पृष्ठम्:Mudrarakshasa.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
मुद्राराक्षसे


[१], ज्ञातम् । उपलब्धवानस्मि प्रणिधिभ्यो यथा तस्य म्लेच्छराजबलस्य[२] मध्यात्प्रधानतमाः पञ्च राजानः परया सुहृत्तया राक्षसमनुच[३]र्तन्ते । ते यथा‌-

 कौलूतश्चित्रवर्मा मलयनरपतिः सिंहनादो नृसिंहः
  काश्मीरः पुष्कराक्षः क्ष[४]तरिपुमहिमा सैन्धवः सिन्धुषेणः।
 मेघा[५]ख्यः पञ्चमोऽस्मिन्पृथुतुरगबलः पारसीकाधिराजो
  नामान्येषां लिखामि ध्रुवमहमधुना चि[६]त्रगुप्तः प्रमार्ष्टु ॥२०॥

( विचि[७]न्त्य ) अथवा नू लिखामि। पूर्वमनभिव्यक्तमेवास्ताम्र् ( नाट्येन लि[८]खित्वा) शार्ङ्गरव ।

(प्रवि[९]श्य )

 शिष्यः—उपाध्याय, आज्ञापय ।

 चाणक्यः-वत्स, श्रोत्रियाक्षराणि प्रयत्नलिखितान्यपि नियत-


 अलंकारत्रयं च सत्यवता यदनुप्रेषितं तदुपगतमिति निर्वहणे वाचयिष्यमाण इत्यर्थः । इदं दृष्टनष्टबीजानुसरणं परिसर्पः पूर्वसंधौ दृष्टस्य मध्ये नष्टस्य बीजस्यानुसंधानात् ।

 नामान्येषामिति । अस्मिन्पत्रे मदीयेन लेखनेनैते मरिष्यन्ति । अतश्चित्रगुप्तः स्वगणिताकरपत्रे जीवितत्वेन लिखितानामेषां नामानि प्रमार्क्श्यतीतिभाव । २० ॥

 अथवेति । नामानि लिखितानि चेच्छकटदासोऽस्माभिश्छलेन लेखयिष्यमाणं पत्रं न लिखिष्यतीत्याशयः । इदमनिष्टवस्तुनिक्षेपरूपं विधूतम् । अनिष्टवस्तुनि नामलेखने क्शेपान्निषेधात् । ‘विक्षेपः’ इति पाठे स एवार्थः ।


  1. आ E. N., B. reads the next word as ज्ञातु:;P. omits it but has°मुप &c. after that; धिभ्यां E.
  2. All Mss.except B.E. N. Read लोकस्य भक्त्या for सु B. For परया preceding this K. has प​रम.
  3. E. adds इति here;A, and P. om. ते; B. and E. have तद्यथा.
  4. प्रतिरी° K.;धिन्धुसेनः N;धिन्धुशोणः K.
  5. मेघाक्षः B. R. E; °रशी° A. N. M.
  6. R. has चन्द्र here above the line.
  7. Om. in A.M. P; सर्व°for पूर्व°B.EN.Before आस्ताम् B.E. insert तावत्.
  8. B. has प्रकाशम् forना-त्वा; N. K. and E. om.;B. A. P. repeat शार्ङ्ग ; E. has शारङ्गरव​.
  9. om. in M. १० °यलिखिताण्य (sic.) क्ष° E; यजनलिखितान्यक्ष° N; त्तेन B; वज्ञो N. (omitting लिखितान्यपि). M. omits अपि नियतम्.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/८७&oldid=320841" इत्यस्माद् प्रतिप्राप्तम्