पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१०६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
[ ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


तस्योपास्यरूपम् स वा । एष पुर्वंविध एव । तस्य पुर्तषविध

ताम् । अन्वयं पुरुषविधः । तस्य प्राणं एव
शिरः । व्यानो दक्षिणः पक्षः । अपान
उत्तरः पक्षः । आकांश आत्मा । पृथिवी
पुच्छं प्रतिष्ठा ।

तदप्येष श्लोको भ्वति।

इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि ब्रह्म-आनन्द-वल्यां

द्वितीयोऽनुवाकः ॥ २ ॥


रमत्वेन दिदर्शयिषु शास्त्रमविद्याकृतपञ्चकोशापनयनेनानेकतुषकोद्रवावेतुषी करणेनेव तदन्तर्गततण्डुलान्प्रस्तौति-तस्माद्वा एतस्मादन्नरसमयादित्यादि ।

 ‘तस्मादेतस्मात् ’. यथोक्तात् ‘अन्नरसमयात्’ पिण्डान्यो . व्यतिरिक्तो- ऽन्तरोऽभ्यन्तर आत्मा पिण्डवदेव मिथ्यापरिकल्पित आत्मत्वेन प्राणमयः, प्राणो वायुः-तन्मयस्तमयः तेन प्राणमयेनैषोऽन्नरसमयआत्मा पूणों वायुनेव दंतिः।

 स वा एष प्राणमय आत्मा पुरुषविध एव पुरुषाकार एव शिरपक्षादिभिः। किं स्वत एव ? नेत्याह-प्रसिद्धं तावदन्नरसमयस्याऽऽत्मनः पुरुषविघत्वम्, तस्यान्नरसमयस्य पुरुषविधतां पुरुषाकारताम् अनु अयं प्राणमयः पुरुषविधो मूषानिषिकप्रतिमावत्, न स्वत एव । एवं पूर्वस्य पुरुषविधताम पूर्वस्य नूतरोत्तरः पुरुषविधो भवति; पूर्वः पूर्वश्चोत्तरोत्तरेण पूर्णः ।

 कथं पुनः पुरुषविधताऽस्येति ? उच्यते--तस्य प्रणमयस्य प्राण एव शिरः । प्राणमयस्य वायुविकारस्य ‘प्राण' मुखनासिकानिःसरणो वृत्तिविशेषः


 (१) सत्त्वरजस्तमोगुणात्मकमायाकार्यत्वाङ्गतान्यपि गुणत्रयात्मकानि । तत्र वियदादिसूक्ष्मभूतानां ये एव रजोंश। , तैरैरब्धानि वाक्पाणिपादादीनि पञ्च कर्मेन्द्रियाणि। तद्रजोंशसमुदायारब्धः प्राणनादिक्रियाहेतुः क्रिया शक्त्यात्मकः प्राणः -लिङ्गशरीरे शनशक्तिः, क्रियाशक्तिश्चेति द्वयं वर्तते; तयोर्मध्ये क्रियाशक्तिकार्यभूतः प्रा णाख्यः पदार्थः । तस्य प्राणापानाद्याः पञ्च वृत्तयः-व्यापारविशेषाः । एवं पञ्चप्राणकर्मेन्द्रियरूपप्राणमयकोशः विशिष्टस्यात्मनं उपदेशेन बाह्यस्यानात्मत्वं प्रतिपादयति श्रुतिः- “ तस्मादै ” इति । प्राणमयस्यामन्यारोपित- त्वादहं प्राणिमीत्येवमुच्छासादिकवेनाहंप्रत्ययगम्यत्वाच्चात्मत्वं द्रष्टव्यम् । आत्मत्वं नाम प्रत्यक्स्वरूपत्वम् । यतः कारणादयमान्तरो' देहमध्ये वर्तमानोऽनुभूयते, अतो बाह्याद्देहात्प्राणभय र आमा विवेकेन प्रत्येतव्यः। अत एवासिकोशंवदंहिराच्छादकत्सामान्यादन्नविकारस्य देहस्य कोशत्वम्; एवमुत्तरत्रापि मनोमयाथात् पदेकेन पूर्वस्य पूर्वस्य बाह्यतया विविक्तत्वेनात्मत्वभ्रमनिरासात्कोशरूपत्वमवगन्तव्यम् ।