पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
[ शिक्षावल्ली
तैत्तिरीयोपनिषत्


सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रम-

दितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न

प्रमदितव्यम् (१)। देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृ-

देवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव।

अनुशासनसंग्रहकर्त्तव्यसारम्  कथमनुशास्ति? इत्याह—'सत्यं वद' यथाप्रमाणावगतम्, वक्तव्यं च वद। तद्वद्धर्मम् चर; धर्म इत्यनुष्ठेयानां सामान्यवचनं सत्यादिविशेषनिर्देशात् ।

सकृदनुष्ठितश्रौतस्मार्तयोः परित्यागरूपं प्रमादं निषेधति ।  स्वाध्यायादध्ययनान्मा प्रमदः प्रमादं मा कार्षीः । आचार्यायाऽऽचार्यार्थम् प्रियमृिष्टं धनमाहृत्याऽनीय दत्वा विद्यानिष्कयार्थम्, आचार्येण चानुज्ञातोऽनुरूपान् दारानाहृत्य ,प्रजातन्तुं प्रजासन्तानं मा व्यवच्छेत्सी:--प्रजासन्ततेर्विच्छित्तिर्न कर्त्तव्या; अनुत्पद्यमानेऽपि पुत्रे पुत्रकाम्यादिकर्मणा तदुत्पत्तौ प्रयत्नः कर्तव्य इत्यभिप्रायः- प्रजा-प्रजन-प्रजाति-त्रयनिर्देशसामर्थ्यात्;अन्यथा 'प्रजनश्च'-इत्येतदेकमेवावक्ष्यत् ।

 सत्यान्न प्रमदितव्यं प्रमादो न कर्तव्यः, सत्याच्च प्रमदनमनृतप्रसङ्गः,-प्रमादशब्दसामर्थ्यात्, विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः;अन्यथाऽसत्यवदनप्रतिषेध एव स्यात् । तथा धर्मान्न प्रमदितव्यम्—'धर्म’ शब्दस्यानुष्ठेयविषयत्वात्, अननुष्ठानं प्रमादः,स न कर्तव्यः; अनुष्टातव्य एवधर्म इति यावत् । एवं कुशलादात्मरक्षार्थात्कर्मणो न प्रमदितव्यम् । भूतिर्विभूति, तस्यै भूत्यै भूत्यर्थान्मङ्गलयुक्तात्कर्मणो न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्याम् न प्रमदितव्यम् स्वाध्यायोऽध्ययनम्, प्रवचनमध्यापनम् ताभ्यां न प्रमदितव्यम् –ते हि नियमेन कर्तव्ये इत्यर्थः।

मात्रादयो देवताबुद्ध्या पूजनीया:  तथा देवपितृकार्याभ्यां न प्रमदितव्यम्, दैवपित्र्ये कर्मणी कर्तव्ये। मातृदेवो माता देवो यस्य स त्वं मातृदेवो भव स्याः।एवं पितृदेव आचार्यदेवोऽतिथिदेवो भव-देवतावदुपास्या एवैत इत्यर्थः ।


वक्तव्यमिति–वचनार्हम्–परस्य हितमित्यर्थः।


(१) स्वाध्यायोऽध्येतव्यः-ते. आ. २. १५. ७., शतः ब्रा. ११.५.६७(२) ‘अनृतवदनविषये दोषश्रुतेश्च ” इत्यधिकः पाठः। काशीमुद्रितपुस्तके, –“ येऽनृतमभिवदति समूलो वा एष परिशुष्यति ” ( प्र. उ. ६. १. वायव्युत्तमः )। ‘‘ न सत्यात्परमो,धर्मो नानृतात्पातकं परम् ” ( शां.प. १६०.२४. ) इति स्मृतेः इति च तत्र टिप्पणी। (३) अनुष्ठातव्यः। एवं कुश°-इति पाठः (४) पौराणिकं विना यकव्रतानन्तव्रतादिकं देवकार्यं प्रतिसांवत्सरादिकं पितृकार्यम् ।