पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ द्वितीयोऽनुवाकः]
६७
प्राणमयकोशः

प्राणमयकोशः

तस्माद्वा एतस्मादन्नरसमयात् । अन्यो

ऽन्तर आत्मा प्राणमयः। तेनैष पूर्णः।

प्रथमजम्-अन्नमयादीनां हीतरेषां भूतानां कारणमन्नम्,अतोऽन्नप्रभवाः, अन्नजीवनाः,अन्नप्रलयाश्च सर्वाः प्रजाः—यस्माच्चैवं, तस्मात्सर्वौषधं सर्वाप्राणिनां देहदाहप्रशमनमन्नमुच्यते ।

 अन्नब्रह्मविदः फलमुच्यते सर्वे वै ते समस्तमन्नजातमाप्नुवन्ति । के? येऽन्नं ब्रह्म यथोक्तमुपासते । कथम् ? अन्नजोऽन्नात्माऽन्नप्रलयोऽहम्, तस्मादन्नं ब्रह्मेति । कुतः पुनः सर्वान्नप्राप्तिफलमन्नात्मोपासनमिति ? उच्यते-अन्नं हि भूतानां ज्येष्ठम् - भूतेभ्यः पूर्वं निष्पन्नत्वाज्जेष्टं हि यस्मात् तस्मात्सर्वौषधमुच्यते-तस्मादुपपन्ना सर्वान्नात्मोपासकस्य सर्वान्नप्राप्तिः ।"अन्नाद्भूतानि जायन्ते, जातान्यन्नेन वर्धन्ते”–इत्युपसंहारार्थं पुनर्वचनम्। इदानीं 'अन्न' निर्वचनमुच्यते—अद्यते -भुज्यते चैव यद्भूतैः, अन्नमति च भूतानि स्वयं, तस्माद् भूतैर्भुज्यमानत्वाद् भूतभोक्तृवाच्च 'अन्नं'तदुच्यते । इतिशब्दः प्रथमकोशपरिसमाप्त्यर्थः ।

 अन्नमयादिभ्य आनन्दमयान्तेभ्य आत्मभ्योऽभ्यन्तरतमं ब्रह्म विद्यया प्रत्यगा-


 (१) सकलप्रजोत्पादादिहेतुत्वादन्नं (विराट्) समष्टयात्मकं प्रथमोत्पन्नमुच्यते, तदन्नं विराडात्मकं ये दीर्घकालमादर नैरन्तर्याभ्यामहम्ग्रहेण ध्यायन्ति, ते विराडांमरूपेण सर्वमेवाध्यामिकमन्नमाप्नुवन्ति । दृष्टं हि सर्वं कार्यं कारणेन व्याप्तम् , प्रकृते चान्न-अतृरूपेण विराजा सर्वमनं यतो व्याप्यते, ततश्वानोपासकस्य विराडात्मरूपेण सर्वान्नभक्षणं संभवति । (२) उष्यति दहतीति ‘ओघरे। अन्नालाभे जाठरानिधीतूनेव दहति, तस्याग्नेरन्नेन धानात्पानात्-उपशमनातृप्तिसाधनादन्नमौर्वधम् । (३) व्यष्टिरूपेणाद्यते, समष्टिरूपेणात्ति च भूतानीति द्विविधान्नपदव्युत्पत्तिः।

अथापवादो जगतः कथ्यते ब्रह्मबुद्धये । तत्रादौ पुत्रमित्रादिनुत्यै देहात्मतोच्यते ।। ४१ ॥
आत्मा वै पुत्रनामासीत्येवमामत्वविभ्रमः । लौकिको नुद्यते पुत्रे धृत्या युक्तिश्च विद्यते ।। ४२ ।।
साकल्यं पुत्रभार्यादेवैकल्यं चात्मनीक्ष्यते । इत्याह भाष्यकृत्तेन पुत्रेऽस्ति स्वात्मताश्रमः ।। ४३ ।।
सोऽस्यायमात्मा पुण्येभ्यः प्रतिधीयत इत्यदः। वचो वक्यैतरेयोऽतः स्वारमताश्रम एव हि ॥ ४४ ॥
एवं व्युदसितुं देहस्यैवात्मत्वमिहोच्यते । यो देहोऽन्नमयः सोऽयमेवास्मान्यो न कश्चन ॥ ४५ ॥
मदीयः पुत्रभार्यादिरिति भेदावभासनात् । गौणी स्यादात्मता पुत्रे भूयादैौ सिंहता यथा ।। ४६ ।।
पूर्ववासनाया पुत्रे स्वामता भाति चेत्पुनः । तद्वासनापनुत्स्यथै देहात्मत्वमुपास्यताम् ।। ४७ ॥
शिरः पक्षौ मध्यपुच्छे इति देहस्य पक्षिताम् । ध्यात्वा तन्निष्ठतां प्राप्य त्यजेत्पुत्रात्मताश्रुतिम् ।। ४८ ।।
थीमैनुष्योऽहमित्यस्ति पुत्रोऽहमिति नारित धीः। विकारोऽस्ति परिव्राजो न पुत्रसुखदुःखयोः ॥ ४९ ॥
अन्नजो देव एवात्मा । तदन्नं ब्रह्मबुद्धितः । उपास्य सर्वमप्यन्नंस्वाभीष्टं लभते पुमान् ॥ ५० ॥