पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/७४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
[ शिक्षावल्ली
तैत्तिरीयोपनिषत्


 (१)तत्र केवलेभ्यः कर्मभ्य एव स्यात्,समस्तवेदार्थशानचतःकर्माधिकारात् कर्मणां मोक्ष - “वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ” इति स्मर साधनत-पक्षः णात् अधिगमश्वसहोपनिषदर्थेनाऽऽत्मज्ञानादिना-–“विद्वान् यंजते +, विद्वान् याजयैति ” इति च विदुष एव कर्मण्यधिकारः प्रदृश्यते सर्वत्र“ ज्ञात्वा चानुष्ठानमें ” इति च । कृत्स्नश्च वेदः कर्मार्थ इति हि मन्यन्ते केचिद्वै ; कर्मभ्यश्चेत् परं श्रेयो नावाप्यते, वेदोऽनर्थकः स्यात्।

 न, नित्यत्वान्मोक्षस्य; नित्यो हि मोक्ष इष्यते । कर्मकार्यस्य त्वनित्यत्वं प्रसि 'न मोक्षः कर्मसाधनः खं लोके कर्मभ्यश्चेच्श्रेयः, अनित्यं स्यात् , तच्चानिष्टर्ने।

 काम्यप्रतिषिद्धयोरनारम्भात्,आरब्धस्य च कर्मण उपभोगेन क्षयात् , नित्या गुष्ठानाच्या प्रत्यवायानुत्पत्तेःशननिरपेक्ष एव मोक्षः—इति चेत्, न, शेषकर्मसं भवात् , तन्निमित्ता शरीरान्तरोत्पत्तिः प्राप्नोतीति प्रीत्युक्तम्; कर्मशेषस्य च नित्यानुष्ठानेनाविरोधात् क्षयानुपपत्तिरिति च । यदुक्तम् ‘समस्तवेदार्थज्ञानवतः कर्माधिकारात्’ इत्यादि-तच्च न, भृतानव्यतिरेकादुपासनस्य । श्रुतज्ञानमा त्रेण हि कर्मण्यधिक्रियते, नोपासनमपेक्षते । उपासनं च श्रुतज्ञानार्थान्तरं


~स्कारतया कर्मविधिशेषत्वात्, श्रुतस्यापि फलस्यार्थवादमात्रत्वात् , कर्मभ्य एव परं भय इतं पूर्वपक्षः । सिद्धान्तमाह--न नित्यत्वादित्यादिना । यद्दीप्यध्ययनविधिप्रयुक्तः कृत्स्नो वेदार्थ एकेन विचारयितव्यः, तथाऽप्यध्ययनविधौ प्रतिवाक्याध्ययनं प्रतिवाक्यार्थविचारं च व्यापारभे , तरप्रयुक्त्याऽभ्युदयकामस्य कमोपयोगिवाक्यार्थज्ञानवत्वमात्रेण कर्मण्यधिकारसंभवात् अधसाक्षास्कारस्य तत्रानुपयोगित्वात्, न समस्तवेदार्थज्ञानवतः कर्माधिकारे प्रमाणमस्तीत्याह तच्च नेति। यद्यपि चाध्ययनविधिप्रयुक्तो वेदान्तविचारोऽपि कृतो गुरुकुल एव, तथाऽपि न


(१) मनुस्मृ. २.१६५(२) तै.सं. ३.२. १.१,२ इत्यसकृत् । तुलय-शते च वाचनं न ह्यविद्वान्वि हितोऽस्ति–इति जै. सु. ३. ८.१८, शाबरभाष्यं च ।(३)? तुलय-एवं विद्वांसो यजन्ते च याजयन्ति च-ऐ.ना.४.४.३ (४) ? तुलय ‘थदव विद्ययेति हि'-ब्र. सु.४.१.१८ (५) प्राभाकराः (६ )तद्य थेह कर्मजितो लोकः क्षीयते”—( छां. उ. ८.१.६ ) इति न्यायानुगृहीतश्रुतिविरोधात् इत्यधिकः पाठः का मु.पुस्तके.७) पृ.३.(८) तुलय-यद्यपि कृस्नवेदाध्ययनविधिप्रयुक्तो विचारों वेदार्थमेव विषयीकुर्यात् ,तथा ऽप्यनन्यथासिद्धेन सूत्रगतधर्मग्रहणेन वेदायैकदेशविषयः संपद्यतेन चैवमध्ययनविधिविरोधः सामान्यरूपस्य विधेः प्रतिवक्याध्ययनं प्रतिवाक्यविचारं च व्यापारभेदेन वेदायैकदेशविचारेऽपि चरितार्थत्वाद्यथा चक्षुषा रूपं पश्येदिति विधेनीलरूपदर्शनमात्रेणापि चरितार्थता तद्वत् । अथ तत्र सर्वरूपदर्शनस्याशक्यत्वात्संको वस्तीत्राप्यविरक्तनानधिकारिणा वेदान्तानां विचारयितुमशक्यत्वादेव संकोचोऽस्तु । न चैवमध्ययनेऽपि संकोचप्रसङ्गः । तत्र विरक्तेरधिकारं प्रत्यप्रयोजकत्वात् ”। वि. प्र. सं. ५. १३०; तथा विवरणपू१२८.। श्रीमदप्पयदीक्षितानां वादनक्षत्रमालायां ‘अध्ययनविधेश्च शानफलकत्वनिराकरणवादः’ द्रष्टव्यः सुधीभिः ।