पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/७३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११ एकादशोऽनुवाकः]
३५
अनुशासनम्


एवं आर्देशः । एष उपदंशः । एषा दधनिषद । एतदंतुशासनम्।
एवमुपासितव्यम् । एवसु चैतदुपास्यम् ( ४ )
स्वाध्यायमप्रवचनाभ्यां न प्रमदितव्यं तानि त्वयोपास्यानि
स्याद्धे वर्तेरन्सप्त च ॥

इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शिक्षावल्ल्यामेकादशोऽनुवाकः ॥ ११ ॥


 एष आदेशो विधिः । एष उपदेशः पुत्रादिभ्यः पित्रादीनाम् । एषा वेदोपनि उपसंहारः षद्वेदरहस्यम्, वेदार्थ इत्येतत्। एतदेवानुशासनमीश्वरवच नम्,आदेशवाक्यस्य विधेरुक्तत्वात् ,सर्वेषां वा प्रमाणभूतानामनुशासनमेतत् । यस्मादेवम्, तस्मादेवम्, यथोक्तं सर्वमुपासितव्यं कर्तव्यम्। एवमु चैतदु पास्यम्, उपास्यमेव चैतत्नानुपास्यमिति; आदार्थं पुनर्वचनम् ॥


(विद्याकर्मविवेक-कर्मणां मोक्षसाधनत्वमङ्गीकुर्वताम्, ज्ञानसाधनत्वानी कुर्वताम्, समुचयवादिनां च मतनिरासेन, ज्ञानहेतुत्वसिद्धान्तः )

 अत्रैतच्चिन्त्यते विद्याकर्मणोर्विवेकार्थम्-(१) किं कर्मभ्य एव केवलेभ्यः परं कर्मभ्य ठत विद्यायाः श्रेयः ? (२) उत विद्यासव्यपेक्षेभ्यः ? (३) आहोस्विद्विद्या परं श्रेय इति चिन्ता कर्मभ्यां संहताभ्याम् ? (४) विद्याया वा कर्मापेक्षायाः(५) उत केवलाया एव विद्यायाः १--इति ।


 औचतुवाके केवळाया वियाया निश्श्रेयससाधनत्वमुक्तमपि स्फुटीकर्तु, कर्मविधिमुपलभ्य प्रसङ्गात् पुनर्विचारयितुमुपक्रमते--अत्रैतच्चिन्यत इत्यादिना । विवेकाद्युमिति पृथक्फ लत्वज्ञापनार्थमित्यर्थः । ‘भूतं भव्यायोपदिद्दीयते ’ इति न्यायेनाऽऽत्मज्ञानस्यापि कर्मकर्तृसं-


(१), ‘सत्यं वद–इत्यारभ्य तथा तेषु वर्तेथाः-इत्यन्तो योऽयं ग्रन्थसन्दर्भःस एष आदेशः औतो विधिः। 'आदेशस्य समीपवर्तित्वास्मान्न विधिरुपदेशः । स्मृतीनां वेदमूलतया तत्समपवर्तत्वम् । अप्रत्यक्षश्रुति मूलासु स्मृतिष्वपि ‘सत्यं वद' इत्यादिवाक्यार्थ एवमेवोपलभ्यते । येयं सत्यं वद-इत्याद्युक्तः सैषा वेदोपनि ष-वेदरहस्यं विध्यर्थवादमन्त्रास्मके वेदे विधिरूपः सारभागः ”–सायणाचार्यभाष्ये(२) सत्याद्युपासितव्यं कर्तव्यतया बुद्धौ ध्यातव्यम् । ततश्च यथा व्याख्यातं तथा कुर्यादित्येतदुपास्यमित्यनेन विवक्षितामेत्यर्थ-इति पदद्वयस्य विशेषो दर्शितस्तै. उ. वार्तिकटीकायाम्-१. १०.८३. (३) भाष्योपोद्वाते । (४) शाबरभाष्ये ४.१. १८; तुल्य २. १.४ भूतस्य भव्यार्थतायां दृष्टार्थता । ३. १. १. ‘भूतं द्रव्यं, भव्यं कर्म; भूतस्य च भव्यार्थता न्याय्या । शत्रदीपिकायां ‘‘ भूतं च स्वर्गपधादि द्रव्यं भाव्याय कर्मणे । उपदेश्यं न भूताय भाव्यकर्मोपदेशनम्’ ”॥ ; संक्षेपश. १. ३९५, ४८२-४.