पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१०७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अथ तृतीयोऽनुवाक

आगमये श्लेकैःप्राणं देवा अनु प्राणन्ति । मनुष्य पुत्राश्च ये।

गुणो हि भूतानामायुः। तस्मात्सर्वायुषमुं
च्यते । सर्वव तु आयुर्यन्ति । ये ऽणं ब्रह्मो
पासंते । प्राणो हि भूतानामायुः। तस्मात्सर्वा
युषमुच्यत इति ।

शिरश् इति कल्प्यते, वचनात् । सर्वत्र वचनादेव पक्षादिकल्पना । व्यानो व्यानवृतिर्दक्षिणः पक्षः। अपान उत्तरः पक्षः । आकाश आत्मा, य आकाशस्थो शिविशेषः समानाख्यःस आत्मेवाऽऽत्मा-प्राणवृत्त्यधिकारात् , मध्यस्थत्वा दितंराः पर्यन्ता वृत्तीरपेक्ष्याऽऽत्मा -“मध्यं तेषामङ्गानामात्मा” इतिश्रुतिप्रसि- जें मध्यस्थस्याऽऽत्मत्वम् । पृथिवी पुच्छं प्रतिष्ठा । ‘पृथिवी’ इति पृथिवीं देवताऽध्यात्मिकस्य प्राणस्य धारयित्री स्थितिहेतुत्वात् । “सैषां पुरुषस्यापा- नमवष्टभ्य ॐ इति हि श्रुत्यन्तरम् । अन्यथोदानवृत्त्यध्वंगमनं, गुरुत्वात्पतनं व स्याच्छरीरस्य, तस्मात्पृथिवी देवतां पुच्छं प्रतिष्ठा प्राणमयस्याऽऽत्मनः। तत् तस्मिन्नेवार्थं प्राणमयात्मविषय एष श्लोको भवति।

इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः
कृतौ तैत्तिरीयोपनिषदि अल-आनन्द-वीभाष्ये द्वितीयोऽनुवाकः ॥ २ ॥


 प्राणं देवा अनु प्राणन्ति-(२) 'देवा’ अन्यायः प्राणं’ वाय्वात्मानं-प्राणनश- क्तिमन्तम् ‘अनु’ तदात्मभूताः सन्तः प्राणन्ति प्राणनकर्म कुर्वन्ति–प्राणनक्रियया क्रियावन्तो भवन्ति । (२) अध्यात्माधिकारात् ‘देवा’ इन्द्रियाणि ‘प्राणमनु प्राण


इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दशनविरचिते तैत्तिरीयोपनिषच्छांकर
भाष्यटिप्पणे ब्रह्म-आनन्दवल्यां द्वितीयोऽनुवाकः ॥ २॥


पूर्वपूर्वकोशस्योत्तरोत्तरः कोश एवऽऽत्मांत व्याख्यातमापातदर्शनेन, तदसव , आत्मशय्द


 (१) ऐ. आ. २. ३. ५. (२) प्र. ज. ३. ८. “पृथिव्यां या देवता सैषा*० इत्यादि वचनम् । “ पुथिवीदेवता पुच्छं सैषेति श्रुतिदर्शनात् । असोराध्यात्मिकस्यैषा स्थितिहेतुः प्रकीर्तिता ॥“ वार्तिके. २. ३. ७६ । “पृथिवीशब्देनावशिष्ट उदानवायुरुपलक्ष्यते। मुख्यार्थस्वीकारे हि प्रणमयकोशाधिकारो बाध्येत”– इति सा. भाष्ये व्याख्यातम् । विरोधाभासोऽयं पृथिवीन ( पृथिवीदेवताक) उदानोऽयं प्रतिष्ठा पुच्छ मीरितः ” इति आत्मपुराणोक्तरीत्या शक्यः परिहर्तुम् । ८