रीन्दो। पुंसोऽनघगतिकारकपूर्वस्यापि स्वयं भवेद्ग्रहणम् ॥ ७६८ ॥
हे अनघगतिकारक! दिव्यगतिदायिन् ! फणाधरगिरीदो! जगदानन्दकृतः सकललोकामोददायिनः तव नाम्नः नारायणवासुदेवविष्णुहरिप्रभृतिनामधेयस्य ग्रहणे उच्चारणे सतीति यावत् । पूर्वस्य ‘पूर्वेषामपि पूर्वजः' इत्युक्तरीत्या अखिलजगत्कारणभूतस्य पुंसः पुरुषस्य तवेत्येतदत्राप्यनुषज्यते । तवापि योगिभिरपि दुर्ग्रहस्यापीति भावः । स्वयं प्रयत्नान्तरनिरपेक्षमेव ग्रहणं ‘उपयाम गृहीतोसि ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत’ इत्युक्तरीत्या आत्महविस्समर्पणोद्देश्यत्वेन वशीकरणं भवेत् ॥
ओमित्येकाक्षरं साक्षाद्वासुदेवस्य वाचकम् । |
इति,
हरिरित्यवशेनापि कीर्तयेन्नाम यो नरः। |
इति च शाण्डिल्यपरमधर्मशास्त्रभगवच्छास्त्रोक्तेरिति भावः ।
पक्षे– जगदानन्दकृत इत्यत्र जगदानन्देति, अनघगतीत्यत्र अनघेति च छेदः । हे जगदानन्द! लोकानन्दकारण! हे अनघ !