पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
[ ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


तस्यैष एव शरीर आत्मा य: पूर्वस्य ॥

न्ति मुख्यप्राणमनु चेष्टन्त इति वा । तथा मनुष्याः पशवश्च ये, ते प्राणनकर्मणैव चेष्टावन्तो भवन्ति, अतश्च नान्नमयेनैव परिच्छिन्नात्मनाऽऽत्मवन्तः प्राणिनः, किं तर्हि? तदन्तर्गतेन प्राणमयेनापि साधारणेनैव सर्वेपिण्डव्यापिनाऽऽत्मवन्तो मनुष्यादयः । एवं मनोमयादिभिः पूर्वपूर्वव्यापिभिरुत्तरोत्तरैः सूक्ष्मैरानन्दमयान्तैराकाशादिभूतारब्धैरविद्याकृतैरात्मवन्तः सर्वे प्राणिनः । तथा स्वाभाविकेनाऽऽप्याकाशादिकारणेने, नित्येन, अविकृतेन, सर्वगतेन, सत्यज्ञानानन्तलक्षणेन, पञ्चकोशातिगेन, सर्वात्मनाऽऽत्मवन्तः - स हि परमार्थत आत्मा सर्वेषामित्येतदप्यर्थादुक्तं भवति । 'प्राणं देवा अनु प्राणान्ति’ इत्याद्युक्तं; तत्कस्मात् ? इत्याह-प्राणो हि’ यस्माद्भूतानां प्राणिनामायुर्जीवनम्-“यावद्ध्यस्मिन्शरीरे प्राणो वसति तावदायुः” इति श्रुत्यन्तरात्- तस्मात्सर्वायुषम् सर्वेषामायुः सर्वायुः, सर्वायुरेव 'सर्वायुषम्’ इत्युच्यते-प्राणपगमे मरणप्रसिद्धे:। प्रसिद्धम् हि लोके सर्वायुष्ट्वम् प्राणस्य-अतोऽस्माद्बाह्यादसाधारणादन्नमयादात्मनोऽपक्रम्य, अन्तः साधारणं प्राणमयमात्मानं ब्रह्मोपासते ये-‘अहमस्मि प्राणः सर्वभूतानामात्माऽऽयुः, जीवनहेतुत्वात्' इति, ते सर्वमेवाऽऽयुरस्मिन्ल्लोके यन्ति,नापमृत्युना म्रियन्ते प्राक्प्राप्तादायुष इत्यर्थः । शतं वर्षाणीति तु युक्तम्, “सर्वमायुरेति” इति श्रुतिप्रसिद्धेः। किं कारणं ?‘प्राणो हि भूतानामारस्तस्मात्सर्वायुषमुच्यत इति ’। यो यद्गुणकं ब्रह्मोपास्ते, स तद्गुणभाग्भवतीति विद्याफलप्राप्तैर्हेत्वर्थं पुनर्वचनं ‘प्राणो हि ’ इत्यादि।

 तस्य पूर्वस्यान्नमयस्यैष एव शरीरेऽन्नमये भवः शारीर आमा । कः? य एष प्राणमयः ॥


स्यानुख्यार्थत्वप्रसङ्गात् ,प्रकृतपरामर्शकैतच्छब्दकोपाच्च । अतः सर्वकोशाध्यासाधिष्ठानभूतश्चि दामैवात्राऽऽत्मशब्देन विवक्षित इति तात्पर्यमाह-तथा स्वाभाविकेनेति । अर्थादिति । आत्मशब्दसामथ्यव्, कल्पितस्याधिष्ठानत्वानुपपत्तेश्रेत्यर्थः असाधारणादिति--व्यावृत्त । स्वरूपात् । ‘अपक्रम्य तत्राऽऽत्मबुद्धिं हित्वेत्यर्थःसाधरणमिति। सर्वेन्द्रियसाधारणम् प्राणकृतेनाशनादिना सर्वेषां पुष्यादिदर्शनादित्यर्थः । सर्वभूतानामात्मेति–सुत्रात्मना ।

 पूर्वस्य य आत्मा चिदातुरेष एव तस्य प्राणमयस्याऽऽत्मेति योजना ।


 (१) ०णिनो यथाऽनेकास्तुषकोद्रवास्तथा—इति पाठः । (२) कौ. उ. ३. २. (३) है. ब्रा. ३. १०.९. १०.; शत. ब्रा. १०.४.४.४. इत्यादा असकृत् । तुलय-तत्रैव १०.२. २. ७, १९; १२. ३. → ११; १३. १.२. १; ऐ. बा. २. १७; ऐ. आ. २. २. १; है. ा २.५.७.२१३७.