छायामीर्ष्यायां वाऽङ्गनाजनैः ।
ऊ इत्येवानभिव्यक्तं वक्तव्यं नाटकादिषु ॥ ४७ ॥

उदात्तजातिविख्यातदेवब्राह्मणलिङ्गिभिः ।
नृपतिर्नाटकगतो राजन्नित्येव कथ्यते ।। ४८ ॥

नटेन नाटके सूत्री भाव इत्यभिधीयते ।
सर्वाश्रमगतो वर्णी वा वर्णव्यञ्जनो जनः ॥ ४९ ॥

रङ्गे रङ्गगतैः पात्रैः भगवन्निति कथ्यते ।
पीठमर्दशठक्रूरधूर्तचेटीविटादिभिः ।। ५० ।।

निन्दायामथवा गर्वे ईशब्दः संप्रयुज्यते ।
विद्याविनयसंपन्नो द्विजन्मा नाट्यकोविदैः ॥ ५१ ॥

नाम्ना सहैव सम्बुद्धौ हे शर्मन्निति कथ्यते ।
यदृच्छाधिगमे प्रायो दुर्भगस्येह वस्तुनः ॥ ५२ ॥

नायिका वक्ति सन्तेषान्नित्यं मंमह इत्यथम् ।
या रण्डा वर्णिपाषण्डैब्श्चण्डालैर्वा विनाशिता ।। ५३ ।।

नाटके नाट्यशास्रज्ञैः सा पण्डी( वण्डे?)त्यभिधीयते ।
येन केनापि मान्येन प्रार्थ्यमानस्य वस्तुनः ॥ ५४ ॥

सहसा ज्ञानसंपर्कादा इत्याष्ठैर्निगद्यते ।
या राजपुत्री निश्शेषविख्यातजनवन्दिता ॥ ५५ ।॥

राजस्त्रिया समायुक्ता सा कन्या भर्तृदारिका ।
सिंहासनाधिरूढा या पट्टोल्लासिल टिका ॥ ५६ ॥

३०
साहित्यसारे


सा राजपुरुषैर्मुख्यैस्स्वामिनीति निगद्यते ।
मनसा चिन्तयित्वाऽर्थं हस्तविन्यस्तमस्तकः ॥ ५७ ॥

भूयशो यद्वदेदन्तः तदात्मगतमुच्यते ।
कान्तेति नायको ब्रूते दक्षिणः पूर्ववल्लभाम् ॥ ५८ ॥

स स्वस्यानभिप्रेतां प्रियेति वदति स्त्रियम् ।
नाटकादिषु सर्वत्र विटस्सर्वाङ्गनां प्रति ॥ ५९ ।।

हे मञ्जुभाषिणीत्येव वदत्यधिकबुद्धिमान् ।
वणिक्पुरोहितामात्यविटविप्रविदूषकाः ॥ ६० ॥

कथ्यन्ते मध्यमैः पात्रैरार्यशव्देन सर्वदा ।
स्वप्रधानादिभिर्भृषो देव इत्यभिधीयते ।। ६१ ।।

विभुशब्देन वक्तव्या देशाधिपतयो द्विजाः ।
ज्येष्ठापाध्यायपितृभिरन्यैरपि च तत्समैः ।। ६२ ।।

वत्स इत्येव वक्तव्यास्त्रैवर्णिककुमारकाः ।
रथी सारथिशब्देन स्वसूतं वक्ति नाटके ।। ६३ ।।

सूत इत्येव वा क्वापि नान्यथा कथनक्रमः ।
राजकीयैर्जनैस्सर्वा महीपप्रियनन्दनाः ।। ६४ ।।

दारिकेत्येव वक्तव्या राजपूर्व कुलाधिकाः ।
सर्वत्र हीनसंबुद्धौ हण्ड इत्यभिधीयते ।। ६५ ।।

सर्वविद्यासु कुशलः सर्वाश्रमपदेश्वरः ।
मुनिः कुलपतिस्सर्वैर्वक्तव्यो नाटकाश्रितः ।। ६६ ।।

वद्देति विनयाभावे नीचपात्रे प्रयुज्यते ।
विद्याधरी तु कान्तेन सौदामन्यभिधीयते ।। ६७ ॥

सावज्ञमङ्गीकरणे तद्ज्ञैरामेति कथ्यते ।
आह्वानं कुर्वतेऽन्योन्यं धूता नाम्नैव केवलम् ॥ ६८ ।।

३१
तृतीयः प्रकाशः


आवुत्तो गणिकाकान्तो भगवत्यपि वर्णिनी।
अत्तेति गणिकामाता गुरुः कापालिकस्स्मृतः ॥ ६९ ॥

जातेति पुत्रवात्सल्यात् मात्रा पुत्रोऽभिधीयते ।
सर्वावज्ञविशेषोत्थकामचाराभिभाषणे ॥ ७० ॥

हमित्येवाभिघातव्यं सर्वैरिङ्गितगोपने ।
भर्तृमाताऽङ्गनाभिर्वा चेटीभिर्गणिकाऽथवा ॥ ७१ ॥

वार्तासु सर्वदा काममज्जुकेति निगद्यते ।
आयुष्मन्निति वक्तव्यो रथी सारथिना सदा ॥ ७२ ।।

अभीष्टवस्तुसंसिद्धौ येन केनापि चोदितः।
प्रथमः कल्प इत्येव प्रवदत्याप्तनायकः ७३ ।।

प्रतीहारी जनस्सर्वो विजयीत्यभिधीयते ।
वणिक्प्रधानो यो लोके सस्स्मृतः सार्थवाहकः ॥ ७४ ।

सर्वेश्वरः सरसधीः प्रतिबुद्धशास्र
   श्रीवामराशिगुरुपादयुगप्रसादम् ।
विद्वन्मुदे नियतभाषितसर्वभावि-
   विज्ञानकृद्व्याधित साधु निरुक्तमेतत् ॥ ७५ ॥

इति साहित्यसारे तृतीय: प्रकाशः