चाणक्यः--(सहर्षमात्मगतम् ) साधु वृ [१]षल, ममैव हृदयेन सह संमञ्जय[२] संदिष्टवानसि । (प्रकाशम् ) शोणोत्तरे, उच्यतामस्मद्वचनाद्वषल: । साधु वत्स, [३]अभिज्ञः खल्वसि लोकव्यवहाराणाम् । तदनुष्ठीयतामात्मनोऽभिप्रायः । किंतु पर्वतेश्व[४]रेण धृतपूर्वाणि गुणवन्ति भूषणानि गुणवद्भय एव [५]प्रतिपादनीयानि । तदहं खयमेव परीक्षितगुणान्ब्राह्मणान्प्रेष[६]यामि ।
प्रतीहारी—जं अज्जो आणवेदित्ति[७] । ( निष्क्रान्ता।) (क)
चाणक्यः शार्ङ्ग[८]रव , उच्यन्तामस्मद्वचनाद्विश्वावसुप्रभृतयस्त्रयो भ्रातरः [९]वृषलात्प्रतिगृह्याभरणानि भवद्भिरहं द्रष्टव्य इति ।
शिष्यः-त[१०]थेति। (निष्क्रान्तः।)
च[११]णक्यः- उत्तरोऽयं लेखार्थः पूर्वः कथमस्तु । ( विचिन्त्य )
विज्ञापयति । इच्छाम्यार्येणाभ्यनुज्ञातो देवस्व पर्वतेश्वरस्य पारलौकिकं कर्तुम् । तेन च धारितपूर्वाणि आभरणानि ब्राह्मणानां प्रतिपादयामीति ।
(क) यदार्य आज्ञापयति ।
साधु वृषल इति । मन्मनोनुगतमेव त्वया चिकीर्षितमित्यर्थः ।
वृषलादिति । अलंकारत्रयस्य पृथक्पृथक्प्रतिग्रहाय त्रयो भ्रातर इत्युक्तम् ।
- ↑ खाधु after this in B.E
- ↑ Om. in N; प्रकाशम् om. in A.P. M; K. and R. omit अस्मद्वचनात्.
- ↑ B. has साधु before this
- ↑ °श्वरधृ° B.E;°रस्यA. P. N; भूषणानि गुणवन्ति B.E,.
- ↑ B.N. add ब्राह्मणेभ्यः before this; °देषोहं B; °देष E; एव om. in B.E
- ↑ मीति R.
- ↑ दीति P; °ष्क्रान्तः P.
- ↑ शार्ङ्गरव: occurs twice in A. B. E. N; E. has शारङ्गनच । प्रविश्यो(पा)ध्याय आज्ञापयः चाण°. उच्यन्ताम् &c; उच्यता° B.P.K.N; प्रभृतयो भ्रा° P.
- ↑ यथा before वृप° in B; इति om K.
- ↑ यदाज्ञापयत्युपाध्याय इति B.E.N.H.
- ↑ B. has स्वगतम् here; पूर्व A; °र्वस्तु P; °र्चकस्तुN. For कथमस्तु which follows, M. and K, have कथम् simply. B. and H. have कतमोस्तु and N. कोस्तु