पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११ एकादशोऽनुवाकः]
३१
अनुशासनम्


सत्यं वद । धर्मम् चर ।

स्वाध्यायान्मा प्रमदः। आचार्याय प्रियं धनमाहृत्य

प्रजातन्तु मा व्यवच्छेत्सीः ।

तिक्रमे हि दोषोत्पत्तिः प्रागुपन्यासाच्च कर्मणां; केवलब्रह्मविद्यारम्भाच्च पूर्वं कर्माण्युपन्यस्तानि उदितायां च विद्यायाम् ‘अभयं प्रतिष्ठां विन्दते ”, "न बिभेति कुतश्चन", “किमहं साधु नाकरवम्”-इत्येवमादिना कर्मनैष्किञ्चन्यं दर्शयिष्यति–इत्यतोऽवगम्यते पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पॅस्यर्थानि कर्माणी ति; मन्त्रवर्णाच्च---"अविद्यया मृत्युम् तीर्त्वा विद्ययाऽमृतमश्नुते" इति । ऋतदीनां पूर्वत्रोपदेश आनर्थक्यपरिहारार्थः, इह तु ज्ञानोत्पत्यर्थत्वात्कर्तव्यनियमार्थः।

अधीतवेदस्य कर्तव्यानुशासनम्  वेदमनूच्याध्याय्याऽऽचार्योऽन्तेवासिनं शिष्यमनुशास्ति-ग्रन्थग्रहणादनु पश्चाच्छास्ति तदर्थं ग्राहयतीत्यर्थः । अतोऽवगम्यते—अधीतवेदस्य धर्मजिज्ञासामकृत्वा गुरुकुलान्न समावर्तितव्यमिति;"बुद्ध्वा कर्माणि”-इति स्मृतेश्च।


वश्यान्यनुष्ठेयानीत्येको नियम उक्तः; प्रागेव चानुष्ठेयानीति नियमान्तरमाह- प्रागुपन्यासा कर्मणामिति । संग्रहवाक्यं विवृणोति--केवलेत्यादिना । अविद्यया कर्मणा मृत्युमधर्मम् तीर्त्वा–इति मन्त्रोऽपि विद्योत्पत्तेः प्रागेव कर्मानुष्ठानं सूचयतीत्यर्थः। “ऋतं च स्वाध्यायप्रवचने च' इत्यादिना पूर्वत्र कर्मानुष्ठानयुक्तमेव,अतः पौनरुक्त्यमित्याशङ्क्याऽऽह-ऋतादीनामिति। विचारमकृत्वा गुरुकुलान्न निवर्तितव्यम्, किम्त्वध्ययनविधेरर्थावबोधद्वारेण पुरुषार्थपर्यवसायिता- सिद्धयर्थमक्षरग्रहणानन्तरमर्थावबोधाय प्रयतितव्यमित्याह-ग्रन्थग्रहणादन्विति । 'वेदमधीत्य स्नायात्’-इति स्टुतिरप्येतच्छ्रुतिविरुद्धेत्याह–अतोऽवगम्यत इति ।


(१) २.७. (२) २.९ (३) २.९.(४)प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुद्धितः। कृतार्थान्य स्तमायान्ति प्रावृडन्ते घना इव । तस्मान्मुमुक्षुभिःकार्यमात्मज्ञानाभिलषिभिः ।नित्यं नैमित्तिकं कर्म सदैवात्म- विशुद्धये”—नै.सि.१.४९-५०. (५) ई. .११. (३) उपासनादेव स्वाराज्यश्रवणादानर्थक्यं कर्मणामाश ह्य तत्परिहारार्थं “ ऋतं च ॐ-इत्यादिरनुवाकः ९; ‘वेदमनूच्य’-इत्यादिस्तु नियमद्यासिद्धयर्थ इति न पुनरुक्तिरित्यर्थः (७) आपध. स: .२१. ५. बुद्धा कर्माणि यत्कामयेत तदारभेत-इति समग्रसूत्रपाठः (८) ९.अनुवाके() ‘वेदानधीत्य वेदाङ्गं साङ्गोपाङ्गविधानतः । लायाद्विध्युक्तमार्गेण ब्रह्मचर्यव्रतं चरन्। इति योगियाशवल्क्यसंहितायाम्-१.३०-३१ .; <वेदं वेदौ तथा वेदान् वेदान् वा चतुरो द्विजः । अधी- त्य चाधिगम्यार्थे ततः स्नायाद्यथाविधि ।। कूर्म-पु. उत्तरभा. १५१.; तुल्य-‘वेदमधीय लास्यन्”– आपः पृ. 8.१२.१. बौः पृ-सन् २.६. १.; बौः गृ परिभाषा–सू. १.१३. -