पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३ तृतीयोऽनुवाकः]
७१
मनोमयकोशः

मनोमयकोशः

तस्माद्वा एतस्मात्प्राणमयात्।अन्योऽन्तर

अत्मा मनोमयः । तेनैष पूर्णः ।

तस्योपास्यस्वरूपम्

स वा एष पुरुषविध एव । तस्य पुरुषविधताम् ।

अन्वयं पुरुषविधः । तस्य, यजुरेव शिरः

ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः ।

आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा ।

मनः  तस्माद्वा एतस्मादित्याद्युक्तार्थमन्यत् । अन्योऽन्तर आत्मा मनोमयः—मन इति संकल्पविकल्पात्मकमन्तःकरणं, तन्मयो मनोमयः; सोऽयं प्रणमयस्याभ्यन्तर आत्मा ।


विवेकाद्वा ध्यानतो वा पुत्राद्यारमवनिहुत। तथा देहात्मतां त्यक्त्वा प्राणास्मत्वं विचिन्त्यताम् ॥ ५१ ॥
न देहस्यात्मता युक्ता पूर्वजन्मन्यभावतः । पुरात्मा देहदं कर्म कृत्वा प्राप्नोत्यदो वपुः ॥ ५२ ॥
आयुर्मरणयोदैतौ प्राणे जीवात्मतोचिता। स्थिते प्राणे भवत्यायुः प्राणापाये तु हीयते ॥ ५३ ॥
देहात्मवासनानुत्त्यै प्राणारमत्वमुपास्यर ताम् । प्राणे ब्रह्मत्युपासीनः सर्वमायुः समश्नुते ॥ ५४ ॥
प्राणोऽपानः समानश्चोदानव्यानौ च वृत्तयः । एतासु पूर्ववत्पक्षमूर्धादीन् परिकल्पयेत् ॥ ५५ ॥
श्वसऽधोगमनं कृस्ने देहेऽन्नस्य समीकृतिः । उद्रादिबलं देहे क्रियास्तासां क्रमादिमाः ॥ ५६ ॥

 (१) पृ. ६८. (२) इदं नीलम्, इदं पीतमिति विषयविवेचनम्। विकल्पस्तद्विपर्यय इति भेदः । (३) वियदादिपञ्चसूक्ष्मभूतसत्त्वांशैरारब्धानि श्रोत्रादीनि पञ्च ज्ञानेन्द्रियाणि;तसत्वांशसमुदायपरिणामरू पमन्तःकरणं; तदुपादानभूतस्य सत्त्वस्यात्मस्वरूपभूतसुखप्रकाशाभिव्यञ्जकसामथ्र्यसद्भावाद , तत्कार्थमन्तः करणमपि स्वरूपसुखाभिव्यञ्जकवृत्त्यात्मना, स्वरूपप्रकाशाभिव्यञ्जकवृत्त्यात्मना च द्विधा परिणमते । तत्र प्रकाशाभिव्यञ्जिका वृत्तिरपीषद्रजोनुवेधात्.संकल्पविकल्पार्मिका मनसंज्ञां लभते । रजःसंस्पर्शविरहाच्च नै- मैल्ये सति निश्चयरूपा सती बुद्धयाख्यां लभते । एवं मनोबुद्धिभेदवृत्तिमदन्तःकरणसहकृतानि चक्षुरादीन्द्रिया ण्यपि विमनिश्चयरूपद्विविधशानजनकत्वेन द्विविधानि भवन्ति । तत्र विमर्शशानजनकपचज्ञानेन्द्रियसाईित मनःसंज्ञकवृत्तिमदन्तःकरणोपाधिविशिष्ट आत्मा मनोमयः । स च प्रागुक्तात्प्राणापानादिसंघातात् प्राणमयादा न्तरत्वेन विभिन्नः-अन्तरवस्थितात्मस्वरूपचैतन्याभिव्यञ्जकत्वलक्षणावस्वभावभेदात्तस्यांन्तरवम् । प्राणम यस्तु, रजपरिणामरूपत्वात्नदीरितं चित्प्रकाशमभिव्यनक्ति । अत एव सुषुप्तौ सत्यामपि प्राणवृत्तौ जाग्र द्वच्चैतन्यस्य विशेषाभिव्यक्तिर्न दृश्यते । उच्छासनिःश्वसादिक्रियाप्रवर्तकः सन्नन्नमयदेहस्य धारणमेव केवलं करोति । तथाच प्राणवाक्यम् - अहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधारयामि ।” ( प्रभ- उ. २. ३. ) इति । एवमनयोर्विविक्तरूपत्वान्मनेमय आत्मा प्राणमग्रादान्तरः, विविक्तश्च प्रत्येतव्यः

                                      तात्पर्यदीपिका ४. ३. ४०.