पृष्ठम्:अलङ्कारमणिहारः.pdf/४९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
491
समासोक्तिसरः (२५)

रीन्दो। पुंसोऽनघगतिकारकपूर्वस्यापि स्वयं भवेद्ग्रहणम् ॥ ७६८ ॥

 हे अनघगतिकारक! दिव्यगतिदायिन् ! फणाधरगिरीदो! जगदानन्दकृतः सकललोकामोददायिनः तव नाम्नः नारायणवासुदेवविष्णुहरिप्रभृतिनामधेयस्य ग्रहणे उच्चारणे सतीति यावत् । पूर्वस्य ‘पूर्वेषामपि पूर्वजः' इत्युक्तरीत्या अखिलजगत्कारणभूतस्य पुंसः पुरुषस्य तवेत्येतदत्राप्यनुषज्यते । तवापि योगिभिरपि दुर्ग्रहस्यापीति भावः । स्वयं प्रयत्नान्तरनिरपेक्षमेव ग्रहणं ‘उपयाम गृहीतोसि ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत’ इत्युक्तरीत्या आत्महविस्समर्पणोद्देश्यत्वेन वशीकरणं भवेत् ॥

ओमित्येकाक्षरं साक्षाद्वासुदेवस्य वाचकम् ।
ओमित्युच्चारणेनैव वाच्यमानीयते परम् ॥
द्वादशाक्षरयोगेन दूरस्थं तदिहान्तिके ।
स्मृतमात्रे महामन्त्रे सुसूक्ष्मे द्वादशाक्षरे ॥
चित्तदर्पणसंक्रान्तस्सुसुखं लक्ष्यते हरिः।
अतश्च द्वादशार्णेन स्वाध्यायेन जनार्दनः ॥
आसन्नतां व्रजत्याशु ब्रह्मण्यर्पितचेतसाम् ।

इति,

हरिरित्यवशेनापि कीर्तयेन्नाम यो नरः।
किमन्यैस्साधनैः कार्यं तस्य वश्यो भवेद्धरिः॥

इति च शाण्डिल्यपरमधर्मशास्त्रभगवच्छास्त्रोक्तेरिति भावः ।

 पक्षे– जगदानन्दकृत इत्यत्र जगदानन्देति, अनघगतीत्यत्र अनघेति च छेदः । हे जगदानन्द! लोकानन्दकारण! हे अनघ !