ललाटे भवा ललाटिका ‘कर्णललाटात्कनलङ्कारे' इति कन् । ललाटे लम्बतया निबद्धः पत्रपाश्याख्याभरणविशेषः 'पत्रपाश्या ललाटिका' इत्यमरः । अत्र मौक्तिकललाटिकात्वजात्यवच्छिन्ने गङ्गात्वजात्यवच्छिन्नं तादात्म्येनोत्प्रेक्ष्यते । तत्र धवलेति गुणो निमित्तमुपात्तम् ॥
यथावा--
तपनात्मभवाऽभूवं तुहिनांशोरपि सुता भवेयमिति । असिता वदनेन्दौ तव जनिता यमुनेव तिलकरेखैषा ॥ ३९३ ॥
अत्र यमुनेवेति जात्युत्प्रेक्षायां असितेति गुणो निमित्तमुपात्तम् । गङ्गायमुनयोर्द्रव्यत्वेन विवक्षायां द्रव्योत्प्रेक्षाया एवेदमुदाहरणद्वयं भविष्यतीति ध्येयम् ॥
उपात्तक्रियानिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा--
वृषगिरिपतिहृदि सौधे नायकमणिना दृढोपगूढायाः । मुक्ताहारलतायाः पुलका इव भान्त्युदित्वराः किरणाः ॥ ३९४ ॥
अत्र किरणरूपजातौ पुलकत्वरूपजात्यवच्छिन्नानां तादात्म्येन संभावनम् । तत्रोपगूहनक्रियाया निमित्तता ॥
उपात्तद्रव्यनिमित्तकजातिभावस्वरूपोत्प्रेक्षा यथा--
फणिशिखरिशिखरभास्वन्विकस्वराम्भोरुहं भवद्वदनम्। संभावयामहे ननु लक्ष्म्याऽनारतमिहैवविहरन्त्या ॥ ३९५ ॥