पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
[ शिक्षावल्ली
तैत्तिरीयोपनिषत्


श्रद्धया देयम् । अश्रद्धयाऽदेयम् । श्रिया देयम् ।

ह्रिया देयम् । भिया देयम् । संविदा देयम् ।

अथ यदि ते कर्मविचिकित्सा वा वृत्तचिचिकित्सा वा स्यात्।

(३)। ये तत्र ब्राह्मणा: सम्मर्शिनः। युक्तां आयुक्ताः । अलूक्षां

धर्मकामाः स्युः। यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः ।

अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः सँमर्शिनः । युक्तां आ-

युक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् ।

तथा तेषु वर्तेथाः ।

दानप्रकारः  किंच यत्किचिद्देयं तच्छ्रद्धयैव दातव्यम्, अश्रद्धयाऽदेयं न दातव्यम् ; श्रिया विभूत्या देयं दातव्यम्; ह्रिया लज्जया च देयम्; भिया च भयेन, संविदा च;-संविन्मित्रादिकार्यम् ।

संदिग्धधर्मनिर्णयोपायः  अथैवं वर्तमानस्य यदि कदाचित्ते तव श्रौते स्मार्ते वा कर्मणि, वृत्ते वाऽऽचारलक्षणे विचिकित्सा संशय: स्याद् भवेत्, ये तत्र तस्मिन्देशे काले वा ब्राह्मणाः —'तत्र' कर्मादौ 'युक्ता' इति व्यवहितेन संबन्धः कर्तव्यः संमर्शिनो विचारक्षमाः, युक्ता अभियुक्ताः कर्मणि वृत्ते वा, आयुक्ता अ-परप्रयुक्ता, अलूक्षा अरूक्षा अक्रूरमतय:, धर्मकामा अदृष्टार्थिनोऽकामहता इत्येतत्- स्युर्भवेयु:, ते यथा (येन प्रकारेण ब्राह्मणाः) तत्र तस्मिन्कर्मणि वृते वा वर्तेरन् , तथा त्वमपि वर्तेथाः।

निन्दितपुरुषाव्यवहार्यत्वे निर्णयोपायः  अथाभ्याख्यातेष्वभ्युक्ता दोषेण संदिह्यमानेन संयोजिताः केनचित्, तेषु च यथोक्तम् सर्वमुपनयेत्- 'ये तत्र’ इत्यादि ।


एवं कर्तव्यमर्थमुपदिश्यानुष्ठानकाले समुत्पन्नसंशयनिठ्यर्थं शिष्टाचारः प्रमाणयितव्य इत्याह-अथैवमित्यादिना । अ-परप्रयुक्ता इति--स्वतन्त्रा इत्यर्थः । अभ्युक्ता अभि शस्ता इत्यर्थः ।


(१) स्वापेक्षया हीनथनेषु दानं दृष्ट्वा लज्जयेति यावत् । (२) गजादिभयेन, शास्त्रभीत्या बा, काण्यापवादभयेन वा । (३) विवाहादौ प्रसिद्ध लौकिकसंध्यहरःसंविन्मैत्रीति चोच्यते । (४) मति विभ्रमात् ।