पृष्ठम्:अलङ्कारमणिहारः.pdf/२३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
229
उत्प्रेक्षासरः(१४)

 वृषशैलेशकटाक्षश्रियोऽनवरतं निवाससरसिरुहम् । अम्ब मुखं तव मन्ये भ्रमरकनिकरेण भृशमुपरि चलता ॥ ३९० ॥

 कटाक्षस्य श्रीश्शोभैव श्रीः लक्ष्मीः तस्याः । भ्रमरकाः द्विरेफाः ललाटगतचूर्णकुन्तलाश्च, तेषां निकरेण । अत्र मुखत्वजात्यवच्छिन्ने सरसिरुहत्वजात्यवच्छिन्नं तादात्म्येन संभाव्यते । तत्र श्लेषसम्पादिताभेदोपरिचलद्भ्रमरकनिकररूपजातिर्निमित्तमुपात्तम् ॥

 उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा--

 निश्वसनप्रोत्क्षिप्तानधरोष्ठनिरोधपङ्क्तिभावगतान् । गळशङ्खजान्विजाने विशदान्मौक्तिकमणींस्तवाम्ब रदान् ॥ ३९१ ॥

 निश्वसनेन निश्वासमारुतेन प्रौत्क्षिप्तान् ऊर्ध्वं प्रणुन्नान् अधरोष्ठयोः निरोधेन पङ्क्तिभावं श्रेणीभूयावस्थानं गतान् प्राप्तान् 'द्वितीया श्रित' इत्यादिना समासः । यथा मारुतोत्कृतानि धान्यानि यत्किञ्चिद्व्यवधायकवस्तुप्रतिघातेन श्रेणीभूयावतिष्ठन्ते तथेति भावः । अत्र दन्तत्वजात्यवच्छिन्नेषु मौक्तिकत्वजात्यवच्छिन्नास्तादात्म्येनोत्प्रेक्ष्यन्ते, तत्र विशदत्वगुणो निमित्तमुपात्तम् ।

 यथावा--

 लावण्यजलनिधौ तव वदनेऽहिगिरीश भाति गङ्गेव । मृगनाभितिलकयमुनामिळिता मौक्तिकललाटिका धवला ॥ ३९२ ॥