पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११ एकादशोऽनुवाकः]
३३
अनुशासनम्


यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि ।

नो इतराणि । यान्यस्माम् सुचरितानि ।

तानि त्वयोपास्यानि (२)। नो इतराणि ।

ये के चास्मच्छ्रेयाम्सो ब्राह्मणाः।

तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् ।

निन्द्यानिन्द्यकर्मविवेकः यान्यपि चान्यान्यनवद्यान्यनिन्दितानि शिष्टाचारलक्षणानि कर्माणि, तानि सेवितव्यानि कर्तव्यानि त्वया; न कर्तव्यानीतराणि सावद्यानि शिष्टकृतान्यपि। यान्यस्माकम् आचार्याणां सुचरितानि शोभनचरितान्याम्नायाद्यविरुद्धानि, तान्येव त्वयोपास्यान्यदृष्टार्थान्यनुष्ठेयानि, नियमेन कर्तव्यानीत्येतत्; नो इतराणि विपरीतान्याचार्यकृतान्यपि।

महापुरुषसेवाप्रकारः ये के च-अविशेषिता आचार्यत्वादिधर्मैरस्मदस्मतःश्रेयांसःप्रशस्यतराः- ते च ब्राह्मणाः, न क्षत्रियादयः,-तेषामासनेनाऽऽसनदानादिना त्वया प्रश्वसितव्यम्—प्रश्वसनं प्रश्वासः,श्रमापनयः–तेषां श्रमस्त्वयाऽपनेतव्य इत्यर्थः; तेषां वऽऽसने गोष्ठीनिमित्ते समुदिते, तेषु न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्यः,केवलं तदुक्तसारग्राहिणा भवितव्यम् ।


 (१) ये के च=अविशेषिताः-संबन्धिनोऽसंबन्धिनो वा तव । विशेषिताः-इति पठेि लोकप्रसिद्ध इत्यर्थः।(२) अत्र केचित्-बृहदारण्यके दृप्तबालाकेन्ब्रह्मणस्य क्षत्रियमजातशत्रं प्रति स होवाच गाग्र्यं उप त्वा यानि ” (२.१.१४) इत्युपगमाभिधानदर्शनात्, तथा कैकेयं क्षत्रियं प्रति प्राचीनशालादनां षण्ण मुनीनां वैश्वनरविद्यलाभायोपगमप्रवृत्तिदर्शनात् (छां उ.५.११ ), उत्तमं ब्राह्मणं प्रत्यपि विद्योत्कर्षवतः क्षत्रियस्य गुरुत्वमस्ति-इति मन्यन्ते । अन्ये तु-‘प्रतिलोमं वै तद्यद्राह्मणः क्षत्रियमुपेयात्, ब्रह्म मे वक्ष्यतीति। व्येव त्वा ज्ञापयिष्यामि” इति क्षत्रियेणाजातशत्रुणा गुरुत्वमङ्गीकृत्य गार्यं प्रति विज्ञापनदर्शनात्, तथा प्राची 'नशालादीनपि कैकेयेन तान्हानुपनीयैवैतदुवाच” इत्युपसदनमन्तरेणैव वैश्वनरविद्याभिधानदर्शनात्, उत्तमेनाभिहितमपि गुरुत्वं क्षत्रियादिना नाङ्गीकर्तव्यम् इति मन्यन्ते । आपकाले ‘ब्राह्मणस्याब्राह्मणाद्वि द्योपयोगः, अनुगमनं, शुश्रूषाऽऽसमाप्तेः” इति गौतमः १.७.१-३; तथैव आपस्तंबः २.४.२५–२७. “अब्राह्मणादध्ययनमापत्काले विधीयते । अनुव्रज्या च शुश्च यावदध्ययनं गुरोः ॥ नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत्। ब्राह्मणे चननूचाने कांक्षन् गतिमनुत्तमाम्” ॥ इति मनुस्मृ.२२४१–२, १५४-५ एवमादभिर्निषेधाद्राह्मणस्य क्षत्रियं प्रत्युपगतिरयुक्तेत्यर्थः।q«आचार्यंस्तूफापोहग्रहणधारणशमदमदयानुग्रहा. दिसम्पन्नःलब्धागमः, दृष्टादृष्टभोगेष्वनासक्तः, त्यक्तसर्वकर्मसाधन, ब्रह्मविद, ब्रह्मणि स्थितः, अभिन्नवृत्तः, दम्भदर्पकुइकशाऋवमायामासयनृताईंकारममत्वादिदोषविवर्जितः, केवलपरानुग्रहप्रयोजनः, विद्योपयोगी ' इति व्याख्यात आचार्यशब्द आचार्येः उपदेशसाइनगद्यप्रबन्धे ।