पृष्ठम्:अलङ्कारमणिहारः.pdf/२३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
231
उत्प्रेक्षासरः(१४)

 इहैव वदन एव विहरन्त्या लक्ष्म्या सुषमया श्रिया च भवद्वदनं विकस्वराम्भोरुहं संभावयामहे निरन्तरलक्ष्मीविहाराश्रयत्वात्प्रफुल्लकमलत्वेनोत्प्रेक्षामहे इत्यर्थः । अत्र मुखत्वजात्यवच्छिन्ने अम्भोरुहत्वजात्यवच्छिन्नतादात्म्योत्प्रेक्षणम् । तत्र श्लेषसंपादितसुषमाभेदरमारूपद्रव्यं निमित्तमुपात्तम् । अत्र लक्ष्मीशब्दस्यैकव्यक्तिवाचित्वात् द्रव्यत्वम् । एतेनोत्प्रेक्षायां जातिद्रव्ययोर्निमित्तत्वमपरिगणयन्त उपेक्षणीयाः । उक्तं च चित्रमीमांसायाम्--

उत्प्रेक्षायां निमित्तत्वं यज्जातिद्रव्ययोरपि ।
तेनापि विकलां विद्मो निमत्तगणनामिमाम् ॥

इति । इमां निमित्तगणनां प्राचीनोक्तमित्यर्थः । उदाहृतं च तत्र जातिद्रव्यनिमित्तकोत्प्रेक्षाद्वयम् ॥

 अनुपात्तनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा--

 भ्रूयुगळधनुर्लस्तकसंहितनासाकरीरसंलग्नम् । मधुरिपुमृगमदतिलकं ननु भुवनजिगीषुमदनशरफलकम् ॥ ३९६ ॥

 अत्र मृगमदतिलकत्वजात्यवच्छिन्ने मदनशरफलकत्वजात्यवच्छिन्नतादत्म्यसंभावनायां असितत्वसूक्ष्माग्रत्वादिनिमित्तमनुपात्तम् । वस्तुतस्तु प्रथमार्धप्रतिपादितो धर्मः वक्ष्यमाणरीत्या रूपकेण विषयविषयिसाधारणीकृत इत्युपात्त एव । असितत्वादिरेवानुपात्तः तस्मादिदं पद्यमुपात्तानुपात्तनिमित्तकजातिभावस्वरूपोत्प्रेक्षाया एव वक्ष्यमाणरीत्या उदाहरणं भवितुमर्हति । न तु केवलानुपात्तनिमित्तायाः ॥