पृष्ठम्:Mudrarakshasa.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
प्रथमोऽङ्कः ।


 चाणक्यः--(सहर्षमात्मगतम् ) साधु वृ [१]षल, ममैव हृदयेन सह संमञ्जय[२] संदिष्टवानसि । (प्रकाशम् ) शोणोत्तरे, उच्यतामस्मद्वचनाद्वषल​: । साधु वत्स, [३]अभिज्ञः खल्वसि लोकव्यवहाराणाम् । तदनुष्ठीयतामात्मनोऽभिप्रायः । किंतु पर्वतेश्व[४]रेण धृतपूर्वाणि गुणवन्ति भूषणानि गुणवद्भय​ एव [५]प्रतिपादनीयानि । तदहं खयमेव परीक्षितगुणान्ब्राह्मणान्प्रेष[६]यामि ।

 प्रतीहारी—जं अज्जो आणवेदित्ति[७] । ( निष्क्रान्ता।) (क)

 चाणक्यः शार्ङ्ग[८]रव , उच्यन्तामस्मद्वचनाद्विश्वावसुप्रभृतयस्त्रयो भ्रातरः [९]वृषलात्प्रतिगृह्याभरणानि भवद्भिरहं द्रष्टव्य इति ।

 शिष्यः-त[१०]थेति। (निष्क्रान्तः।)

 [११]णक्यः- उत्तरोऽयं लेखार्थः पूर्वः कथमस्तु । ( विचिन्त्य )


विज्ञापयति । इच्छाम्यार्येणाभ्यनुज्ञातो देवस्व पर्वतेश्वरस्य पारलौकिकं कर्तुम् । तेन च धारितपूर्वाणि आभरणानि ब्राह्मणानां प्रतिपादयामीति ।

 (क) यदार्य आज्ञापयति ।


 साधु वृषल इति । मन्मनोनुगतमेव त्वया चिकीर्षितमित्यर्थः ।

 वृषलादिति । अलंकारत्रयस्य पृथक्पृथक्प्रतिग्रहाय त्रयो भ्रातर इत्युक्तम् ।


  1. खाधु after this in B.E
  2. Om. in N; प्रकाशम् om. in A.P. M; K. and R. omit अस्मद्वचनात्.
  3. B. has साधु before this
  4. °श्वरधृ° B.E;°रस्यA. P. N; भूषणानि गुणवन्ति B.E,.
  5. B.N. add ब्राह्मणेभ्यः before this; °देषोहं B; °देष E; एव om. in B.E
  6. मीति R.
  7. दीति P; °ष्क्रान्तः P.
  8. शार्ङ्गरव: occurs twice in A. B. E. N; E. has शारङ्गनच । प्रविश्यो(पा)ध्याय आज्ञापयः चाण°. उच्यन्ताम् &c; उच्यता° B.P.K.N; प्रभृतयो भ्रा° P.
  9. यथा before वृप° in B; इति om K.
  10. यदाज्ञापयत्युपाध्याय इति B.E.N.H.
  11. B. has स्वगतम् here; पूर्व A; °र्वस्तु P; °र्चकस्तुN. For कथमस्तु which follows, M. and K, have कथम् simply. B. and H. have कतमोस्तु and N. कोस्तु
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/८६&oldid=320714" इत्यस्माद् प्रतिप्राप्तम्